महायानपथसाधनसंग्रह · भाग 11
महायानपथसाधनसङ्ग्रहः
नमः सर्वबुद्धबोधिसत्त्वेभ्यः
सर्वातीताद्यबुद्धानां जनकत्वात् पितरौ तथा ।
भक्त्या साधनधर्माश्च वाक्चित्ताभ्यां मुदा नतः ॥ 1 ॥
अचिन्त्यां महतीं बोधिं जिघृक्षुश्चेदनुत्तराम् ।
बोधेः साधननिष्ठत्वात् साधनं सारतो भजेत् ॥ 2 ॥
स च त्रिशरणं गत्त्वा निवार्य सकलाशुभान् ।
अधिशीलं भजेच्छुद्धं बोधिचित्तस्य वाहनम् ॥ 3 ॥
आश्रित्य कशया भूयस् ताडयन् मरणस्मृतेः ।
भवमार्ग महाभीतिं क्रामेतैनं च सत्वरम् ॥ 4 ॥
अभयबुद्धभूप्राप्तः प्रणिधानपदे स्थितः ।
सत्त्वसंवरमाधाय षट् च पारमितादिकाः ॥ 5 ॥
सत्त्वचर्याश्चरेत्तद्वत् तत्प्रज्ञोपायसङ्ग्रहम् ।
शिक्षेतास्थितनिर्वाणं तत्सारो द्विविधस्तथा ॥ 6 ॥
रागद्रर्यरहितो नित्यं पावकार्थी तथारणिम् ।
भावयेत् सततं भक्त्या बुद्धः शीघ्रं ततो भवेत् ॥ 7 ॥
परार्थ मणिवन्नित्यम् अनाभोगं करोति सः ।
महायानस्य शिक्षेयुः धन्याः साधनसङ्ग्रहम् ॥ 8 ॥
चित्तं सुधालवैः रक्तं बुद्धय्शुद्धौ च दुःस्पृशम् ।
एतत्सङ्ग्रहपुण्येन जगद् यातु महापथम् ॥ 9 ॥
बुद्धभूमिमहं चाप्त्वा भवेयं लोकनायकः ॥ 10 अ ब ॥
ऽअतिसंक्षिप्तमहायानपथसाधनंऽ महाचार्यदीपङ्करश्रीज्ञानविरचितं समाप्तम् ॥
भारतस्य तेनैव उपाध्याय-पण्डितेन लोकचक्षुषा भिक्षुणा कल्याणमतिना (द्गे वहि ब्लो ग्रोस्) च अनूद्य निर्णीतम् ॥
मूल पाठ: Mahāyānapathasādhanasaṃgraha · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0