भाषा

ENहिગુ
ग्रंथ पाठ

मञ्जुश्रीमूलकल्प · अध्याय 32

32.1

आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकात् महायानवैपुल्यसूत्रात् एकूनत्रिंशतिमः आविष्टचेष्टविधिपरिवर्तपटविसरः परिसमाप्तः इति ॥
अथ द्वात्रिंशः पटलविसरः ।
अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म । अस्ति मञ्जुश्रीः त्वदीयमन्त्राणां सर्वतन्त्रेषु समनुप्रवेशसर्वविद्यारहस्यमनेककालगुणशकलफलोदयमप्यनुबन्धनिमित्तं प्रमाणतो वक्ष्ये सिद्धिकारणानि । तद्यथा -
जन्मान्तरिता सिद्धिः न सिद्धिः कालहेतुतः ।
तत्प्रमाणप्रयोगस्तु पूर्वसम्बद्धमुद्भवा

32.2

अहितावहितो सिद्धिः भवेद् युक्तिविचारणम् ।
त्वत्कुमाराश्रययुक्तिः दृश्यते सर्वदेहिनाम्

32.3

अत्र पूर्वकृतं कर्म युक्तिरित्यभिधीयते ।
तद्योगे युक्तितः धीरो प्राप्नुयात् सिद्धिमुत्तमाम्

32.4

असिद्धं सिद्ध्यते कर्म न सिद्धिः कर्मणा विना ।
कर्मकर्तृसमायुक्तं संयुक्तः सिद्धि कल्प्यते

32.5

लिलेभ परमं स्थानं विधियुक्तेन हेतुना ।
न वव्रे मन्त्रिणा मन्त्रं अमन्त्रो मन्त्रिणो भवेत्

32.6

मौनकर्मसमाचारे सिद्धिमाप्नोति पुष्कलाम् ।
जापी बीजसमाहार आजहार धियोत्तमम्

32.7

वियतः श्रेष्ठतमं स्थानं प्रथमं गतिमाप्नुयात् ।
वियताभावतः स्वस्थो प्राप्नुया निर्जरसम्पदम्

32.8

निमित्ता कालतो यस्य अकाले सिद्धिकांक्षिणः ।
न सिद्धिस्तस्य मन्त्राणां शक्रस्यापि समासतः

32.9

अहितो भूतजन्तूनां अकालाक्रमणः पुनः ।
न सिद्धिस्तस्य दृश्यते ब्रह्मणस्यापि महात्मनः

32.10

तन्द्रीतृष्णासमायुक्तो मदामानसमन्वितः ।
शैथिल्योदीर्यमुद्वेक्षी नित्यं प्राव्यजने रतः

32.11

आलस्या मिथुनसंयोगी अस्य सिद्धिः कुतो भवेत् ।
सुराणां गुरवो यद्य असुराणां च येस्तदा

32.12

ते ऽपि साधयितुं मन्त्रं न शक्तो विधिवर्जितम् ।
विधिहीनं तथा कर्म चित्तविभ्रमकारकम्

32.13

तस्मात् तं जपेन्मन्त्रं अयुक्तं विधिना विना ।
बालानां दृष्टिसम्मोहं जनयन्ति तथाविधा

32.14

संमूढास्तु ततो बाला पतन्ते कष्टतमां गतिम् ।
ततस्ते मन्त्रधरास्तस्मादुज्जहार ततः पुनः

32.15

अनुपूर्व्या ततः सिद्धिं प्रयच्छन्ति शुभां गतिम् ।
ततो तं जपिनं मन्त्रा स्थापयन्ति शिवाचले

32.16

एवममोघं मन्त्राणां जपमुक्तं तथागतैः ।
दृष्टिभ्रान्ते ऽपि चित्तस्य अनुग्रहायैव युज्यते

32.17

एते कल्याणमित्रा वै एते सत्त्ववत्सला ।
एतेषां सिद्धिनिर्दिष्टा त्रियानसमता शिवा

32.18

तस्मात् सर्वप्रयत्नेन जपेन्मन्त्रं समाहितः ।
अविधिप्रयोगान्मन्त्रा हि प्रयुक्ता मन्त्रजापिभिः

32.19

चिरकालं तु संसारात् कथञ्चिन्मुक्तिरिष्यते ।
सुचिरात् कालतरं गत्वा मन्त्राणां सिद्धि दृश्यते

32.20

विधियुक्ता हि मन्त्रा वै क्षिप्रं सिद्धिमवाप्नुयात् ।
पश्यते फलनिष्पत्तिं नाफलं मन्त्रमुच्यते

32.21

इहैव जन्मे सिद्ध्यन्ति मन्त्राः फलसमोदिता ।
न निष्पत्तिः फलकर्मणां नाफलं कर्ममिष्यते

32.22

फलं कर्मसमायोगात् सफलं कर्म उच्यते ।
तज्जापी जन्मजनिता वियत्याभावसम्भवः

32.23

शिवं लोकनिर्दिष्टं शान्तभावा विमुच्यते ।
तद्गतं गतिमाहात्म्यं बुद्धवर्त्मानुसेविनः

32.24

विपरीतकलौ काले सिद्धिस्तस्यापि दृश्यते ।
इहैव जन्मे भवेत् सिद्धिः जन्मान्ते च प्रवर्त्तते

32.25

यावन्निष्ठा भवेच्छान्ति शिववर्त्ममसंस्कृतम् ।
यत्तु लोकविनिर्दिष्टं शिवं स्थानं सुनिर्मलम्

32.26

बुद्धत्वं सप्रकाशं तु जनैः सर्वप्रकाशितम् ।
तदन्तं तस्य अन्तं वै मन्त्रसिद्धिरुदाहृता

32.27

अप्रकाश्यमभावं तु जिनानां प्रत्यात्मसम्भवम् ।
मन्त्रा तु कथितं लोके मुनिचन्द्रैर्महर्द्धिकैः

32.28

साक्षात् सिद्धि समादिष्टा इह जन्मे ऽपि देहिनाम् ।
शून्ये तत्वविदे क्षेत्रे मन्त्रा बुद्धत्वमाविशेत्

32.29

अन्ते कलियुगे काले शान्तिं तत्त्वविदे गते ।
मन्त्रा सिद्धिं न गच्छेयुः क्षिप्रमर्त्थाभिकांक्षिणाम्

32.30

तस्मिं काले प्रयोगेन विधिदृष्टेन कर्मणा ।
साधयेन्मन्त्रतन्त्रज्ञः शासने ऽस्मिं मुनिर्वचे

32.31

ध्रियते तथागते सिद्धिः उत्तमा क्षिप्रमिष्यते ।
मध्यकाले तथा सिद्धि मध्यमा तु उदाहृता

32.32

युगान्तं कालमासाद्य अधमा सिद्धिरुच्यते ।
युगे शोभने काले वियत्योत्पतनं तथा

32.33

सिद्धिश्च सर्वमन्त्राणां निर्दिष्टा लोकनायकैः ।
तदा काले जिनेन्द्राणां कुलाग्र्यं तत् प्रसिध्यति

32.34

मध्ये पद्मकुले सिद्धिः युगान्ते वज्रकुलस्य तु ।
प्रणिधानवशात् केचित् मन्त्रा सिद्ध्यन्ति सर्वदा

32.35

अवलोकितेशो मञ्जुश्री तारा भृकुटी च यक्षराट् ।
सर्वे माणिचरा यक्षा सिद्ध्यन्ते सर्वकालतः

32.36

रागिणो ये च मन्त्राद्या प्रयुक्ता सर्वदैवतैः ।
सिद्ध्यन्ते कलियुगे काले लौकिका ये सुचिह्निताः

32.37

प्रोक्ता देवमनुजैः दानवेन्द्रैर्यक्षराक्षसैः ।
ऋषिभिर्गरुडैश्चापि पिशाचैर्भूतगणैर्ग्रहैः

32.38

मानुषामानुषाश्चैव कामधातुसमासृतैः ।
महर्द्धिकैः पुण्यवद्भिश्च क्रूरकर्मैः सुदारुणैः

32.39

शक्रब्रह्मतथारुद्रैः ईशानेन तथापरैः ।
विष्णुना सर्वभूतैस्तु मन्त्र प्रोक्ता महर्द्धिकाः

32.40

ते ऽपि तस्मिं युगान्ते वै सिद्धिं गच्छन्ति जापिनाम् ।
क्रूरकर्मे तथा सिद्धिः तस्मिं काले महद्भये

32.41

वश्याकर्षणभूतानां क्रव्यादानां महीतले ।
दृश्यते निःफला सिद्धिः परलोकान्तगर्हिता

32.42

अत एव जिनेन्द्रेण तस्मिं काले महद्भये ।
मञ्जुघोषसमादिष्टः सत्त्वानुग्रहतत्परः

32.43

विनश्यन्ति तदा सत्त्वां मन्त्ररूपेण जापिनाम् ।
शासने ऽस्मिन् प्रसन्नानां त्रिरत्नेष्वेव पूजकामिति

मूल पाठ: Mañjuśrīmūlakalpa · Edition: M.M.T. Ganapati Shastri, 1925 (3 vols.), reprint: Delhi: Sri Satguru Publications 1989, pp. 1-722. Cf. also Aryamanjusrimulakalpa. In: Mahayanasutrasamgraha, part II, ed. by P.L. Vaidya, Darbhanga 1964 (Buddhist Sanskrit Texts, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc