भाषा

ENहिગુ
ग्रंथ पाठ

मञ्जुश्रीमूलकल्प · अध्याय 3

3.1

पूर्वस्थापितकं चूर्णं मण्डलाचार्येण स्वयं गृह्य, महामुद्रां पञ्चशिखां बध्वा मूलमन्त्रं जपता तं चूर्णं मुद्रयेत् । अपरेण तु साधकाचार्येण मण्डलबहिर्दक्षिणपूर्वायां दिशि विधिदृष्टेन कर्मणा अग्निकुण्डं कारयेत् । द्विहस्तप्रमाणं हस्तमात्रनिम्नं समन्तात् पद्मपुष्कराकारं बहिः पद्मपुष्कराकारा पलाशकाष्ठसमिद्भिः अग्निं प्रज्वाल्य श्रीफलकाष्ठसमिधानां वितस्तिमात्रप्रमाणानां साद्रां दधिमधुघृताक्ता मूलमन्त्रं षडक्षरहृदयेन वा मुद्रामुष्टिं बध्वा आह्वयेत् । आहूय च पूर्वोक्तैनैव एकाक्षरमूलमन्त्रहृदयेन भूयो अष्टशतं जुहुयात् ॥
ततो मण्डलाचार्येण बद्धोष्णीषकृतपरिकरः आत्मना चित्रकरांश्च निपुणतरानात्मना कारयेत् । ततो मण्डलाचार्येण बुद्धबोधिसत्त्वां मनसि कुर्वता पूर्वोक्तेनैव धूपमन्त्रेण धूपं दैता अञ्जलिं कृत्वा सर्वबुद्धबोधिसत्त्वां प्रणम्य, मञ्जुश्रियं कुमारभूतं नमस्कृत्य चूर्णं गृहीत्वा, आकारयेत् । रूपं चित्रकरैश्च पूरयितव्यम् । एतेन विधिना प्रथमत एव बुद्धं भगवन्तं शाक्यमुनिं सर्वाकारवरोपेतं रत्नसिंहासनोपविष्टं शुद्धावासभवनस्थं धर्मं देशयमानमालिखेत् । लिखितश्च मण्डलाचार्यस्यानुसाधकेन आत्मरक्षाविधानं मूलमन्त्रेण कृत्वा सर्वभूतिका बलिर्देया चतुर्दिक्षुर्ध्वमधः बहिर्मण्डलस्य क्षिपेत् ॥
ततो स्नात्वा अग्निकुण्डसमीपं गत्वा शुचिवस्त्रप्रावृतेन शुचिना कृता रक्षाविधानेन घृताहुतीनां कुङ्कुममिश्राणामष्टसहस्रं जुहुयान्मूलमन्त्रेण । ततः कुशविण्डकोपविष्टेन जपं कुर्वतः तत्रैव स्थातव्यम् । श्वेतसर्षपाणामष्टाभिमन्त्रितं कृत्वा यमान्तकक्रोधराजेनाभिमन्त्र्य शरावसम्पुटे स्थापयेत् । अनेकाकारविकृतरूपघोरस्वरवातवर्षदुर्दिनमन्यतमान्यतमं वा विघ्नमागतं दृष्ट्वा हुतेन सर्षपाहुतयः सप्त होतव्याः । ततो विघ्नाः प्रणश्यन्ति । मनुष्यविघ्नैर्वा पञ्चाहुतयो होतव्या । स्तम्भिता भवन्ति अशक्तिवन्तः पुरुषा मृयन्ति वा । अमानुष्यैर्वा गृह्णन्ते तत्क्षणादेव न सन्देहोस्ति । कथञ्चन शक्रो ऽपि म्रियते क्षिप्रम् । किं पुनर्दुष्टचेतसा मनुष्याः, इतरे वा विघ्ना यमान्तकक्रोधभया निर्नष्टा विद्रवन्ति इतो इत इति ॥
ततो ऽनुसाधकेन तत्रैव कुशविण्डकोपविष्टेन यमान्तकक्रोधराजानं जपं कुर्वाण स्थातव्यम् । ततो मण्डलाचार्येण भगवतः शाक्यमुनेः प्रतिमाया दक्षिणे पार्श्वे द्वौ प्रत्येकबुद्धौ पद्मासनोपविष्टौ पर्यङ्केनोपविष्टौ कार्यौ, तयोरधस्ताद् द्वौ महाश्रावकौ धर्मं शृण्वन्तः ( वैद्य 28 ) कार्यौ । तेषामपि दक्षिणतः भगवानार्यावलोकितेश्वरः सर्वालङ्कारविभूषितः शरत्काण्डगौरः पद्मासनोपविष्टः, वामहस्तेन पद्मं गृहीत्वा दक्षिणहस्तेन वरदः । तस्यापि दक्षिणतः भगवती पण्डरवासिनी पद्महस्ता दक्षिणेन हस्तेन भगवन्तं शाक्यमुनिं वन्दमाना पद्मासनोपनिषण्णा जटामकुटधारिणी श्वेतपट्टवस्त्रनिवस्ता पट्टांशुकोत्तरासङ्गिनी कृष्णभस्मतृमुण्डीकृता । एवं तारा, भ्रुकुटी स्वकस्वकासनेर्यायथे सुस्थिता कार्या । उपरिष्टाच्च भगवती तेषां प्रज्ञापारमिता, तथागतलोचना, उष्णीषराजा स्वकार्याः । एवं बोधिसत्त्वाः षोडश कार्याः । तद्यथा - समन्तभद्रः, क्षितिगर्भः, गगनगञ्जः सर्वनीवरणविष्कम्भी, अपायजह मैत्रेयः, चमरव्यग्रहस्तः, बुद्धं भगवन्तं निरीक्षमाणः, विमलगतिः, विमलकेतुः, सुधन, चन्द्रप्रभ, विमलकीर्ति, सर्वव्याधिचिकित्सकः सर्वधर्मीश्वरराजः, लोकगतिः, महामतिः, पतिधरश्चेति । एते षोडश महाबोधिसत्त्वाः प्रसन्नमूर्तयः सर्वालङ्कारभूषिता लेख्याः । प्रधानविद्याराजः, विद्याराज्ञी अब्जकूले रूपकमुद्रा । स च यथास्मरत्तः आगमतश्च यथास्थानेषु वा शेषा लेख्याः । अन्ते च स्थाने चतुरस्राकारं स्थानं स्थापये पद्मपुष्पसंस्कृतम् । येन स्मरिता विद्या देवता ते ऽस्मिन् स्थाने तिष्ठन्त्विति ॥
एवं दक्षिणे पार्श्वे भगवतः शाक्यमुनेः द्वौ प्रत्येकबुद्धौ गन्धमादनः, उपारिष्टश्चेति । एवं प्राङ्मुखं मण्डलं सर्वतः प्रवेशद्वारं कार्यम् । भगवतः शाक्यमुनेः पार्श्वे अपरौ द्वौ प्रत्येकबुद्धौ चन्दनसिद्धश्चेति आलेख्यौ । तेषामधस्ताद् द्वौ महाश्रावकौ महाकाश्यपमहाकात्यायनश्चालेख्यौ । तेषामपि वामतः आर्यवज्रपाणिकुवलयश्यामाभः प्रसन्नमूर्तिः सर्वालङ्कारभूषितः दक्षिणे चामरव्यग्रहस्तः वामेन क्रोधमूर्तिहस्तः वज्रमुष्टिः वज्राङ्कुशि वज्रशृङ्खला सुबाहु वज्रसेन यथावेषचिन्हस्थानासनसर्वविद्याराज्ञाराज्ञीसपरिवारः रूपमुद्रादिषु यथास्मरणा लेख्याः । तेषामपि वामतः चतुरस्राकारमुभयवज्रमुद्रां लिखेत् । लिख्य च वक्तव्यम्, ये ऽत्र स्थाने न स्मरिता विद्यागणाः, ते ऽत्र स्थानेन स्मरिता विद्यागणाः, ते ऽत्र स्थाने तिष्टन्त्विति ॥
तेषामुपरिष्टात् वेद्यारमिताः भगवती मामकी आलेख्याः सर्वालङ्कारविभूषिताश्च ताः प्रसन्नमूर्तयः ॥
तेषामप्युपरिष्टा अष्टौ उष्णीषराजानः समन्तज्वालमालाकुलाः । मुद्रा च स्वकस्वकानि महाराजचक्रवर्तीरूपाणि आलेख्यानि । कनकवर्णसुप्रसन्नेन्द्रियाणि सर्वालङ्कारविभूषितानि । ईषत् तथागतः प्रतिमदृष्टिजातानि । तद्यथा - चक्रवर्ती, उष्णीषः, अभ्युद्गतोष्णीष, सितातपत्र, जयोष्णीष, कमलोष्णीष, तेजोराशि, उन्नतोष्णीष इति ॥
एते अतः उष्णीषराजानः प्रत्येकबुद्धानां वामतः आलेख्य, द्वारे बुद्धो बोधिसत्त्वो कार्यप्रवेशतदक्षिणतो लोकातिक्रान्तगामी नाम जटामकुटधारी सौम्यमूर्तिः दक्षिणहस्तेन अक्षसूत्रं गृहीत्वा वामहस्तेन कमण्डलुं द्वाराभिमुखः ईषद्भ्रुकुटीवदनः वामतः प्रवेशे महाबोधिसत्त्व अजितञ्जयो नाम आलेख्यः । प्रसन्नमूर्तिः जटामकुटधारी दण्डकमण्डलुवामकरावसक्तः ( वैद्य 29 ) दक्षिणहस्तेन अक्षसूत्रं गृहीत्वा वरप्रदानकरः ईषद्भ्रुकुटिवदनः द्वाराभिमुख आलेख्यः ॥
सिंहासनस्याधस्ताद् धर्मचक्रः समन्तज्वालमालाकुलः, तस्याप्यधस्तात् रत्नविमानः, तत्रस्थो भगवां महाबोधिसत्त्वः मञ्जुश्रीः कुमारभूतः कुमाररूपी कुङ्कुमगौराकारः प्रसन्नमूर्तिः चारुरूपी ईषित् प्रहसितवदनः वामहस्ते नीलोत्पलावसक्तः दक्षिणहस्तेन श्रीफलावसक्तवरदः सर्वबालालङ्कारभूषितपञ्चचीरकोपशोभितः मुक्तावलीयज्ञोपवीतः पट्टांशुकोत्तरीयः पट्टवस्त्रनिवस्तः समन्तप्रभः समन्तज्वालमालाकुलः पद्मासनोपनिषण्णः यमान्तकक्रोधराजतदृष्टिः मण्डलप्रवेशद्वाराभिमुखः चारुदर्शनो सर्वतः आलेख्यः ॥

तस्य दक्षिणे पार्श्वे पद्मस्याधस्ताद् यमान्तकः क्रोधराजा आलेख्यः महाविकृतरूपी समन्तज्वालमालाकुलः आज्ञां प्रतीच्छमानः महाबोधिसत्त्वगतदृष्टिः सर्वत आलेख्यः । वामपार्श्वे पद्मस्याधस्ताच्छुद्धावासकायिकाः देवपुत्ररूपिणः बोधिसत्त्वाः पञ्च आलेख्याः । तद्यथा - सुनिर्मलः सुदान्तः, सुशान्तः, संशुद्धः तमोद्घातनः, समन्तावलोकश्चेति । सर्वे च ते शुद्धावासभवनोपनिषण्णः अनेकरत्नोज्वलशिलातलाकारः समन्तज्वालविचित्रपुष्पावकीर्णश्चारुरूपी आलेख्यः ॥
बहिः समन्ताच्चतुरस्राकारं चतुस्तोरणाकारं चतुर्दिशं विचित्रपञ्चरङ्गोज्ज्वलं सुप्रगुणरेखावनद्धं अभ्यन्तरमण्डलं कार्यम् । पूर्वायां दिशि भगवतः शाक्यमुनेः उपरिष्टाद् रेखाभिः मध्ये सङ्कुसुमितराजेन्द्रः पद्मासनोपनिषण्णः तथागतविग्रहः स्वल्पमात्रः कार्यसमन्तज्वालमालाकुलः वरदप्रदानहस्तः पर्यङ्कोपनिषण्णः ॥
तस्य दक्षिणतः उष्णीषचक्रवर्त्तिमुद्रा लेख्या । वामतस्तेजोराशिमुद्रा लेख्या । तथागतलोचनाया उपरिष्टात् प्रज्ञापारमितामुद्रा लेख्या । भगवतः आर्यावलोकितेश्वरस्योपरिष्टात् प्रज्ञापारमितामुद्राया दक्षिणतः भगवानमिताभः तथागतविग्रहः कार्यः वरप्रदानहस्तः पद्मासनोपनिषण्णः समन्तज्वालमालाकुलः ॥
तस्यापि दक्षिणतः पात्रचीवरमुद्रे कार्यौ । एवमनुपूर्वतः प्रवेशस्थाने पद्ममुद्रा कार्याः । भगवता सङ्कुसुमितराजस्य तथागतस्य वा मतो उष्णीषतेजोराशिमुद्रा लेख्या समन्तज्वालमालाकुलाः ॥
तस्यापि वामतः रत्नकेतुस्तथागतः कार्यः, रत्नपर्वतोपनिषण्णः धर्मं देशयमानः नीलवैडूर्यमरकतपद्मरागविचित्रज्वालार्चिषि निर्गतसमन्तात्समन्तप्रभ आलेख्यः ॥
तस्यापि वामतः जयोष्णीषमुद्रा समन्तज्वालमालाकुला आलेख्या । तस्यापि वामतः धर्मचक्रमुद्रा आलेख्या समन्तज्वालावती । तस्यापि वामतः खखरककमण्डलुमक्षसूत्रकमण्डलुं भद्रपीठमुद्रा आलेख्या । अनुपूर्वतः द्वारस्थाने वज्रसूच्योभयतः समन्तज्वाल आलेख्यः । भगवतो मञ्जुश्रियस्याधस्तान्महामुद्रा पञ्चशिखा नाम उत्पलमुद्रा वा लेख्या । समन्तज्वालिनौ एतौ अन्यो ऽन्यासक्तं समन्तमण्डलाकारमालेख्यम् । द्वारतः पश्चान्मुखप्रवेशतः ( वैद्य 30 ) प्राङ्मुखश्च कार्यः । सर्वेष्वपि बहिर्मण्डलं भवति पञ्चवर्णरङ्गोज्ज्वलं विचित्रचारुदर्शनं, चतुःकोणविभक्तं, चतुस्तोरणाकारं चतुर्दिशं द्विहस्तमात्राभ्यन्तरमण्डलतो बहिरालेख्यम् । पूर्वस्यां दिशि महाब्रह्मा चतुर्मुखः शुक्लवस्त्रनिवस्तः श्वेतस्त्रोत्तरासङ्गिनः श्वेतयज्ञोपवीतः कनकवर्णः जटामकुटधारी दण्डकमण्डलुं वामावसक्तपाणिः ॥
तस्य दक्षिणतः आभास्वरो देवपुत्रः कार्यः कनकवर्णः ध्यानान्तरगतमूर्त्तिः पट्टवस्त्रनिवस्तः पट्टांशुकोत्तरीयः सुप्रसन्नवदनः जटामकुटधारी श्वेतयज्ञोपवीतः पर्यङ्कोपनिषण्णः दक्षिणहस्तेन वरदः ॥
तस्य दक्षिणत अकनिष्ठो देवपुत्रः कार्यः सर्वालङ्कारभूषितः प्रसन्नमूर्त्तिः ध्यानगतचेतसः पट्टवस्त्रनिवसननिवस्तः पट्टांशुकोत्तरीयः ॥
तस्य दक्षिणतः पर्यङ्कोपविष्टः दक्षिणहस्तेन वरदः श्वेतयज्ञोप वीतः ॥
एवमनुपूर्वतः, सन्तुषितः सुनिर्मितः, परनिर्मितः, सुयामशक्रप्रभृतयो देवपुत्रा आलेख्या यथानुपूर्वतः यथावेषसंस्कृताः ॥
शक्रस्याधस्ताच्चतुर्महाराजकायिकाः सदामत्ताः मालाधारिणो करोटपाणयः वीणाद्वितीयका लेख्याः । भौमाश्च देवपुत्रा यथानुपूर्वतः यथावेषेनालेख्याः ॥
एवं दक्षिणायां दिशि अवृह अनय सुदृश सुदर्शनं परीत्ताभ पुण्यप्रसवप्रभृतयो देवपुत्रा आलेख्या यथावेषस्थानाः ॥
एवं पश्चिमायां दिशि चोत्तरायां दिशि तेषामधस्ताद् द्विपङ्क्त्याश्रिता आलेख्याः । द्वितीयमण्डलाद् बहिस्तृतीयमण्डलं भवति । चतुर्दिशं चत्वारो महाराजानः अनुपूर्वत आलेख्याः ॥
उत्तरायां दिशि प्रविशतो दक्षिणः धनदः, निधिसमीपस्थः सर्वालङ्कारभूषितः ईषद्भग्नकिरीट यक्षरूपी । तस्य दक्षिणतः मणिभद्रपूर्णभद्रौ यक्षसेनापती आलेख्यौ ॥
एवमनुपूर्वतः हारीती महायक्षिणी आलेख्या । प्रियङ्करः कुमार उत्सङ्गोपविष्टो मण्डलं निरीक्षमाणः आलेख्याः । पञ्चिकः पिङ्गलः भीषणश्च आलेख्यः ॥
तेषां च समीपे यक्षाणां मुद्रा आलेख्याः । एवमनुपूर्वतः वरुणो पाशहस्त पश्चिमायां दिशि आलेख्यः । नागौ नन्दोपनन्दौ तक्षकवासुकिप्रभृतयो ऽष्टौ महानागराजानः आलेख्याः ॥
एवं द्विपङ्क्त्याश्रिताः अनुपूर्वतः यक्षराक्षसकिन्नरमहोरगऋषयः सिद्धप्रेतपिशाचगरुडकिन्नरमनुष्या मनुष्याद्या ओषधयश्च मणिरत्नविशेषाः पर्वताः सरितः द्वीपाश्च अनुपूर्वतः सर्वे प्रधाना लेख्याः ।
दक्षिणायां दिशि यम आलेख्यः सपरिवारः । मातराः सप्त पूर्वदक्षिणस्यां दिशि । अग्निः समन्तज्वालमालाकुलः दण्डकमण्डलुअक्षसूत्रव्यग्रपाणिः जटामकुटधारी श्वेतवस्त्रनिवस्तः पट्टांशुकोत्तरासङ्गिकः श्वेतयज्ञोपवीत कनकवर्णः भस्मत्रिपुण्डरीकृतः ॥

एवं नानाकरणप्रहरणवेषसंस्थानवर्णतत्त्वद्विपङ्क्ति आश्रिता आलेख्याः । सर्वतः प्रविशतो बहिर्मण्डले उमापतिर्वृषवाहनास्त्रिशूलपाणिः, उमा च देवी कनकवर्णा सर्वालङ्कारभूषिता, कार्तिकेयश्च मयूरासनः शक्त्युद्यतहस्तः कुमाररूपी षण्मुखः रक्ताभासमूर्तिः पीतवस्त्राअनिवस्तः । पीतवस्त्रोत्तरासङ्गः वामहस्तेन घण्टां गृहीत्वा रक्तपताकां च अनुपूर्वतः भृङ्गिरिटि अत्यन्तकृशाकारः महागणपतिनन्दिकेश्वरमहाकालौ मातराः सप्त यथाभरणप्रहरणवेषसंस्थानाभिलेख्याः । अष्टौ वसवः, सप्त ऋषयः, विष्णुश्चक्रपाणिश्चतुर्भुजो गदाशङ्खासिहस्तो गरुडासनः सर्वालङ्कारभूषितश्च । अष्टौ ग्रहाः, सप्तविंशतिनक्षत्राः, येषु चरन्ति भुवि मण्डले उपग्रहाश्चाष्टा देवा लेख्याः अनुपूर्वशः पञ्चदश तिथयः सितकृष्णा, द्वादश राशयो षट् ऋतवो, द्वादश मासाः संवत्सरश्च । चतुर्भगिन्यः नावाभिरूढाः भ्रातृपञ्चमाः सलिलवासिनश्चेति संक्षेपतो मुद्रासु व्यवस्थाप्या हि देवता अनुपूर्वतश्च द्विपङ्क्त्या श्रिताश्च कार्या संक्षेपतो मण्डलत्रये पितृमण्डलाश्रयः । अभिलेख्यः चतुरस्रश्च । त्रिमण्डलेष्वपि व्यवस्था सैषा भवति । संक्षेपतः बुद्धो भगवान् सर्वसत्त्वानामग्र अवश्यमभिलेख्यः । अब्जकुले आर्यावलोकितेश्वरो दक्षिणतः अवश्यमभिलेख्यः । वामत वज्रकुले वज्रपाणिरवश्यमभिलेख्यः । बोधिसत्त्वानामग्र आर्यसमन्तभद्रो ऽवश्यमभिलेख्यः । मञ्जुश्रीः कुमारभूतो ऽवश्यमभिलेख्यः । सैषा मुद्रासु यथाव्यवस्थायामभिलेख्याः । एतदभ्यन्तरमण्डलं मध्यमण्डले ऽपि ब्रह्मा सहाम्पतिः पूर्वायां दिश्यवश्यमभिलिखितव्यः । एवमाभास्वरो दक्षिणायां दिशि, अकनिष्ठ अरूपिनश्च देवा मण्डलाकारा अव्यक्ताः नैव संज्ञानासंज्ञायतना देवाः, उत्तरायां दिशि शक्रो देवराजा सयामः सन्तुषितः सुनिर्मितः परनिर्मितः परीत्ताभप्रभृतयो देवपुत्रा अवश्यमेकैकः देवराजो ऽभिलिखितव्यः । सैषा मुद्रासु व्यवस्थाप्याः ॥
एवं तृतीयमण्डले ऽपि उत्तरायां दिशि ईशानो भूताधिपतिः सहोमयावश्यमभिलिखितव्यः । द्वितीयद्वारसमीपे कार्त्तिकेयमञ्जुश्रीः मयूरासनः शक्तिपाणिः रक्तावभासमूर्त्तिः पीतवस्त्रनिवस्तोत्तरासङ्गिनः दक्षिणहस्ते घण्टापताकावसक्तः कुमाररूपी मण्डलं निरीक्षमाणः । पूर्वायां दिशि वैनतेयः पक्षिरूपी । ऋषिर्मार्कण्डः अवश्यमभिलिखितव्यः । सैषा मुद्रासु च व्यवस्थाप्याः ॥
दक्षिणपूर्वतः चतुःकुमार्याः कुमारभ्रातृउसहिता नौयानसंस्थिता महोदधेः परिभ्रमन्त्यः । अग्निश्च देवराट् अवश्यलिखितव्यः । एवं दक्षिणस्यां दिशि लङ्कापुरी विभीषणश्च राक्षसाधिपतिः, तत्रस्थितः पिचुमन्दवृक्षाश्रितः जम्भलजलेन्द्रनामा यक्षरूपी बोधिसत्त्वो ऽवश्यमभिलिखितव्यः ॥
एवमनुपूर्वतो यमो राजो प्रेतमहर्द्धिको ऽवश्यमभिलिखितव्यः । एवं पिशाचराजा विकरालो नामावश्यमभिलिखितव्यः । सैषा मुद्रासु व्यवस्थाप्या ॥
एवं दक्षिणपश्चिमायां दिशि नन्दोपनन्दौ नागमुख्यौ अवश्यमभिलिखितव्यौ । ग्रहमुख्यश्चादित्यः पश्चिमायां दिशि कपिलमुनिर्नाम ऋषिवरो निर्ग्रन्धतीर्त्थकरऋषभः ( वैद्य 32 ) निर्ग्रन्धरूपी अनुपूर्वतः । सैषा मुद्रासु व्यवस्थाप्याः । उत्तरपश्चिमासु च दिशासु यक्षराड् धनदः, गन्धर्वराट् पश्चशिखः, किन्नरराजा द्रुमः, एते ऽवश्यमभिलिखितव्याः । सैषा मुद्रासु च अनुपूर्वतः यथास्थानं संस्थिता अभिलिखितव्या इति ॥
चतुर्थमण्डलं बहिः पञ्च रेखाः चित्तं मुद्रमालाभिश्चोपशोभितं चतुरस्रं चतुस्तोरणाकारं चतुर्महाराजविभूषितं यथानुपूर्वस्थिता । तद्यथा - मुद्रा भवन्ति पुरःप्रदेशे नीलोत्पलमभिलेख्यम् । दक्षिअणतो वामतः पद्मं वज्रं परशुखड्गशूलत्रिशूलगदाचक्रस्वस्तिककलशमीनशङ्खकुण्डलध्वजपताकं पाशघण्टाकद्वारकधनुर्नाराचमुद्गर एतैर्विविधाकारप्रहरणमुद्रैः समन्ताच्चतुरस्रमालाकुलं कुर्यादित्यतः बहिश्चतुर्दिशं चत्वारो महासमुद्राः स्थापनीयाः ॥
उत्तरायां दिशि चतुरस्राकारं मण्डलकं कृत्वा उभयवज्रं त्रिसूच्याकारं समन्तज्वालं त्रिकोणाकारं मण्डलकं कृत्वा स्थापयेत् ॥
दक्षिणायां दिशि धन्वाकारं मण्डलकं कृत्वा पात्रं समन्तज्वालं स्थापयेत् । पश्चिमायां दिशि समन्तप्रभाकारं मण्डलकं कृत्वा नीलोत्पलं सनालपत्रोपेतं समन्तज्वालं विदिक्षु च चत्वारो मुद्रा भवन्ति । उत्तरपश्चिमायां दिशि पाशं वर्त्तुलाकारं मण्डलं कृत्वा समन्तज्वालं दक्षिणपश्चिमायां दिशि दीर्घाकारमण्डलकं कृत्वा दण्डं समन्तज्वालं दक्षिणपश्चिमायां दिशि परशुं समन्तज्वालं त्रिकोणाकारं मण्डलकं कृत्वा पूर्वोत्तरायां दिशि खड्गं समन्तज्वालं स्थापयेत् ॥
आलिख्य सर्वत इत्यूर्ध्वमधस्तिर्यक् त्रीणि मुद्राद्वारसमये बहिर्मण्डलस्यालेख्याः चूर्णैरेव । तद्यथा - वज्रव्यजनोपानहौ च समन्तज्वालिनस्त्वेते अभिलेख्या इति ॥
एतन्मण्डलविधानं कथितं त्विह समासतः ।
सत्त्वानां हितकाम्यार्थं मञ्जुघोषेण धीमता ॥ म्म्क्_2.53(="52") ॥
ततो मण्डलाचार्येण शिष्याः पूर्वमेवानुगृहीतव्याः अविकलेन्द्रियाः सर्वाङ्गशोभनाः ब्राह्मणक्षत्रियविट्शूद्राः उत्पादितबोधिचित्ताः महायानयायिनः इतरयानास्पृहणशीला महासत्त्वाः श्रद्धा कल्याणधर्मिणः महाराज्याभिकांक्षिणः अल्पभोगजुगुप्सनाः महाभोगाभिरुचितवन्तः भद्रा विनीताः शीलवन्तः भिक्षुभिक्षुण्युपासकोपासिका नियमस्था उपोषधोपवाससंवरस्थाः महावोधिसत्त्वाद्वेषिणो महायक्षःकुलीनाः प्रकृत्यैव धर्मचारिणः अहोरात्रोषिता शुचिवस्त्रप्रावृताः सुगन्धकेशाः त्रिःस्नायिनः मौनिनश्च । तदहो कर्पूरकुङ्कुमलवङ्गसुगन्धमुखगन्धिनः नित्यं चोपस्पृशितवन्तः कुशपिण्डकोपविष्टाः कृतरक्षाविधानाः ब्रह्मचारिणः सत्यवन्तः + + + + + + न्मण्डल + + + + + + नात्यासन्ने स्थापनीयाः । शुचिनः सुचौक्षाः अष्टानां प्रभृति यावदेकं नान्येषाम् । ते च परस्परासंसक्तिनः क्षत्रिया मूर्द्धाभिषिक्ताश्च महाराजानः । तेषां च सुताः कुमारकुमारिकाश्च अविदितग्राम्यधर्माणः कारणं भगवान् कुमाररूपी महाबोधिसत्त्वो मञ्जुश्रीः बालजनप्रबोधकः कुमारक्रीडनपरश्च । अतः प्रथमतर ( वैद्य 33 ) एव कुमारः प्रवेशयितव्यः । महाराज्ञाभिवर्द्धन आयुरारोज्यैश्वर्यकामः भोगाभिवर्द्धनं च विशेषतः बालानां मन्त्रसिद्धिः ध्रुवं स्थिता इति । एतां पूर्वस्थापितां कृत्वा सुसखायोपेता अप्रमत्ताः ततो मण्डलाचार्येण कर्पूरधूपं दहता पृष्ठतो बहिर्निगन्तव्यम् । निर्गत्य च यथामुखर्त्तुकोदकेनाष्टशताभिमन्त्रितेन मूलमन्त्रेण महामुद्रा पञ्चशिखमुद्रितेनोदकेन स्नात्वा उपस्पृश्य च शुचिर्वस्त्रप्रावृतेन शुचिना अग्निकुण्डं गत्वा कुशविण्डकोपविष्टः उत्तरपूर्वाभिमुखः आहुतीनां कर्पूरकुङ्कुमचन्दनमिश्राणामष्टसहस्रं जुहुयात् ॥

पूर्वोक्तेन विधिना आहूय विसृज्य च भूयो मण्डलं प्रवेष्टव्यम् । प्रविश्य चाष्टौ पूर्णकलशाः शुचिवस्त्रोपेताः सहकारपल्लवविभूषिताः सुवर्णरजतरत्नधान्यव्रीहिप्रक्षिप्तगर्भः एकं भगवतः शाक्यमुनेः प्रतिपादयेत् । द्वितीयः सर्वबुद्धानाम् । तृतीयः सर्वप्रत्येकबुद्धार्यश्रावकसङ्घस्य । चतुर्थः सर्वमहाबोधिसत्त्वानाम् । पञ्चमो महाबोधिसत्त्वस्य आर्यमञ्जुश्रियस्य । षष्ठः सर्वदेवानाम् । सप्तमाष्टमौ द्वितीयमण्डले द्वारकोष्ठके स्थापयितव्यौ । शुचिवस्त्रोपेताः । एकः सर्वभूतानाम् । द्वितीयः सर्वसत्त्वपरिणामितः साधारणभूतं स्थापयितव्येति ॥
ततः पूर्वोक्तेनैव विधिना धूपं दहता महामुद्रापञ्चशिखां बद्ध्वा भूयश्चावाहनं कुर्यात् । सर्वबुद्धानां, सर्वप्रत्येकबुद्धानां, आर्यश्रावकमहाबोधिसत्त्वानां, सर्वभूतानां, सर्वसत्त्वांश्च मञ्जुश्रियं कुमारभूतं च पूर्वोक्तेन विधिना आह्वानयेत् ॥
एवं पुष्पधूपगन्धप्रदीपैः निवेद्यांश्च पूर्वनिर्दिष्टेनैव कर्मणा निवेद्यः । सर्वेषां सर्वतः अनुपूर्वेणैव कुर्यात् । प्रदीपग्रहणेनैव धृतदीपं दद्यात् । सर्वेभ्यः आर्यानार्येभ्यः निवेद्यग्रहणेन शाल्योदनं दध्नोपेतं मधुपायसविशेषविशेष्योपरचितघृतपक्कापूपान् अशोकवर्त्तीखण्डखाद्यकाद्यां सर्वं तथागतेभ्यो निर्यातयेत् । हवि पूर्ण श्रीवेष्टमधुशिरपयोपक्कभक्षाद्यां सर्वप्रत्येकबुद्धार्यश्रावकमहाबोधिसत्त्वानार्यदेवतानां च निर्यातयेत् । एवं लड्डुकागर्भोक्तारकविशेषान् पूपोपकारणान् सर्वदेवभूतगणान् सर्वसत्त्वांश्च मन्त्रोपेतान् विधिना निर्यातयेत् । एवं सुगन्धपुष्पान् जातीतगरनागपुष्पपुन्नागप्रभृतिं पूर्वनिर्दिष्टान् सर्वबुद्धप्रत्येकबुद्धार्यश्रावकमहाबोधिसत्त्वेभ्य आर्यानार्येभ्यो निर्यातयेत् । विशेषतः तथागतकुले जातीकुसुमं पद्मं पद्मकुले तथा कुवलयं कुलिशपाणे अन्यमन्त्रेभ्यो इतरमिति कर्पूरधूपं तथागतकुले चन्दनं पद्मकुले तथा गुग्गुलुं गुह्यकेन्द्रस्य वज्रिणस्यैव शस्यते । अन्यमन्त्रेभ्यः सर्वेभ्यः धूपं दद्यात् इतरघृतप्रदीपानार्येभ्यः सर्वेभ्यश्चैव दापयेत् । अनार्येभ्य मन्त्रेभ्यः सुगन्धतैलन्तु दापयेत् ।
अनुपूर्वेण विधिना पूर्वदृष्टेन हेतुना ।
गन्ध + + त्तथैवोक्तं सर्वमन्त्रेभ्यो नित्यश ॥ म्म्क्_2.54(="53") ॥
अवलोकितेन यत् प्रोक्तं यत् प्रोक्तं कुलिशपाणिना ।
स्वकस्वकेषु तन्त्रेषु मन्त्रचर्यार्थसाधने ।
तेप्येह कल्पे द्रष्टव्याः अनुवर्त्त्याश्च सर्वदा ॥ म्म्क्_2.55(="54") ॥
इति ॥
ततो मण्डलाचार्येण पूर्वदृष्टेन विधिना आवाहनपूजनधूपनादिनिवेद्यप्रदानानुवर्तनक्रियां कृत्वा, ततो ऽनुसाधकेन कुशलेन त्वरमाणेन सार्वभौतिकं बलिं निरामिषां सर्वतश्च पटहशङ्खध्वनिनन्दीशब्दघोषनिनादितेन धूपपुष्पदीपमालभिरचितः चतुर्दिक्षु विदिक्षु च इत्यूर्ध्वमधस्तिर्यक् सर्वतो बहिर्मण्डलं प्रदक्षिणी + + + + + र्व भौतिकां क्षि + + + + + + + र्यो दधिमधुधृताक्तानां शालितन्दुलाहूतीनामष्टसहस्रं जुहुयात् । षडक्षरमूलमन्त्रहृदयेन जुह्वतः पूर्वस्थापितकां मण्डलानुप्रवेशमहासत्त्वां कृतरक्षाविधानानां मण्डलाचार्यशिष्यत्वाभ्युपगतानामुत्पादितबोधिचित्तानामुपोषधिकानां सर्वबुद्धबोधिसत्त्वात्मानिर्यातितमूर्त्तीनां सिद्ध्यर्थसत्त्वोपभोगसाधारणभूतानामनुत्तरबोधिमण्डाक्रमणकुशलानां सर्वज्ञज्ञानबुद्धलिप्सकामानां मण्डलदर्शनादेव मुच्यते सर्वकिल्बिषात् । आनन्तर्यहारिणो ऽपि ये मुच्यन्ते तत्क्षणाज्जनाः इति ॥
ततो मण्डलाचार्येण अनाहतेन वस्त्रेण तन्त्रोद्धृतेनापगतकेशेन मूलमन्त्रसप्ताभिमन्त्रितेन सुगन्धचन्दनकुङ्कुमाभ्यक्तेन पटेन मण्डलं प्रवेष्टुकानां मुखं वेष्टयित्वा प्रथमतः बालषोडशप्रभृति यावत्त्रीणि वर्षजन्मिकं पञ्चचीरकोपशोभितं एकचीरकोपशोभितं शिखोपशोभितं अशिरस्कं वा राजपुत्रं मूर्धाभिषिक्तं क्षत्रियपुत्रं वा, अन्यं वा महोत्साहमहाराज्यकामं वा प्रवेशयेत् ॥
द्वितीयमण्डलस्थितं मुखं वेष्टयित्वा, उत्पलमुद्रां बद्ध्वा, मञ्जुश्रियः कुमारभूतस्य मूलमन्त्रं सकृज्जप्त्वा, कारापयित्वा सुगन्धपुष्पं दत्त्वा, चन्दनकुङ्कुमाभ्यां मिश्रं सचौक्षाभ्यां हस्ताभ्यां पुष्पाणि क्षिपापयितव्याः । यत्रास्य पुष्पमधितिष्ठति तमस्य मन्त्रं दद्यात् । स्वमन्त्रेति कीर्त्यते । सैवास्यानुबद्धा जन्मपरम्परासु सैवास्य कल्याणमित्रो बोधिमण्डक्रमणमहाबोधिसत्त्वज्ञज्ञानपरिपूरणार्थमभिनिर्हरति । सैवास्य साधनीयम् । महाभोगमहाराज्यमहेशाख्यपुद्गलसमवधानता चास्यमभिनिर्हरति । इहैव जन्मनि अविचारतः साधनीयं सिध्यते सर्वकर्मेषु च । एवमनुपूर्वतः एकं प्रति तावद् यावदष्टानां नान्येषामिति सिद्धिकामैः । अन्येषां यथेप्सतः पापक्षपणार्थं समयमात्रं स्यादिति अभिषेकं ददता मण्डलाचार्येण आदौ तावन्मण्डले बहिर्नातिदूरे नात्यासन्ने पूर्वोत्तरे दिग्भागे भूप्रदेशे अधिष्ठाय मन्त्रपूतं कृत्वा मूलमन्त्रेण ततः राज्याभिषेकमिव मन्यमानमात्मानं एकान्तबुद्धधर्मसङ्घाभिप्रसन्नं श्राद्धं महोत्साहिनं अविरहितबोधिचित्तं महायानयायिनं रत्नत्रयोपकारिणं अविकलेन्द्रियं अकुत्सितमिहैव जन्मनि मन्त्रां साधयितुकामः । भद्राशयं मन्त्रचर्योद्युक्तमानसं कौतुकजातीयं जिज्ञासनहेतोपरि अविकल्पितमन्त्रार्थतद्गतमानसं एकं प्रभृति यावत्यथे अभिषेच्या सेव्यावर्ज्या इति । प्राज्ञा अमूढचरिता इति । शेषतो अभिषेच्याः । नान्येषामपि । ततः सर्वराज्याभिषेकमिवोपकरणं सम्भृत्य आचार्यो वा येन तुष्येत । ततः विततवितानोच्छ्रितध्वजपताकश्वेतच्छत्रमूर्घनि धार्यमाणः सितचामरे निवीज्यमानः महता सत्कारेण नन्दीशब्दनिर्घोषशङ्खभेरीमृदङ्गजयशब्दैः मङ्गलगाथाभिः प्रशस्तस्वस्तिकगाथाभिश्च जिनभाषितैरभिस्तूयमानः प्रदक्षिणीकृत्य च तन्मण्डलं सर्वबुद्धबोधिसत्त्वां प्रणम्य आचार्यं शिरसा प्रणम्य, ( वैद्य 35 ) एवं च वक्तव्यम् उ + + ष्याचार्यसर्वबुद्धबोधिसत्त्वमन्त्रचर्यानिर्हारं समनुप्रवेष्टुं सर्वलौकिकातिक्रान्तरहस्यविमोक्षमण्डलं समनुप्रवेष्टुं सर्वधर्मराज्यसमनुप्रवेशबुद्धत्वमधिगन्तुं संक्षेपतो वक्तव्यं बुद्धो भूयामिति ॥
ततः कुशविण्डकोपविष्टः पूर्वाभिमुखः मं + + + + + + + + + + + + + + पञ्चशिखां बद्धापयितव्यः । ततो स्वेस्थितं मन्त्रं यो यस्य रोचते भूर्जपत्रे गोरोचनया लिखितव्यम् । लिखित्वा चन्दनकुङ्कुमाभ्यां हस्तौ म्रक्षयित्वा शरावसम्पुटं च ततस्तं भूर्जपत्रं शरावसम्पुटाभ्यन्तरस्थं + + + + + + बोधिसत्त्वस्य पादमूले स्थापनीयम् ॥

ततस्तत्रोपविष्टेन विद्यामूलमन्त्रा अष्टशतवारानुच्चारयितव्यः । पूर्वमेव तु ततः तं कुशविण्डकोपविष्टमभिषेचनीयम् । बहिर्मण्डले यः सर्वसत्त्वसाधारणभूतं पूर्णकलशं पूर्वस्थापितकं द्वारसमीपे तं गृहीत्वा आचार्येण मूलमन्त्रं पठता मूर्धनि अभिषेक्तव्यः । शेषा यथेष्टमुद केनेति ॥
ततस्तं शरावसम्पुटं तस्यैव दातव्यम् । प्रदीपेन च पाथयितव्यः । यदि सा एव भवति मन्त्रा क्रमात् सिध्यति यत्नतः । अथ अन्यो मन्त्रपठनादेव सिद्ध्यति । अथ मन्त्राक्षरहीनातिरिक्ता वा दत्ता भवति, प्रथमसाधन एव सिध्यतीत्यविकल्पतः । सा एष पूर्वलिखिता आचार्येण त्रिभिः साधनैः कुर्वं सिद्ध्यतीत्ययत्नतः ॥
एवं प्रथमतः विद्याभिषेकं दद्यात् । द्वितीयमण्डलाभिषेक द्वितीयमण्डले सर्वदेवानां यत् प्रतिपादितकं पूर्णकलशं, तेनाभ्यषिञ्चेत् । मूर्धनि यथैव वा पूर्वकं तेनैव विधिना मुच्यते सर्वकिल्विषात् । अनुज्ञातश्च भवति सर्वबुद्धैः सर्वलौकिकलोकोत्तरसमयमण्डलं सर्वमन्त्रमुद्रासाधनेषु च अव्यष्टो भवति । सर्वबोधिसत्त्वैरिति आचार्याभिषेकं दद्यात् ॥
तृतीयमण्डले सर्वश्रावकप्रत्येकबुद्धेभ्यः पूर्णकलशं निर्यातितकं तेनैव विधिना मूर्धन्यभिपेचयेत् । वक्तव्यं अनुज्ञातस्त्वं सर्वबुद्धैः बोधिसत्त्वैश्च महर्द्धिकैः सर्वलौकिकलोकोत्तराणां मन्त्राणां लिखनपठनमण्डलोपदेशमन्त्रतन्त्रमुद्राचर्यानिर्देश स्वयं चरितुं निर्देष्टुं वा । इहैव जन्मनि परम्परासु च यावत्पश्चिमकं नियतं बुद्धत्वं प्राप्तव्यमिति ॥
एवं जयविजयाभिषेके ऽपि पूर्वनिर्दिष्टेन विधिना भगवतो बुद्धनिर्यातितकपूर्णकलशेन बोधिसत्त्वनिर्याति । तेन च पूर्णकलशेन तथैवाभ्यषिच्यत् । एवं च वक्तव्यमनुज्ञातस्त्वं सर्वबुद्धैर्भगवद्भिर्महाबोधिसत्त्वैश्च श्रावकैः,
अधृष्यः सर्वभूतानामजितः सर्वदेहिनाम् ।
विजयत्वं सर्वमन्त्राणां साधयस्त्वं यथेप्सतः ॥ म्म्क्_2.56(="55") ॥
ततो मण्डलाचार्येण एकैकस्य यथेप्सतः ।
पञ्चाभिषेका दातव्या सर्वेभ्यो पञ्च एव तु ॥ म्म्क्_2.57(="56") ॥
ततस्तामनुपूर्वेण मण्डलं प्रवेश्य सर्वबुद्धबोधिसत्त्वानां निर्यातयित्वा मण्डलं त्रिः प्रदक्षिणीकृत्य विसर्जयितव्यः । तदहो परेण अनुपूर्वेण शिक्षयितव्याः मन्त्रचर्यासु नियोक्तव्या । तत्क्षणादेव भगवतो मञ्जुश्रियस्य महाबोधिसत्त्वस्य यः पूर्वनिर्यातितकं पूर्णकलशं गृहीत्वा तेषां मण्डलप्रविष्टानामुदकचुलुकत्रयं पूर्वाभिमुखं कृत्वा पाययेत् । वक्तव्याश्च - इयं भो महाबोधिसत्त्वस्य मञ्जुश्रियः कुमारभूतस्य समयरहस्यं मातिक्रमिष्यतेति । मा बहु अपुण्यं प्रसविष्यथे ऽ; ति । सर्व मन्त्राश्च न प्रतिक्षेप्तव्याः । सर्वबुद्धबोधिसत्त्वाश्च न विसंवादनीयाः । गुरुराराधनीयश्चेति । अन्यथा समयातिक्रमः स्यात् । मन्त्राश्च सिद्धिं न गच्छेयुः । बहुपुण्यं स्यादिति । एवं विसर्जयितव्याः ॥
ततो मण्डलाचार्येण भूयो दधिमधुधृताभ्यक्ताः शालितण्डुलाहुतयो ऽष्टाक्षरहृदयेन होतव्याः । ततोत्थाय मण्डलमध्यं प्रविश्य पूर्वनिर्दिष्टै पुष्पैः पूर्वोक्तेन विधिना अर्ध्यं देयः सर्वेभ्यः मनसा चिन्तयेत् । पूर्वोक्तेनैव धूपेन सर्वबुद्धबोधिसत्त्वां प्रत्येकबुद्धार्यश्रावकां सर्वदेवनागयक्षगन्धर्वकिन्नरमहोरगयक्षराक्षसपिशाचभूतयोगिनसिद्धऋषयः सर्वसत्त्वां सन्धूप्य पुष्पैरवकीर्य चन्दनकुङ्कुमोदकेनाभ्यषिञ्चेत् । पूर्वोक्तेनैव विधिना विसर्जयेत् । मनसा मोक्षः सर्वेभ्य इति ॥
ततो मण्डलाचार्येण निवेद्यं बलिं चूर्णं सर्वे नद्यां प्लावयितव्याः । दुःखितेभ्यो वा प्राणिभ्यो दातव्यम् । सुपरामृष्टं सुकेलायितं सुशोभितं पृथिवीप्रदेशं कृत्वा गोमयेन लेप्तव्यः । उदकेन वा प्लावयितव्यम् । सुचौक्षमृत्तिकया वाभ्यलिम्प्य सिकताया वा अस्यैव कार्यं यथेष्टतो गन्तव्यम् । तैर्मण्डलप्रविष्टैरात्मनः क्षीरोदनाहारेण हविष्याहारेण वा भवितव्यमिति ॥
बोधिसत्त्वपिटकावतंसकान्महाकल्पराजेन्द्रान्मञ्जुश्रीकुमारभूतविकुर्वणात् बोधिसत्त्वपटलविसराद् द्वितीयः मण्डलविधिनिर्देशपरिवर्तः समाप्त इति ॥
अथ तृतीयः परिवर्तः । (मण्डलविधानपरिवर्त)
अथ खलु मञ्जुश्रीः कुमारभूतः पुनरपि तं शुद्धावासभवनमवलोक्य तां महापर्षन्मण्डलसन्निपतितां सर्वबुद्धबोधिसत्त्वां प्रणम्य, एकाक्षरं परमगुह्यं सर्वविषघातसर्वकर्मिकं च मन्त्रं स्वमण्डलसाधनौपयिकं सर्वक्षुद्रकर्मेषु चोपयोज्यं भाषते स्म । कतमं च तत् । नमः समन्तबुद्धानाम् । तद्यथा - जः । एष समार्षा सार्वभूतगणाश्च अस्यैव मन्त्रमेकाक्षरस्य द्वितीयं मण्डलविधानं संक्षेपतो योज्यम् । अष्टहस्तं चतुर्हस्तं वा भूप्रदेशं संशोध्य पञ्चरङ्गिकैरेव चूर्णैः स्वयं लिखितव्यम् । न परैः । यत्र वा तत्र वा न चात्र दोषः । समं चतुरस्रं त्रिमण्डलोपशोभितं पञ्चशिखां महामुद्रां प्रथमं च तावल्लिखेत् । भगवतो मञ्जुश्रियः उत्पलमुद्रां दंष्ट्रामुद्रां वत्क्रमुद्रां यष्टिमुद्रां च । एते मुद्रा अभ्यन्तरमण्डलपूर्वदिग्भागे आलिखितव्याः । ततः पद्मवज्र उत्पलध्वजपताकच्छत्रतोरणरथकुञ्जर अश्वबलीवर्दमहिषस्वस्तिकमयूर अजमेषपुरुषकुमाररूपी बहिर्द्वारमूले आलिखितव्यः । यथानुपूर्वतः पङ्क्ति आश्रिता आलेख्याः त्रिमण्डलाश्रिता एवं कार्याः स्युरिति ॥
ततो एकाक्षरेणैव मन्त्रेण पूर्वदक्षिणे दिग्भागे अग्निकार्यं काएयम् । अपामार्गसमिधानां दधिमधुघृताक्तानां अष्टशतं होतव्यम् । ततः पुष्पैरर्घ्यो देयः । एकाक्षरेणैव मन्त्रेण बलिनिवेद्यप्रदीप यथेप्सितं दातव्यम् । धूपं वा, आह्वाननविसर्जनं कुर्यादिति ॥
ततः प्रवेशयेद् राज्यकामं नगरमध्ये आलिखेत् । भेगकामं वटवृक्षसमीपे, पुत्रकामं पुत्रञ्जीवकवृक्षसमीपे, अनपत्नीकं हस्त्यश्वकामं कुञ्जरशालायां वाजिशालायां वा, दष्टकं महाह्रदे नागायतने वा, चातुर्थकनित्यज्वरसर्वज्वरेषु च एकलिङ्गे ग्रामदक्षिणदिशे वा, राक्षसगृहीतं श्मशाने शून्यग्रहे वा, पिशाचगृहीतं विभीतकवृक्षसमीपे एरण्डवृक्षसमीपे वा, मातरसर्वगृहीतेषु चतुःपथेषु मृतकसूतकगृहसमीपे वा, ब्रह्मराक्षसगृहीतं तालवृक्षे श्लेष्मातकवृक्षे वा, गरदत्तकं एकाक्षरेणैव मन्त्रेणैव उदकं सप्ताभिमन्त्रितं कृत्वा तत्रैव मण्डलमध्ये पातयितव्यः मुच्यते ॥

एवं स्त्रियाया पुरुषस्य वा यशोर्थिनं च चत्वरे ब्रह्मस्थले वा आलिखितव्यम् । मृतवत्सायाः सफले वृक्षे क्षीरवृक्षे वा, शालिधान्यपककेदारमध्ये अनपत्याया लिखितव्यम् । विविधत्रोगस्त्रीकृतान्यदुष्टतः प्रतरादिषु महारोगस्पृष्टासु, रक्षोघ्नं नदीपुलिने कूले वा पर्वताग्रे चाभिलेख्यम् । सर्वरोगेषु सर्वतः । डाकिनीकृतान्यपि ब्रह्मपालिकायां शून्यवेश्म एकान्तस्थान निम्नप्रदेशे वा । एवं सर्वकर्मेषु अर्धरात्रे मध्याह्ने वा सर्वकालमभिलिखितव्यम् । तेनैवैकाक्षरमन्त्रेण पुष्पैरर्घ्यं दत्त्वा विसर्ज्य च मण्डलं उदकेन प्लावयितव्यम् । सर्वग्लानानां महती रक्षा कृता भवति ॥
मुच्यते सर्वरोगेभ्यो ईप्सितमर्थं च सम्पद्यन्ते ।
अपुत्रो लभते पुत्रं दुर्भगः सुभगो भवेत्

3.2

दरिद्रो लभते अर्थां दर्शनादेव मण्डलम् ।
स्त्रियस्य पुरुषस्यापि श्राद्धस्यापि कल्पतः ।
यथेष्टविविधाकारां प्राप्नुयात् सम्पदां सदा

मूल पाठ: Mañjuśrīmūlakalpa · Edition: M.M.T. Ganapati Shastri, 1925 (3 vols.), reprint: Delhi: Sri Satguru Publications 1989, pp. 1-722. Cf. also Aryamanjusrimulakalpa. In: Mahayanasutrasamgraha, part II, ed. by P.L. Vaidya, Darbhanga 1964 (Buddhist Sanskrit Texts, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc