महाप्रतिसरा पञ्चरक्षा · भाग 111
महाप्रतिसरा विद्याराज्ञी
नमो भगवत्यै आर्यमहाप्रतिसरायै । नमः सम्यक्संबुधेभ्यः ॥
एवं मया श्रुतम् एकस्मिन् समये भगवान् वज्रमेरुशिखरकुटागारे विहरति स्म । महावज्रसमाधिभूमिप्रतिस्थाने महावज्रकल्पवृक्षसमलंकृते । महावज्रपुष्किरिणीरत्नपद्मप्रभोद्भासिते । महावज्रवालिकासंस्कृतभूमिभागे । महावज्राधिष्ठाने । महावज्रमण्डलमाडे । शक्रस्य देवानाम् इन्द्रस्य भवने । महावज्रसिंहासनकोटीनियुतशतसहस्रविराजिते । धर्मदेशनाप्रतिभानप्रातिहार्यसमन्वागते । सर्वबुद्धाधिष्ठानाधिष्ठिते सर्वधर्मसमताप्रवेशे सर्वज्ञतानिर्याते । चतुरशीतिभिर् बोधिसत्वकोटीनियुतशतसहस्रैः सार्धम् । सर्वैर् एकजातिभिर् अवैवर्तिकैर् अनुत्तरायां सम्यक्संबोधौ महास्थामप्राप्तैर् महावज्रविमोक्षसमाधिबुद्धक्षेत्रविकुर्वणमहाप्रातिहार्यसंदर्शकैः । एकचित्रक्षणभवमुहूर्तसर्वसत्वचित्तचरितानुप्रवेशविचित्रमधुरोदारगम्भीरधर्मदेशनाप्रतिभानप्रातिहार्यसंदर्शकैर् अनेकबुद्धक्षेत्रतथागतमहापूजमेघार्चनाविमोक्षमुखधारणीसमाधिवशिताभिज्ञावएणिकबोध्यङ्गमार्गभूमिपारमितोपायकौशल्यसंग्रहवस्त्रमहामैत्रीकरुणामुदितोपेक्षामैत्रीबलविविक्तपर्यवदातचित्तसंतानैः ॥
तद्यथा । वज्रगर्भेण च बोधिसत्वेन महासत्वेन । वज्रनेत्रेण च । वज्रगात्रेण च । वज्रमतिना च । वज्रहस्तेन च । वज्रसंहतेन च । वज्रनारायणेन च । वज्रविकुर्वितेन च । वज्रकूतेन च । वज्रराशिना च । वज्राङ्कुशेन च । सुवज्रेण च । वज्रसेनेन च । वज्रकेतुना च बोधिसत्वेन महासत्वेन ॥
एवं प्रमुखैर् बोधिसत्वकोटीनियुतशतसहस्रैः सार्धं संबहुलैश् च महाश्रावकैः सर्वैर् अर्हद्भिर् क्षीणास्रवैर् उच्छिन्नभवसंयोजनैः ( म्प्_2 ) सम्यगाज्ञासुविमुक्तचित्तैः सुविमुक्तप्रज्ञैर् अचिन्त्यसमाधिबलप्रातिहार्यविकुर्वणमहास्थामप्राप्तैर् असङ्गज्ञानदर्शिभिः । सर्वैर् विगतमलैर् निदग्धसंक्लेशवासनाबीजैः ॥
यदुतायुष्मता च शारद्वतीपुत्रेण । आयुष्मता च पूर्णमैत्रायणीपुत्रेण । आयुष्मता च कफिनेन । आयुष्मता च सुभूतिना । आयुष्मता च रेवतेन । आयुष्मता च महामौद्गल्यायनेन । आयुष्मता च चुन्देन । आयुष्मता च नन्देन । आयुष्मता च सुनन्देन । आयुष्मता च काश्यपेन । आयुष्मता च महाकाश्यपेन । आयुष्मता च नन्दीकाश्यपेन । आयुष्मता चोरुविल्वाकाश्यपेन । आयुष्मता च गयाकाश्यपेन ॥
एवं प्रमुखैः संबहुलैर् महाश्रावकैः सार्धं महेश्वरदेवपुत्रप्रमुखैश् चासंख्येयैर् अपरिमाणैर् अनभिलाष्यानभिलाष्यैः शुद्धावासकयिकैर् देवपुत्रैः ॥
ब्रह्मणा च सहापतिना । ब्रह्मकायिकदेवपुत्रप्रमुखैर् देवपुत्रैः । सुयामेन च देवपुत्रेण । सुयामकायिकदेवपुत्रपरिवारेण । संतुषितेन च देवपुत्रपरिवारेण । निर्माणरतिना च । परनिर्मितवशवर्तिना च । शक्रेण च देवानाम् इन्द्रेण । सर्वदेवपुत्रपरिवारेण ॥
वेमचित्रिणा चासुरेन्द्रेण । बलिना च । प्रह्लादेन च । राहुना च । वैरोचनेन च । सुबाहुना च । एवं प्रमुखैर् अपरिमिताप्रमेयासंख्येयैर् असुरेन्द्रैः ॥
सागरेण च नागराजेन । तक्षकेन च । वासुकिना चा । शङ्खपालेन च । कर्कोटकेन च । पद्मेन च । महापद्मेन च । एवं प्रमुखैर् अपरिमिताप्रमेयासंख्येयैर् नागराजैः ॥
द्रुमेण च किन्नरराजेन । अनेककिन्नरपरिवारेण ॥
पञ्चशिखेन च गन्धर्वराजेन । अनेकगन्धर्वराजपरिवारेण च ॥
सर्वार्थसिद्धेन च विद्याधरराजेन । अनेकविद्याधरराजपरिवारेण ॥
सुपर्णाक्षेण च गरुडराजेन । अनेकगरुडराजपरिवारेण ॥
वैश्रमणेन च । माणिभद्रेण च । पूर्णभद्रेण च । पाञ्चिकेन च यक्षराजेन । अनेकयक्षराजपरिवारेण ॥
हारीत्या च पञ्चपुत्रशतपरिवारया । सप्तभिश् च लोकमातृभिः । सप्तभिश् च महाराक्षसीभिः सप्तभिश् च महर्षिवरैः । अन्तरीक्षचरैश् च सर्वनक्षत्रग्रहदेवतैः । दिग्भिश् च विदिग्भिश् च । पृथिव्या च सरस्वत्या च । भूतैश् च विघ्नैश् च विनायकैश् च प्रेतभूतमहर्द्धिकैः । सर्वैश् च पर्वतराजैः । वरुणेन च लोकपालेन । सर्वसमुद्रदेवतापरिवारेण । विरूढकेन च विरूपाक्षेण च दण्डपाणिना च । नैगुतेन च । जातवेदसा च । सप्तभिश् च महावायुभिः । ईशानेन च सपत्निकेन । अनेकगणकोटीनियुतशतसहस्रपरिवारेण ॥
नारायणेन च सपरिवारेण । दन्तकेन च दामकेन च लोहकेन च मोहकेन च । महागणपतिना च । मेघोल्केन च । विनायकेन्द्रेण च । अनेकविघ्नविनायकपरिवारेण ॥
षष्ट्या च कोटगिर्या च चतसृभिश् च भगिनीभिः सभ्रातृकाभिः ॥
वज्राङ्कुश्या च । वज्रशङ्करया च । चतुःषष्टिभिश् च वज्रहूतीभिः । वज्रसेनेन च सुबाहुना च । मूर्धटकेन च । अनेकवज्रकुलपरिवारेण ॥
तद् अन्यैश् च बुद्धधर्मसंघाभिप्रसन्नैः । अपरिमिताप्रमेयासंख्येयैर् देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगभूतप्रेतपिशाचोन्मार्दापस्मारसाध्यसाहिल्लकोष्टरकैः ॥
सूर्येण च देवपुत्रेण । चन्द्रेण च देवपुत्रेण । सुचन्द्रेण च देवपुत्रेण । सन्ध्यया च देवतया । उषसा च देवतया । सर्वैश् च गन्तुभिः । रोदसिन्या च देवतया । प्रजापत्या च देवतया सार्धम् ॥
इत्य् अपि च भगवान् सुप्रवर्तितधर्मचक्रः सुपरिनिष्ठितबुद्धकार्यः सुपरिपूर्णपुण्यज्ञानसंभारः सुपरिगृहीतसर्वज्ञतामहाबोधिपारमिताभूमिलाभोज्ज्वलितद्वात्रिंशत्महापुरुषलक्षणालंकृतशरीरश् ( म्प्_4 ) चतुरशीत्यनुव्यञ्जनविराजितः सर्वाङ्गावयवशोभः सर्वसत्वानवलोकितमूर्धानिर्जितः सर्वमारकर्मकोविदः सर्वसत्वज्ञानपञ्चविधचक्षुः सर्वाकारवरोपेतः सर्वज्ञज्ञानसमन्वागतः सर्वबुद्धधर्मसमन्वागतः । सर्वमारपरप्रमादिकुगणिगणप्रमथन उद्गतकीर्तिशब्दश्लोक आर्षभसिंहनादंनदी समुच्छिन्नाविद्यान्धकारो ऽसंख्येयापरिमाणकोटीनियुतशतसहस्रदानशीलक्षान्तिवीर्यध्यानप्रज्ञोपायबलप्रणिधानपारमितादुष्करचर्याविनिवर्तितद्वात्रिंशत्महापुरुषलक्षणचतुरशीत्यनुव्यञ्जनगात्रशोभः । महावज्ररत्नपद्मगर्भसिंहासने निषण्णः । अनेकवज्ररत्नवेदिकासंस्कृतपादपीठसुप्रतिष्ठिते । अनेकवज्ररत्नमकरमुखोद्गीर्णलोहितमुक्तावलीनिबद्धगन्धायके । अनेकवज्ररत्नमुक्तकिङ्किणीजालकलुकलोन्नादिते । अनेकवज्ररत्नकर्णिकाविलग्नकर्केतनमहाकर्केतनेन्द्रनीलपुष्परागरश्मिजालावभासितसमन्तप्रसादिके । अनेकवज्ररत्नशलाकाविभूषितोद्दण्डातपत्रकोटीनियुतशतसहस्रकृतच्छायापरिकरे । अनेककल्पवृषद्रुमोपशोभितविस्तारे सुमेरुमात्रे वज्ररत्नपद्मासने निषण्णः । काञ्चनपर्वतराज इव श्रिया ज्वलनसूर्यसहस्राभिर् एकप्रभामण्डलविराजित भूमिभागः । सुपरिपूर्णचन्द्रमण्डल इव सर्वलोकप्रियदर्शनो महाकल्पवृक्ष इव बुद्धधर्मैः संकुसुमितो धर्मं देशयति स्म ॥
आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणं स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं संप्रकाशयति स्म ॥
अथ खलु भगवान् मूर्ध्न ऊर्णकेशात् सर्वबुद्धसंदर्शनं नाम रश्मिजालं प्रमुञ्चति स्म । तेन च रश्मिज्वालेनायं त्रिसाहस्रमहासाहस्रलोकधातुर् अवभासितः । स्फुटीकृतो ऽभूत् । यावन्ति च गङ्गानदीवालुकोपमानि बुद्धक्षेत्राणि तानि च सर्वाणि तेनावभासेन स्फुटीकृतान्य् अवभासितान्य् अभूवन् । ये च तेषु बुद्धक्षेत्रेषु बुद्धा भगवन्तो ऽनेकसिंहासनकोटीनियुतशतसहस्रव्यूहकूटागारविमानेषु धर्मं दर्शयति स्म । सार्धं ( म्प्_5 ) महाश्रावकैर् बोधिसत्वैर् भिक्षुभिक्षुण्युपासकोपासिकाभिर् देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगैः सार्धम् ॥
अथ खलु भगवांस् तां विस्तीर्णां परिषदाम् आमन्त्रयते स्म ॥
अथातो महाप्रतिसरां महाविद्यां प्रवक्षामि सर्वसत्वानुकम्पया ।
धारणी दुष्कृतस्यैव सर्वदुष्टप्रमर्दनी ।
यस्याश्रवणमात्रेण पापा गच्छन्ति संक्षयम् ॥
सुखदा सर्वसत्वानां सर्वव्याधिप्रमोचनी ।
कारुण्यात् सर्वसत्वानां लोकनाथेन भाषिता ॥
परित्राणाय सर्वेषां देहिनां पापकारिणाम् ।
अनया कृतरक्षस् तु प्रविशेद् असुरालयम् ॥
अडकवतीं तथा गच्छेद् यक्षाणाम् आलयं भुवि ।
भूतनागपिशाचानां युद्धे भैरवदारुणे ॥
अधृष्यः सर्वशत्रूणां सर्वभूतगणैर् अपि ।
ग्रहा सर्वे विनश्यन्ति नाम ग्रहणकीर्तनैः ॥
स्कन्धोन्मादा अपस्माराः पिशाचा डाकिणीग्रहाः ।
ओजोभक्षा महातेजा हिंसन्ते मानुषीप्रजाम् ॥
ते सर्वे स्तम्भिता भोन्ति प्रतिसरायास् तु तेजसा ।
परचक्रा विनश्यन्ति काखोर्दा ये च दारुणाः ॥
मन्त्रकर्मा न बाधन्ते मूलकर्माच् च मुच्यते ।
न विषं न गरं नाग्निर् न शस्त्रं नैव चोदकम् ॥
अशनिर् विद्युतश् चैव कालवायुर् न बाधते ।
सर्वशत्रून् प्रमथ्नाति विद्याराज्ञो हि तेजसा ॥
उपसर्गा विनश्यन्ति व्याधयो न भवन्त्य् अपि ।
सर्वे ऽर्थास् तस्य सिध्यन्ति जयं प्राप्नोति नित्यशः ॥
यः कश्चिद् धारयेद् विद्यां कण्ठे बाहौ च नित्यशः ।
तस्य सर्वाणि कार्याणि सिध्यन्ते नात्र संशयः ॥
नित्यं रक्षन्ति देवेन्द्रा नागराजास् तथैव च ।
बोधिसत्वा महावीर्या बुद्धाः प्रत्येकनायकाः ॥
श्रावकाः सर्वबुद्धानां विद्यादेव्यो महाबलाः ।
रक्षां कुर्वन्ति सततं प्रतिसराधारकस्य वै ॥
वज्रपाणिश् च यक्षेन्द्रो राजानश् चतुरस् तथा ।
तस्य रक्षां करिष्यन्ति दिवा रात्रौ न संशयः ॥
शक्रश् च त्रिदेशैः सार्धं ब्रह्मा विष्णुर् महेश्वराः ।
नन्दिकेशो महाकालः कार्तिकेयो गणेश्वरः ॥
सर्वे मातृगणास् तस्य तथान्ये मारकायिकाः ।
ऋषयश् च महातेजा देवाश् चैव महर्द्धिकाः ॥
नित्यं रक्षां करिष्यन्ति प्रतिसराधारकस्य वै ।
बुद्धाश् चैव महात्मानो विद्यादेव्यो महाबलाः ॥
महावीर्या महातेजा महाबलपराक्रमाः ।
मामकी भृकुटी चैव तारादेवी तथाङ्कुशी ॥
वज्रसंकलया श्वेता महाश्वेता तथैव च ।
महाकाली च दूत्यश् च वज्रदूत्यस् तथापराः ॥
सुपाशी वज्रपाशी च चक्रपाणिर् महाबलाः ।
वज्रमाला महाविद्या तथैवामृतकुण्डलिः ॥
अपराजिता महादेवी कालकर्णी महाबलाः ।
तथा धन्या महाभागा पद्मकुण्डलिर् एव च ॥
पुष्पदन्ती मणिचूडा स्वर्णकेशी च पिङ्गला ।
महातेजा महादेवी धन्या च विद्युन्मालिनी ॥
राक्षस्य् ऐकजटा चैव बुद्धाक्षितिकनायिका ।
कापालिनी महाभागा धन्या लङ्केश्वरी तथा ॥
अन्याश् च बहवो विद्यासत्वानुग्रहकारिकाः ।
तस्य रक्षां करिष्यन्ति यस्य विद्या करे स्थिता ॥
हारीती पाञ्चिकश् चैव शङ्खिनी कूटदन्तिनी ।
श्रीदेवी सरस्वती चैव तं रक्षन्ति सदानुगाः ॥
महाप्रतिसराम् एतां या स्त्री धारयते सदा ।
सर्वसिद्धिर् भवेत् तस्याः पुत्रगर्भा नित्यशः ॥
सुखं गर्भाणि वर्धन्ते सुखं प्रसूयति गुर्विणी ।
व्याधयश् चापि नश्यन्ति सर्वपापा न संशयः ॥
पुण्यवान् बलवान् नित्यं धनधान्यं प्रवर्धते ।
आदेयवचनश् चापि पूजनीयो भविष्यति ॥
शुचिर् द्वारयते यस् तु स्त्रियो वा पुरुषो ऽथ वा ।
स भवेत् सर्वसत्वानां मोक्षनाथे समुदयतः ॥
सुखितश् च भवेन् नित्यं सर्वव्याधिविवर्जितम् ॥
राजानो वशगास् तस्य सान्तःपुरमहाजनाः ॥
नित्यं च ज्वलते लक्ष्म्या पुण्यराशिर् विवर्धते ।
सर्वकल्पास् तस्य सिध्यन्ति प्रविष्टः सर्वमण्डले ॥
सर्वत्र समयज्ञो ऽसौ जिनस्य वचनं यथा ।
दुःस्वप्ना न प्रबाधन्ते सर्वपापहरीपराः ॥
किल्बिषाश् चैव नश्यन्ति प्रत्यमित्रास् तथैव च ।
सर्वग्रहविनाशार्थं भाषिता ज्ञानमहेश्वरैः ॥
सर्वकामंगमा ह्य् एषा भावयेद् यस् तु नित्यशः ।
तद् इदानीं प्रवक्षामि भूतसंघा शृणोन्तु मे ॥
नमो बुद्धाय । नमो धर्माय । नमो संघाय । नमः सर्वतथागतानां नमो नमः । नमः सर्वबुद्धबोधिसत्वधर्मसंघेभ्यः ॥
तद्यथा । ओं विपुलगर्भे । विमलि जयगर्भे । ओं विपुलविमले । विमलगर्भे वज्रज्वालागर्भे गतिगहने । गगने । गगनविशोधनि । सर्वपापविशोधनि । ओं गुणवति गगनविचारिणि । गगरिणि 2 गिरि 2 गिरिणि 2 गमरि 2 गह 2 गर्गारि 2 गगरि 2 गंभरि 2 गभि 2 गहि 2 गमनि 2 गरे 2 गुरु 2 गुभ 2 गुह 2 गुरुणिचले । गुहणि 2 गुरुणे 2 चुलु 2 गुचिले 2 जय विजय 2 । सर्वभयविगते । सर्वगर्भसंरक्षणि । शिरि 2 तिरि 2 मिरि 2 घिरि 2 समन्ताकर्षणि । सर्वशत्रुप्रमथनि । रक्ष 2 मां सर्वसत्वान् सर्वभयेभ्यः सर्वोपद्रवेभ्यः सर्वव्याधिभ्यः । चिरि 2 विरि 2 धिरि 2 विगतावरणे । विशोधनि । विविधावरणविनाशनि । मुरि 2 मुचि 2 मुलि 2 चिलि 2 किलि 2 मिलि 2 कमले विमले । जये विजये जयावहे । जयवति विशेषवति । भगवति रत्नमुकुटमालाधरि । बहुविविधविचित्रवेशधारिणि । भगवति महाविद्यादेवि रक्ष 2 ( म्प्_8 ) मां सपरिवारं सर्वसत्वांश् च समन्तान् सर्वपापविशोधनि । हुरु 2 मुरु 2 रक्ष 2 मां सर्वसत्वांश् चानाथान् अत्राणान् अपरायणात् प्रिमोच्य सर्वदुःखेभ्यः चण्डे 2 चण्डि 2 चण्डिनि 2 वेगवति 2 सर्वदुष्टनिवारिणि । विजयवाहिणि । हुरु 2 मुरु 2 चुरु 2 तुरु 2 आयुःपालनि सुरवरप्रमथनि । सर्वदेवगणपूजिते । चिलि 2 धिलि 2 समन्तावलोकिते । प्रभे 2 सुप्रभे । सुप्रभविशुद्धे सर्वपापविशोधनि । धुरु 2 धरणिधरे धर 2 सुमु 2 मुसु 2 रुरुचले चालय सर्वदुष्टान् पूरय मे सर्वपापविशुद्धे आशां श्रीवसुधरे जयकमले । क्षिणि 2 वरदांकुशे । ओं पद्मविशुद्धे । शोधय 2 शुद्धे 2 भर 2 भिरि 2 भुरु 2 मङ्गलविशुद्धे । पवित्रमुखि । खङ्गिनि 2 खर 2 ज्वलितशिखरे । समन्तावलोकितप्रभे । सुप्रभविशुद्धे । समन्तप्रसारितावभासशुद्धे । ज्वल 2 सर्वदेवसमाकर्षणि । सत्यप्रते । ओं ह्रीत्रं तर 2 तारय 2 मां सर्वसत्वांश् च नागविलोकिते । लहु 2 हुलु 2 हुतु 2 तुरु 2 किणि 2 क्षिणि 2 हुनि 2 सर्वग्रहभक्षणि । पिङ्गले 2 मुरु 2 मुचु 2 मुसु 2 मुसुरि रते । तर 2 नागवलोकिते । तारय भगवति अथ महादारुणभयेभ्यः । सर्वत्र समन्तेन वज्रप्राकारवज्रपाशबन्धेन वज्रज्वालाविशुद्धे । भुरि 2 भगवति गर्भसंशोधनि । कुक्षिसंपूरणि । ज्वल 2 चल 2 ज्वालनि । वर्षन्तु देवः समन्तेन दिव्योदकेन अमृतवर्षणि देवतावतारणि । अभिषिञ्चन्तु मां सुगतवरवचनामृतवरवपुषे रक्ष 2 मां सर्वत्र सर्वदा । सर्वभयेभ्यः सर्वोपद्रवेभ्यः सर्वोपसर्गेभ्यः सर्वव्याधिभ्यः सर्वदुष्टभयभीतेभ्यः सर्वकलिकलहविग्रहविवाददुःस्वप्नदुर्निमित्तामङ्गलपापविशोधनि सर्वयक्षराक्षसनागविदारणि । चल 2 बलवति । जय 2 विजय 2 जयतु सर्वत्र सर्वकालं सिध्यन्तु मे । इयं विद्या साधय मण्डलं घाटय विघ्नान् । जय 2 सिद्धे 2 सिध्य 2 बुध्य 2 पूरय 2 पूरणि 2 पूरय मे आशां सर्वविद्योद्गतमूर्ते । जयोत्तरि जयकरि जयवति । तिष्ठ 2 भगवति समयम् अनुपालय सर्वतथागतहृदयशुद्धे व्यवलोकय मां सपरिवारं सर्वसत्वांश् ( म्प्_9 ) चाथ महादारुणभयेषु सर्वासां परिपूरय त्रायस्व महाभयेभ्यः । सर 2 प्रसर 2 सर्वावरणविशोधनि समन्ताकारमण्डलविशुद्धे । विगते 2 विगतमले । सर्वमलविशोधनि । सर्वामङ्गलविशुद्धे । सर्वामङ्गलविशोधनि । क्षिणि 2 सर्वपापविशुद्धे । मलविगते । जयवति तेजोवति वज्रवति त्रैलोक्याधिष्ठिते स्वाहा ॥
सर्वतथागतमूर्धाभिषिक्ते स्वाहा ॥
सर्वबुद्धबोधिसत्वाभिषिक्ते स्वाहा ॥
सर्वतथागतहृदयविशुद्धे स्वाहा ॥
सर्वतथागताभिषिक्ते स्वाहा ॥
सर्वतथागतहृदयाधिष्ठितहृदये स्वाहा ॥
सर्वतथागतहृदयसिद्धे स्वाहा ॥
इन्द्रे इन्द्रवति इन्द्रव्यवलोकिते । ब्रह्मे ब्रह्माध्युषिते स्वाहा ॥
विष्णुनमस्कृते स्वाहा । महेश्वरवन्दितपूजितायै स्वाहा ॥
वज्रधर वज्रपाणिबलवीर्याधिष्ठिते स्वाहा ॥
धृतराष्ट्राये स्वाहा । विरूढकाय स्वाहा । विरूपाक्षाय स्वाहा । वैश्रमणाय स्वाहा । चतुर्महाराजनमस्कृताय स्वाहा ॥
यमाय स्वाहा । यमपूजितनमस्कृताय स्वाहा ॥
वरुणाय स्वाहा । मारुताय स्वाहा । महामारुताय स्वाहा । अग्नये स्वाहा । वायवे स्वाहा ॥
नागविलोकिताय स्वाहा । देवगणेभ्यः स्वाहा । नागगणेभ्यः स्वाहा । यक्षगणेभ्यः स्वाहा । राक्षसगणेभ्यः स्वाहा । गन्धर्वगणेभ्यः स्वाहा । असुरगणेभ्यः स्वाहा । गरुडगणेभ्यः स्वाहा । किन्नरगणेभ्यः स्वाहा । महोरगगणेभ्यः स्वाहा । मनुष्यगणेभ्यः स्वाहा । अमनुष्यगणेभ्यः स्वाहा ॥
सर्वग्रहेभ्यः स्वाहा । सर्वभूतेभ्यः स्वाहा । सर्वप्रेतेभ्यः स्वाहा । सर्वपिशाचेभ्यः स्वाहा । सर्वापस्मारेभ्यः स्वाहा । सर्वकुम्भाण्डेभ्यः स्वाह । सर्वपूतनेभ्यः स्वाहा । सर्वकटपूतनेभ्यः स्वाहा । सर्वदुष्टप्रदुष्टेभ्यः स्वाहा ॥
ओं धुरु 2 स्वाहा । ओं तुरु 2 स्वाहा । ओं कुरु 2 स्वाहा । ओं ( म्प्_10 ) चुरु 2 स्वाहा । ओं मुरु 2 स्वाहा ॥
हर 2 सर्वशत्रून् स्वाहा । दह 2 सर्वदुष्टान् स्वाहा । पच 2 सर्वप्रत्यर्थिकप्रत्यमित्रान् स्वाहा ॥
ये महाहितैषिणस् तेषां सर्वेषां शरीरं ज्वालय 2 दुष्टचित्तानां स्वाहा ॥
ज्वलिताय स्वाहा । प्रज्वलिताय स्वाहा । दीप्तज्वालाय स्वाहा । वज्रज्वालाय स्वाहा । समन्तज्वालाय स्वाहा ॥
माणिभद्राय स्वाहा । पूर्णभद्राय स्वाहा । कालाय स्वाहा । महाकालाय स्वाहा । मातृगणाय स्वाहा ॥
यक्षणीनां स्वाहा । राक्षसीनां स्वाहा । प्रेतपिशाचडाकिनीनां स्वाहा । आकाशमातृणां स्वाहा । समुद्रगामिनीनां स्वाहा । समुद्रवाशिनीनां स्वाहा । रात्रिचराणां स्वाहा । दिवसचराणां स्वाहा । त्रिसन्ध्यचराणां स्वाहा । वेलाचराणां स्वाहा । अवेलाचराणां स्वाहा ॥
गर्भहरेभ्यः स्वाहा । गर्भाहारिणीभ्यः स्वाहा । गर्भसंधारिणीभ्यह् स्वाहा ॥
हुलु 2 स्वाहा । ओं स्वाहा । भूः स्वाहा । भुवः स्वाहा । भूर्भुवः स्वः स्वाहा ॥
चिटि 2 स्वाहा । विटि 2 स्वाहा ॥
धरणि स्वाहा । धारणि स्वाहा । अग्निः स्वाहा तेजोवायुः स्वाहा ॥
चिलि 2 स्वाहा । शिलि 2 स्वाहा । मिलि 2 स्वाहा । बुध्य 2 स्वाहा । सिध्य 2 स्वाहा ॥
मण्डलबन्धे स्वाहा । सीमाबन्धे स्वाहा ॥
सर्वशत्रून् भञ्जय 2 स्वाहा । स्तम्भय 2 स्वाहा । छिन्द 2 स्वाहा । भिन्द 2 स्वाहा । 2 स्वाहा । भञ्ज 2 स्वाहा । बन्ध 2 स्वाहा । मोहय 2 स्वाहा ॥
मणिविशुद्धे स्वाहा । सूर्ये सूर्यविशुद्धे स्वाहा । चन्द्रे पूर्णचन्द्रे स्वाहा ॥
शोधनि स्वाहा । विशोधनि स्वाहा ॥
ग्रहेभ्यः स्वाहा । नक्षत्रेभ्यः स्वाहा । शिवेभ्यः स्वाहा । ( म्प्_11 ) शान्तिभ्यः स्वाहा । पुष्टिभ्यः स्वाहा । स्वस्त्ययनेभ्यः स्वाहा ॥
शिवंकरि स्वाहा । शंकरि स्वाहा । शान्तिंकरि स्वाहा । पुष्टिंकरि स्वाहा । बलवर्धनि स्वाहा । बलवर्धनंकरि स्वाहा । श्रीकरि स्वाहा । श्रीवर्धनि स्वाहा । श्रीज्वालिनि स्वाहा । मुचि स्वाहा । नमुचि स्वाहा । मुरुचि स्वाहा । वेगवति स्वाहा ॥
ओं सर्वतथागतमूर्ते प्रवरविगतभये शमयस्व मे भगवति सर्वपापं स्वस्तिर् मम सर्वसत्वानां च स्वाहा ॥
ओं मुनि 2 विमुनि 2 धरि चरि चलने भयविगते भयहरिणि । बोधि 2 बोधय 2 बुद्धिलि 2 सर्वतथागतहृदयजुष्टे स्वाहा ॥
ओं मुनि 2 मुनिवरे अभिसिञ्चन्तु मां सर्वसत्वांश् च सर्वतथागताः सर्वविद्याभिषेकैर् महावज्रकवचमुद्रामुद्रितैः सर्वतथागतहृदयाधिष्ठितवज्रे स्वाहा ॥
समन्तज्वालामालाविशुद्धिस्फूरितचिन्तामणिमहामूद्राहृदयापराजिता महाधारणी तेन खलु समयेन तस्याम् एव परिषदि महाब्राह्मणः संनिपतितो ऽभूत् । संनिषण्णश् च ॥
तत्र भगवान् महाब्राह्मणम् आमन्त्रयते स्म । अस्या महाप्रतिसराया महाविद्याराज्ञः सहस्रवर्णमात्रेण महाब्राह्मण तस्य कुलपुत्रस्य वा कुलदुहितुर् वा सर्वपापविनिर्मुक्तिर् भवति । यस्य पुनर् इयं हृदयगता भविष्यति । स महाब्राह्मण वज्रकाय इति वेदितव्यः । नाग्निस् तस्य काये क्रमिष्यति । किम् इति संज्ञितं । यदा कपिलवस्तुमहानगरवरे राहुलभद्रः कुमारो मातुः कुक्षिगतो ऽभूद् यदा षड्वर्षातिक्रान्ते सर्वार्थसिद्धेन कुमारेण मम नाभिः पादं सुष्ठेन पृष्ठो निर्गतस् तद् आजानामि । नान्यत् किंचिद् इति । परिकीर्णाग्निना विषोदकेन तप्तकुठारिकयातुरयमानान् अत्राथापराजिता भवामि । तदा गोपया शाक्यकन्यया आत्मानम् अग्निखदायां प्रक्षिप्तः । तत्र पद्मिनी प्रादुर्भूता । तदा राहुलभद्रकुमारो मातुः कुक्षिगतो एव इमां विद्यां मनस्य् अकर्षीत् । अस्या विद्याया अनुस्मरणमात्रेण ( म्प्_12 ) सो ऽपि तस्मिन् क्षणे शीतीभावम् उदागतः । ततो गोपायाः शाक्यकन्यायाः शरीरम् अग्निना न स्पृष्टम् । तत् कस्य हेतोर् एषा विद्या सर्वतथागताधिष्ठिता । तेन हेतुनायं महाब्राह्मणो ऽग्निर् न दहति । न च विषेण शक्यं तं जीविताद् व्यपरोपयितुम् । तत् कथम् इति ॥
यदा महाब्राह्मण शूर्पारके महानगरवरे कोषवणिकस्य श्रेष्ठिनः पुत्रो विद्यावादिको बभूव । तेन तद् विद्याबलेन तक्षको नागराजा आकर्षितः । आकर्षयित्वा च प्रमाणवशाद् बद्धो नदान्तो यावत् तेनासौ क्रोधाद् दष्टः । स तीव्रां खरां कटुकां वेदनां वेदयति । यथा जानामि च मे जीवितं निरुद्धम् इति । तत्र बहवो वादिका आहुताः । न च कश्चिच् छक्नोति विषं चिकित्सितुम् । अथ त्रैव शूर्पारके महानगरवरे विमलविशुद्धिर् नामोपासिका प्रतिवसति स्म । महाकरुणासमन्वागता तस्य इयं महाविद्याराज्ञी जिह्वाग्रे ऽभूत् । सा तस्यान्तिकम् उपसंक्रान्ता उपसंक्रम्येमां महाविद्यां प्रवर्तयामास । सा तयैकवेलायाम् अनुस्मृतमात्रया निर्विषं स्मृतिप्रतिलब्धं कृत्वा ततो महाव्यसनात् परिमोचयित्वा इमाम् एव शुद्धिपुत्रे महाविद्यां हृदयगतां कारयति स्म । यथा विधिवद् अनुज्ञातम् इति ॥
अपि च महाब्राह्मण किं परिज्ञातम् इति । बाराणास्यां महानगर्याम् अनुपूर्वेणानुविचरमाणो राजा ब्रह्मदत्त इति संख्यां गच्छति । तस्य प्रातिसीमिको बलचक्रराजा चतुरङ्गबलकायं संनाह्य बाराणसीमहानगरीं परिवार्य विनाशयितुम् आरब्धः । ततो राज्ञा ब्रह्मदत्तस्यामात्यैर् निवेदितम् । देव परचक्रेण नगरम् अपहृतम् । ततः किं तु खलु वयम् उपायं कुर्यामो येनैतत् परचक्रं विनश्येत् । आज्ञां प्रयच्छ । राजा कथयति । अल्पोत्सुका भवन्तो मा भवत । अस्ति मम महाप्रतिसरा नाम विद्याराज्ञी । येनाहम् इहेमं चतुरङ्गबलकायं पराजेष्यामि । तथा करिष्यामि । अमात्याः शिरसा प्रणिपत्योचुः । किम् इदं महाराज नास्माभिः कदाचिद् अपि न श्रुतम् इति । राजा प्राह । अहम् इदानीं प्रत्यक्षं दर्शनं करिष्यामि । अथ स राजा ब्रह्मदत्तो ( म्प्_13 ) नानागन्धोदकेन स्नातः शिराः शुचिवस्त्रं प्रावृत्य इमां महाप्रतिसरां महाविद्याराज्ञीं यथाविधिनाभिलिख्य शिरः केशे ऽवस्थाप्य इमाम् एव महाविद्याराज्ञीं कवचं कृत्वा संग्राममध्ये ऽवतीर्य एकाकिनैव सर्वासौ चतुरङ्गबलकायः पराजितः । आमर्दितश् च तावद् यावच् चरणं गतः । इति कृत्वासौ बलचक्रराजा मुक्त इति ॥
एवं हि महाब्राह्मण प्रत्यक्षं महानुभावेयं महाविद्याराज्ञी सर्वतथागतहृदयमुद्राधिष्ठिता । प्रत्यक्षम् एवेति धारयितव्या । सर्वतथागतसमैषा द्रष्टव्या । ये केचित् पश्चिमे काले पश्चिमे समये अल्पायुष्कानां मन्दभाग्यानां मन्दधान्यानं परीत्तभाग्यानां सत्वानाम् अर्थाय हिताय सुखाय द्रष्टव्या । यः कश्चिन् महाब्राह्मण इमां महाविद्याराज्ञीं यथाविधिना लिखित्वा बाहौ कण्ठे धारयिष्यति । स सर्वतथागताधिष्ठितो वेदितव्यः । सर्वतथागतकाय इति वेदितव्यः । वज्रकाय इति वेदितव्यः । सर्वतथागतधातुगर्भ इति वेदितव्यः । सर्वतथागतनेत्र इति वेदितव्यः । ज्वालितार्चिशरीर इति वेदितव्यः । अभेद्यकवच इति वेदितव्यः । स सर्वशत्रूणां प्रमथन इति वेदितव्यः । सर्वपापावरणनिर्दहन इति वेदितव्यः । सर्वनरकगतिविशोधन इति वेदितव्यः । किम् इति पूर्वं परिज्ञातं महाब्राह्मण अन्यतमस्मिं पृथिवीप्रदेशे भिक्षुश्राद्धस् तथागतकुलशिक्षाखण्डको ऽदत्तादायी सुखाद्वारहारकः संघिकं चातुर्दिशिकं स्तौपिकं गणप्राप्तं च यद् द्रव्यं तत् पौद्गलिकं कृत्वा सर्वम् अधिष्ठाय तक्षयति । यावद् अपरेण समयेन महाव्याधिना पृष्टः । स महतीं दुःखावेदनाम् अनुभवति । स तपस्वी अत्राणो ऽपरायणो ऽप्रतिशरणो महान्तसुक्रोशणाशब्दं करोति । अथ तस्मिन्न् एव पृथिवीप्रदेशे उपासको ब्राह्मणो प्रतिवसति । तेन तच् छब्दः श्रुतः । श्रुत्वा च पुनर् येन स भिक्षुस् तेनोपसंक्रान्त उपसंक्रम्य तस्य भिक्षोर् इमां महाप्रतिसरां महाविद्याराज्ञीं लिखित्वा कण्ठे बध्नाति स्म । समनन्तरबद्धायां महाप्रतिसरायां महाविद्याराज्ञ्यां तस्य भिक्षोः सर्वा वेदनाः ( म्प्_14 ) प्रशान्ताः सर्वव्याधिभ्यः परिमुक्तः स्वस्थः संवृत्त इति । तस्याम् एव रात्र्याम् अत्ययाभ्युपस्थिते स्मृतिप्रतिलब्धः कालगतः । तस्मिन्न् एव क्षत्रवरे उत्सृष्टो ऽवीचौ महानरके उपपन्नः । तच् च तस्य मृतशरीरं भिक्षुभिः कूटे स्थापितम् । सा च तस्य महाप्रतिसरा महाविद्याराज्ञी कण्ठे बद्धैवास्थिता । समनन्तरोपपन्नस्य तस्य भिक्षोस् तस्मिन्न् अवीचौ महानरके तेषां नारकानां सत्वानां सर्वदुःखवेदनाः शान्ताः । ते च नारकसत्वाः सर्वसुखसमर्पिता अभूवन् । ये च ते महान्त-आविचिका-अग्निस्कन्धास् ते ऽपि सर्वेण सर्वम् उपशान्ता इति । अथ ते यमपुरुषा विस्मयम् आपन्ना यमस्य धर्मराजस्येमं निश्चयं विस्तरेणारोचयति स्म ॥
अतिविस्मयम् इदं देव दृष्यते नरकसंकटे ।
प्रशान्ता दारुणा दुःखाः सत्वानां कर्मजाश् च ये ।
प्रशान्तास् ते ऽपि चाङ्गारा देहस्था देहिनाशया ॥
करपत्त्रा न बाधन्ते क्षुरधारा न सज्जते ।
अयःशाल्मलयो भग्नाः प्रशान्ता लोहकुम्भयः ॥
असिपत्त्रावने पत्त्रा न बाधन्ते कर्मजा पुनः ।
यमस् त्वं धर्मराजो ऽसि धर्मेण शासयसे प्रजाम् ॥
इदं तु कारणं नाल्पम् अस्माकं वक्तुम् अर्हसि ।
ततो ऽसौ धर्मराजा वै धर्मात्मा धर्मनिश्चयः ॥
करुणाशयनष्टानां वाक्यं श्रुत्वेदम् ईदृशम् ।
किम् एतत् कथ्यतां शीघ्रं कथं त्व् इति वचो ऽवदत् ॥
ततस् ते दुष्टसत्वानां यमभृत्या सुदारुणाः ।
यमस्य धर्मराजस्य इदं वचनम् अश्रूवन् ॥
अयं देव महासत्व उत्पन्नो नरकसंकटे ।
अवीचिर् यस्य नामेदं तेनासौ नरकसंकट उच्यते ॥
कर्माणं यस्य वैचित्र्यं सत्वा ये हि सुखीकृतम् ।
सुखिनो ह्य् एव सर्वत्र पुनर् यान्ति सुरालयम् ॥
यमो ऽपि धर्मराजा वै दृष्ट्वा वदति विस्मितः ।
महर्द्धिको ऽयं महच् चास्य शरीरं पूर्वो जन्मिकम् ॥
यथा धातुशतैर् वृन्दं स्तूपं शोभति शाश्वतम् ।
तथास्य शोभते कायः प्रतिसराबद्धकण्ठकः ॥
अथ ते नरकपाला यक्षा यमस्य धर्मराजस्य इदं वचनम् अब्रुवन् । कथम् इयं देव प्रतिसरेत्य् उच्यते । धर्मराज उवाच । प्रतिपत् स्मारयेद् यस् तु स न गच्छति दुर्गतिं सुगतिं गच्छते चासौ प्रतिसराभावभावितः । यूयं नरकपाला वै गच्छथ पुष्करावतीं । तद् रक्षथ महाकूटं देवतैः परिवारितम् । तं दृष्ट्वा सर्वसर्वसखेषु मैत्रचित्ता भविष्यथ । अथ ते यक्षा यमपुरुषा तस्याम् एव रात्र्यां पुष्करावतीं गताः ।
ते पश्यन्ति तदा तत्र राजधानीसमीपतः ।
तच् च कूटं समन्तेन एकद्वारासमाकुलम् ॥
मृतशरीरं पश्यन्ति प्रतिसराबद्धकण्ठकम् ।
देवा नागाश् च गन्धर्वा यक्षराक्षसकिन्नराः ॥
परिवार्य समन्तेन पूजां कुर्वन्त्य् अनुत्तराम् ।
यावत् तस्य च तैर् यक्षैः प्रतिसराकूटेति नाम स्थापितम् ॥
अथ ते यक्षा पुनर् आगत्य यमस्य धर्मराजस्येमं निश्चयं विस्तरेणारोचयति स्म । एवम् एतद् देव त्वयाभिहितं । समनन्तरोदिते तस्मिन् वचनपर्यवसाने महासत्वस् तं नारकं शरीरं विजह्य त्रायस्त्रिंशेषु देवेषूपपन्नः । तेन हेतुना प्रतिसरापूर्वीदेवपुत्र इत्य् उच्यते । तेन हि महाब्राह्मण परिज्ञातवती पूर्वतस् तस्माद् एवेयं महाप्रतिसरा धारयितव्या वाचयितव्या लिखितव्या यथाविधिना नित्यं शरीरगतां कृत्वा धारयितव्या । स नित्यं सर्वव्यसनदुःखेभ्यः परिमुच्यते । सर्वदुर्गतिभयभैरवेभ्य उत्तरति । न विद्युता शक्यं पातयितुम् । किम् इति विद्युता परिज्ञातम् ॥
पूर्वं महाब्राह्मण हिङ्गुमर्दने महानगरे विमलशङ्खो नाम श्रेष्ठी महाधनकनकसमृद्धः परिपूर्णकोशकोशागारसंपन्नो बभूव । स महासार्थवाह इति ख्यातवान् । अथ स महासार्थवाहो यानपात्रम् आसाद्य महासमुद्रम् अवतीर्णः । ( म्प्_16 ) यावत् तिमिङ्गिलैः सो ऽस्य पोतो ऽवस्तब्धः विनाशयितुकामा नागाश् च संक्षुब्धा महान्तगर्जना स्फोटं कुर्वन्ति । विद्युदुल्काम् उत्सृजन्ति वज्राशनिं प्रवर्षितुम् आरब्धाः । ततस् ते वणिजो महता दुःखेनाभ्याहतचित्तास् तं महान्तं नागसंक्षोभं विद्युदुल्कां वज्राशनिं चोत्सृजन्ति तैश् च तिमिङ्गिलैः पोतम् अवस्तब्धं दृष्ट्वा महान्तं उत्क्रोशनं शब्दं कर्तुम् आरब्धः । ते विशेषैर् नायाचयन्ति । ततस् ते सार्थवाहस्योपगम्य करुणम् इदं वचनम् अब्रुवन् । परित्रायस्व त्वं महासत्व मोचयास्मान् महाभयात् । अथ खलु महासार्थवाहो दृढचित्तो महामतिः वणिजो विक्लवीभूतान् इदं वचनम् अब्रुवत् । मा भैर् मा भैर् वणिजो भवन्तो वीरतां व्रजत । अहं वो मोचयिष्याम्य् अतो दुःखमहार्णवात् । तत वीरमानसो भूता वणिज इदं वचनम् अब्रुवन् । किम् एतत् तेन महासत्व ब्रूहि शीघ्रम् अविघ्नतः । यावद् जीवितम् अस्माकं त्वत् प्रभावाद् महामते कथ्यतां ज्ञानमहात्म्यं पश्चात् किं करिष्यसि ।
ततः सार्थपतिस् तेषाम् इमां विद्याम् उदाहरत् ।
अस्ति मम महाविद्या प्रतिसरा नाम विश्रुता ॥
मर्दनी सर्वबुद्धानां महाबलपराक्रमाः ।
तेनाहं मोचयिष्यामि अतो दुःखमहार्णवात् ॥
ततः महासार्थवाहस् तस्यां वेलायाम् इमां महाप्रतिसरां महाविद्याराज्ञीं लिखित्वा ध्वजाग्रावरोपितां करोति स्म । समनन्तरं ध्वजाग्रावरोपितायाम् अस्यां महाप्रतिसरायां महाविद्याराज्ञ्यां सर्व एव ते तिमिङ्गिलास् तं पोतम् एकज्वालीभूतं पश्यन्ति । ततस् ते नागा मैत्रमनसस् तेषाम् अन्तिके ऽवतीर्य पूजां कर्तुम् आरब्धाः । ते च तिमिङ्गिला अस्या महाप्रतिसराया महाविद्याराज्ञ्या अनुभावेन दह्यमानाः । प्रपलायित्वा विलपं गताः । सार्थिकास् तैर् महानागैर् महति महारत्नद्वीपे प्रापिता इति ॥
ज्ञातवतीयं महाविद्या महाप्रतिसरा सर्वतथागताधिष्ठिता तेन हेतुना महाब्राह्मण महाविद्येति ख्याता । तस्माद् अवश्यम् ( म्प्_17 ) एवेयं ध्वजाग्रावरोपितं कृत्वा धारयितव्या । सर्ववातशीताकालमेघविद्युदशनीं प्रशमयति । सर्वदेवमनुष्यामनुष्यविग्रहविवादेषु परिमोचयति । सर्वदंष्ट्रमशकशरभकप्राणकजाता विविधरूपाः ।सस्यविनाशका न प्रभवन्ति । प्रशमं गच्छन्ति । सर्वदुष्टचित्ता मृगपक्षिदंष्ट्रिणो विनश्यन्ति । सर्वाणि च पुष्पफलपत्त्रवनस्पत्योषधिसस्यादीन्य् अभिवर्धन्ते । अरसानि स्वादूनि मृदूनि च भविष्यन्ति । सम्यग् एव परिपाचितानि भविष्यन्ति । अतिवृष्ट्येनावृष्टिदोषाः सर्वेण सर्वं न भविष्यन्ति । कालवृष्टिर् भविष्यन्ति नाकालवृष्टिः । ये च तस्मिन् विषये महानागास् ते सम्यग् एव कालेन कालं वर्षधाराम् उत्सृजन्ति । यस्मिन् विषये इयं विद्याराज्ञी महाप्रतिसरा नाम प्रचरिष्यति । तत्र तैः सत्वैर् ज्ञात्वा पूजासत्कारं कृत्वा नानागन्धैर् नानापुष्पैर् नानावस्त्रैः परिवेषयित्वा चैत्यस्योपरि ध्वजाग्रावरोपयितां कृत्वा नानावाद्यतूर्यसंगीतिभिर् वाद्यमानाभिः प्रदक्षिणीकर्तव्या । ततस् तेषां महासत्वानां यथा चिञ्चितम् आशां परिपूरयिष्यन्ति । देवताः शक्रब्रह्मप्रभृतयः । अथवा यथायथाविधिना लिख्यते तथातथा समृध्यते । पुत्रार्थी लभते गर्भसंधारणी पराः सुखेन वर्धते गर्भः सुखेनैव प्रसूयते । कालेन वर्धते गर्भः कालेन परिमुच्यते । किम् इति महाब्राह्मण पूर्ववच् छ्रूयताम् ॥
इहैव मगधविषये राजा प्रसारितपाणिर् नाम स चापुत्रको ऽभूव । किम् इति प्रसारितपाणिर् इति ख्यातान् । तेन राज्ञा जातमात्रेण पाणिं प्रसार्य मातुः स्तनौ गृहीत्वा यावद् आप्तं क्षीरं पीतम् । तौ च स्तनौ सह स्पर्शमात्रेण सुवर्णवर्णौ संवृत्तौ । नित्यकालं च महता क्षीरेण प्रवर्धतः । तेन कारणेन तस्य राज्ञः प्रसारितपाणिर् इति नाम स्थापितम् । अन्यच् च तस्य राज्ञः याचनकजना आगच्छन्ति । तदा स राजा दक्षिणपाणिं प्रसारयत्य् उपर्य् अन्तरिक्षे बोधिसत्वः स राजा तेन हेतुना तस्य बुद्धाभिप्रसन्ना देवता दिव्यै रत्नविशेषैः सुवर्णमणिभिश् च पाणिं परिपूरयन्ति । तदा स राजा तेभ्यो याचनकजनेभ्यो ( म्प्_18 ) ऽनुप्रयच्छन्ति । यथा चिन्तमात्रेण सर्वयाचनकजनानां सर्वसुखसंपत्तिकामां ददाति । देवानां च महान्ति पूजासत्काराणि करोति पुत्रहेतोर् न च पुत्रं प्रतिलभते । स पौराणां तथागतचैत्यानां पुरतः पूजासत्कारं कर्तुम् आरब्धः । महान्ति च पूजासत्काराणि करोति दानानि च ददाति । उपवासम् उपवसति । महान्ति च पुण्यानि च करोति । अक्षिणान्य् एव दानानि ददाति । तत् कस्य हेतोर् भूतपूर्वं महाब्राह्मण अस्मिन्न् एव मगधविषये मल्ला नाम जनपदे कुशिनगरे महापट्टनवरे भगवतः प्रभूतरत्नस्य तथागतस्य शासने समुत्पन्नो धर्मचित्तकः कश्चिद् महासत्वो धर्ममतिर् नाम श्रेष्ठी प्रतिवसति । स सर्वसत्वानाम् अन्तिके महाकरुणाचित्तम् उपस्थाप्य इमाम् एव महाविद्यां महाप्रतिसराम् आरभ्य धर्मं देशयति स्म । अथ कश्चिद् एको दरिद्रपुरुषस् तं धर्मं श्रुत्वा तस्य श्रेष्ठिन इदं वचनम् अब्रुवत् । अहम् आर्यस्य निवेशने भृतिकर्मं करिष्यामि धर्मं च श्रोष्यामि । यदा मम किंचिद् भविष्यति तदाहं धर्मं पूजयिष्यामि । तस्य गृहव्यापारं कुर्वतो धर्मं च शृण्वतो यावद् अपरेण कालसमयेन श्रेष्ठिना एको दीनारो दत्तः । स तेन सर्वसत्वपरित्राणार्थं बोधिचित्तम् उत्पाद्य साधाऋअं कृत्वा महाप्रतिसरारत्नेति निर्यातिता । एवं प्रणिधानं कृतम् अनेन महाफलेन मम सर्वसत्वानां च दारिद्रदुःखसंच्छेदः स्यात् । अनेन कारणेन तद् दानं परीक्षयं न गच्छति । एवं बहुविधानेकविधपुण्याभिसंस्कारकृतो देवताश् च पूजिता यावद् बुद्धा भगवन्तः पूजितास् तदा च शुद्धावासकायिकाभिर् देवताभिः स्वप्ने दर्शनं दत्तम् । एवं चाभिहितं भो महाराज समन्तज्वालामालाविशुद्धिस्फूरितचिन्तामणिर् महामुद्राहृदयापराजिता महाधारणी महाविद्याराज्ञी महाप्रतिसरा नाम तं यथाविधिना कल्पेनाभिहितेन उपवासोषिताया अग्रमहिष्या देव्याः शरीरे बद्धा ततस् ते पुत्रप्रतिलम्भो भविष्यतीति । अथ स राजा प्रतिविशुद्धस् तस्याम् एव रात्र्याम् अत्ययेन संख्यालिपिनक्षत्रग्रहविपञ्चकान् कुलब्राह्मणान् संनिपात्य यथाविधिना ( म्प्_19 ) कल्पोपदिष्टेन पुष्ये नक्षत्रराजे प्रतिपन्ने सुस्नातगात्राया उपवासोषिताया अग्रमहिष्या देव्या यथाविधिना लिख्येमां महाप्रतिसरां महाविद्याराज्ञीं कण्ठे बद्धवान् । महतीं महाबुद्धचैत्येषु पूजाम् अकर्षीद् अनेकानि च रत्नविशेषाणि सत्वानां दानानि दत्तानि । ततो नवानां मासानाम् अभ्ययात् पुत्रो जातो ऽभिरूपः प्रासादिको दर्शनीयः । परमया शुभवर्णपुष्कलतया समन्वागत इति ॥
ततो ज्ञात्वा महाब्राह्मण सर्वकामंगमा अपराजिता महाप्रतिसरारत्नेति विश्रुता महाविद्याराज्ञी सर्वतथागतपुजिता शक्रस्यापीयं चूडामणिः सर्वथा ॥
यदा शक्रो देवानाम् इन्द्रो महासंग्रामम् असुरैः सार्धं कर्तुकामस् तदा इमां महाविद्यां कवचं कृत्वा संग्राममध्ये ऽवतीर्य चूडायाम् अवस्थाप्य सर्वासुरान् निर्जित्य सुखं स्वस्तिना क्षेमेण देवपुरं प्रविशति । सर्वासुरैर् अधृष्यो भविष्यति । एवं हि महाब्राह्मण प्रथमचित्तोत्पादम् उपादाय बोद्धिसत्वस्य महासत्वस्येमां महाप्रतिसरां महाविद्याराज्ञीं धारयतः सर्वमारैर् अनवमृद्यता भवति । यस्यैषा कण्ठगता भविष्यति स सर्वतथागताधिष्ठितो भविष्यति । सर्वबुद्धबोधिसत्वसंरक्षितो भविष्यति । सर्वदेवमनुष्यामनुष्यराजराजामात्यब्राह्मणगृहपतिभिश् च सततसमितं वन्दितः पूजितः संमानितो भविष्यति । सर्वदेवासुरगरुडकिन्नरमहोरगाभ्यर्चितः पूजितो भविष्यति । स महासत्व इत्य् उवाच । भगवान् मारबलप्रमर्दकः सर्वव्याधिविगतो भविष्यति । सर्वे ऽत्युपद्रवोपसर्गाश् चास्य प्रशाम्यन्ति । तस्य महासत्वस्य सर्वशोकविगमो भविष्यति । सर्वदेवताश् चास्य सततसमितं रक्षावरणगुप्तिं विधास्यन्ति । इमानि चानेन चत्वार्य् अपराजितामहाविद्यामन्त्रपदहृदयानि सततसमितं लिखित्वा कायकण्ठगतानि कृत्वा धारयितव्यानि । ससमितं च मनसि कर्तव्यानि । स्वाध्यातव्यानि भावयितव्यानि चाध्याशयेन सर्वदुःस्वप्नदुर्निमित्तामङ्गल्यभावा विनश्यन्ति । सर्वसुखसंपत्तयश् च प्रादुर्भविष्यन्ति । ( म्प्_20 ) अत्र मन्त्रपदाः सिद्धाः सर्वकर्मकराः श्रुताः ॥
तद्यथा । ओं अमृतवरे वर वर प्रवर विशुद्धे हूं हूं फट् फट् स्वाहा ॥
ओं अमृतविलोकिनि गर्भसंरक्षणि आकर्षणि हूं हूं फट् फट् स्वाहा ॥ अपराजिताहृदयम् ॥
ओं विमले विपुले जय वरे अमृते हूं हूं फट् फट् स्वाहा ॥
ओं भर भर संभर संभर इन्द्रियबलविशोधने हूं हूं फट् फट् स्वाहा ॥
ओं मणिधरि वज्रिणि महाप्रतिसरे हूं हूं फट् फट् स्वाहा ॥ उपहृदयविद्या ॥
अशेषैः सर्वबुद्धैर् बोधिसत्वैश् च श्रावकैर् एकस्वरसंनिपातेन एकस्वरनिर्घोषेण इमानि धारणीमन्त्रपदानि भाषितानि महाप्रतिसरामहाविद्याराज्ञीहृदयकवचान्य् एतानि मन्त्रपत्त्रपदानि सर्वतथागतधर्ममुद्रया मुद्रितानि । अतिदुल्लभम् अप्य् एषां श्रवणं किं पुनः लिखनपठनधारणवाचनपरदेशना बुद्धकृत्यम् एतद् इति ज्ञातव्या । इयं ह्य् अतीव सर्वपापक्षयंकरा । सर्वतथागतैः प्रशंसिता अनुमोदिता व्याकृता परमदुल्लभेयं महाधारणी अपराजिता महाप्रतिसरा नामधेयं श्रवणम् अपि परमदुल्लभम् । इयं सर्वपापक्षयंकरी । महाबलपराक्रमा महातेजा महाप्रभावा महागुणोद्भावनी सर्वमारकायिकदेवताविध्वंसनकरी । सर्ववासनानुसंधिसमुद्घाटनकरी । सर्वमारपाशसमुच्छेदनकरी परमन्त्रमुद्राविषकाखोर्दकिरणप्रयोगविद्वेषणाभिचारकानां च दुष्टचित्तानां विध्वंसनकरी । सर्वबुद्धबोधिसत्वार्यगणवरपूजिताभिरतानां परिपालनकरी । महायानोद्ग्रहणलिखनवाचनपठनस्वाध्यायनश्रवणधारणाभियुक्तानां परिपालिकेयं महाधारणी यावद् बुद्धबोधिपरिपूरयित्रीयं महाब्राह्मण महाप्रतिसरा महाविद्याराज्ञी न क्वचित् प्रतिजन्यते सर्वत्र महापूजां प्राप्नोति यथाहं शास्ता जितविषयः । किम् इति पूर्वं परिज्ञातवतीयं ( म्प्_21 ) महाब्रह्मण महाविद्याराज्ञी सर्वविघ्नविनायकानां विधवंसयित्री ॥
यदा च भगवान् विपुलप्रहसितवदनमणिकनकरत्नज्वलरश्मिप्रभासाभ्युद्गतराजस् तथागतो ऽर्हन् सम्यक्संबुद्धो येन बोधिमण्डलस् तेनोपसंक्रान्त उपसंक्रम्य सर्वबुद्धप्रशस्तं धर्मचक्रं प्रवर्तयितुकामस् तदा तस्य भगवतः सर्वमारैः सपरिवारैर् अनेकमारकोटीनियुतशतसहस्रपरिवृतैर् नानारूपविरूपभयभैरवशब्दाकुलैर् बहुविविधमारविषयविकुर्वणाधिष्ठानाधिष्ठितैर् नानाप्रहरणवृष्टीभिर् अभिनिर्मायागत्य चतुर्दिशं परिवार्यान्तरायः कर्तुम् आरब्धः । ततः स भगवान् विपुलप्रहसितवदनमणिकनकरत्नज्वलरश्मिप्रभासाभ्युद्गतराजो मुहूर्तं तूष्णीम् आस्थाय इमां महाप्रतिसरां महाविद्याराज्ञीं मनसा सप्तकृत्वः प्रवर्तयामास । समनन्तरं प्रवर्तयितायाम् अस्यां महाप्रतिसरायां महाविद्याराज्ञ्यां तत्क्षणाद् एव सर्वे ते माराः पापीयांसो ददृशुर् भगवत एकैकस्माद् रोमकूपविवराद् अनेककोटीनियुतशतसहस्राणि पुरुषाणां संनद्धकवचानां ज्वलितखङ्गपरशुपाशमुद्गरासिमुसरत्रिशूरहस्तानाम् एवं वाचं प्रव्याहरमाणानि गच्छन्ति । गृह्णत 2 बन्धत 2 दुष्टमारान् विध्वंसय दुष्टचित्तान् विचूर्णय जीवितं सर्वदुष्टग्रहविघ्नविनायकानां ये भगवतो विहेठनं कुर्वन्ति । ततस् ते सर्वदुष्टमारामैत्रीखङ्गेणाभिनिर्जितां कृत्वा केचिच् छिक्षापदानि ग्राहिता । केचिद् यावद् अनुत्तरायां सम्यक्संबोधौ व्याकृतास् तत्र महानुभावाः । अन्ये पुनस् तान् तथागतरोमविवरविनिर्गतान् महापुरुषान् दृष्ट्वा तस्मिन् नगरे विह्वलीभूता ऋद्धिपरिहीणा नष्टप्रतिभानबलपराक्रमा विध्वस्ताः । समस्ताः समन्तात् प्रपलीना इति । ततो भगवता धर्मचक्रं प्रतिवर्तितम् । यथान्यैर् बुद्धैर् इति । सर्वविघ्नविनायकान् मारांश् च पापीयांसो विध्वंसयित्वोत्तीर्णः पारंगत इति । एवं हि महाब्राह्मण महाबलवेगर्द्धिपारमिताप्राप्तेयं महाप्रतिसरा महाविद्याराज्ञी स्मरणमात्रेण सर्वव्यसनभयभैरवेभ्यः ( म्प्_22 ) परिमोचयति । आशयपरिविशुद्धानां सत्वानां नान्येषां दुष्टचेतसाम् । तस्मात् तर्हि महाब्राह्मण नित्यम् एवानुस्मरणमात्रेण मनसि कर्तव्या । सर्वकालं च लिखित्वा कायकण्ठगतां कृत्वा धारयितव्या । किम् इति पूर्ववच् छ्रूयताम् ॥
उज्जयन्यां महानगर्यां राज्ञो ब्रह्मदत्तस्य विहिते केनचित् पुरुषेणापराधः कृतः । स राज्ञा ब्रह्मदत्तेन वधकपुरुषेभ्य आज्ञप्तः । भवतो गच्छतैनं पुरुषं जीविताद् व्यपरोपयतेति । अथ ते वधपुरुषास् तं राज्ञाज्ञप्तं पुरुषं गृहीत्वा पर्वतविवरं नीत्वा असिकोशान् निष्कास्य तं पुरुषं जीविताद् व्यपरोपयितुम् आरब्धः । तदा स पुरुष इमां महाप्रतिसरां महाविद्याराज्ञीं मनसा स्मृतवान् लिखितां च दक्षिणे बाहौ बद्ध्वा धारयति स्म । तस्य महासत्वस्यास्या महाविद्यायाः प्रभावेनासिर् एकज्वालीभूता खण्डखण्डं यथा पांशुमयो विकीर्ण इति । ततस् ते वधकपुरुषा इमम् एवं निश्चयं राजं विस्तरेणारोचयामासुः । ततो राजा प्रकुपितश् चण्डीभूतः कथयति । गच्छत भो पुरुषा अन्यतरस्मिन् प्रदेशे यक्षगुहास्ति । तत्र बहूनि यक्षशतसहस्राणि प्रतिवसन्ति पिशिताशीनि । तत्र नीत्वा छोरयत । ततः स पुरुषो वधकपुरुषैस् तस्यां यक्षगुहायां छोरितः । समनन्तर छोरिते तस्मिन् यक्षगुहायां ततस् ते यक्षाः सर्वे तुष्टमनसो हृष्टचित्ताश् च प्रधाविता मानुषं भक्षयिष्याम इति । ते पश्यन्ति अस्या महाप्रतिसराया महाविद्याराज्ञ्या अनुभावेन तं पुरुषम् एकज्वलीभूतं देदीप्यमानं विग्रहं दृष्ट्वा च सर्व एव ते यक्षा संत्रस्ता दह्यमानं स्वशरीरं पश्यन्ति । अथ ते यक्षा विस्मयं समापन्नास् तं पुरुषं गृहीत्वा बहिर्द्वारे ऽवस्थाप्य प्रदक्षिणीकर्तुम् आरब्धाः । यावत् तैर् वधकपुरुषै राज्ञे निश्चयो ऽयं विस्तरेणारोइतः । ततो भूयो राजा प्रकुपितश् चण्डीभूतः कथयति । यद् एव भवन्तो गच्छतैनं पुरुषं बद्ध्वा नद्यां प्रक्षिपत । ततः स पुरुषो वधकपुरुषैर् बद्ध्वा नद्याम् प्रक्षिप्तः । समनन्तरं प्रक्षिप्ते तस्मिन् महापुरुषे सा नदी निरुदकी भूता यथ स ( म्प्_23 ) पुरुषः स्थलगत एव तिष्ठति । तानि च बन्धनानि खण्डखण्डं विचूर्णितानि । राजा श्रुत्वा ततो राजा विस्मितोत्फुल्लवदनः कथयति । अहो विस्मयम् इदं पुरुषस्य दृश्यते । किम् अत्र कारणं स्याद् इति मे वितर्कः । अथ स राजा तं पुरुषम् आहूयैनम् आह । किं त्वं भोः पुरुष जानासि । स पुरुष उवाच । नाहं महाराज किंचिद् अपि जानामि । अन्यत्र महाप्रतिसरां महाविद्याराज्ञीं धारयामि । अस्या एष देव महाप्रभावः । राजा आह । अहो आश्चर्यम् इदं महत् । महाविद्या सुभाषिता । मोहनी मृत्युदण्डस्य सर्वबुद्धैर् अधिष्ठिता । तारणी सर्वसत्वानां सर्वदुःखप्रमोचनी । महाविद्या महातेजा अकालमृत्युमोचनी । भाषिता कारुणिकैर् नाथैर् महारोगनिवारिणी । ततो राज्ञा प्रहृष्टमानसेन महाप्रतिसरा महाविद्याराज्ञी पूजिता मानिताभिनन्दिता । तस्य पुरुषस्य पोट्टबन्धं कृत्वा स्वस्य जनपदस्य पुरस्तान् नगरज्येष्ठतायाम् अभिषेको दत्तः । एवं हि महाब्राह्मण इयं महाप्रतिसरा महाविद्याराज्ञी सर्वत्र महतीपूजां लभते । अनभिक्रमणीया सर्वदुष्टचित्तैः सर्वैः पूजनीया । एवं हि महाब्राह्मण पूर्वम् इयं महाप्रतिसरा महाविद्याराज्ञी न क्वचित् प्रतिहन्यते । तस्माद् अवश्यम् इयं महाविद्याराज्ञी कायकण्ठगतां कृत्वा धारयितव्या । अपि तु महाब्राह्मण मनुक्षेत्रेणेयं महाविद्याराज्ञी सुप्रशस्तेन विधानेन लिखितव्या ॥
अथ स महाब्राह्मणो ऽतीव प्रहृष्टमनसा भगवन्तं पञ्चमण्डलकेनाभिप्रणम्य प्रष्टुम् आरब्धः । कीदृशेन भदन्त भगवन् विधानेनेयं महाप्रतिसरा महाविद्याराज्ञी लिखितव्या ॥
भगवान् आह ।
शृणु महाब्राह्मण त्वाम् अहं वक्ष्ये सर्वसत्वानुकंपया ।
येन सत्वाः सुखिनो भोन्तु मुच्यतै कर्मसंकटात् ॥
व्याधितानां च मोक्षार्थं स्त्रीणां गर्भसमुद्भवम् ।
भविष्यति च सत्वानां दारिद्र्यवरणरोहणम् ॥
उपवासोषितो भूत्वा नक्षत्रे पुष्यसंमते ।
बुद्धपूजापरो भूत्वा चित्तम् उत्पाच्य बोधये ॥
करुणाम्रेडितचित्तेन मैत्र्या चापि समन्वितः ।
हिताधानपरश् चापि सर्वसत्वेषु नित्यशः ॥
स्नात्वा चन्दनकर्पूरैः कस्तूरीसलिलेन च ।
शुचिवस्त्राणि प्रावृत्य धूपितानि च धूपनैः ॥
ततो मण्डलकं कृत्वा शृङ्गोमयसमन्वितम् ।
पञ्चरङ्गिकचूर्णेन चित्रय मण्डलं शुभम् ॥
पूर्णकुम्भाश् च चतुरः पञ्चमं मध्यमण्डले ।
पुष्पधूपाश् च गन्धाश् च दातव्यात्र महारिहा ॥
धूपनं चन्दनं चैव स्पृक्कागुरु तथैव च ।
पञ्चशर्करा रुक्मा च दातव्यात्र विधानतः ॥
नानाविधानि पुष्पाणि यथाकालं यथाविधिः ।
सर्वपुष्पफलैर् बीजैर् गन्धैश् चापि सुमण्डितान् ॥
घृतमाक्षिकदुग्धैश् च पावकैः पयसादिभिः ।
पूरयेद् बलिकुम्भाश् च लक्षणाद् यान् सुमङ्गलान् ॥
स्थापयेच् चतुरो दिक्षु पञ्चमं मध्यमण्डले ।
स्थापनीयाः शरावांश् च कोणेषु गन्धपूरिताः ॥
चत्वारः कीलकाश् चापि खादिरा दृढवेशिताः ।
पञ्चरङ्गिकसूत्रेण वेशयित्वा विचक्षणाः ।
समभागेन स्थाप्येतां निपत्यान् मण्डलाद् बहिः ।
एवं कृते लिखेद् विप्र यद् इच्छेत् सिद्धिम् आत्मनः ॥
शुक्लभोजनभुक्तेन लिखितव्यं सुखैषिणा ।
पट्टे वा वस्त्रभूर्जे वान्यत्र वा यत्र कुत्रचित् ॥
लिखेत् स्त्रीषु च पुत्रार्थी सम्यग्गोरोचनेन वै ।
मध्ये च दारकं कुर्यात् सर्वालंकारभूषितम् ॥
रत्नपूर्णं तथा पात्रं वामहस्तेन धारयेत् ।
कार्ये पद्मे निषण्णो सौप्रफुल्लितविभूषिते ॥
मणिहारसुवर्णं च नानारत्नविशेषतः ।
प्रवर्षश् चापि कर्तव्याश् चतुः कोणेषु पर्वताः ॥
एवं लिखेत् प्रयत्नेन यद् इच्छेद् जीवितं सुखम् ।
कुङ्कुमेन लिखेत् प्राज्ञः पुरुषाणां विशेषतः ॥
तस्येप्सितानि कार्याणि सिध्यन्ते नात्र संशयः ।
नानारूपाश् च कर्तव्या मुद्राचिह्नश् च पद्मिनी ॥
द्वे पद्मे अथवा त्रीणि चत्वारि पञ्च वा लिखेत् ।
पद्मानां च तथा कुर्यात् केशराणि समन्ततः ॥
सुपुष्पितं पद्मं कुर्वीत सदण्डं पट्टबद्धकम् ।
त्रिशूलं पद्मे कुर्वीताथ कोणं पट्टबद्धकम् ॥
पर्शुं कुर्यात् तथा पद्मे अथ पत्रे समन्ततः ।
सखङ्गं पद्मं कुर्वीत तत् पद्मं शितम् एव च ॥
शङ्खं पद्मे तथा कुर्यात् सर्वत्र विधिविस्तरम् ।
सर्वत्र विधिचिह्नानि कारयेत् सुविचक्षणः ॥
वर्जयेद् बालरूपाणि यत्र चित्तं प्रदुष्यति ।
देवरूपाश् च कर्तव्या नानालंकारभूषिता ॥
भिक्षुं वज्रधरं कुर्याद् दुष्टतर्जनं तत् परम् ।
चतुरश् च महाराजांश् चतुः पार्श्वेषु संलिखेत् ॥
ब्राह्मणेष्व् ईश्वरो लेख्यः क्षत्रियेषु महेश्वरः ।
शूद्रेषु च सदा सौम्यं चक्रस्वामिनम् आलिखेत् ॥
वैश्येषु च वैश्रमणम् इन्द्रश् चैव सुरेश्वरः ।
दारकेभ्यः सदा लेख्यः प्रजापतिर् महामतिः ॥
स्यामवर्णा भवेद् यातु रौद्रं तस्या समालिखेत् ।
गौराया रूपसंपन्नो लिखेन् नित्यं यशस्विनः ॥
स्थूलाया माणिभद्रश् च लिखितव्यं प्रयत्नतः ।
कृषायाः पूर्णभद्रस् तु मया ह्य् उक्तं स्वयंभुवा ॥
गुल्विण्याश् च महाकालो लिखेच् च ब्रह्मदेवतान् ।
अन्याश् चापि यथापूर्वं विभिनोक्तं समालिखेत् ॥
लिखित्वैव प्रयत्नेन विधिदृष्टेन कर्मणा ।
धारयेत् सततं कण्ठे भद्रं तस्य भविष्यति ॥
द्वाराग्रे चिन्तामणिं कुर्याद् ध्वजाग्रे पद्मसंस्थितम् ।
पद्मस्य केशरे पाशं चक्रं चापि तथापरम् ॥
वज्रं पद्मे तथा लिख्यं मुद्गलं पद्मसंस्थितम् ।
शक्तिं लिखेत् तथा पद्मे यथाविधिषु दृष्यते ॥
द्वाराग्रमणयः सर्वे विस्फुलिङ्गाः समाकुलाः ।
पट्टबद्धाश् च कर्तव्या यथाविधिषु कीर्तिताः ॥
नागाश् च फलिनः कार्यामणिद्वारा नवशीर्षकाः ।
ते ऽपि सर्वे प्रयत्नेन हृदि वज्रप्रस्थिताः ॥
पार्थिवानां बलं नित्यं सार्थवाहं लिखेद् बुधः ।
विद्याधराणां सर्वेषां दिव्यादेवीं समालिखेत् ॥
चन्द्रसूर्यौ हि नक्षत्रौ राहुकेतुग्रहाष्टकम् ।
लिखेच् च खण्डां पाण्डानां पुत्रलाभो भविष्यति ॥
निश्चयाद् विधिना लिख्य शास्त्रदृष्टेन कर्मणा ।
तस्मात् सर्वप्रयत्नेन धारयेत् मतिमान् नरः ॥
सर्वसिद्धिकरं ह्य् एतद् मङ्गल्यं पापनाशनम् ।
प्राप्नोति परमं स्थानं स्वयंभू वचनं यथा ॥
लोके ऽस्मिन् परमं सौख्यं परलोके परं सुखम् ।
त्रयस्त्रिंशद्भवनादौ स्थानं तस्य सुरालये ॥
जम्बुद्वीपे शुभे रम्ये विद्यासौख्यं च नित्यशः ।
सर्वबुद्धैर् न शक्यं हि पुण्यस्कन्धप्रकीर्तिताम् ॥
यत् पुण्यं समवाप्नोति प्रतिसराधारको नरः ।
नरकद्वारा पिथिताः स्वर्गद्वारा अपावृताः ॥
सुखं संपत्तिसंपन्नो भविष्यति महामतिः ।
बुद्धाश् च बोधिसत्वाश् च आश्वासयन्ति नित्यशः ॥
कायेन सुखसंपन्नो बलेन महता भवेत् ।
यथा तथैव जितेन्द्रोक्तं चक्रवर्ती भविष्यति ॥
आश्वासनं नृदेवानां त्रासनं दुष्टचेतसाम् ।
भविष्यति चिरेणासौ यस्य विद्या सुभाषिता ॥
नासौ हन्यति शस्त्रेण न विषेण नाग्निना ।
नाकालमरणं चास्य दूरे गच्छन्ति पापकाः ॥
दर्शनात् स्पर्शनाच् चैव श्रवणाद् एव सर्वतः ।
भूतग्रहविवादाश् च उदकाग्निभयं तथा ॥
मृगाव्याडाहयानागाव्याधयश् च सुदारुणाः ।
ते सर्वे न भविष्यन्ति येषां विद्या सुभाषिता ॥
सर्वथा सर्वमारैस् तु शृणु वक्षामि तत्वतः ।
पूजनीया भविष्यन्ति सर्वसत्वोत्तमा हितेति ॥
आर्यमहाविद्याराज्ञो महाप्रतिसरायाः प्रथमकल्पः समाप्तः ॥
अथातो विद्यावरस्य रक्षाविधानकल्पं व्याख्यास्यामि सर्वसत्वानुकम्पकया ।
जनरक्षाविधानेन महासिद्धिर् भविष्यति ।
यत्र यत्र कृता रक्षा भवत्य् अबद्धो न संशयः ॥
निर्भयं निर्ज्वलं चैव सर्वग्रहनिवारणम् ।
सुनक्षत्रानुकूलं च कर्मसङ्कलच्छेदनम् ॥
दुर्भुक्तं दुल्लङ्घितं चैव सर्वशत्रुगणैः कृतम् ।
दुष्प्रेक्षितं दुल्लिखितं काखोर्दा ये च दारुणाः ॥
चूर्णमन्त्रकृतं चैव विषभुक्तं तथा गरम् ।
सर्वे तस्य प्रशाम्यन्ति रक्षां धावयते तु यः ॥
प्रत्यङ्गिरा विपच्यन्ते यो विद्यां समतिक्रमेत् ।
परचक्रदारुणा ये ऽपि प्रत्यमित्रा महाभयाः ॥
सर्वे ते प्रलपं यान्ति प्रतिसरा सापतर्जिताः ।
बुद्धा रक्षन्ति सर्वज्ञा बोधिसत्वाश् च पूरताः ॥
रक्षन्ति प्रत्येकबुद्धाः श्रावकाश् च महाभयाः ।
अन्ये च बहुविधा भूयो देवा नागा महार्द्धिकाः ॥
रक्षां कुर्वन्ति तस्येमे चास्मिन् युक्तस्य नित्यशः ।
अस्याः श्रवणमात्रेण विद्याराज्ञा नरोत्तमाः ॥
निर्भयो भवति सर्वत्र इत्य् एवं मुनिर् अब्रवीत् ।
दुःस्वप्ना दुष्कृता ये च उपसर्गा ये च दारुणा ॥
व्याधिस्पृष्टा महारोगा ये ग्रस्ता राजजन्मना ।
अन्ये च बहुविधा रोगा गण्डलूताविचर्चिकाः ॥
इतयो दारुणा ये च ग्रसन्ते मानुषीं प्रजाम् ।
मनुष्याणां विनाशार्थं हिंसकाश् च सुदारुणाः ॥
सर्वे ते प्रलपं यान्ति रक्षा यत्र महाबलाः ।
अनया कृतरक्षस् तु वध्यप्राप्तो मुच्यते ॥
यदि ग्रस्तकालपाशेन नीतश् चापि यमालयम् ।
आयुस् तस्य विवर्धेत प्रतिसरालिखनाद् अपि ॥
परिक्षीणायुषो यस् तु सप्ताहमृत एव च ।
यावल् लिखितमात्रेण स जीवति न संशयः ॥
अथ श्रवणमात्रेण कृतरक्षा विधानतः ।
स्वस्ति प्राप्नोति सर्वत्र सुखं जीवति चेप्सया ॥
अष्टषष्ठिसहस्राणि कोटीनियुतशतानि च ।
त्रायस्त्रिंशाश् च ये देवा सर्वे शक्रपुरोगमाः ॥
रक्षार्थं तस्य सत्वस्य पृष्ठतः समुपस्थितः ।
चत्वारो लोकपालाश् च वज्रपाणिर् महाबलः ॥
विद्या कुलशतैः सार्धं रक्षां कुर्वन्ति नित्यशः ।
सोमः सुमताः सूर्यश् च ब्रह्मा विष्णुर् महेश्वराः ॥
यमश् च माणिभद्रश् च बलदेवो महाबलः ।
पूर्णभद्रो महावीरो हारीती च सपुत्रिका ॥
पाञ्चालः पाञ्चिकश् चैव कार्तिकेयो गणेश्वरः ।
श्रीर् अपि च महादेवी वैश्रमणः सरस्वती ॥
शङ्खिनी कूटदन्ती च तथैकजटापि च ।
धन्या एता महाभागा रक्षां कुर्वन्ति नित्यशः ॥
षण्ढानां पुत्रजननी गर्भस्थानविवर्धनी ।
रक्षेयं महती चास्य यावद् जीवं भविष्यति ॥
नराणां जयदा नित्यं युद्धे संग्रामभैरवे ।
अनया वरदा भोन्ति देवता धर्मनिश्चिता ॥
अथ पापविनाशे तु लिखनाद् एव सेत्स्यति ।
तथागता विलोक्यन्ति बोधिसत्वास् तथैव च ॥
यशश् च वर्धते तस्य पुण्यम् आयुश् च वर्धते ।
धनधान्यं समृद्धिश् च भविष्यति न संशयः ॥
सुखं स्वपिति मेधावी सुखं च प्रतिबुध्यते ।
अधृष्यः सर्वशत्रूणां सर्वभूतगणैर् अपि ॥
संग्रामे वर्तमानस्य जयो भवति नित्यशः ।
विद्यायां साध्यमानायाम् इयं रक्षा अनुत्तरा ॥
सुखं साधयते विद्यां विघ्नो ऽस्य न भविष्यति ।
सिध्यन्ति सर्वकल्पाश् च प्रविष्टः सर्वमण्डले ॥
क्षिप्रं च समयज्ञो ऽसौ भवेत् सर्वत्र जातिषु ।
वैस्वासिकश् च स भवेज् जिनानां गुणधारणैः ॥
सर्वमङ्गलसंपन्नः सर्वसिद्धिर् मनोरथः ।
अस्यां लिखितमात्रायां सर्वसौख्यं समृध्यति ॥
सुखं कालक्रियां कृत्वा भवेत् स्वर्गपरायणः ।
विवादे कलहे चैव विग्रहे परमदारुणे ॥
सर्वभयविनिर्मुक्तो जिनोक्तवचनं यथा ।
नित्यं जातिस्मरा भोन्ति जातौ न संशयः ॥
राजानो वशगास् तस्य चान्तःपुरमहाजनाः ।
सामात्यश् च भवेन् नित्यं साधुभिर् लोकसमतैः ॥
सर्वेषां च प्रियो भोन्ति ये देवा ये च मानुषाः ।
रक्षां तस्य करिष्यन्ति दिवा रात्रौ च नित्यशः ॥
अत्र मन्त्रपदाः सिद्धाः सम्यक्संबुद्धभाषिताः ।
नमो बुद्धाय । नमो धर्माय । नमः संघाय ॥
नमो भगवते शाक्यमुनये महाकारुणिकाय तथागतायार्हते सम्यक्संबुद्धाय ।
नमः समन्तेभ्यः सम्यक्संबुद्धेभ्यः ॥
भावनैतां नमस्कृत्य बुद्धशासनवृद्धये ।
अहम् इदानीं प्रवक्षामि सत्वानुकंपया ॥
इमां विद्यां महातेजां महाबलपराक्रमाम् ।
यस्यां भाषितमात्रायां मुनिना वज्रपाशने ॥
माराश् च मारकायाश् च ग्रहाः सर्वे विनायकाः ।
विघ्नाश् च सन्ति ये केचित् तत्क्षणाद् विलपं गताः ॥
तद्यथा । ओं गिरि 2 गिरिणि 2 गिरिवति गुणवति आकाशवति । आकाशविशुद्धे । आकाशे । गगणतले । आकाशविचारिणि । ज्वलितशिखरे । ( म्प्_30 ) मणिमौक्तिखचितमौलिवरे सुकेशे । सुवेशे । सुवक्त्रे सुनेत्रे । सुवर्णे सुवर्णगौरे । अतीते । अनागते । प्रत्युत्पन्ने । नमः सर्वेषां बुद्धानां ज्वलिततेजसाम् । बुद्धे सुबुद्धे । भगवति सुरक्षणि । सुक्षेमे सुप्रभे । सुदमे सुदान्ते । वरे वरदे । भगवति भद्रवति । भद्रे सुभद्रे । विमले जयभद्रे । चण्डे प्रचण्डे । चण्डि 2 वज्रचण्डे घोरि गन्धारि गौरि चण्डालि मातङ्गि वर्चसि । सुमति । पुक्कसि । शवरि शावरि । शंकरि द्रमिडि द्रामिडि रौद्रिणि । सर्वार्थसाधनि ।
हन 2 सर्वशत्रून् । दह 2 सर्वदुष्टान् प्रेतपिशाचडाकिनीनां मनुष्यामनुष्याणां च । पच 2 हृदयं विध्वंसय जीवितं सर्वदुष्टग्रहाणां नाशय सर्वपापानि मे भगवति । रक्ष 2 मां सपरिवारं सर्वसत्वांश् च सर्वत्र सर्वदा सर्वभयोपद्रवेभ्यः सर्वदुष्टानां बन्धनं कुरु 2 सर्वकिल्बिषनाशनि । मार्तण्डे मृत्युदण्डनिवारिणि मानिनि । चले विचले । चिटि 2 विटि 2 निटि नितुटे । घोरिणि वीरिणि । प्रवरसवरे । चण्डालि । मातङ्गि । रुन्धसि । वर्चसि । सुमति पुक्कसि । शवरि शावरि । शंकरि द्रमिडि द्रामिडि । दहनि । पचनि पाचनि । मर्दनि । सरले 2 सरलंभे । हीनमध्योत्कृष्टविदारिणि । महिले 2 महामहिले । निगडे 2 निगडभञ्जे । मत्ते । मट्टिनि । दान्ते । चक्रे चक्रवाकिनि । ज्वले 2 ज्वालिनि । शवरि शावरि सर्वव्याधिहरणि । चूडि 2 चूडिनि 2 महाचूडिनि । निमि 2 निमिन्धरि । त्रिलोकदहनि । त्रिलोकालोककरि । त्रैधातुकव्यवलोकनि । वज्रपरशुपाशमुङ्गरासिचक्रत्रिशूलचिन्तामणिमहाविद्याधारिणि । रक्ष 2 मां सर्वस्थानगतं सर्वदुष्टभयेभ्यः सर्वमनुष्यामनुष्यभयेभ्यः सर्वभयेभ्यः सर्वव्याधिभ्यः । वज्रे वज्रवति वज्रपाणिधरे । हिलि 2 मिलि 2 किलि 2 चिलि 2 सिलि 2 वर 2 वरदे ।
सर्वत्र जयलब्धे स्वाहा । सर्वपापविदारिणि स्वाहा । सर्वव्याधिहरिणि स्वाहा । संभरणि स्वाह । सर्वशत्रुभयहरिणि स्वाहा । स्वस्तिर् भवतु मम सर्वसत्वानां च स्वाहा । शान्तिंकरि स्वाहा । पुष्टिंकरि स्वाहा । बलवर्धनि स्वाहा । ओं जयतु जये ( म्प्_31 ) जयवति कमले विमले स्वाहा । विपुले स्वाहा । सर्वतथागतमूर्ते स्वाहा । ओं भूरि महाशान्ति स्वाहा । ओं भूरि 2 वज्रवति सर्वतथागतहृदयपूरणि आयुःसंधारणि । बल 2 बलवति जय विद्ये हूं हूं फट् फट् स्वाहा । ओं मणिधरि वज्रिणि । महाप्रतिसरे हूं हूं फट् फट् स्वाहा ॥
यस्य कस्यचित् महाब्राह्मण अनया तथागतमूर्त्या विद्यामन्त्रपदधारिण्या रक्षा कृता गुप्तिः परित्राणं परिग्रहं परिपालनं शान्तिः स्वस्त्ययनं दण्डपरिहारः शस्त्रपरिहारो विषदूषणं विषनाशनं कृतो भवेत् ।
तस्य परीक्षीणाम् आयुः पुनर् एव विवर्धते ।
सुचिरं सुखं जीवति स्मृतिसंपन्नश् च भवति ॥
उच्चारणमात्रेण वज्रावमर्जनेन वा अकालमरणात् महाव्याधिभ्यश् च परिमुच्यते । सर्वरोगाश् चास्य प्रशाम्यन्ति । दीर्घम्लानान्य् अवमार्जनमात्रेण प्रशमं गच्छन्ति । दिने दिने स्वाध्यायं कुर्यान् महाप्राज्ञो भवति । ओजोबलवीर्यप्रतिभानसंपन्नो भवति । सर्वकर्मावरणानि चास्य नियतवेदनीयानि निरवशेयं परिक्षयं गच्छन्ति । सर्वबुद्धबोधिसत्वदेवनागयक्षादीनि चास्य ओजोबलवीर्यं काये प्रक्षेप्स्यन्ति । महाप्रीतिर् बहुलो भविष्यति । अन्तशो महाब्राह्मण इयं महाविद्यामन्त्रपदरक्षा तिर्यग्योनिगतानाम् अपि मृगपक्षिणां येषां कर्णपुटे विपतिते सर्वे वैवर्त्तिका भविष्यन्त्य् अनुत्तरायां सम्यक्संबोधौ । कः पुनर् वादो य इमां महाप्रतिसरां धारणीं श्राद्धः कुलपुत्रो वा कुलदुहिता वा भिक्षुर् वा भिक्षुणी वा उपासको वा उपासिका वा राजा वा राजपुत्रो वा राजामात्यो वा ब्राह्मणो वा क्षत्रियो वा तद् अन्यो वा यः कश्चिच् छ्रोक्षति श्रुत्वा च महत्या श्रद्धया गौरवेणाध्याशयेन लिखिष्यति लिखापयिष्यति धारयिष्यति वाचयिष्यति । तीव्रेण मनसा भावयिष्यति । परेभ्यश् च विस्तरेण संप्रकाशयिष्यति । तस्य महाब्राह्मणाष्टौ अकालमरणानि प्रतिकांक्षितव्यानि न प्रभवन्ति । न चास्य काये महाव्याधयो भविष्यन्ति । नाग्निर् न विषं न शस्त्रं न गरं ( म्प्_32 ) न काखोर्दा न किरणा न मन्त्रकर्मणं न चूर्णयोगो नाङ्गशूलं न शिरोवर्ति एकाहिकं द्वैतीयकं चातुर्थकं सप्ताहिका वा ज्वाला न क्रमिष्यन्ति । स स्मृत एव सुखं स्वस्तिना स्वपिति । स्मृत एव विबुध्यते । महापरिनिर्वाणलाभी भविष्यति । सकृत्सहधर्मेण महद् ऐश्वर्यं चाधिगच्छन्ति । स यत्रयत्रोपपद्यते तत्रतत्र जातौ जातौ जातिस्मरो भविष्यति । सर्वसत्वानां च प्रियो भविष्यति । वन्दनीयश् च पुद्गलो भविष्यति । सर्वनरकगतितिर्यग्योनिगतिगणप्रेतोपपत्तिभ्यश् च परिमुक्तो भविष्यति । यथा चार्कमण्डलं सर्वसत्वानां तथा रश्म्यावभासकरो भविष्यति । यथा चन्द्रमण्डलम् अमृतेन प्रभवता सर्वसत्वानां कायं प्रह्रदयति तथा धर्मामृतेन सर्वसत्वानां चित्तसन्तानानि प्रह्रदयिष्यति । सर्वदुष्टयक्षराक्षसभूतप्रेतपिशाचोन्मादापस्मारडाकिनीग्रहविघ्नविनाशकादयः सर्वे ऽस्य महाप्रतिसराया महाविद्यायाः प्रभावेन न शक्ता विहेठनां कर्तुम् । उपसंक्रामतां च तेषाम् इयं महाविद्याराज्ञी स्मर्तव्या । ततस् ते सर्वे दुष्टचित्ता विद्याधरस्य वश्या आज्ञया श्रवणविधेया भविष्यन्ति । अस्या एवानुभावेन यद् उत महाप्रतिसराया महाविद्याराज्ञो न चास्य शत्रुभयं भविष्यति । अनतिक्रमनीयश् च भविष्यति । सर्वशत्रुगणै राजमहाराजामात्यब्राह्मणगृहपतिभिश् च । अन्तशो वध्यार्हो ऽपि वधकपुरुषैर् उच्छ्रितान्य् अपि शस्त्राणि खण्डं खण्डं गच्छन्ति पांशुमयानीव विशीर्यस् ततश् च समये सर्वधर्मा अस्याभिमुखी भविष्यन्ति । महच् चास्य स्मृतिबलं भविष्यन्ति ।
रक्षोघ्नं परमं ह्य् एतत् पवित्रं पापनाशनम् ।
श्रीकरं धीकरं चैव सर्वगुणविवर्धनम् ॥
सर्वमङ्गलकरी ह्य् एषां सर्वामङ्गलविनाशनी ।
सुस्वप्नदर्शनी चापि दुःस्वप्नस्य विनाशनी ॥
स्त्रीपुंसयोः परारक्षाविद्येयं हि महाबला ।
अटवीकान्तारदुर्गेषु नित्यं मुच्यन्ति तत्क्षणात् ॥
सर्वकामांश् च लभते बुद्धस्य वचने यथा ॥
पथ उत्पथम् आपन्ना एषां विद्याम् अनुस्मरेत् ॥
पन्थानं लभते शीघ्रं भोजनं पानम् उत्तमम् ।
कर्मणा मनसा वाचा यत् कृतं पूर्वजन्मसु ॥
अशुभं बहुविधा किंचित् सर्वं क्षययिष्यति ।
स्मरणाद् धारणाच् चैव उद्ग्रहाल् लिखनाद् अपि ॥
पठनाद् वचनाच् चैव जयनात् परदेशनात् ।
भविष्यत्य् अचिरेणासौ सर्वधर्मगतिं गतः ॥
एवं हि धर्मरसे प्राप्ते पापा गच्छन्ति संक्षयम् ।
सिध्यन्ते सर्वकर्माणि मनसा यद् यद् ईप्सितम् ॥
सर्वमृत्युभये चैषां त्राणं तस्य भविष्यति ।
राजाग्निर् उदकं चैव विद्युद् वा तस्करो ऽपि वा ॥
युद्धसंग्रामकलहा दंष्ट्रिणो ये च दारुणाः ।
सर्वे ते प्रलपं यान्ति विद्याया लक्षजायातः ॥
विद्येमां परमां सिद्धां सर्वबुद्धैर् हि देशिता ।
कीर्तिमाना न सीदन्ति बोधिसंभारपूरये ॥
सर्वेषु चैव स्थानेषु इमां विद्यां प्रयोजयेत् ।
यानि चेच्छन्ति कार्याणि स्वपरार्थप्रसिद्धये ॥
सिध्यन्ति अयत्नतस्थानि विद्यातो नात्र संशयः ।
नमः सर्वतथागतेभ्यो ये ऽपि तिष्ठन्ति दशसु दिक्षु ॥
ओं मणिवज्रे हृदयवैरे मारसैन्यविदारिणि हन 2 सर्वशत्रून् रक्ष 2 मम शरीरं सर्वसत्वानां च वज्रे 2 वज्रगर्भे 2 । त्रासय 2 सर्वमारभवनानि हूं हूं फट् फट् स्वाहा ॥
बुद्धमैत्रीसर्वतथागतवज्रकल्पाधिष्ठिते सर्वकर्मावरणान्य् अपनय स्वाहा ॥
तद् इदानीं प्रवक्षाम्य् आतुराणां चिकित्सानम् ।
चतुरश्रं मण्डलकं कुर्यात् मृद्गोमयसमन्वितम् ॥
पञ्चरङ्गिकचूर्णेन चित्रयेद् मण्डलं शुभम् ।
चतुरः पूर्णकुंभांश् च स्थापयेद् विधिना बुधः ॥
पुष्पाण्य् अवकिरेत् तत्र धूपयेद् धूपम् उत्तमम् ।
बलिकर्मं च कुर्वीत महासाहस्रप्रमर्दनम् ॥
पूर्ववद् गन्धपुष्पादीन् दद्याच् चात्र विधानतः ।
चतुरस् तीरिकाः स्थाप्याः सर्वाश् च पट्टबद्धकाः ॥
स्थापयित्वातुरं पश्चाच् छुचिवस्त्रसमावृतम् ।
शुभगन्धानुलिप्ताङ्गं प्रवेशयेत् मध्यमण्डले ॥
पूर्वामुखं निषद्यैतां एतां विद्यां उदाहरेत् ।
सप्तसो जप्तया चास्य रक्षां कुर्याद् विचक्षणः ॥
आतुरस्य ततो ऽर्थाय वारांश् चाप्य् एकविंशति ।
उदाहरेद् इमां विद्यां सर्वरोगोपशान्तये ॥
भूयश् च सप्तवारान् वै वरिकुम्भं सुमन्त्रितम् ।
पश्चान् निवेशयेद् मन्त्री वरिपुष्पं यथाविधिः ॥
इत्य् एवं दक्षिणे पार्श्वे प्रक्षिपेत् सप्त एव तु ।
पश्चिमा यान्तु सप्तैव उत्तरायां तथा दिशि ॥
अध ऊर्ध्वं तु सप्तैव कृता रक्षा भविष्यति ।
एवं कृते द्विजश्रेष्ठ सर्वदुःखात् परिमुच्यते ॥
एषा रक्षा मया ख्याता शाक्यसिंहेन भाषिता ।
नास्त्य् अस्याः परा काचिद् रक्षा विद्या त्रिधातुके ॥
न तस्य मृत्युर् न जरा न रोगो न च प्रियैर् जातुवियोगभावः । न चाप्रियैस् तस्य हि संप्रयोगो भवेद् धियो भावितचित्तसंततिः । यमो ऽपि तस्य वरधर्मराजा करिष्यते पूजां सगौरवेण । कथयिष्यते देवसुरं हि गछ क्षणिकं ममेदं नरकपुरज्वारिं करिष्यसि । ततो विमानैः सुबहुप्रकाररिर् महर्द्धिको याति सुरालयं शुभम् । एवं ह्य् असौ नरमरुद्यक्षराक्षसैः संपूजितस् तत्र सदा भविष्यति ।
वज्रपाणिश् च यक्षेन्द्र इन्द्र चैव शचीपतिः ।
हारीती पाञ्चिकश् चैव लोकपाला महार्द्धिकाः ॥
चन्द्रसूर्यौ सनक्षत्रौ ये ग्रहाः परमदारुणाः ।
ते च सर्वे महानागा देवता ऋषयस् तथा ॥
असुरा गरुडा गन्धर्वाः किन्नराश् च महोरगाः ।
नित्यानुबुद्धारक्षार्थं यस्य विद्यामहाबलाः ॥
लिखितां धारयेत् प्राज्ञो बाहौ बद्ध्वा महर्द्धिकाः ।
महतीं लभते पूजां संपदं चापि नित्यश इति ॥
महाप्रतिसराया विद्याराज्ञो रक्षाविधानकल्पो विद्याधरस्य समाप्तः ॥
मूल पाठ: Mahāpratisarā Pañcarakṣā · Edition: Yutaka Iwamoto. Mahāpratisarā Pañcarakṣā II, Kyoto 1937 (Beiträge zur Indologie, 3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0