भाषा

ENहिગુ
ग्रंथ पाठ

महामन्त्रानुसारिणी · भाग 13

महामन्त्रानुसारिणी
च्.0.1. ओं नमो भगवत्यै आर्यमहामन्त्रानुसारिण्यै । नमो विद्याराजाय । नमः समन्तबुद्धानां ॥
च्.1.1.अ. एवं मया श्रुतम् एकस्मिन् समये भगवान् राजगृहे विहरति स्म । वेणुवने करन्दकनिवापे ।
च्.1.1.ब्. एवं मया श्रुतम् एकस्मिन् समये भगवान् वैशाल्य्ं विहरति स्म । मर्कटह्रदतीरेकू टागारशालायं
च्.1.2. तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते स्म । आगमयानन्द येन वैशालीति । एवं भदन्ते त्य् आयुष्मान् आनन्दो भगवतः प्रत्यश्रौषीत् । अथ भगवान् वृजिषु जनपदेषु जनपदचारिकाञ् चरन् वैशालीम् अनुप्राप्तो वैशाल्यां विहरत्य् आम्रपालीवने ।
च्.1.3. तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते स्म । गच्छानन्द वैशालीं गत्वा इन्द्रकीले पादं स्थापयित्वा इमानि महामन्त्रानुसारिणी मन्त्रपदानि भाषस्व । इमाश् च गाथाः ।
च्.2.1. विसरत विसरत विसरत विसरत विसरत ।
च्.2.2. बुद्धो लोकानुकम्पक आज्ञापयति । सर्वबुद्धानुमतेन । सर्वप्रत्येकबुद्धानुमतेन । सर्वार्हदानुमतेन (अfघ्: सर्वभूतानुमतेन) सर्वशैक्षानुमतेन । सर्वश्रावकानुमतेन । सर्वसत्यवाक्यानुमतेन । प्रत्येकब्रह्मानुमतेन । ब्रह्मानुमतेन । कामेश्वरानुमतेन । इन्द्रानुमतेन । देवानुमतेन । असुरेन्द्रानुमतेन । सर्वासुरानुमतेन । असुरप्रेष्यानुमतेन । सर्वभूतानुमतेन ।
च्.2.3. विसरत विसरत विसरत विसरत विसरत ।
च्.2.4. बुद्धो लोकानुकम्पक आज्ञापयति । मूम्चत मूम्चत मूम्चत मूम्चत । मा तिष्ठन्तु । ईतिर् व्युपशाम्यतु । निर्गच्छत निर्गच्छत निर्गच्छत ।
च्.2.5. बुद्धः प्रविशति महादेवो देवातिदेवो देवगुरुः सेन्द्रकाश् च देवाः सब्रह्मकाः सप्रजापतिकाश् चत्वारश् च लोकपालाः प्रविशन्ति अनेकानि च देवतासहस्राण्य् असुरेन्द्राश् च । अनेकानि च असुरसहस्राणि प्रतिवसन्ति । बहूनि च भूतसहस्राणि भगवतो ऽभिप्रसन्नानि प्रवेक्ष्यन्ति सर्वसत्वानाम् अर्थे ।
च्.2.6. ते वो मानर्थं करिष्यन्ति । निर्गच्छत निर्गच्छत निर्गच्छत निर्गच्छत । क्षिप्तं पलायत । यदि यूयं दुष्टचित्ता न पलायेत नश्येत । ये मैत्रचित्ता नापराधुकामा रक्षां चानुवर्तयितुकामास् ते तिष्ठन्तु मतं च प्रविशन्तु ।
च्.2.7. बुद्धो लोकानुकम्पक एवम् आज्ञापयति ।
च्.2.8. सुमुरु 4 सुरु 4 हुरु 4 मु 4 प्रविशति । मुरु 8 मिरि 6 मुरु मिरि 13 मुरु मिरीति 6 रि 6 री 6 मिरि 6 तिरि हस मिरि ति मिरी रि मिरि कर्ता करं कर्ता कंकरा करकचा । कंकरा 8 कंकरो चंकरिति कुरीशे । कंकरि 3 षेति । रि 6 रेफसारि । फुरि 7 फरा अनाथानाथा सिरि थि फुरि रुरि प्रास्तुरि अनाथानाथा निर्गच्छत रिपूं निर्गच्छत यदि यूयं दुष्टचित्ता न पलायेत नश्येत
च्.2.9. बुद्धो लोकानुकम्पक एवम् आज्ञापयति । प्रविशति सर्वसत्वहिताध्याशयो मैत्रीविहारी कारुणिको मुदिताविहारी उपेक्षाविहारी ।
च्.2.10. एते मन्त्रपदाः सिद्धाः सिद्धगाथा जिनोदिताः ।
सर्वेषां देवतानां हि भूतानां च हितैषिणां ॥
ज्ञानेनाथोत्तमेनाद्य तथा धर्मतयापि च ।
जगताम् ईतयः सर्वाः शाम्यन्त्व् आरोग्यम् अस्तु वः ॥
च्.3.1. विशक्तिका यस्य तृष्णा विध्वस्ता विरलीकृताः ।
शान्तचित्तो ह्य् अनायासः स वः स्वस्ति करिष्यति ॥ च्द्fघ्: थ्रोउघोउत्: सर्वः स्वस्ति
च्.3.2. यो जगन् मोक्षमार्गस्मिन् निवेशयति नायकः ।
देशकः सर्वधर्माणां स वः स्वस्ति करिष्यति ॥
च्.3.3. गतिर् यो जगतां शास्ता कृतं येन सुखी बहुः ।
अर्थाय सर्वसत्वानां स वः स्वस्ति करिष्यति ॥
च्.3.4. येन सर्वजगच् चैतन् मैत्रचित्तेन तायिना ।
पालितं पुत्रवन् नित्यं स वः स्वस्ति करिष्यति ॥
च्.3.5. गतिर् यः सर्वसत्वानां त्राणं द्वीपः परायणं ।
संसारे वर्तमानानां स वः स्वस्ति करिष्यति ॥
च्.3.6. यः साक्षात् सर्वधर्माणाम् अविसंवादकः शुचिः ।
शुचिवाक्यः शुचिकरः स वः स्वस्ति करिष्यति ॥
च्.3.7. यस्मिञ् जाते महावीरे समृद्धाः सर्वसम्पदः ।
सिद्धार्थः सिद्धसंभारः स वः स्वस्ति करिष्यति ॥
च्.3.8. यस्मिञ् जाते वसुमती सवनेयं प्रकंपिताः ।
सर्वे सत्वाः प्रमुदिताः स वः स्वस्ति करिष्यति ॥
च्.3.9. षड् विकारं प्रचलिता यस्य बोधौ वसुंधराः ।
मारश् च दुर्मना आसीत् स वः स्वस्ति करिष्यति ॥
च्.3.10. यश आसीन् मुनेर् यस्य धर्मचक्रे प्रवर्तिते ।
आर्यसत्यानि वदतः स वः स्वस्ति करिष्यति ॥
च्.3.11. येन तीर्थकराः सर्वे जिता धर्मेण तायिना ।

वशीकृताः सर्वगणाः स वः स्वस्ति करिष्यति ॥
च्.3.12. स्वस्ति वः कुरुतां बुद्धः स्वस्ति देवाः सशक्रकाः ।
स्वस्ति सर्वाणि भूतानि सर्वकालं दिशन्तु वः ॥
च्.3.13. बुद्धपुण्यानुभावेन देवतानां मतेन च ।
यो यो ऽर्थः समभिप्रेतः सर्वार्थोद्य समृद्ध्यतां ।
च्.3.14. स्वस्ति वो द्विपदे भोन्तु स्वस्ति वो ऽस्तु चतुष्पदे ।
स्वस्ति वो व्रजतां मार्गे स्वस्ति प्रत्यागतेषु च ॥
च्.3.15. स्वस्ति रात्रौ स्वस्ति दिवा स्वस्ति मध्यंदिने स्थिते ।
सर्वत्र स्वस्ति वो भोन्तु मा चैषां पापम् आगमत् ॥
च्.3.16. सर्वे सत्वाः सर्वे प्राणाः सर्वे भूताश् च केवलाः ।
सर्वे वै सुखिनः सन्तु सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु मा कश्चित् पापम् आगमत् ॥
च्.3.17. यानीह भूतानि समागतानि स्थितानि भूमाव् अथवान्तरीक्षे ।
कुर्वन्तु मैत्रीं सततं प्रजासु दिवा च रात्रौ च चरन्तु धर्मं ॥
च्.4. इत्य् एवं भदन्तेत्य् आयुष्मान् आनन्दो भगवतः प्रतिश्रुत्य इन्द्रकीले पादं स्थापयित्वा इमानि महामन्त्रानुसारिणीमन्त्रपदानि भाषते स्म । इमाश् च गाथाः ।
च्.5.1. विसरत विसरत विसरत विसरत विसरत ।
च्.5.2. बुद्धो लोकानुकम्पक आज्ञापयति । सर्वबुद्धानुमतेन । सर्वप्रत्येकबुद्धानुमतेन । सर्वार्हदानुमतेन । सर्वशैक्षानुमतेन । सर्वश्रावकानुमतेन । सर्वसत्यवाक्यानुमतेन । प्रत्येकब्रह्मानुमतेन । ब्रह्मानुमतेन । कामेश्वरानुमतेन । इन्द्रानुमतेन । देवानुमतेन । असुरेन्द्रानुमतेन । सर्वासुरानुमतेन । असुरप्रेष्यानुमतेन । सर्वभूतानुमतेन ।
च्.5.3. विसरत विसरत विसरत विसरत विसरत ।
च्.5.4. बुद्धो लोकानुकम्पक आज्ञापयति । मूम्चत मूम्चत मूम्चत मूम्चत । मा तिष्ठन्तु । ईतिर् व्युपशाम्यतु । निर्गच्छत निर्गच्छत निर्गच्छत निर्गच्छत ।
च्.5.5. बुद्धः प्रविशति महादेवो देवातिदेवो देवगुरुः सेन्द्रकाश् च देवाः सब्रह्मकाः सप्रजापतिकाश् चत्वारश् च लोकपालाः प्रविशन्ति । अनेकानि च देवतासहस्राणि असुरेन्द्राश् च । अनेकानि चासुरसहस्राणि प्रविशन्ति । बहूनि च भूतसहस्राणि भगवतो ऽभिप्रसन्नानि प्रवेक्ष्यन्ति सर्वसत्वानाम् अर्थे ।
च्.5.6. ते वो मानर्थं करिष्यन्ति । निर्गच्छत निर्गच्छत निर्गच्छत निर्गच्छत । क्षिप्रं पलायत । यदि यूयं दुष्टचित्ता न पलायेत नश्येत । ये मैत्रचित्ता न चापराधुकामा रक्षां चानुवर्तयितुकामास् ते तिष्ठन्तु मतं च प्रविशन्तु ।
च्.5.7. बुद्धो लोकानुकम्प एवम् आज्ञापयति ।
च्.5.8 सुमुरु 4 सुरु 4 हुरु 4 मु 4 प्रविशति । मुरु 8 मिरि 6 मुरु मिरि 13 मुरु मिरीति 6 रि 6 री 6 मिरि 6 तिरि हस मिरि ति मिरी रि मिरि कर्ता करं कर्ता कंकरा करकचा । कंकरा 8 कंकरो चंकरिति कुरीशे । कंकरि 3 षेति । रि 6 रेफसारि । फुरि 7 फरा अनाथानाथा सिरि थि फुरि रुरि प्रास्तुरि अनाथानाथा निर्गच्छत रिपूं निर्गच्छत यदि यूयं दुष्टचित्ता न पलायेत नश्येत
च्.5.9. बुद्धो लोकानुकम्पक एवम् आज्ञापयति । प्रविशति सर्वसत्वहिताध्याशयो मैत्रीविहारी कारुणिको मुदिताविहारी उपेक्षाविहारी ।
च्.5.10. एते मन्त्रपदाः सिद्धाह् सिद्धगाथा जिनोदिताः ।
सर्वेषां देवतानां हि भूतानां च हितैषिणां ॥
ज्ञानेनाथोत्तमेनाद्य तथा धर्मतयापि च ।
जगताम् ईतयः सर्वाः शाम्यत्व् आरोग्यम् अस्तु वः ॥
च्.6.1. विशक्तिका यस्य तृष्णा विध्वस्ता विरलीकृताः ।
शान्तचित्तो ह्य् अनायासः स वः स्वस्ति करिष्यति ॥
च्.6.2. यो जगन् मोक्षमार्गस्मिन् निवेशयति नायकः ।
देशकः सर्वधर्माणां स वः स्वस्ति करिष्यति ॥
च्.6.3. गतिर् यो जगतां शास्ता कृतं येन सुखी बहु ।
अर्थाय सर्वसत्वानां स वः स्वस्ति करिष्यति ॥
च्.6.4. येन सर्व जगच् चैतन् मैत्रचित्तेन तायिना ।
पालितं पुत्रवन् नित्यं स वः स्वस्ति करिष्यति ॥
च्.6.5. गतिर् यः सर्वसत्वानां त्राणं द्वीपः परायणम् ।
संसारे वर्त्तमानानां स वः स्वस्ति करिष्यति ॥
च्.6.6. यः साक्षात् सर्वधर्माणाम् अविसंवादकः शुचिः ।
शुचिवाक्यः शुचिकरः स वः स्वस्ति करिष्यति ॥

च्.6.7. यस्मिञ् जाते महावीरे समृद्धाः सर्वसम्पदः ।
सिद्धार्थः सिद्धसंभार स वः स्वस्ति करिष्यति ॥
च्.6.8. यस्मिन् जाते वसुमती सवनेयं प्रकम्पिता ।
सर्वे सत्वाः प्रमुदिताः स वः स्वस्ति करिष्यति ॥
च्.6.9. षड् विकारं प्रचलिता यस्य बोधौ वसुन्धरा ।
मारश् च दुर्मना आसीत् स वः स्वस्ति करिष्यति ॥
च्.6.10. यश आसीन् मुनेर् यस्य धर्मचक्रे प्रवर्तिते ।
आर्यसत्यानि वदतः स वः स्वस्ति करिष्यति ॥
च्.6.11. येन तीर्थकराः सर्वे जिता धर्मेण तायिना ।
वशीकृताः सर्वगणाः स वः स्वस्ति करिष्यति ॥
च्.6.12. स्वस्ति वः कुरुतां बुद्धः स्वस्ति देवाः सशक्रकाः ।
स्वस्ति सर्वाणि भूतानि सर्वकालं दिशन्तु वः ॥
च्.6.13. बुद्धपुण्यानुभावेन देवतानां मतेन च ।
यो यो ऽर्थः समभिप्रेतः सर्वार्थोद्य समृद्ध्यतां ।
च्.6.14. स्वस्ति वो द्विपदे भोन्तु स्वस्ति वो ऽस्तु चतुष्पदे ।
स्वस्ति वो व्रजतां मार्गे स्वस्ति प्रत्यागतेषु च ॥
च्.6.15. स्वस्ति रात्रौ स्वस्ति दिवा स्वस्ति मध्यंदिने स्थिते ।
सर्वत्र स्वस्ति वो भोन्तु मा चैषां पापम् आगमत् ॥
च्.3.16. सर्वे सत्वाः सर्वे प्राणाः सर्वे भूताश् च केवलाः ।
सर्वे वै सुखिनः सन्तु सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु मा कश्चित् पापम् आगमत् ॥
च्.3.17. यानीह भूतानि समागतानि स्थितानि भूमाव् अथवान्तरीक्षे ।
कुर्वन्तु मैत्रीं सततं प्रजासु दिवा च रात्रौ च चरन्तु धर्मं ॥
च्.7.1. इति तत्र बुद्धानां बुद्धानुभावेन देवतानां देवतानुभावेन महतीतिर् व्युपशान्ते ति ।
च्.7.2. इदम् अवोचद् भगवान् आत्तमनास् ते च भिक्षवस् ते च बोधिसत्वा सा च सर्वावती पर्षत् सदेवमानुषासुरगन्धर्वश् च लोको भगवतो भाषितम् अभ्यनन्दन्न् इति ।
च्.8. (अ) आर्यमहारक्षामन्त्रानुसारिणीनाममहायानसूत्रं समाप्तम् इति ।
(ब्) आर्यमहारक्षामन्त्रानुसारिणी समप्ता ।
(च्) इति मन्त्रानुसारीनीपरीसमाप्त ।
(ए) आर्यमहामन्त्रानुसारिणीमहाविद्यारज्ञी समाप्त ति ।
(f) आर्यमहारक्षामहामन्त्रानुसारणीनाममहायानसूत्रं रक्षाकल्पं समाप्तः
च्.9. (अ) शुभम् अस्तु सर्वजगतां ।
(ब्) ये धर्मा हेतुप्रभवा हेतुस् तेषां तथागतः ।
ह्य् अवदत् तेषां यो निरोध एवंवादी महाश्रमणः । शुभं ।

मूल पाठ: Mahāmantrānusāriṇī · Edition: Peter Skilling: Mahāsūtras : Great Discourses of the Buddha, Vol. I: Texts, Oxford 1994 (PTS), pp. 608-622. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc