भाषा

ENहिગુ
ग्रंथ पाठ

मञ्जुश्रीमूलकल्प · अध्याय 1

1.1

॥ श्रीः ॥
॥ आर्यमञ्जुश्रीमूलकल्पम् ।
नमः सर्वबुद्धबोधिसत्त्वेभ्यः ।
एवं मया श्रुतम् । एकस्मिन् समये भगवां शुद्धावासोपरि गगनतलप्रतिष्ठिते ऽचिन्त्या श्चर्याद्भुतप्रविभक्तबोधिसत्त्वसन्निपातमण्डलमाडे विहरति स्म । तत्र भगवां शुद्धावासकायिकान् देवपुत्रानामन्त्रयते स्म । शृण्वन्तु देवपुत्राः मञ्जुश्रियस्य कुमारभूतस्य बोधिसत्त्वस्य महासत्त्वस्याचिन्त्याद्भुतप्रातिहार्यचर्यासमाधिशुद्धिविशेषविमोक्षमण्डलबोधिसत्त्वविकुर्वणं सर्वसत्त्वोपजीव्यमायुरारोग्यैश्चर्यमनोरथपापारिपूरकाणि मन्त्रपदानि सर्वसत्त्वानां हिताय भाषिष्ये । तं शृणु, साधु च सुष्ठु च मनसि कुरु, भाषिष्ये ऽहं ते ॥
अथ ते शुद्धावासकायिका देवपुत्राः साञ्जलयो भूत्वा *+ ++ ++ ++ ++ ++ ++ ++ ++ ++ ++ ++ + विशेषभूमिप्रतिलाभवज्रासनाक्रमणमारधर्षणधर्मचक्रप्रवर्तनसर्वश्रावकप्रत्येकबुद्धनिर्याणदेवमनुष्योपपत्तिसर्वदुःखप्रशमनदरिद्रव्याधितआढ्यरोगोपकर्षणतां सर्वलौकिकलोकोत्तरमन्त्रचर्यानभिभवनतां सर्वाशापरिपूरणतः सर्वतथागतानामवश्यवचनधारणम् । तद् वदतु भगवान् मैत्रचित्तो हितचित्तो ऽस्माकमनुकम्पामुपादाय सर्वसत्त्वानां च ॥
अथ भगवान् शाक्यमुनिः सर्वावन्तं शुद्धावासभवनं बुद्धचक्षुषावलोक्य विशुद्धविषयज्योतिर्विकरणविध्वंसिनीं नाम समाधिं समापद्यते स्म । समनन्तरसमापन्नस्य भगवत + ++ ++ सङ्कुसुमितबोधिसत्त्वसञ्चोदनी नाम रश्मि + ++ ++ ++ ++ ++ + सितरश्म्यवभासं दृष्ट्वा, ईषत् प्रहसितवदनो भूत्वा तं बोधिसत्त्वगमामन्त्रयते स्म । इयं भो जिनपुत्राः अस्माकं रश्मिसञ्चोदनी । इहायात । सज्जीभवन्तु भवन्तः ॥
अथ खलु मञ्जुश्रीः कुमारभूतो बोधिसत्त्वो महासत्त्व उत्फुल्लनयनो ऽनिमिपनयनो येनासौ रश्म्यवभासः, तेनाभिमुखस्तस्थौ । अथ सा रश्मिः सञ्चोदनी कुसुमावती लोकधातुं महतावभासेनावभास्य भगवतः सङ्कुसुमितराजेन्द्रस्य तथागतस्य त्रिः प्रदक्षिणीकृत्य मञ्जुश्रियस्य बोधिसत्त्वस्य महासत्त्वस्य मूर्धन्यन्तर्धीयते स्म ॥ अथ मञ्जुश्रीः कुमारभूत उत्थायासनाद् भगवन्तं सङ्कुसुमितराजेन्द्रं तथागतं त्रिः प्रदक्षिणीकृत्य, शिरसा प्रणम्य, दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य, भगवन्तं सङ्कुसुमितराजेन्द्रमेतदवोचत् - समन्वाहृतास्य भगवता शाक्यमुनिना तथागतेनार्हता सम्यक् सम्बुद्धेन । गच्छामो वयं भगवन्नितो सहां लोकधातुं भगवन्तं शाक्यमुनिं द्रष्टुं वन्दितुमुपासितुं सर्वमन्त्रचर्यासाधनौपयिकमण्डलविधानं कल्परहस्यपटविधानरूपसर्वतथागतहृदयगुह्यमुद्राभिषेकं निर्देष्टुं सर्वसत्त्वानां सर्वाशां परिपूरयितुम् ॥
( वैद्य 2 ) एवमुक्ते भगवान् सङ्कुसुमितराजेन्द्रस्तथागतो मञ्जुश्रियं कुमारभूतमेतदवोचत् ः गच्छ त्वं मञ्जुश्रीः कुमार यस्येदानीं कालं मन्यसे । अपि त्वस्मद्वचनेन भगवान् शाक्यमुनिरल्पाबाधतामल्पातङ्कतां लघूत्यानतां सन्यासविहारतां प्रष्टव्यः ॥
अथ भगवान् सङ्कुसुमितराजेन्द्रस्तथागतो मञ्जुश्रियं कुमारभूतमेतदवोचत् - अपि तु कुमार शतसहस्रगङ्गानदीसिकतप्रख्यैस्तथागतैरर्हद्भिः सम्यक् सम्बुद्धैस्त्वदीयं मन्त्रचर्यामण्डलकल्परहस्याभिषेकमुद्रापटलविधानहोमजपनियमसर्वाशापारिपूरकसर्वसत्त्वसन्तोषणज्योतिरत्नपटलविसरातीतानागतवर्तमानज्ञानराज्यैश्वर्यव्याकरणमन्त्रावर्तनदेशनिष्ठावसानान्तर्धानकालसमयविसरपटलसमस्ताशेषलौकिकलोकोत्तरसर्वबुद्धबोधिसत्त्वार्यश्रावकप्रत्येकबुद्धबोधिसत्त्वभूमाक्रमणतश्चर्यानिष्ठं भाषिअतवन्तः, भाषिष्यन्ते च मयाप्येतर्हि । अनुमोदितुमेव गच्छ त्वं मञ्जुश्रीः कुमारभूत यस्येदानीं कालं मन्यसे । शाक्यमुनिसमीपं सम्मुखम् । इयं धर्मपर्यायं श्रोष्यसि । त्वमपि भाषिष्यसे । भवति चात्र मन्त्रः -
नमः सर्वतथागतानामचिन्त्याप्रतिहतशासनानां ओं र र स्मर । अप्रतिहतशासनकुमाररूपधारिण हूम् हूम् फट् फट् स्वाहा ॥
अयं स कुमार मञ्जुश्रीः मूलमन्त्रः । सर्वेषां तथागतानां हृदयः, सर्वैश्च तथागतैर्भाषितः, भाषिष्यन्ते । स त्वमपीदानीं भाषिष्यसे । सहां लोकधातुं गत्वा विस्तर विभागशः सर्वकर्मकरम् । शाक्यमुनिना तथागतेनाभ्यनुज्ञातः । परमहृदयं भवति चात्र ओं वाक्ये द नमः । उपहृदयं चात्र वाक्ये हूम् ॥
अथ खलु मञ्जुश्रीः कुमारभूतो भगवान् सङ्कुसुमितराजेन तथागतेनाभ्यनुज्ञातः सर्वव्यूहालङ्कारो बोधिसत्त्वचर्यानिष्यन्दबोधिमण्डलसमनुप्रापणं नाम समाधिं समापद्यते । समनन्तरसमापन्नस्य मञ्जुश्रियः कुमारभूतस्य चतुर्दिग्व्यापन्नाग्र अन्तोर्ध्वमधस्तिर्यक् सर्वं सर्वावन्तं दिशं बुद्धैर्भगवद्भिः संपूर्णं तं लोकधातुमभवत् । साधु साधु भो जिनपुत्र यत् त्वमिमं समाधिविशेषं समापद्यसे । न शक्यं सर्वश्रावकप्रत्येकबुद्धैर्बोधिसत्त्वैश्च चर्याप्रविष्टैर्दशभूमिप्रतिष्ठितैरपि + + सङ्कुसुमितराजेन्द्रस्तथागतस्तैश्च बुद्धैर्भगवद्भिः सार्धं सम्मन्त्र्य इदं मञ्जुश्रियः कुमारभूतस्य परमहृदयं परमगुह्यं सर्वार्थसाधनं मन्त्रं भाषते स्म । एकाक्षरं नाम परमगुह्यं सर्वसत्त्वानामर्थकरं दिव्यमन्यैरपि मन्त्रचर्याविशेषैः साधनीयम् ॥
अथ भगवान् सङ्कुसुमितराजेन्द्रस्तथागतो मुहूर्ते तूष्णीमभूत् । सर्वे सर्वावन्तं लोकधातुं बुद्धचक्षुषावलोक्य तांश्च बुद्धान् भगवतः समन्वाहृतं वा मैत्रात्मकेन चेतसा मन्त्रमुदीरयते स्म । नमः सर्वबुद्धानाम् । मन्त्रः । एष मञ्जुश्रीः परमहृदयः सर्वकर्मकरः ॥
अथ मञ्जुश्रीः कुमारभूतस्तस्मात् समाधेर्व्युत्थाय सयथापि नाम बलवान् पुरुषः सम्मिञ्जितं बाहुं प्रसारयेत्, प्रसारितं वा सम्मिञ्जयेदच्छटासङ्घातमात्रो निमेषोन्मेषक्षणमात्रशुद्धिवलवलजबुद्धिर्नामनीतसमाधिविशेषविकुर्वणं नाम समापद्यत सहां लोकधातुं प्रत्यस्थात् । आगत्य चोपरि गगनतलमहामणिरत्नप्रतिष्ठिते शुद्धावासदेवनिकाये प्रत्यष्ठात् । सर्वं च तं ( वैद्य 3 ) शुद्धावासभवनं महता रश्म्यवभासेनावभास्य ज्योतिरत्नप्रतिमण्डनोद्द्योतनीं नाम समापद्यते स्म । समनन्तरसमापन्नस्य मञ्जुश्रियः कुमारभूतस्यानेकरत्नप्रविभक्तकूटागाररत्नच्छत्रानेकयोजनशतसहस्रविस्तीर्णदिव्यदृश्यमहापट्टकलापोपशोभितविरचितदिव्यपुष्पध्वजपताक मालाकुलरत्नकिङ्किणीजालोपनद्धमधुरसर्वनिर्घोषवैवर्त्तिकत्वबोधिसत्त्वप्रतिष्ठापनदिव्यं च गन्धमाल्यविलेपनस्रक्चूर्णप्रवर्षं चाभिनिर्ममे भगवतः शाक्यमुनेः पूजाकर्मणे तमाश्चर्याद्भुतप्रातिहार्यं बोधिसत्त्वविकुर्वणं दृष्ट्वा ॥

अथ ते शुद्धावासकायिका देवपुत्रा संहृष्टरोमकूपजाता भवनं प्रकम्पमानं दृष्ट्वा, उत्तप्तभिन्नहृदया आहोस्वित् किं ऋद्धेः परिहीयाम इति सत्वरमाणरूपाः उच्चैः क्रोशितुमारब्धाः एवं चाहुः ः परित्रायस्व भगवन् परित्रायस्व शाक्यमुने ॥
अथ भगवान् सर्वावन्तं शुद्धावासपर्षदमामन्त्रयते स्म । मा भैष्टतु मार्षा मा भैष्टथ । एष स मञ्जुश्रीः कुमारभूतो बोधिसत्त्वो महासत्त्वः सङ्कुसुमिते बुद्धक्षेत्रे सङ्कुसुमितराजस्य तथागतस्य सकाशाद् द्रष्टुं वन्दितुं पर्युपासितुं महतार्थचर्यामन्त्रपदवैपुल्याद्भुतधर्मपदं च निर्दिष्टुमागतः ॥
अथ खलु मञ्जुश्रीः कुमारभूतो भगवतः शाक्यमुनेस्त्रिः प्रदक्षिणीकृत्यानिमिषनयनो भगवन्तमवलोक्य चरणयोर्निपत्य इमेभिरक्षरपदप्रत्याहारैर्भगवन्तमभ्यष्टावीत् ।
नमस्ते मुक्तायाजन्य नमस्ते पुरुषोत्तमः ।
नमस्ते पुरुषश्रेष्ठ सर्वचर्यार्थसाधकः

1.2

नमस्ते पुरुषसिंह सर्वानर्थनिवारक ।
मनस्ते ऽस्तु महावीर सर्वदुर्गविनाशकः

1.3

नमस्ते पुरुष पुण्डरीकपुण्यगन्धमनन्तक ।
नमस्ते पुरुषपद्म त्रिभवपङ्कविशोधक

1.4

नमस्ते मुक्ताय सर्वदुःखविमोचक ।
नमस्ते शान्ताय सर्वादान्तसुदान्तक

1.5

नमस्ते सिद्धाय सर्वमन्त्रचर्यार्थसाधक ।
नमस्ते मङ्गल्याय सर्वमङ्गलमङ्गल

1.6

नमस्ते बुद्धाय सर्वधर्मावबोधने ।
नमस्ते तथागताय सर्वधर्मतथागत ।
निःप्रपञ्चाकारसमनुप्रविष्टदेशिक

मूल पाठ: Mañjuśrīmūlakalpa · Edition: M.M.T. Ganapati Shastri, 1925 (3 vols.), reprint: Delhi: Sri Satguru Publications 1989, pp. 1-722. Cf. also Aryamanjusrimulakalpa. In: Mahayanasutrasamgraha, part II, ed. by P.L. Vaidya, Darbhanga 1964 (Buddhist Sanskrit Texts, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc