माण्डूक्योपनिषद (अन्य संस्करण) · भाग 14
शान्तिपाटः
ओं भद्रं कर्णेभिः शृणुयाम देवाः भद्रं
पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवां सस्तनूभिर् व्यशेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर् दधातु ॥
ओं शान्तिः । शान्तिः । शान्तिः ॥
ओं पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ओं शान्तिः । शान्तिः । शान्तिः ॥
माण्डूक्य उपनिषद्
वेर्से 1
ओमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं भूतं
भवद्भविष्यदिति सर्वमोङ्कार एव ।
यच्चान्यत्त्रिकालातीतं तदप्योङ्कार एव ॥
वेर्से 2
सर्वं ह्येतद् ब्रह्मायमात्मा ब्रह्म सो ऽयमात्मा चतुष्पात् ॥
वेर्से 3
जागरितस्थानो बहिः प्रज्ञः सप्ताङ्गः
एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः ॥
वेर्से 4
स्वप्नस्थानो ऽन्तः प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः
प्रविविक्तभुक्तैजसो द्वितीयः पादः ॥
वेर्से 5
यत्र सुप्तो न कञ्चन कामं कामयते न
कञ्चन स्वप्नं पश्यति तत्सुषुप्तम् ।
सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो
ह्यानन्दभुक्चेतोमुखः प्राज्ञस्तृतीयः पादह् ॥
वेर्से 6
एष सर्वेश्वर एष सर्वज्ञ एषो ऽन्तर्याम्येष
योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम्
माण्डूक्य कारिका
वेर्से 1
बहिः प्रज्ञो विभुर्विश्वो ह्यन्तः प्रज्ञस्तु तैजसः ।
घनप्रज्ञस्तथा प्राज्ञ एक एव त्रिधा स्मृतः ॥
वेर्से 2
दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः ।
आकाशे च ह्य्दि प्राज्ञस्त्रिधा देहे व्यवस्थितः ॥
वेर्से 3
विश्वो हि स्थूलभुङ्नित्यं तैजसः प्रविविक्तभुक् ।
आनन्दभुक् तथा प्राज्ञस्त्रिधा भोगं निबोधत ॥
वेर्से 4
स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम् ।
आनन्दश्च तथा प्राज्ञं त्रिधा तृप्तिं निबोधत ॥
वेर्से 5
त्रिषु धामसु यद्भोज्यं भोक्ता यश्च प्रकीर्तितः ।
वेदैतदुभयं यस्तु स भुञ्जानो न लिप्यते ॥
वेर्से 6
प्रभवः सर्वभावानां सतामिति विनिश्चयः ।
सर्वं जनयति प्राणश्चेतों ऽशून्पुरुषः पृथक् ॥
वेर्से 7
विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः ।
स्वप्नमायासरूपेति सृष्टिरन्यैर्विकल्पिता ॥
वेर्से 8
इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः ।
कालात्प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः ॥
वेर्से 9
भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमिति चापरे ।
देवस्यैष स्वाभावो ऽयमाप्तकामस्य का स्पृहा ॥
माण्डूक्य उपनिषद्
वेर्से 7
नान्तः प्रज्ञं न बहिः प्रज्ञं नोभयतः प्रज्ञं
न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम् ।
अदृश्यमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यप
देश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं
शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः ॥
माण्डूक्य कारिका
वेर्से 10
निवृत्तेः सर्वदुःखानामीशानः प्रभुरव्ययः ।
अद्वैतः सर्वभावानां देवस्तुर्यो विभुः स्मृतः ॥
वेर्से 11
कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ ।
प्राज्ञः कारणबद्धस्तु द्वौ तौ तुर्ये न सिद्ध्य्तः ॥
वेर्से 12
नात्मानं न परं चैव न सत्यं नापि चानृतम् ।
प्राज्ञः किञ्चन संवेत्ति तुर्यं तत्सर्वदृक्सदा ॥
वेर्से 13
द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः ।
बीजनिद्रायुतः प्राज्ञः सा च तुर्ये न विद्यते ॥
वेर्से 14
स्वप्ननिद्रायुतावाद्यौ प्राज्ञस्त्वस्वप्ननिद्रया ।
न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चिताः ॥
वेर्से 15
अन्यथा गृह्णतः स्वप्नो निद्रा तत्त्वमजानतः ।
विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते ॥
वेर्से 16
अनादिमायया सुप्तो यदा जीवः प्रबुध्यते ।
अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदा ॥
वेर्से 17
प्रपञ्चो यदि विद्येत निवर्तेत न संशयः ।
मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥
वेर्से 18
विकल्पो विनिवर्तेत कल्पितो यदि केनचित् ।
उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते ॥
माण्डूक्य उपनिषद्
वेर्से 8
सो ऽयमात्माध्यक्षरमोङ्कारो ऽधिमात्रं
पादा मात्रा मात्राश्च पादा अकार उकारो मकार इति ॥
वेर्से 9
जागरितस्थानो वैश्वानरो ऽकारः प्रथमा
मात्राप्तेरादिमत्त्वाद्वाप्नोति ह वै सर्वान्
कामानादिश्च भवति य एवं वेद ॥
वेर्से 10
स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रोत्कर्षाद्
उभयत्वाद्वोत्कर्षति ह वै ज्ञानसन्ततिं समानश्च
भवति नास्याब्रह्मवित्कुले भवति य एवं वेद ॥
वेर्से 11
सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा मितेरपीतेर्वा
मिनोति ह वा इदं सर्वमपीतिश्च भवति य एवं वेद ॥
माण्डूक्य कारिका
वेर्से 19
विश्वस्यात्वविवक्षायामादिसामान्यमुत्कटम् ।
मात्रासंप्रतिपत्तौ स्यादाप्तिसामान्यमेव च ॥
वेर्से 20
तैजसस्योत्वविज्ञान उत्कर्षो दृश्यते स्फुटम् ।
मात्रासंप्रतिपत्तौ स्यादुभयत्वं तथाविधम् ॥
वेर्से 21
मकारभावे प्राज्ञस्य मानसामान्यमुत्कटम् ।
मात्रासंप्रतिपत्तौ तु लयसामान्यमेव च ॥
वेर्से 22
त्रिषु धामसु यस्तुल्यं सामान्यं वेत्ति निश्चितः ।
स पूज्यः सर्वभूतानां वन्द्यश्चैव महामुनिः ॥
वेर्से 23
अकारो नयते विश्वमुकारश्चापि तैजसम् ।
मकारश्च पुनः प्राज्ञं नामात्रे विद्यते गतिः ॥
माण्डूक्य उपनिषद्
वेर्से 12
अमात्रश्चतुर्थो ऽव्यवहार्यः प्रपञ्चोपशमः शिवो ऽद्वैत
एवमोङ्कार आत्मैव संविशत्यात्मनात्मानं य एवं वेद ।
य एवं वेद ॥
माण्डूक्य कारिका
वेर्से 24
ओङ्कारं पादशो विद्यात्पादा मात्रा न संशयः ।
ओङ्कारं पादशो ज्ञात्वा न किञ्चिदपि चिन्तयेत् ॥
वेर्से 25
युञ्जीत प्रणवे चेतः प्रणवो ब्रह्म निर्भयम् ।
प्रणवे नित्ययुक्तस्य न भयं विद्यते क्वचित् ॥
वेर्से 26
प्रणवो ह्यपरं ब्रह्म प्रणवश्च परः स्मृतः ।
अपूर्वो ऽनन्तरो ऽबाह्यो ऽनपरः प्रणवो ऽव्ययः ॥
वेर्से 27
सर्वस्य प्रणवो ह्यादिर्मध्यमन्तस्तथैव च ।
एवं हि प्रणवं ज्ञात्वा व्यश्नुते तदनन्तरम् ॥
वेर्से 28
प्रणवं हीश्वरं विद्यात्सर्वस्य हृदि संस्थितम् ।
सर्वव्यापिनमोङ्कारं मत्वा धीरो न शोचति ॥
वेर्से 29
अमात्रो ऽनन्तमात्रश्च द्वैतस्योपशमः शिवः ।
ओङ्कारो विदितो येन स मुनिर्नेतरो जनः ॥
मूल पाठ: Māṇḍūkyopaniṣad · Data entry Jeff Samuels · GRETIL (Göttingen) · CC BY-NC-SA 4.0