महाकर्मविभङ्ग · भाग 18
ओं नमो भगवते मञ्जुश्रिये कुमारभूताय
शङ्खक्षीरेन्दुकुन्दस्फटिकहिमदलक्षौमशुभ्राभ्रगौरैश् चञ्चत्स्पष्टाट्टहासैर् गगनतलगतैश् छत्त्रपङ्क्त्य् [आतपत्रैः] स्तव्यैर् भूर् भाति यस्य त्रिदशनरगरुत्सिद्धगन्धर्वाजुष्टैः प्रह्वास् तं सर्व एव प्रणमत सततं बुद्धम् आदित्यबन्धुम्.
दिव्यैश् चन्दनचूर्णमिश्रनिकरैर् मन्दानिलोद्भासितैर्
वीणावेणुमृदङ्गदुन्दुभिरवैर् गन्धर्वगीतिस्वरैः
यो जातः क्षितिपालकः प्रचलयन् कृत्स्नं त्रिलोकालयं
सर्वज्ञाय निरुद्धसर्वगतये बुद्धाय तस्मै नमः.
भगवता सूत्रं भाषितम्.
एवं मया श्रुतम् एकस्मिन् समये भगवान् श्रावस्त्यां विहरति स्म. जेतवने अनाथपिण्डदस्यारामे. अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय श्रावस्त्यां पिण्डाय प्राविक्षत्. सावदानं श्रावस्त्यां पिण्डोपचरणम्. येन शुकस्य माणवस्य तौदेयपुत्रस्य ( म्क्व् 22 ) निवेशनं तेनोपसंक्रान्तः. तेन खलु पुनः समयेन शुकस्य माणवस्य तौदेयपुत्रस्य निवेशने शङ्खकुञ्जरो गोनिकास्तृते पर्यङ्के निषण्णः. अश्मन्तकोपधानायां कांस्यपात्र्यां शालिमांसोदनं भुङ्क्ते. भगवान् अद्राक्षीत् शङ्खकुञ्जरं गोणिकास्तृते पर्यङ्के निषण्णम् अश्मन्तकोपाधानायां कांस्यपात्र्यां परिभुञ्जानम्. अद्राक्षीत् शङ्खकुञ्जरो भगवन्तं द्वारमूले गत्वा च पुनर् बुक्कति. अथ भगवान् शङ्खकुञ्जरम् एतद् अवोचत्. एतद् अपि ते शङ्ख [चित्तं] न दमयति यद् असि भोकाराद् बुक्कारम् आगतः. एवम् उक्ते शङ्खकुञ्जरो ऽतिशयितरोषश् चण्डीभूतो ऽनात्तमना गोणिकास्तृतात् पर्यङ्काद् अवतीर्याधस्तात् पर्यङ्कस्य दारुस्यन्दनिकायां निषण्णः. तेन खलु पुनः समयेन शुको माणवस् ( म्क्व् 23 ) तौदेयपुत्रो बहिर् गतो ऽभूत् केनचिद् एव करणीयेन. अथागच्छच् छुको माणवस् तौदेयपुत्रः. अद्राक्षीत् शुको माणवस् तौदेयपुत्रश् ( म्क्व् 24 ) शङ्खकुञ्जरम् अधस्ताद् दारुस्यन्दनिकायां प्रपतितम्. दृष्ट्वा ः जनम् आमन्त्रयते. केन वो युष्माकं शण्खकुञ्जरः ( म्क्व् 25 ) किंचिद् उक्तः. को ऽस्माकं मध्ये मदीयपुत्रं शङ्खकुञ्जरं किंचिद् वक्ष्यति. अपि त्व् आगतो ऽभूत् श्रमणो गौतमः. द्वारमूले ( म्क्व् 26 ) ऽवस्थितं तम् इत्थं बुक्कति. तम् एनं श्रमणो गौतम एवम् आह. एतद् अपि ते शङ्ख न दमयति यद् असि भोकाराद् बुक्कारम् आगतः. एवम् उक्ते शण्खकुञ्जरो ऽतिशयितकुपितश् चण्डीभूतो ऽनात्तमना गोणिकास्तृतात् पर्यङ्काद् अवतीर्याधस्तात् पर्यङ्कस्य दारुस्यन्दनिकायां निषण्णः. अथ शुकः (क्रो)धाभिषक्तः कुपितस् चण्डीभूतो ऽनात्तमना गोणिकान् निष्क्रम्य येन जेतवनम् अनाथपिण्डदस्यारामस् तेनोपसंक्रान्तः. तेन खलु पुनः समयेन भगवान् अनेकशतायां भिक्षुपर्षदि पुरस्तान् निषण्णो धर्मं देशयति. अद्राक्षीद् भगवान् शुकं माणवकं तौदेयपुत्रं दूराद् एवागच्छन्तम्. दृष्ट्वा च पुनर् भिक्षून् आमन्त्रयते स्म. पश्यत यूयं भिक्षवः शुकं माणवं तौदेयपुत्रम् इत एवागच्छन्तम्. एवं भदन्त. सचेच् छुको माणवस् तौदेयपुत्रो ऽस्मिन् समये कालं कुर्यात्. यथा भल्लो निक्षिप्तः एवं कायस्य भेदात् परं मरणाद् अपायदुर्गतिविनिपाते ऽविचौ नरकेषूपपद्येत. तथा ह्य् अनेन ममान्तिके चित्तं प्रदूषितम्. चित्तप्रदूषनाद् धेतोर् एवम् इह [के] सत्वाः कायस्य भेदात् परं मरणाद् अपायदुर्गत्यवीचौ नरकेषूपपद्यन्ते. अथान्यतमो भिक्षुस् तस्यां वेलायां गाथां भाषते स्म.
प्रदुष्टचित्तं दृष्ट्वैव एकत्यम् इह पुद्गलम्
एतम् अर्थं व्याकार्षीच् छास्ता भिक्षुगणान्तिके.
इदानीं बताविक्षेपं कालं कुर्वीत माणवः
नरकेषूपपद्येत चित्तं ह्य् एतेन दूषितम्.
यथा ह्य् उचितं निक्षिप्तम् एवम् एव तथागते
चित्तप्रदूषणाद् धेतोः सत्वा गच्छन्ति दुर्गतिम्.
अधिक्षेप्य माणवस् तौदेयपुत्रो येन भगवान् तेनोपसंक्रान्तः. ( म्क्व् 27 ) उपसंक्रम्य भगवता सार्धं सुखसंभावनायां संरजनीयां विविधां कथां व्यतिसार्यैकान्ते निषण्णः शुको माणवस् तौदेयपुत्रो भगवन्तम् इदम् एवावोचत्. आगतो भगवान् गौतमो ऽस्माकं निवेशनम्. आगमने भगवता गौतमेन शङ्खकुञ्जरः किंचिद् उक्तः. इहाहं माणव पूर्वाह्णे निवास्य पात्रचीवरम् आदाय श्रावस्त्यां पिण्डाय प्राविक्षत्. सावदानं श्रावस्त्यां पिण्डोपचरणम्. येन भवतो ऽत्र निवेशनं तेनोपसंक्रान्तः. उपसंक्रम्य द्वारमूले ऽवस्थितः. तेन खलु पुनः समयेन शङ्खकुञ्जरो गोणिकास्तृतमञ्चके ऽधिरूढो ऽश्मन्तकोपधानायां कांस्यपात्र्यां शालिमांसोदनं परिभुङ्क्ते. अद्राक्षीत् शङ्खकुञ्जरो मां द्वारमूले ऽवस्थितं दृष्ट्वा च पुनर् बुक्कति. तम् एनम् एवं वदा[मि. एतद् अपि ते] शङ्ख न दमयति यद् असि भोकाराद् बुक्कारम् आगतः. एवम् उक्ते शङ्खकुञ्जरो ऽभिषक्तः कुपितश् चण्डीभूतो ऽनात्तमना गोणिकास्तृतात् पर्यङ्काद् अवतीर्याधस्तात् पर्यङ्कस्य दारुस्यन्दनिकायां निषण्णः. किं पुनर् भगवान् गौतमः शङ्खकुञ्जरस्यास्माकं पूर्वस्यां जातं जानीते. अलं माणव तिष्ठ मा एतम् अर्थं परिप्राक्षीत्. मा ते भविष्यति आघातश् चाक्षान्तिश् च चेतसो दौर्मनस्यम्. द्विर् अपि त्रिर् अपि शुको माणवस् तौदेयपुत्रो भगवन्तम् एतद् अवोचत्. किं पुनर् भगवान् गौतमो ऽस्माकं शङ्खकुञ्जरं पूर्विकायां जातं संजानीते. अलं माणव तिष्ठ मा माम् एतम् अर्थं परिप्राक्षीत्. मा इहैव च ते भविष्यत्य् आघातश् चाक्षान्तिश् च चेतसो दौर्मनस्यम्. अनाथ त्वं माणव यावद् द्विर् अपि त्रिर् अप्य् एत मर्थं ना ...... माणव शृणु साधु च सुष्ठु च मनसि कुरु. भाषिष्ये. यस् ते माणव पिता तौदेयः स एष कायस्य भेदाद् धीनायां श्वयोनाव् उपपन्नः. तद् भो गौतम एवं भविष्यति. अस्माकं पिता य इष्टयज्ञ आहिताग्निर् उच्छ्रितयूपः सन्नीयते कायस्य भेदात् शुभ्रे ब्रह्मलोके उपपन्नो भविष्यत्य्. अनेनैव ते माणव मानाभिमानेन पिता तौदेयो महादानपतिः श्वयोनाव् उपपन्नः. पितुर् माणव यदि मे भाषितं न ( म्क्व् 28 ) श्रद्दधासि तेन हि त्वं माणव येन ते निवेशनं तेनोपसंक्रम. उपसंक्रम्य शङ्खकुञ्जरम् एवं वद. सचेद् भवाञ् छङ्खकुञ्जरो ऽस्माकं पूर्विकायां जातः पिताभूत् तौदेयो ऽधिरोह गोणिकास्तृतं पर्यङ्कम्. अधिरोक्ष्यति. अधिरूढं चैवं वद. सचेद् भवाञ् छङ्खकुञ्जरो ऽस्माकं पूर्विकायां जातः पिताभूत् तौदेयः परिभुञ्जीत भवान्. अश्मन्तकोपधानायां कांस्यपात्र्यां शालिमांसोदनं परिभोक्ष्यते. भुक्तवन्तम् एनं वद. सचेद् भवाञ् छङ्खकुञ्जरो ऽस्माकं पूर्विकायां जातः पिताभूत् तौदेयः यत् ते ऽस्माकं मरणसमये मम सन्तं स्वापतेयं नोपदर्शितं तद् उपदर्शय. उपदर्शयिष्यति.
अथ शुको माणवस् तौदेयपुत्रो भगवता भाषितम् उद्गृह्य पर्यवाप्य येन स्वकं निवेशनं तेनोपसंक्रान्तः. उपसंक्रम्य शङ्खकुञ्जरम् एतद् अवोचत्. सचेद् भवाञ् छङ्खकुञ्जरो ऽस्माकं पूर्विकायां जातः पिताभूत् तौदेयः अधिरोह. गोणिकास्तृतपर्यङ्के ऽधिरूढं चैनम् एवम् आह. सचेद् भवाञ् छङ्खकुञ्जरो ऽस्माकं पूर्विकायां जातः पिताभूत् तौदेयः परिभुञ्जीत भवान् अश्मन्तकोपधानायां कांस्यपात्र्यां शालिमांसोदनम्. परिभुक्तवान्. भुक्तवन्तं चैनम् एवम् आह. सचेद् भवाञ् छङ्खकुञ्जरो ऽस्माकं पूर्विकायां जातः पिताभूत् तौदेयः यत् ते ऽस्माकं मरणसमये मम सन्तं स्वापतेयं नोपदर्शितं तद् उपदर्शय. अथ शङ्खकुञ्जरो गोणिकास्तृतपर्यङ्काद् अवतीर्य येनान्यतमपुराणवासगृहं तेनोपसंक्रान्तः. उपसंक्रम्य चतुरः पर्यङ्कपादुकान् पादनखरिकाभिर् अवलिखितमध्यं च मुखतुण्डकेनोपजिघ्रति. यतः स शुको माणवस् तौदेयपुत्रः कृताकृतस्य हिरण्यसुवर्णस्य चतुरो लोहसंघाटान् अधिगतवान् मध्याच् च सौवर्णकमण्डलुम्.
अथ शुको माणवस् तौदेयपुत्रस् तत् सुवर्णं गोपयित्वा हृष्टतुष्टोदग्रप्रीतिसौमनस्यजातः श्रावस्त्या निष्क्रम्य येन भगवांस् तेनोपसंक्रान्तः. तेन खलु पुनः समयेन भगवान् अनेकशतायां भिक्षुपर्षदि पुरस्तान् निषण्णो धर्मं देशयति. अद्राक्षीद् ( म्क्व् 29 ) भगवाञ् छुकं माणवं तौदेयपुत्रं दूरत एवागच्छन्तं दृष्ट्वा च पुनर् भिक्षून् आमन्त्रयते स्म. पश्यथ यूयं भिक्षवः शुकं माणवं तौदेयपुत्रं दूरत एवागच्छन्तम्. एवं भदन्त. सचेच् छुको माणवस् तौदेयपुत्रो ऽस्मिन् समये कालं कुर्याद् यथा भल्लो निक्षिप्तः एवं कायस्य भेदात् सुगतौ स्वर्गलोकेषूपपद्येत. तथा ह्य् अनेन ममान्तिके चित्तं प्रसादितम्. चित्तप्रसादनहेतोर् भिक्षवः एवम् इहैके सत्वा कायस्य भेदात् सुगतौ स्वर्गलोकेषूपपद्यन्ते. अथान्यतमो भिक्षुस् तस्यां वेलायां गाथां भाषते.
प्रसन्नचित्तं दृष्ट्वैव एकत्यम् इह पुद्गलम्
एतम् अर्थं व्याकार्षीच् छास्ता भिक्षुगणान्तिके.
इदानीं गतदोषो ऽयं कालं कुर्वीत मानवः
उपपद्येत देवेषु चित्तम् अस्य प्रसादितम्.
यथा दुरितं निक्षिप्तम् एवम् एव तथागते
चित्तप्रसादनाद् धेतोः सत्वा गच्छन्ति सद्गतिम्.
अथ शुको माणवस् तौदेयपुत्रो येन भगवान् तेनोपसंक्रान्तः. उपसंक्रम्य भगवता सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्यैकान्ते निषण्णः. एवं निषण्णं शुकं माणवं तौदेयपुत्रं भगवान् इदम् अवोचत्. कच्चिन् माणव तथैव यथा मया शङ्खकुञ्जरो व्याकृतः. भो गौतम तत् तथैव यथा भगवता गौतमेन शङ्खकुन्जरो व्याकृतः. अन्यद् अपि तावद् वयं भगवन्तं गौतमं पृच्छेम कंचिद् एव प्रदेशं सचेद् अवकाशं कुर्यात् प्रश्नव्याकरणाय. पृच्छ माणव यद्य् एवं काङ्क्षसि. को भो गौतम हेतुः कः प्रत्ययः येनेहैके सत्वा अल्पायुषो ऽपि दीर्घायुषो ऽपि बह्वाबाधा अपि अल्पाबाधा अपि दुर्वर्णा अपि सुवर्णा अपि अल्पेशाख्या अपि महेशाख्या अपि नीचकुलीना अपि उच्चकुलीना अपि अनादेयवाक्या अपि आदेयवाक्या अपि अल्पभोगा अपि महाभोगा अपि दुष्प्रज्ञा अपि महाप्रज्ञा अपि. कस्य नु भो गौतम कर्मणो विपाकेनेदं सत्वानां नानात्वं प्रज्नायते.
तत्र भगवाञ् छुकं माणवकं तौदेयपुत्रम् इदम् अवोचत्. कर्मविभङ्गं ते माणवक धर्मपर्यायं देशयिष्यमि. तेनहि ( म्क्व् 30 ) शृणु साधु सुष्ठु च मनसि कुरु. भाषिष्ये. एवं भगवन्न् इति शुको माणवकस् तौदेयपुत्रो भगवतः प्रत्यश्रौषीत्. भगवान् इदम् अवोचत्. कर्मस्वकान् अहं माणव सत्वान् वदामि कर्मदायादान् कर्मयोनीन् कर्मप्रतिशरणान्. कर्म माणव सत्वान् विभजति. यद् इदं हीनोत्कृष्टमध्यमतायाम्. तद्यथा. अस्ति कर्म अल्पायुःसंवर्तनीयम्. अस्ति कर्म दीर्घायुःसंवर्तनीयम्. अस्ति कर्म बह्वाबाधासंवर्तनीयम्. अस्ति कर्म अल्पाबाधासंश्. अ. क्. दुर्वर्णस्. अ. क्. प्रासादिकस्. अ. क्. अल्पेशाख्यस्. अ. क्. महेशाख्यस्. अ. क्. नीचाकुलोपपत्तिस्. अ. क्. उच्चकुलोपपत्तिस्. अ. क्. अल्पभोगस्. अ. क्. महाभोगस्. अ. क्. दुष्प्रज्नस्. अ. क्. महाप्रज्ञस्. अ. क्. नरकोपपत्तिस्. अ. क्. तिर्यग्योन्युपपत्तिस्. अ. क्. प्रेतलोकोपपत्तिस्. अ. क्. असुरलोकोपपत्तिस्. अ. क्. मनुष्यलोकोपपत्तिस्. अ. क्. कामावचरदेवोपपत्तिस्. अ. क्. रूपावचरदेवोपपत्तिस्. अ. क्. आरूप्यावचरदेवोपपत्तिस्. अ. क्. कृतं नोपचितम्. अ. क्. उपचितं न कृतम्. अ. क्. कृतम् उपचितं च. अ. क्. नैव कृतं नोपचितम्. अ. क्. येन समन्वागतः पुद्गलो नरकेषूपपन्नः परिपूर्णं नैरयिकम् आयुः क्षपयित्वा च्यवति. अ. क्. येन समन्वागतः पुद्गलो नरकेषूपपन्नः सार्धनैरयिकम् आयुः क्षपयित्वा च्यवति. अ. क्. य्. स्. प्. नरकेषूपपन्नमात्र एव च्यवति. अ. क्. नियतोपपत्तिस्. अ. क्. अनियतोपपत्तिस्. अ. क्. देशान्तरविपक्षम्. अ. क्. य्. स्. प्. पूर्वं सुखितो भूत्वा पश्चाद् दुःखितो भवति. अ. क्. य्. स्. प्. पूर्वं दुःखितो भूत्वा पश्चाद् अपि सुखितो भवति. अ. क्. य्. स्. प्. पूर्वं सुखितो भूत्वा पश्चात् सुखितो भवति. अ. क्. य्. स्. प्. पूर्वं दुःखितो भूत्वा पश्चाद् अपि दुःखितो भवति. अ. क्. ( म्क्व् 31 ) य्. स्. प्. आढ्यो भवति मत्सरी. अ. क्. य्. स्. प्. दरिद्रो भवति त्यागवान्. अ. क्. य्. स्. प्. आढ्यो भवति त्यागवान्. अ. क्. य्. स्. प्. [सिच्] अस्ति पुद्गलो यस्य कर्म क्षीणं भवति नायुः. अस्ति पुद्गलो यस्यायुः क्षीणं न कर्म. अ. प्. य्. आयुः कर्माणि च क्षीणानि. अ. प्. य्. आयुः क्षीणं पुण्यानि च. अ. प्. यस्य नायुः क्षीणं भवति न कर्म. अपि तु क्लेशाः क्षीणाः. अ. प्. कायेन सुखी न चित्तेन. अ. प्. चित्तेन सुखी न कायेन. अ. प्. कायेन च सुखी चित्तेन च. अ. प्. नैव कायेन सुखी न चित्तेन. अ. क्. य्. स्. पुद्गलो ऽपायेषूपपन्नो ऽभिरूपो भवति स्निग्धकायः स्निग्धच्छविर् नयनाभिरामो दर्शनीयः. अ. क्. य्. स्. पुद्गलो ऽपायेषूपपन्नो दुर्वर्णो भवति रूक्षकायो घोरदर्शनः प्रतिकूलदर्शनः. अ. क्. य्. स्. प्. अपायेषूपपन्नो दुर्गन्धो भवति जिह्मेन्द्रियो भवत्य् अव्यक्तेन्द्रियः. दशानाम् अकुशलानां कर्मपथानां विपाकेन दशानां बाह्यानां भावानाम् अभिवृद्धिः प्रज्ञायते. दशानां कुशलानां कर्मपथानां विपाकेन दशानां बाह्यानां भावानां विपत्तिः प्रज्ञायते. दशानुशंसास् तथागतचैत्याञ्जलिकर्मणः. दशानुशंसास् तथागतचैत्यवन्दनायाः. दशानुशंसाश् छत्त्रप्रदानस्य. दशानुशंसा घण्टाप्रदानस्य. दशानुशंसा वस्त्रप्रदानस्य. दशानुशंसा आसनप्रदानस्य. दशानुशंशा भाजनप्रदानस्य. दशानुशंसा भोजनप्रदानस्य. दशानूशंसा यानप्रदाने. दसानुशंसाः प्रतिश्रयप्रदानस्य. दशानुशंसाः पानकप्रदाने. दशानुशंसाः फलप्रदाने. दशानुशंसा मालाप्रदानस्य. दशानुसंसा मुक्तपुष्पप्रदानस्य. दशानुशंसाः प्रदीपप्रदानस्य. दशानुशंसा गन्धप्रदानस्य. ( म्क्व् 32 ) दशानुशंसाः प्रव्रज्यायाः. दशान्न्शंसा अरण्यवासे. दसानुशंसाः पैण्डपातिकत्वे. दश वैशारद्यानि.
उद्देशः कर्मविभङ्गस्य धर्मपर्यायस्य.
इ. तत्र कतमत् कर्म अल्पायुःसंवर्तनीयम्? उच्यते. प्राणातिपातः. प्राणातिपातस्य अनुमोदनम्. प्राणातिपातस्य वर्णवादिता. अमित्रमरणाभिनन्दनम्. अमित्रमरणस्य समादापनम्. अमित्रमरणस्य वर्णवादिता. गर्भशातनम्. गर्भशातनस्य वर्णवादिता. स्थण्डिलप्रतिष्ठापनं यत्र बहवः प्राणिनो घात्यन्ते महिषपशुशूकरकुक्कुटादयः तस्य यज्ञप्रवर्तकस्य पुत्राः पौत्राश् चान्ये च जनाः फलार्थिनो भयभीताश् चानुवृत्तिं कुर्वाणाः सत्त्वान् निर्घातयन्ति.
अ) यथा काश्मीरायां महानगर्यां भिक्षुः किलार्हन्न् अन्यतरस्मिन् गृहद्वारे तिष्ठति. तस्य गृहस्य पार्श्वेन राजपथस् तेन पशू रवमाणो नीयते. स भिक्षुस् तं दृष्ट्वा हाहा धिक् कष्टम् इति वदति. पुरुषास् तं पृच्छन्ति. आर्य किम् अयं हाधिक्कष्टम् इति शब्दः. स आह. न वक्तव्यम् एतद् अश्राद्धानाम्. कार्यार्थं तु ब्रवीमि. य एष पशू रवमाणो नीयते. अनेन पुरा वणिगीश्वरेण भूत्वा स्थण्डिलं प्रतिष्ठापितम्. सांवत्सरिकश् च पशुयज्ञः प्रवर्तितः. तत्रानेन बहवः पशवो घातिताः. मरणकाले च पुत्रान् आहूय प्राह. पुत्राः. यद्य् अस्ति मयि स्नेहो य एष मया सांवत्सरिकः पशुयज्ञः प्रवर्तितः. एष मयि कालगते ऽनुप्रवर्तयितव्य इति. पुत्रैस् तथास्त्व् इति प्रतिश्रुतम्. स कालगतस् तेन मोहजेन प्राणातिपातेन ( म्क्व् 33 ) समन्वागतः स्वगृहे पशुः प्रत्याजातः. स तत्र जातौ जातौ घात्यते. अधुना एकषष्टितमं वारं नीयते. अथ स भिक्षुस् तं पशुं करुणायमाण आह. स्वयम् एव ते स्थण्डिलं कृतं स्वयम् एव यज्ञः प्रवर्तितः बहवः पशवश् च घातिताः. किं रवसे. सर्वम् इदं निरर्थकम्.
ब्) यथैवंविधं स्थण्डिलप्रतिष्ठापनम्. तथा युद्धदर्शनम्. यत्र बहवः सत्त्वा घात्यन्ते हस्त्यश्वमनुष्यादयः. युद्धप्रतिबद्धानां च शस्त्राणाम् अभिनन्दनम्.
च्) यथा चोक्तं भगवता वैशाल्यां कालिकसूत्रे. प्राणातिपात आनन्द सेवितो बहुलीकृतो निरय संवर्तनीयो भवति. तिर्यग्योनिसंवर्तनीयो ऽपि भवति. प्रेतविषयसंवर्तनीयो ऽपि भवति. यस्माद् अल्पप्राणातिपातस्य विपाको मनुष्यभूतस्य सतो अल्पायुःसंवर्तनीयो ऽपि भवति.
द्) तथा दशादीनवा नन्दिकसूत्र उक्ताः प्राणातिपातस्य.
इदं कर्म अल्पायुःसंवर्तनीयम्.
इइ. तत्र कतमत् कर्म दीर्घायुःसंवर्तनीयम्. उच्यते. प्राणातिपातान् निवृत्तिः. प्राणातिपातनिवृत्तौ वर्णवादिता. तत्र समादापनम्. तद्वर्णवादिता. वध्यप्राप्तानां मनुष्यपशुसूकरकुक्कुटादीनां परिमोचनम्. भीतानां सत्त्वानाम् अभयप्रदानम् ( म्क्व् 34 ) अनाथानां सत्त्वानां मध्ये कारुण्यचित्तता. ग्लानानां सत्त्वानां मध्ये मैत्रचित्तता. अन्येषां च बालवृद्धानाम्. तेषाम् एव भोजनप्रदानम्. प्रतिग्राहकेषु च मैत्रचित्तता. यत् पूर्वोक्तं कुशलपक्षेण युद्धदर्शनादि. तथा स्तूपचैत्यविहाराणां शीर्णानां प्रतिसंस्करणम्. अतएवोक्तम्.
अकालमृत्युर् न भवेत् तस्य
यो भग्नशीर्णं प्रतिसंस्करोति.
अ) तथा बकप्रत्येकब्रह्मसूत्रं वर्णयन्ति स्म. तेन किल ऋषिभूतेन पञ्चाभिज्ञेन तृष्णार्तस्य सार्थस्य पथभ्रष्टस्य उपरि ऋद्ध्या वर्षं पातितम्. तदर्थं च भगवता गाथा भाषिता.
तत् ते पुराणं व्रतशीलवृत्तं
स्वप्नाद् विबुद्धो ऽहम् इह स्मरामि.
तत्र च सार्थे बोधिसत्त्वः सार्थवाहो ऽभूत्.
य एणीकूलेज् अनतां गृहीताम्.
एणी नाम नदी यस्या अनुकूले राजा कश्चिद् गृहीतः प्रत्यमित्रेण ( म्क्व् 35 ) हिमवन्तम् अनुप्रविश्य स नीयमान एव वध्यं प्राप्तः सबलवाहनः. तेन ऋषिभूतेन ऋद्ध्या वातवर्षं मुक्तम्. स चोपायेन प्रत्यमित्रजनकायो विभ्रामितः. स राजा मोक्षितः.
तत् ते द्वितीयं व्रतशीलवृत्तं
स्वप्नाद् विबुद्धो ऽनुस्मरामि.
स च राजा बोधिसत्त्वो बभूव.
गङ्गास्रोतसि नावा गृहीता
नागेन घोरेण ऋद्धिकेन.
स च तदा ऋषिर् गङ्गाकूले महर्द्धिकः पञ्चाभिज्ञः प्रतिशरति. तेन च कायः क्रन्दमानो जीवितेन निराशस् ततो मोक्षितः.
तत् ते तृतीयं व्रतशीलवृत्तं
स्वप्नाद् विबुद्धो ऽनुस्मरामि.
तस्यां च नावायां नौस्वामी बोधिसत्त्वस् तेन कालेनाभूत्. एवं विधं ते त्रिविधं कर्म कृतम्, ततो ऽतीव दीर्घायुः.
ब्) यथा केचिद् आचार्याः कथयन्ति. भगवान् आह. भूतपूर्वं भिक्षवो जम्बुद्वीपे सर्वजनपदमारी वर्तते स्म. अथान्यतरेण सत्त्वेनान्यलोकधातौ स्थितेन ऋद्धिमतः सकाशाच् छ्रुतम्. यथा जम्बुद्वीपे सर्वमारी पातितेति. तेन कृतपुण्येन प्रणिधानं कृतम्. ( म्क्व् 36 ) जम्बुद्वीपे उपपद्याहं सर्वसत्त्वानां व्याधिप्रणाशाय जायेयेति. स तत्रोपपन्नः. ये च सत्त्वास् तृषितास् तेषां पानीयेन व्याधिं नाशयति. ये च बुभुक्षितास् तेषां भक्तेन व्याधिं नाशयति. एवं येन यस्यार्थस् तेनैव तस्य व्याधिं नाशयति. न नाम तस्य किंचिद् अप्य् अनौषधं. यद् यद् एव गृह्य प्रयच्छति तत् तद् एवौषधम्. तस्य जम्बुद्वीपकैर् मनुष्यैः सर्वौषधिर् एकनाम कृतम्. अथ भिक्षवः सर्वौषधिवैद्यराजो बहूनां सत्त्वसहस्राणां जीवितानि दत्त्वा कालगतः. कालान्तरेण मिथिलायां राजकुले उपपन्नः. ततो ऽपि तेन महादेवभूतेन अशीतिक्षत्रियसहस्राणि धर्मदेशनया प्रव्रजितानि. जम्बुद्वीपे ऽशीतिवर्षसहस्राणि मनुष्याणाम् आयुर् न परिक्षीणम्. ततश् च्युतः कालान्तरेण कुशीनगर्यां मान्धाता संवृत्तः. भूयश् च सप्तसूर्योपदेशे ( म्क्व् 37 ) सुनेत्रो नाम मानवो विज्ञेयः. अहं स भिक्षवस् तेन कालेन सर्वौषधिवैद्यराजो ऽभूत्. तस्य कर्मणो विपाकेन महादेवस्यायुःप्रमाणं योजयितव्यम्. मान्धातृसुनेत्राभ्याम् अप्य् एवायुःप्रमाणं योजयितव्यम्. इदं कर्म दीर्घायुःसंवर्तनीयम्.
इइइ. कतमत् कर्म बह्वाबाधासंवर्तनीयम्. उच्यते. खटचपेटप्रदानम्. खटचपेटप्रदानस्यानुमोदनम्. खटचपेटप्रदानस्य वर्णवादिता. तेषां प्रदानेन तुष्टिः. मातापित्रोश् चित्तशरीरे पीडाकरणं तथान्येषां प्रव्रजितानां शीलवतां चित्तसंक्लेशः. अमित्रव्याधिना तुष्टिः. अमित्रव्याधिव्युत्थानेनातुष्टिः. व्याद्दितानाम् अभैषज्यप्रदानम्. तथापरिजीर्णभोजनम्. इदं कर्म बह्वाबाधासंवर्तनीयम्.
इव्. कतमत् कर्म अल्पाबाधासंवर्तनीयम्. उच्यते. खटचपेटप्रदानान् निवृत्तिः. तत्र समादापनम्. तद्वर्णवादिता. तदभ्यनुमोदनम्. ग्लानानां मातापितॄणाम् उपस्थानकरणम्. तद् अप्य् अन्येषां गृहस्थप्रव्रजितानाम्. अमित्रव्याधिनानात्तमनस्कता. तस्य व्युत्थानेन चात्तमनस्कता. भैषज्यप्रदानम्. परिजीर्णभोजनं च. इदं कर्म अल्पाबाधासंवर्तनीयम्.
व्. कतमत् कर्म दुर्वर्णसंवर्तनीयम्. उच्यते. क्रोधः. उपनाहः म्रक्षः. प्रदाशः. मातापित्रोर् अवर्णवादिता. अन्येषां च ( म्क्व् 38 ) गृहस्थप्रव्रजितानां बालवृद्धानाम्. स्तूपाङ्गणचैत्यगृहविहाराणां च भूमेर् अविशोधनम्. स्तूपानां प्रतिमाणां च दीपव्युच्छेदः. दुर्वर्णानां सत्त्वानाम् अवहसनम्. तथा चौक्षसमुदाचारता. इदं कर्म दुर्वर्णसंवर्तनीयम्.
वि. कतमत् कर्म प्रासादिकसंवर्तनीयम्. उच्यते. अक्रोधः. अनुपनाहः. अम्रक्षः. वस्त्रप्रदानम्. स्तूपचैत्यगृहेषु च सुधादानम्. सुवर्णपात्र दानम्. गन्धलेपप्रदानम्. अलंकारप्रदानम्. मातापित्रोर् वर्णवादिता. आर्याणां शीलवतां वर्णवादिता स्तूपाङ्गणविहाराणां संमार्जनम्. सततं गृहसंमार्जनम्. विरूपाणां सत्त्वानाम् अनवहसनं तथान्येषां बालवृद्धानाम्. तथा चौक्षसमुदाचारता.
अ) यथा आर्यसुन्दरनन्देन किल क्रकुच्छन्दे सम्यक्संबुद्धे भिक्षुसंघे जेन्ताकस्नानं कृतम्. तांश् च दृष्ट्वा चित्तं प्रसादितम्. भूयश् च सुवर्णेन हरितालेन प्रत्येकबुद्धस्तूपे लेपो दत्तः. इदम् अपि दृष्ट्वा चित्तं प्रसादितम्. अभिरूपतायां च परिणामितम्. भूयश् च स्तूपे क्रियमाणे प्रथमं छत्त्रं कारितम्. यथा पश्चिमभवे स एव व्याकरोति.
जेन्ताकस्य च स्नानेन हरितालस्य लेपनेन च
एकच्छत्त्रप्रदानाच् च प्राप्ता मे सुवर्णवर्णता.
तथैवायं शोभितवान्. इदं कर्म प्रासादिकसंवर्तनियम्.
विइ. कतमत् कर्म अल्पेशाख्यसंवर्तनीयम्. उच्यते. ईर्ष्या. मात्सर्यम्. परस्य लाभेनातुष्टिः. परस्य वर्णवादिताया अतुष्टिः. मातापित्रोः परिभवः. आर्याणां शीलवतां परिभवः. तथान्येषां व्याधितबालवृद्धानाम्. हीने धर्महीने ऽकुशलमूले वर्णवादिता. बोधिचित्तोत्पादस्य निवारणम्. तदभ्यनुमोदनम्. इदं कर्म अल्पेशाख्यसंवर्तनीयम्.
विइइ. कतमत् कर्म महेशाख्यसंवर्तनीयम्. उच्यते. अनीर्ष्या. अमात्सर्यम्. परलाभेन तुष्टिः. परस्य यशोवर्णशब्दश्लोकश्रवणेन तुष्टिः. परस्य वर्णवादिताया आत्तमनस्कता. भगवतश् चैत्यस्तूपकारापणम्. हीने धर्महीने ऽकुशलमूले निवारणम्. महेशाख्यकुशलमूले समादापनम्. बोधिचित्तोत्पादनम्. सर्वमहेशाख्यकुशलमूले बोधिचित्तोत्पादनम्.
अ) यथोक्तं भगवता वाराणस्यां पूर्वापरान्तके सूत्रे ( म्क्व् 40 ) ऽजितस्य बोधिसत्त्वस्य समुत्तेजनं कृतम्. महते खलु ते ऽजित औत्सुक्याय चित्तं दमयति. यद् इदं संघपरिहापणाय. वक्ष्यतेहि.
मैत्रेयस् तुषितसुरालयाधिवासी
प्राप्तव्या दिवि भुवि चेह येन पूजा
स श्रीमान् दशबलताम् अवाप्य शीघ्रं
लोकानां भवतु शशीव नित्यपूज्यः.
इदं कर्म महेशाख्यसंवर्तनीयम्.
इx. कतमत् कर्म नीचकुलसंवर्तनीयम्. उच्यते. स्तब्धता. अभिमानिता च. अमातापितृज्ञता. अश्रामण्यता. अब्राह्मण्यता. अकुलज्येष्ठापचायिता. मातापित्रोर् अप्रत्युपस्थानम्. आर्याणां शीलवताम् अप्रत्युपस्थानम्. अन्येषां च गुरुस्थानीयानाम् आचार्योपाध्यायानाम् अप्रत्युपस्थानम्. नीचकुलानां सत्वानां परिभवः. इदं कर्म नीचकुलसंवर्तनीयम्.
x. कतमत् कर्म उच्चकुलसंवर्तनीयम्. उच्यते. अस्तब्धता. अनभिमानिता. मातापितृज्ञता. श्रामण्यता. ब्राह्मण्यता. कुलज्येष्ठापचायिता. मातापित्रोः प्रत्युपस्थानम्. आर्याणां शीलवतां प्रत्युपस्थानम्. अन्येषां च गुरुस्थानीयानाम् आचार्योपाध्यायानां प्रत्युपस्थानम्. नीचकुलानां सत्वानाम् अपरिभवः.
अ) यथा च भगवता सूत्र उक्तम्. यतो भिक्षवः कुशलशीलवन्तो ब्रह्मचारिनः कल्याणधर्माणः प्रव्रजिता उपसंक्रमन्ति पञ्च तस्मिन् कुले ऽनुशंसाः प्रत्यनुशंसितव्याः. कतमे पञ्च. इह भिक्षवः उपसंक्रान्तेषु शीलवत्सु चित्तानि प्रसादयन्ति स्वर्गसंवर्तनीयं ( म्क्व् 41 ) तद् भिक्षवः कुलं तस्मिन् समये प्रतिपदं प्रतिपन्नं भवति. पुनर् अपरं भिक्षवः उपसंक्रान्तेषु शीलवत्सु अभिवादयन्ति प्रत्युत्तिष्ठन्ति. उच्चकुलसंवर्तनीयं भिक्षवः. तस्मिन् समये प्रतिपदं प्रतिपन्नं भवति. एवं सर्वसूत्रं योज्यम्. इदं कर्म उच्चकुलसंवर्तनीयम्.
xइ. कतमत् कर्म अल्पभोगसंवर्तनीयम्. उच्यते. अदत्तादानम्. अदत्तादानसमादापनम्. चौर्यवर्णवादिता. तदभ्यनुमोदनम्. मातापित्रोर् वृत्त्युपच्छेदः. तथान्येषां व्याधितबालवृद्धकृपणानां वृत्त्युपच्छेदः. परस्य लाभेनातुष्टिः. परलाभान्तरायक्रिया दुर्भिक्षाभिनन्दनं च. इदं कर्म अल्पभोगसंवर्तनीयम्.
xइइ. तत्र कतमत् कर्म महाभोगसंवर्तनीयम्. उच्यते. अदत्तादानान् निवृत्तिः परेषां चादत्तादानान् निवारणम्. परेषाम् अदत्तादाननिवृत्तानां समनुमोदनम्. मातापित्रोर् वृत्तिप्रदानम्. आर्याणां च शीलवतां वृत्तिप्रदानम्. तथान्येषां व्याधितबालवृद्धकृपणानां वृत्तिप्रदानम्. परलाभेन तुष्टिः. परस्यालाभेनातुष्द्ः. परलाभसमनुमोदनम्. सुभिक्षाभिनन्दनम्.
अ) तद् एव सूत्रं योज्यम्. पुनर् अपरं भिक्षवः उपसंक्रान्तेषु शीलवत्सु दानानि ददन्ति पुण्यानि च कुर्वन्ति. महाभोगसंवर्तनीयं भिक्षवस् तत् कुलं तस्मिन् समये प्रतिपदं प्रतिपन्नं भवति. इदं कर्म महाभोगसंवर्तनीयम्.
xइइइ. तत्र कतमत् कर्म दुष्प्रज्ञसंवर्तनीयम्. उच्यते. इहैकत्यो न परान् पृच्छति. पण्डितान्. श्रमणान्. ब्राह्मणान्. को धर्मः किं धर्मं कुर्वतः श्रेयस्करम् इति. अपि तु दुष्प्रज्ञान् सेवति. पण्डितान् परिवर्जयति. असद्धर्मं दीपयति. सद्धर्मं विगर्हति. सद्धर्मभाणकानां वैशारद्योपच्छेदं करोति. सद्धर्मभाणकानाम् अभिनिवेशेन न साधुकारं ददाति. असद्धर्मभाणकानां ( म्क्व् 42 ) साधुकारं ददाति. मिथ्यादृष्टिं वर्णयति. सम्यग्दृष्टिं विगर्हति. तथा पुस्तकलेखकवाचकानां वृत्त्युपच्छेदं करोति.
अ) सूत्रे चोक्तम्. उन्मत्तकसंवर्तनीयम् ... करोति. संमूढकश् च कालं करोति. दुष्प्रज्ञश् च भवति. यथोक्तं नन्दिकसूत्रे. पञ्चत्रिंशद् आदीनवाः सुरामैरेयमद्यप्रमादस्थाने योजयितव्याः. बुद्धे चागौरवो भवति. धर्मे संघे चागौरवो भवति. अतः शाक्यसूत्रं योजयितव्यम्. यदा च भगवान् कपिलवस्तुम् आगतः स मद्यपानदोषान् न कदाचिद् भगवन्तम् उपसंक्रान्तः. चतुर्भिः स्थविरैर् भगवता प्रेषितैर् गत्वा विनीतः कालगतश् च. शाक्यः पृच्छति. भगवन्. तस्य का गतिर् इति. भगवान् आह. इमे ऽपि च मे शाक्य भाषितस्यार्थम् आजानीयुर् इति सूत्रं ( म्क्व् 43 ) योजयितव्यम्. यथा चूडा पन्थको नाम भिक्षुस् तस्य राजगृहे प्रतिवसतो भगवता गाथोद्दिष्टा. सा च वर्षात्ययेन न शकिता ग्रहीतुम्. भिक्षवो विस्मयं प्राप्ताः पृच्छन्ति. भगवन् कस्यैष कर्मणो विपाकेन दुष्प्रज्ञः. भगवान् आह. काश्यपे सम्यक्संबुद्धे परिनिर्वृते एष आरण्यको भिक्षुस् त्रिपिटकस् तत्कालम् अभूत्. भिक्षूणां च बुद्धपूजाम् अकुर्वतां बुद्धवचनम् अन्तर्हितम्. ते भिक्षवस् तस्य समीपं गताः अस्माकं बुद्धवचनम् अन्तर्हितम्. अस्माकम् अप्य् उपदेशं कुरुष्वेत्य् अनेन मात्सर्यदोषात् तेषाम् उपदेशो न कृतः. एवं तच्छासनम् अन्तर्हितम्. तस्य कर्मणो विपाकेनैष दुष्प्रज्ञः. इदं कर्म दुष्प्रज्ञसंवर्तनीयम्.
xइव्. तत्र कतमत् कर्म महाप्रज्ञसंवर्तनीयम्. उच्यते. ( म्क्व् 44 ) इहैकत्यः परिपृच्छक जातीयो भवति पण्डिताञ् छ्रमणान् ब्राह्मणान् सेवते दुष्प्रज्ञान् परिवर्जयति. सद्धर्मं दीपयति. असद्धर्मं विगर्हति धर्मभाणकानां वैशारद्यं वर्णयति. सहितभाषिणां साधुकारं ददाति. अहितभाषिणं परिहरति. सम्यग्दृष्टिं वर्णयति. मिथ्यादृष्टिं विगर्हति. मसीपुस्तकलेखनीप्रदानानि ददाति. न च मद्यं पिबति. यथोक्तं च नन्दिकसूत्रे. पञ्चत्रिंशद् मद्यपानदोषा अकुशलपक्षेण योजयितव्याः. इदं कर्म महाप्रज्ञसंवर्तनीयम्.
xव्. तत्र कतमत् कर्म नरकोपपत्तिसंवर्तनीयम्. उच्यते. तीव्रं प्रदुष्टचित्तस्य कायवाङ्मनोदुश्चरितम्. उच्छेददृष्टिः. शाश्वतदृष्टिः. नास्तिकदृष्टिः. अक्रियादृष्टिः. मत्सरिवादः. अकृतज्ञता. आनन्तर्यम्. आर्याणां शीलवताम् अभूताभ्याख्यानदानम्. इदं कर्म नरकोपपत्तिसंवर्तनीयम्.
xवि. तत्र कतमत् कर्म तिर्यग्योन्युपपत्तिसंवर्तनीयम्. उच्यते. मध्यमं कायवाङ्मनोदुश्चरितं विचित्रं रागसमुत्थितं कर्म विचित्रं द्वेषसमुत्थितं कर्म विचित्रं मोहसमुत्थितं कर्म. मातापित्रोः प्रव्रजितानां चाकल्पिकप्रदानम्. तिर्यग्योनिगतानां सत्वानाम् अवहसनम्. तथा प्रणिधानकर्म यथा गोव्रतिककुक्कुरव्रतिकप्रभृतीनां प्रणिधानम् अत्रोपपद्येयम् इति.
अ) यथा च बोधिसत्वस्य सिंह जातके ऽवदानं वक्तव्यम्. यथा च वर्षाकारस्य ब्राह्मणस्य मर्कटोपपत्तिः. तद्यथा ( म्क्व् 45 ) वर्षाकारेण ब्राह्मणेन स्थविरमहाकाश्यपो भिक्षू राजगृहस्योपरिमेण गृध्रकूटात् पर्वताद् ऋषिगिरिपार्श्वं विहायसा गच्छन् दृष्टः. तेन प्रदुष्टचित्तेन देवदत्ताजातशत्रुसंसर्गाद् वाग्दुश्चरितं कृतम्. एष श्रमणो विहायसा गच्छन् पर्वतात् पर्वतं गच्छति. तद्यथा मर्कटो वृक्षाद् वृक्षम् एव. भगवतः कथितम्. वर्षाकारेण ब्राह्मणेन क्रोधजातेन वाग्दुश्चरितं कृतम्. तस्य को विपाकः. भगवान् आह. अस्य वाग्दुश्चरितस्य विपाकतो वर्षाकारो ब्राह्मणः पञ्च जन्मान्तरशतानि मर्कटो भविष्यतीति. ततस् तेन वर्षाकारेण श्रुतं भगवता निर्दिष्टत्वं किल पञ्च जन्मान्तरशतानि मर्कटो भविष्यतीति. स संविग्नचित्तं प्रसादितवान्. तेन भगवान् परिनिर्वाणकाले पृष्टः. तस्य कर्मणः कदा परिक्षय इति. भगवान् आह. तान्य् एव पञ्च जन्मान्तरशतानि किं तु राजगृहे उत्पत्स्यसे यथा जम्ब्वा जम्बुद्वीपे जायते. यत्रोष्ट्रिकामात्राणि फलानि. यथा क्षौद्रमध्व् अनेडकम् एवमास्वादानि. ( म्क्व् 46 ) तत्रोपपत्तिर् भविष्यति. ततो व्युत्थितस्य ते सुगतिर् भविष्यति. यथा चित्तप्रदूषणेन सिंहेषूपपन्नः. तदर्थं च भगवता गाथा भाषिता.
दीर्घा जागरतो रात्रिर् दीर्घं श्रान्तस्य योजनम्
दीर्घो बालस्य संसारः सद्धर्मम् अविजानतः.
इदं कर्म तिर्यग्योन्युपपत्तिसंवर्तनीयम्.
xविइ. तत्र कतमत् कर्म यमलोकोपपत्तिसंवर्तनीयम्. उच्यते. क्रुद्धस्य प्रतिहतचित्तस्य कायवाङ्मनोदुश्चरितम्. लोभो विषमलोभो मिथ्याजीवो जिघांसितपिपासितस्य क्रुद्धस्य कालक्रिया. वस्तुष्व् अभिषक्तचित्तस्य कालक्रिया.
अ) यथा चोक्तं भगवता शतवर्गे आगमे कर्मविभङ्गसूत्रे. ( म्क्व् 47 ) तस्य खलु पुनर् आनन्द पुद्गलस्यान्यजातिकृतं वा कर्म प्रत्युपस्थितं भवति. मरणकाले वा मिथ्यादृष्टिः. इदं कर्म यमलोकोपपत्तिसंवर्तनीयम्.
xविइइ. तत्र कतमत् कर्मासुरलोकोपपत्तिसंवर्तनीयम्. उच्यते. सर्वमृदुकायवाङ्मनोदुश्चरितम्. मानः. अभिमानः अधिमानः. अस्मिमानः. मिथ्यामानः. सुकृत कुशलामूलम् असुरलोकोपपत्तिपरिणामितम्. सर्वोत्कृष्टरागसमुत्थितं दौःशील्यं प्रज्ञामुखेन. इदं कर्मासुरलोकोपपत्तिसंवर्तनीयम्.
xइx. तत्र कतमत् कर्म मनुष्यलोकोपपत्तिसंवर्तनीयम्. उच्यते. सुभाविता मन्दभाविताश् च दश कुशलाः कर्मपथाः. कतमे दश. त्रिविधं कायकर्म. चतुर्विधं वाक्कर्म. त्रिविधं मनःकर्म. इदं कर्म मनुष्यलोकोपपत्तिसंवर्तनीयम्.
xx. तत्र कतमत् कर्म कामावचरदेवोपपत्तिसंवर्तनीयम्. उच्यते. सुसमाप्ता दश कुशलाः कर्मपथाः. इदं कर्म कामावचरदेवोपपत्तिसंवर्तनीयम्.
xxइ. तत्र कतमत् कर्म रूपावचरदेवोपपत्तिसंवर्तनीयम्. उच्यते. सुसमाप्ताः सुसमाहितास् ततो विशिष्टतराः परिपूर्णा दश कुशलाः कर्मपथाः. इदं कर्म रूपावचरदेवोपपत्तिसंवर्तनीयम्.
xxइइ. तत्र कतमत् कर्मारूप्यावचरदेवोपपत्तिसंवर्तनीयम्. उच्यते. चतस्र आरूप्यसमापत्तयः. आकाशानन्त्यायतनम्. विज्ञानानन्त्यायतनम्. आकिंचन्यानन्त्यायतनम्. नैवसंज्ञानासंज्ञायतनम्. एताः समापत्तयो भाविता बहुलीकृताश् च भवन्ति. इदं कर्मारूप्यावचरदेवोपपत्तिसंवर्तनीयम्.
xxइइइ. तत्र कतमत् कर्म कृतं नोपचितम्. उच्यते. यत् कृत्वा कर्म आस्तीर्यति जिह्रेति विगर्हति विजुगुप्सति देशयति आचष्टे व्यक्तीकरोति. ( म्क्व् 48 ) आयत्यां संवरम् आपद्यते. न पुनः करोति. इदं कर्म कृतं नोपचितम्.
xxइव्. तत्र कतमत् कर्मोपचितं न कृतम्. उच्यते. यत् कर्म कायेन परिपूरयितव्यम्. तत्र प्रदुष्टचित्तो वाचं भाषते एवं ते करिष्यामीति. इदं कर्मोपचितं न कृतम्.
xxव्. तत्र कतमत् कर्म कृतं चोपचितं च. उच्यते. यत् कर्म सांचेतनिकम्.
अ) यथोक्तं भगवता.
मनःपूर्वङ्गमा धर्मा मनःश्रेष्ठा मनोजवाः
मनसा चेत् प्रदुष्टेन भाषते वा करोति वा
ततस् तं दुःखम् अन्वेति चक्रं वा वहतः पदम्
मनःपूर्वङ्गमा धर्मा मनःश्रेष्ठा मनोजवाः
मनसा चेत् प्रसन्नेन भाषते वा करोति वा
ततस् तं सुखम् अन्वेति छाया वा अनुयायिनी.
इदं कर्म कृतं चोपचितं च.
xxवि. तत्र कतमत् कर्म नैव कृतं नैवोपचितम्. उच्यते. यत् कर्म सांचेतनिकं स्वप्नान्तरे कृतं कारितं वा. इदं कर्म नैव कृतं नैवोपचितम्.
xxविइ. तत्र कतमत् कर्म येन समन्वागतः पुद्गलो नरकेषूपपन्नः परिपूर्णं नैरयिकम् आयुः क्षपयित्वा च्यवति. उच्यते. ( म्क्व् 49 ) इहैकत्येन नरकीयं कर्म कृतं भवत्य् उपचितम्. स तत् कर्म कृत्वा नास्तीर्यति. न जिह्रीयति न विगर्हति न जुगुप्सति न देशयति नाचष्टे न व्यक्तीकरोति नायत्यां संवरम् आपद्यते भूयस्या मात्रया हृष्यति. प्रीतिम् उत्पादयति. यथा देवदत्तकोकालिकादयः. इदं कर्म येन समन्वागतः पुद्गलो नरकेषूपपन्नः परिपूर्णनैरयिकम् आयुः क्षपयित्वा च्यवति.
xxविइइ. तत्र कतमत् कर्म येन समन्वागतः पुद्गलो नरकेषूपपन्नो ऽर्धनैरयिकम् आयुः क्षपयित्वा च्यवति. उच्यते. इहैकत्येन नारकीयं कर्म कृतं भवत्य् उपचितम्. स तत् कृत्वा नास्तीर्यति न जिह्रीयति न विगर्हति न जुगुप्सते न देशयति नाचष्टे न व्यक्तीकरोति. नायत्यां संवरम् आपद्यते. अपि तु न भूयस्या मात्रया हृष्यति. न प्रितिम् उत्पादयति. इदं कर्म येन समन्वागतः पुद्गलो नरकेषूपपन्नो ऽर्धनैरयिकम् आयुः क्षपयित्वा च्यवति.
xxइx. तत्र कतमत् कर्म येन समन्वागतः पुद्गलो नरकेषूपपन्नमात्र एव च्यवति. उच्यते. इहैकत्येन नारकीयं कर्म कृतं भवत्य् उपचितं च. स तत् कृत्वास्तीर्यति. जिह्रीयति. विगर्हति विजुगुप्सति आचष्टे. देशयति. व्यक्तीकरोति. आयत्यां संवरम् आपद्यते. न पुनः कुरुते. स चेन् नरकेषूपपद्यते उपपन्नमात्र एव च्यवति.
अ) यथा राजाजातशत्रुः. तेन देवदत्तसहायेनानन्तर्यकर्म कृतम्. पितृवधः. संघभेदः. धनपालमोक्षणम्. शिलायन्त्रमोक्षणं देवदत्तस्यादेशेन. तस्माद् अवीचिनरकगमनं श्रुत्वा तेन संविग्नेन भगवति चित्तं प्रसादितम्. श्रामण्यफलसूत्रे ऽत्ययदेशनं कृतम्. प्रतिसंदधाति कुशलमूलानि. तेन मरणकाले चित्तं प्रसादितम्. अस्थिभिर् अपि बुद्धं भगवन्तं ( म्क्व् 50 ) शरणं गच्छामि. स उपपन्नमात्र एव च्यवति. इदं कर्म येन समन्वागतः पुद्गलो नरकेषूपपन्नमात्र एव च्यवति.
xxx. तत्र कतमत् कर्म नियतोपपत्तिसंवर्तनीयम्. उच्यते. यत् कृत्वा क्वचिद् उपपत्तौ परिणामयति अमुत्रोपपद्येयम् इति. स तत्रोपपद्यते.
यथा भगवतो जातके श्यामाकजातकप्रभृतिषु प्रणिधानवशाद् उपपत्तिर् वर्ण्यते. इदं कर्म नियतोपपत्तिसंवर्तनीयम्.
xxxइ. तत्र कतमत् कर्मानियतोपपत्तिसंवर्तनीयम्. उच्यते. यत् कृत्वा न क्वचिद् उपपत्तौ परिणामयति अमुत्रोपपद्येयम् इति. यथा सत्वाः कर्मवशाद् उपपद्यन्ते. इदं कर्मानियतोपपत्तिसंवर्तनीयम्.
xxxइइ. तत्र कतमत् कर्म देशान्तरविपाकम् उच्यते. यत् कर्म तस्मिन्न् एव जन्मान्तरे वा देशान्तरगतस्य विपच्यते शुभम् अशुभं वा. तत् कर्म देशान्तरविपाकम्. यथा भगवान् कथयति. भूतपूर्वं भिक्षवो जम्बुद्वीपे मनुष्याणम् अपरिमाणम् आयुर् भवति. यथा राज्ञो मान्धातुः. अथान्यतरस्मिन् नगरे मैत्रायज्ञो नाम ( म्क्व् 51 ) सार्थवाहपुत्रो बभूव. स पञ्चशतसहायपरिवृत उद्यानं गतः. तैश् च सहायैर् उक्तः. अस्मिन् नगरे बणिजस् तव पितरं पूर्वङ्गमं कृत्वा महासमुद्रम् अवतीर्य सुवर्णभूमिप्रभृतीनि देशान्तराणि गत्वा द्वीपान्तराणि च पश्यन्ति. द्रव्योपार्जनं च कुर्वन्ति. वयम् अपि त्वां पूर्वङ्गमं कृत्वा समुद्रम् अवतीर्य द्रव्योपार्जनं करिष्यामो द्वीपान्तराणि च द्रक्ष्यामः. ततस् तेन एवम् इति प्रतिश्रुतम्. स रात्रौ गत्वा मातरम् आपृच्छति. अम्ब सुवर्णभूमिं गमिष्यामः. तस्य माताह. अपरिमाणं पुत्र द्रव्यं गृहे तिष्ठति. न गन्तव्यम् इति. स मातुर् वचनेन निवृत्तः. स भूय उद्यानं गतः सहायैर् उक्तः. तम् अर्थं विज्ञापयामः. तेन तथास्त्व् इति प्रतिश्रुतम्. स भूयो मातरं गत्वापृच्छति. भूयश् च मात्रा पादपतनान् निवर्तितः. एवं तृतीयम् अपि. स कालान्तरेण भूय ( म्क्व् 52 ) उद्यानं गत्वा सहायैर् उक्तः. तव दोषाद् वयम् अपि न गच्छामः. पृच्छामो वयम्. त्रयोदश्यां गमिष्याम इति. तेन मातुर् अविदितम् एव बहिर् बहु भाण्डं निर्गमितम्. तस्य गमनकाले प्रस्थितस्य माता द्वारे पादपतनं कृत्वा स्थित्वा. पुत्र न गन्तव्यम् इति. स क्रुद्धो मातुः पादं मस्तके दत्त्वातिक्रान्तः समुद्रकूलं च गतः. तेन सहाया उक्ताः. समुद्रम् अवतरतां न ज्ञायते जीवितं मरणं च. वयं सर्व एवाष्टाङ्गसमन्वागतं पोषधं गृह्णामः. तैस् तथास्त्व् इति प्रतिपन्नम्. पोषधं च गृहीतम्. ते समुद्रम् अवतीर्णाः. समुद्रमध्यगतानां च तेषां विषमवाताद्याहतः पोतो विनष्टस् तेन सर्वे कालगताः. मैत्रायज्ञश् च म. प्रटमुख्यान् अवबद्धं ताम्रघतं च गृह्य समुद्रकूल उत्तीर्णः स पर्यटमानः सौवर्णप्राकारं नगरं पश्यति. आरामसंपन्नं वनसंपन्नं पुष्करिणीसंपन्नम्. धूपितधूपनं मुक्तपुष्पावकीर्णम् अवसक्तपट्टदामकलापम्. ततश् चतस्रो ऽप्सरसो निर्गताः. स ताभिर् गृह्य नगरं प्रवेशितः. स ताभिः सार्धं बहूनि वर्षाणि क्रीडितवान्. बहूनि वर्षशतानि. बहूनि वर्षसहस्राणि बहूनि वर्षशतसहस्राणि क्रीडितवान्. स ताभिर् उक्तः. आर्यपुत्र तवायं पृथिवीप्रदेशो ऽपूर्वः. अस्माकम् अविदितं न निर्गन्तव्यम्. यदि निर्गच्छसि सर्वथोत्तराभिमुखेन न गन्तव्यम्. इति. स तस्मात् कालान्तरेण निर्गतः. स भूयो गच्छन् नगरं पश्यति. रूप्यमयेन प्राकारेण. आरामसंपन्नं वनसंपन्नम्. पूर्ववद् यावत्. तस्माद् अप्य् अष्टाव् अप्सरसो निर्गताः. ताभिर् अप्य् असौ गृह्य प्रवेशितः. स ताभिः सार्धं बहूनि वर्षाणि क्रीडितवान्. बहूनि वर्षशतानि. बहूनि वर्षसहस्राणि बहूनि वर्षशतसहस्राणि क्रीडितवान्. पूर्ववत्. ततो ऽपि कालान्तरेण निर्गतः. भूयश् च पर्यटन् नगरं पश्यति. वैदूर्यमयेन प्राकारेण आरामसंपन्नं वनसंपन्नम्. पुष्करिणीसंपन्नम्. धूपितधूपनम्. मुक्तपुष्पावकीर्णम् अवसक्तपट्टदामकलापम्. तस्माद् अपि षोडशाप्सरसो निर्गताः. ताभिर् अपि सार्धं बहूनि वर्षाणि क्रीडितवान्. पूर्ववत्. स ताभिर् उक्तः. आर्यपुत्र तवायं पृथिवीप्रदेशो ऽपूर्वः. अस्माद् विहारात् तेन न निर्गन्तव्यम्. अथ निर्गच्छसि. सर्वथोत्तरामुखेन न गन्तव्यम् इति. स तस्मात् कालान्तरेण निर्गतः. भूयाः पर्यटमानः ( म्क्व् 53 ) स्फटिकप्राकारेण नगरम्. तथैवारामसंपन्नम्. वनसंपन्नं पुष्करिणीसंपन्नम्. धूपितधूपनं मुक्तपुष्पावकीर्णम् अवसक्तपट्टदामकलापम्. तस्माद् अपि द्वात्रिंशद् अप्सरसो निर्गताः. ताभिर् अपि सार्धं बहूनि वर्षाणि बहूनि वर्षशतानि बहूनि वर्षशतसहस्राणि क्रीडितवान्. स ताभिर् अप्य् उक्तः. आर्यपुत्र तवायं पृथिवीप्रदेशो ऽपूर्वः. अस्माद् विहारात् तेन न निर्गन्तव्यम्. अथ निर्गच्छसि. उत्तरामुखेन न गन्तव्यम् इति. स तासां प्रमादाद् रतिखिन्नो निर्गतः. उत्तराभिमुखेन गच्छन् कण्टकाटवीं प्रपन्नः. अथ कृष्णायसेन प्राकारेण नगरं पश्यति. स तत्र प्रविष्टः. प्रविष्टमात्रस्य च नगरद्वारं पिहितम्. ऊर्ध्वं पश्यति. प्राकारो वर्धते भैरवं च शब्दं शृणोति. तत्रस्थश् च चिन्तयति. किम् एतद् इति. स तत्र गतः. अथ पश्यति पुरुषस्यासिधरं चक्रं शिरश् छिनत्ति. स भीतः पृच्छति. किम् एतद् भो पुरुष. नैरयिकपुरुषः प्राह. एष प्रत्येकनरकः. मैत्रायज्ञ आह. किं त्वया पापकर्म कृतम् इति. स कथयति. अस्मिन् जम्बुद्वीपे महाकोशली नाम नगरम्. तत्राहं महासार्थवाहपुत्रो ऽभूवम्. स पञ्चभिः सहायशतैः सहोद्यानं गतः. ते कथयन्ति. तव पिता सार्थवाहो ऽस्माकं पूर्वपुरुषो ऽस्ति. पूर्वङ्गमं कृत्वा देशान्तराणि गत्वा द्रव्योपार्जनानि कुर्वन्ति. सुवर्णभूमिं सिंहलद्वीपं च प्रभृतीनि च द्वीपान्तराणि पश्यन्ति. वयम्
अपि त्वया पूर्वङ्गमेन देशान्तरं पश्याम इति. वयम् अपि गच्छाम इति प्रतिश्रुतम्. सो ऽहं गृहं गत्वा मातरम् आपृष्टवान्. अहम् एवं देशान्तरं गमिष्यामीति. माता म आह. पुत्र तव पिता समुद्रम् अवतीर्णो देशान्तरं गत एव कालगतः. त्वम् एकपुत्रकः. प्रभूतं गृहे द्रव्यं तिष्ठति. न गन्तव्यम्. इति. मया न गच्छामीति प्रतिश्रुतम्. एवं द्वितीयं तृतीयं चतुर्थम् अप्य् आपादपतनं निवर्तितः. कालान्तरेणाहं भूयो ऽप्य् उद्यानं गतः सहायैर् उक्तः. अवश्यं गन्तव्यम् इति. गमिष्यामीति मया प्रतिश्रुतम्. अथ मम प्रस्थितस्य माता द्वारे पादपतनं कृत्वा स्थिता. पुत्र नार्हसि मां परित्यक्तुम् इति. तस्याहं मस्तके पादं दत्त्वा प्रक्रान्तः. सो ऽहं पञ्चभिः सहायशतैः सार्धं समुद्रकूलं गतः. अष्टाङ्गसमन्वागतं पोषधं गृह्य समुद्रम् अवतीर्णः. सुवर्णभूमिप्रस्थितानाम् अस्माकं विषमवाताद्याहतः पोतो विनष्टः. ते सर्वे कालगताः. अहं तु बहुभिर् दिवसैः कथंचन समुद्राद् उत्तीर्णो ऽथ प्रपीड्यमानः सौवर्णेन प्राकारेण नगरम्. आरामसंपन्नम्. वनसंपन्नम्. पुष्करिणीसंपन्नम्. धूपितधूपनम्. मुक्तपुष्पावकीर्णम्. अवसक्तपट्टदामकलापम्. तस्माच् चतस्रो ऽप्सरसो निर्गताः. ताभिः प्रवेशितो ऽस्मि. यावत्. ( म्क्व् 54 ) ताभिर् अपि सार्धं बहूनि वर्षाणि. बहूनि वर्षशतानि. बहूनि वर्षशतसहस्राणि क्रीडितम्. ततः कालान्तरेण निर्गच्छन् प ... पूर्ववत्. तस्माद् अप्सरसो निर्गताः. ताभिः प्रवेशितो ऽस्मि. यावत्. ताभिर् अपि सार्धं बहूनि वर्षाणि बहूनि वर्षशतानि बहूनि वर्षशतसहस्राणि क्रीडितम्. एवं वैदूर्यमयम्. तस्माद् अपि षोडशाप्सरसो निर्गताः .... तस्माद् अपि निर्गतह्. स्फटिकमयं नगरं पश्यामि. पूर्ववत्. तस्माद् द्वात्रिंशद् अप्सरसो निर्गताः. ताभिर् अपि सह तथैव क्रीडितम् ...... कण्टकाटवीं प्रपन्नः. यावद्. आयसनगरं पश्यामि. सो ऽहम् अत्र प्रविष्टः. प्रविष्टस्य मे द्वारं पिहितम्. अत्र च पूर्ववत् ....... असिधरं चक्रं शिरसि परिवर्तमानं पश्यामि. तत्र च ममावस्थितस्य शिरसि असिधरं चक्रं संक्रान्तम्. यद् अहं मातु ... निवृत्तः. अष्टाङ्गसमन्वागतं च पोषधं गृहीतम्. तस्य कर्मणो विपाकेन चतुर्षु महानगरेषु प्रत्येकस्वर्गस्व .... मातुः शिरसि पादं दत्त्वा गतः. तस्य कर्मणो विपाकेन ममासिधरं चक्रं शिरश् छिनत्ति. मैत्रायज्ञश् चिन्तयति. मयाप्य् एतद् एव कर्म कृतम्. उपस्थितो ममापि कर्मविपाक इति. नैरयिकपुरुसः प्राह. कुतस् त्वम्. मैत्रायज्ञः कथयति. अस्ति जम्बुद्वीपे तामलिप्तं नाम महानगरम्. ततो ऽहम्. मयापि चैतत् सर्वम् अनुष्ठेयम्. नैरयिकपुरुषः प्राह. अस्ति मयाद्यान्तरिक्षे घोषः श्रुतः. क्षीणस् तव कर्मविपाकः. मैत्रायज्ञो नाम सार्थवाहपुत्रः अद्यागमिष्यति. एतद् एव कर्म कृत्वेति. मैत्रायज्ञ आह. किं भोजनम्. स आह. अत एव मस्तकाच् छिद्यमानाद् यत् पूयशोणितं स्रवति. एवम् उक्त्वा स पुरुषः कालगतः पतितः. मैत्रायज्ञो भीतः संविग्नः. सर्वेण भावेन मातापित्रोः प्रणिपातं कृत्वाह.
ऊर्ध्वं भवाग्रविततान् अधराद् अवीचिं
तिर्यक्प्रथान् अगणितान् अपि लोकधातून्
आत्मन्स्व सुरासुरनरोरगभूतकाये
सत्वानि यानि उपगतानि सुखिनो भवन्तु
एवं चिन्तयित्वा सर्वेण भावेन मातापित्रोर् नमस्कारं कृत्वा प्रणिपातं च प्रणिधानं च कृतवान्. यत्र यत्रोपपद्यामि मातापित्रोः शुश्रूषां कुर्याम् अहम् इति. ये च केचन सत्वा प्रत्येकनरके उपपद्यन्ते तेषां सर्वेषाम् अर्थायाहम् अत्रावस्थितः. ये च केचन लोके युक्ताश् च मुक्ताश् च तेषां नमः. ते मां पालयन्तु. इदम् उक्त्वा तस्मिन् नैरयिकपुरुषः काले स्थितः. पुनश् च प्रणिधानं कृत्वा पुनर् अप्य् आह.
कृत्वादौ नरकम् अवीचिम् आभवाग्राद्
ये सत्वाश् च्युतिगतिबन्धनावबद्धाः
ते सर्वे सुखम् अतिनाप्य धर्मयुक्तं
निर्वाणं यद् अजरम् अच्युतं स्पृशन्तु.
अथ तच् चक्रम् अस्पृशमानं शिरसि नित्यकालम् एवोपरि विहायसि स्थितम्. नित्यं च किल तस्य माताशिषं प्रयुङ्क्ते. यद्य् अस्ति मम किंचित् पुण्यफलं प्रदानेन वा शीलेन वा ब्रह्मचर्येण वा पतिव्रतत्वेन वा तेन पुण्यफलेन मम पुत्रस्य यत्र तत्र स्थितस्य मा किंचित् पापं भवतु. तेन च तस्य शिवम् आसीत्.
ब्) यथा श्यामजातके सविषेण शरेण ... श्यामकुमारस्य मातापित्रोर् आशीर्वचनेन शल्यश् च निर्गतो विषं च नष्टं मृतश् च संजीवितस् तद्वत् तस्यापि शिवम् आसीत्. यथा वज्रराजगृहे धनंजयसूत्रे आर्यशारद्वतीपुत्रेणोक्तम्. तम् एनं ब्राह्मणं मातापितरौ समं मानितौ सम्यक् पूजितौ कल्याणेन मनसानुकम्पेते. ( म्क्व् 56 ) अधोसी वतन पुत्रो धार्मिकेण कर्मगुणेन न च किंचित् पापं कर्म करोति. सर्वं सूत्रं योज्यम्. यथा च शिवालकसूत्रे भगवतोक्तम्. तम् एवं गृहपतिपुत्र मातापितरौ पञ्चसु स्थानेषु प्रत्युपस्थितौ पञ्चसु स्थानेषु प्रतिष्ठापयतः. तस्य पुनर् गृहपतिपुत्र मातापितृभ्याम् अनुकम्पितस्य पुरुषपुद्गलस्य वृद्धिर् एवं प्रत्याशंसितव्या.
च्) स तत्र प्रीत्याहारः स्थित्वा परिपूर्णेषु षष्टिवर्षसहस्रेषु कालगतः.
द्) यथा राजाजातशत्रुर् अपरिपूर्ण एव नैरयिकायुःप्रमाणे च्युतः. अबन्ध्यत्वात् कर्मणां कदाचिद् अतीव शिरोरुजा भवति.
ए) अत्र कृतप्रणिधानस्य मैत्रायज्ञस्य मातापितृशुश्रूषा वक्तव्या. यथा श्यामजातके ऽन्धौ मातापितरौ हस्तिभूतेन परिपालितौ. अन्येषु जातकशतेषु च.
f) अथ भगवान् प्राप्तकालं भिक्षून् आमन्त्रयते. स्याद् एवं भिक्षवो युष्माकम् अन्यः स तेन कालेन तेन समयेन मैत्रायज्ञो नाम सार्थवाहपुत्रो बभूवेति. नैवं द्रष्टव्यम्. अहं स तेन कालेन तेन समयेन मैत्रायज्ञो नाम सार्थवाहपुत्र आसीत्. तस्मात् तर्हि भिक्षवो मम वचनं श्रद्दधानैर् बुद्धे सगौरवैर् भवितव्यं धर्मे संघे सगौरवैर् भवितव्यम्. मातापितृषु आचार्योपाध्यायेषु सगौरवैर् भवितव्यम्. एवं वो भिक्षवः शिक्षितव्यम्. य एवं देशान्तरगतः सुखं दुःखं प्रत्यनुभवति. ( म्क्व् 57 ) यथा मैत्रायज्ञेन देशान्तरगतेन तस्मिन्न् एव जन्मनि प्रत्येकस्वर्गं प्रत्येकनरकं चानुभूतम्. य एवं देशान्तरगतः सुखं दुःखं प्रत्यनुभवति. इदं कर्म देशान्तरविपाकम्.
ग्) एतद् दर्शयति भगवान्. यथा मयि तथा मातापितृषु. आचार्योपाध्यायेषु वचनकारिणां समो विपाकः इह लोके परलोके च. कथम् इह लोके समः कर्मविपाको भवति. यथा श्रावस्त्यां दरिद्रपुरुषो भगवन्तं सश्रावकसंघं भुञ्जानं दृष्ट्वा चित्तं प्रसादितवान्. तेन महापुण्यसंभार उपार्जितः राज्यसंवर्तनीयं कर्म कृतम्. तद् एव च मोक्षबीजम्. तच् च ज्ञात्वा भगवता गाथा भाषिता.
ये तत्राभ्यनुमोदन्ते वैयावृत्यकराश् च ये
अनूना दक्षिणा तेषां ते ऽपि पुण्यस्य भागिनः.
एतद् एव गाथा समुत्थानम्.
मनःपूर्वङ्गमा धर्मा मनःश्रेष्ठा मनोजवाः
मनसा चेत् प्रसन्नेन भाषते वाकरोति वा
ततस् तं सुखम् अन्वेति छाया वा अनुयायिनी.
ततश् च्युतश् च देवेषूपपन्नः. यथा च तगरशिखी नाम प्रत्येकबुद्धः. दुर्भिक्षे दरिद्रपुरुषेण सूपः प्रतिपादितः. स च तदहर् एव तस्मिन् नगरे राजाभिषिक्तः. ततः कालान्तरेण प्रत्येकबुद्धः संवृत्तः. य एष सूत्रन्तरे परिपठितः प्रत्येकबुद्धस् ( म्क्व् 58 ) तगरशिखी नाम. एवं तावद् भगवति सांदृष्टिकश् चित्तप्रसादस्य फलविपाकः.
ह्) कथं मातापितृषु. यथा मैत्रायज्ञः सार्थवाहपुत्रः आचतुर्थं प्रतिनिवृत्तो मातुर् वचनेन चतुर्षु महानगरेषु प्रत्येकस्वर्गसुखम् अनुभूतवान्. तत् तु तस्य मोक्षबीजम्. एवं मातापितृष्व् अपि सांदृष्टिकः फलविपाकः.
इ) कथं भगवति मातापितृषु च चित्तप्रदोषेण नरकगमनं भवति. उच्यते. देवदत्तो भगवति चित्तं प्र ... तो ऽवीचौ महानरके पतितः. तथा सिन्धु विषये रौरुकं नाम नगरम्. तत्र शिखण्डी राजपुत्रः पितरं घातयित्वा नरके पतितः. एवं भगवति मातापितृषु च चित्तप्रदूषणेन नरकगमनं भवति.
ज्) तेन कारणेन किं नास्ति नानाकरणम्. उच्यते. महान्तं नानाकरणम्. भगवान् अनेककल्पशतसहस्रोपार्जितकुशलमूलसंभूतसंभारः अनुत्पन्नस्य मार्गस्योत्पादयिता बुद्धो बोधाय मार्गं देशयति. तस्मिन् कृतः प्रसादो ऽप्रमेयफलविपाकः अन्ते च निर्वाणम्. मातापित्रोर् मोक्षमार्गो ऽविदितः. अपि च न सर्वं मातापित्रोर् वचनं कार्यम्. सन्ति केचिन् मिथ्यादर्शनोपहतचित्ताः पुत्रान् ब्रुवन्ति. एहि माम् अवसनं नय. तव च भविष्यति हिताय ( म्क्व् 59 ) सुखाय मम च. [प्रपाते मां पा]तयाग्नौ वा प्रवेशयेति. तन् नैव कर्तव्यम्. किं कारणम्. मातापितरौ घातयित्वावश्यं नरकगमनम्. अत एव भगवता प्रतिषिद्धो न मातापितृघातकः प्रव्राजयितव्यः नास्ति तस्य प्रव्रज्या नोपसंपदा. नास्ति फलप्राप्तिः. एवंविधं वर्जयित्वान्यथा समसमा मातापितर आचार्योपाध्यायाः. कथं च समसमा. ननु भगवतोक्तम्. मातापित्रोः पुत्रस्नेहो यावद् अस्थिमज्जाम् आश्रित्य तिष्ठत्य् अत एव मातापितृभ्याम् अननुज्ञातस्य नास्ति प्रव्रज्या. यथार्यराष्ट्रपालशोणप्रभृतयो भगवता मातापितराव् अननुज्ञाप्य न प्रव्राजिताः. अद्यापि तान् अननुज्ञातान् न प्रव्राजयन्ति. यथा च भगवति प्रव्रजिते शुद्धोदनस्य पुत्रशोकेन चक्षुषी अन्तर्हिते. उच्यते. मातापितरः पञ्च स्थानानि प्रत्याशंसमानाः पुत्रम् इच्छन्ति. शंवर्धितो नो वृद्धीभूतान् पालयिष्यति कार्यं च करिष्यति द्रव्यस्वामी च भविष्यति. कालगतानां च पितृपिण्डं दास्यति. कुलवंशश् च चिरस्थितिको भविष्यति. इमानि पञ्च स्थानानि प्रत्याशंसमाना मातापितरः पुत्रम् इच्छन्ति. नैवम् आचार्योपाध्यायाः. केवलम् एव कारुण्यं पुरस्कृत्य कथम् अस्या नादिकालप्रवृत्तस्य संसारचक्रस्य पर्यन्तं कुर्याद् इति. यथा भगवता विनय उक्तम्. उपाध्यायस्य शिष्ये पुत्रसंज्ञा भवति. शिष्यस्याप्य् उपाध्याये पितृसंज्ञा भवति. एवम् अन्योन्यनिश्रिताः सुखिनो भविष्यन्ति. एवम् आचार्योपाध्यायाः समसमा मातापितृभिः. यथा चक्रवर्तिसूत्र ( म्क्व् 60 ) उक्तं भगवता. कस्य कर्मणो विपाकेन राजा चक्रवर्ती हस्तिरत्नान्य् अश्वरत्नानि च प्रतिलभते. दीर्घरात्रं राजा चक्रवर्ती मातरं पितरं वा स्वयं वा स्कन्धे वहति वा रथादिभिर् वाहयति वा. आचार्योपाध्यायान् स्वयं वहति वाहयति वा. तस्य कर्मणो विपाकेन राजा चक्रवर्ती हस्त्यश्वरत्नानि प्रतिलभते. अनेनापि कारणेन समसमा मातापितर आचार्योपाध्यायाश् च. अपि त्व् अस्त्य् अन्यत्र नानाकरणम्. गृहस्थानां मातापितृ प्रव्रजिताः पूज्याः. प्रव्रजितानाम् आचार्योपाध्याया एव पूजनीयाः. यथा महीशासका गोत्रान्तरीया विनये ऽर्थोत्पत्तिं धारयन्ति. यथाह भगवान्. न भिक्षवः आचार्योपाध्यायान् अनापृष्ट्वा देशान्तरं गन्तव्यम्. कस्माद्. भवति भिक्षवो जीवितान्तरायो भवति ब्रह्मचर्यान्तरायो भवति पात्रचीवरान्तरायः. भूतपूर्वं भिक्षवो मैत्रायज्ञो नाम सार्थवाहपुत्र आसीद् इति. एतद् एवावदानं यथावस्थितं वक्तव्यम्. एवम् एव समसमा आचार्योपाध्याया मातापितरश् च. यथा चोक्तं भगवता. यो भिक्षवो मातापितरौ स्कन्धेन गृह्य जम्बुद्वीपं पर्यटेत योगोद्वहनं च कुर्यात् चतुर्षु ( म्क्व् 61 ) द्वीपेषु हिरण्यसुवर्णं च दद्यात्. एवम् अपि मातापित्रोः प्रत्युपकारो न कृतो भवति. यश् च पुनर् बुद्धे प्रसादयेत्. धर्मे. संघे. पञ्चसु शिक्षापदेषु आर्यकान्तेषु शीलेषु प्रतिष्ठापयेत्. एवं मातापितॄणां पुत्रैः प्रत्युपकारः कृतो भवति. तच् च सर्वम् आचार्योपाध्यायाः कुर्वन्ति. यथाह भगवान् दक्षिणाविभङ्गसूत्रे. यथानन्द पुद्गलः पुद्गलम् आगम्य बुद्धं शरणं गच्छति धर्मं संघं शरणं गच्छति यथोक्तानि च शिक्षापदानि वक्तव्यानि. तेनानन्द पुद्गलेन तस्य पुद्गलस्य न शक्यं प्रतिकर्तुम्. यद् इदम् अभिवादनप्रत्युत्थानमात्रेणैवम् अपि प्रतिविशिष्टतरा आचार्योपाध्याया मातापितृभ्याम्. यथा च महाकात्यायनेनावन्तिप्रभृतयः पश्चिमजनपदा अभिप्रसादिताः. यथा चार्यमध्यन्दिनेन काश्मीरायां पञ्च नागशतनि विनीय देशो ऽभिप्रसादितः ( म्क्व् 62 ) अनवतप्तसरसश् च कुङ्कुमम् आनीय कश्मीरायां प्रतिष्ठापितम्. तच् चाद्यापि लोकोपभुक्तम्. विहारश् च कारितो ऽद्यापि च तत्रैव प्रतिवसन्ति. यथा आर्यगवांपतिना सुवर्णभूम्यां योजनशतं जनपदो ऽभिप्रसादितः. यथा च पूर्वविदेहा आर्यपिण्डोलभारद्वाजेनाभिप्रसादिता विहाराश् च कारिता अद्यापि तत्रैव ( म्क्व् 63 ) प्रतिवसन्ति. यथा चार्यमहेन्द्रेण सिंहलद्वीपे विभीषणप्रभृतयो राक्षसाः समये स्थापिता देशश् चाभिप्रसादितः. यथा चाध्यर्धशतके सूत्र आर्यपूर्णेन शूर्पारके नगरे पञ्चोपासकशतानि ( म्क्व् 64 ) अभिप्रसादितानि. चन्दनमालश् च विहारः कारितः. यथा च भगवान् पञ्चभिर् भिक्षुशतैः सार्धं विहायसा तत्र गतो जनकायश् चाभिप्रसादितः. अपि च किम् एकैकस्य भिक्षोर् नामग्रहणेन कृतेन यतो भगवान् परिनिर्व ... न्तर् यः कश्चिद् विनीतो भिक्षुर् वा भिक्षुणी वोपासको वोपासिका वा सर्वे ते भिक्षुभिर् एव विनीताः. यश् च येनाभिप्रसादितः स तस्याचार्योपाध्यायाश् च एत .... त भगवान् मातापितरः पञ्च स्थानानि प्रत्यनुशंसमानाः पुत्रम् इच्छन्ति. आचार्योपाध्यायास् तु कारुण्यान् निर्वाणं धर्मं देशयन्ति. अनेनापि कारणेन मातापितृभ्य आचार्योपाध्यायाः प्रतिविशिष्टतरा
इति. अत एवम् आह भगवान्. मम भिक्षवो वचनं श्रद्दधानैर् भगवति परः प्रसादः कार्यः धर्मे संघे मातापितृष्व् आचार्योपाध्यायेषु परः प्रसादः कार्यः. तद् वो भविष्यति दीर्घरात्रं हिताय सुखायेति. इदं कर्म देशान्तरविपाकम्.
xxxइइइ. कतमत् कर्म येन समन्वागतः पुद्गलः पूर्वं सुखितो भूत्वा पश्चाद् दुःखितो भवति. उच्यते. इहैकत्यो दानं याचितः समानः पूर्वं प्रहृष्टः प्रतिजानीते प्रमुदितो ददाति. दत्त्वा च खलु प्रतिसारी भवति. स यदा मनुष्येषूपपद्यते. आढ्येषु महाधनेषु महाभोगेषु कुलेषूपपद्यते. पश्चात् तस्य ते भोगाः परिक्षयं पर्यादानं गच्छन्ति. स पश्चाद् दरिद्रो भवति. यथार्यगोपकः. तेन किल ककुच्छन्दे सम्यक्संबुद्धे भिक्षुसंघस्य गोधेनुर् दत्ता. स पश्चात् परैर् गर्हितो न साधुकृतेयं दत्तेति. तेन चित्तं प्रदूषितम्. स यत्र यत्रोपपद्यते तत्र तत्र महाधनो भवति. पश्चात् तेन चित्तप्रदोषेण दरिद्रो भवति. पश्चिमे भवे ऽपि राजगृहे नगरे ( म्क्व् 66 ) ऽन्यतरस्मिन् गृहे प्रत्याजातः. तस्य जायमानस्य माता कालगता. अनेन माता मारिता जायमानेन मूलनक्षत्रे जातो ऽयं मा निर्मूलं कुलं करिष्यत्य् अमङ्गलो ऽयम् इति मात्रा सार्धं श्मशाने उत्सृष्टः. तत्रापि च मातुर् एकस्तनात् क्षीरं प्रघरति तेनैव पुण्यानुभावेन. विवृद्धश् च भगवतागत्य प्रव्राजितः. एतच् च सर्वम् अनुपूर्वेण भगवता भिक्षूणां कथितम्. एवम् अनेन पूर्वं क्षीरधेनुः प्रसादजातेन दत्ता पश्चाद् विप्रतिसारी संवृत्तः. तस्येदं कर्मफह्म्. यस् त्व् असौ पूर्वकश् चित्तप्रसादस् तद् एवास्य मोक्षबीजम्. यथा च चम्पायां महानगर्याम् ईश्वरो गृहपतिपुत्रः. तेन भृत्यानां हस्ते सर्वं धनं चतुर्दिशं बाणिज्याय प्रेषितम्. तच् च सर्वं देशान्तरगतं विनष्टम्. स च परकर्मकरः संवृत्तः. इदं कर्म येन समन्वागतः पुद्गलः पूर्वं सुखितो भूत्वा पश्चाद् दुःखितो भवति.
xxxइव्. कतमत् कर्म येन समन्वागतः पुद्गलः पूर्वं दुःखितो भूत्वा पश्चात् सुखितो भवति. उच्यते. इहैकत्यो दानं समादाय याचितः समानः प्रतिजानीते. कृच्छ्रेण ददाति. दत्त्वा तु दानं पश्चात् प्रीतिम् उत्पादयति. स यदा मनुष्येषूत्पद्यते दरिद्रेषु कुलेषूत्पद्यते. तस्य पश्चात् ते भोगा अभिवृद्धिं गच्छन्ति. अत्र चानिरुद्धस्यावदानं वक्तव्यम्. तेन किल राजगृहे ( म्क्व् 67 ) श्यामाकतण्डुलभक्तम् उपरिष्ठस्य प्रत्येकबुद्धस्य पिण्डपातो दत्तः. तद्दिवसम् एव राज्ञा तुष्टेनाष्टौ महाग्रामा दत्ताः. तच् च पश्चिमकं दारिद्र्यम्. यथा तस्यैव व्याकरणं पूर्वापरान्तके सूत्रे. यथा च श्रावस्त्यां दरिद्रपुरुषेण स्वजनफलानि याचित्वा क्षेत्रं नीतानि कर्षणार्थे. तस्य पत्न्या परगृहे भाजनम् आधाय व्रीहिम् आनीय भक्तं सिद्धम्. अथ भगवता शारिपुत्रमौद्गल्यायनमहाकाश्यपसुभूतिप्रभृतयः एते उक्ताः. अमुकस्य गृहपतेर् गृहे प्रथमं भैक्ष्यं ग्रहीतव्यम् इति. ते च सर्वे यथानुपूर्वं तत्र गताः. सर्वैश् च तस्माद् भैक्ष्यं लब्धम्. अथ पश्चाद् भगवान् अपि गतः. तया स्त्रिया जातप्रसादया परिशिष्टं भक्तं सर्वं भगवतो दत्तं प्रणिधानं च करोति. अनेन भगवन् कुशलमूलेन मा मे भूयः कदाचिद् दारिद्र्यं स्याद् इति. तथास्त्व् इति भगवता प्रतिश्रुतम्. तदहर् एव तस्य महानिधानं प्रादुर्भूतम्. तच् छ्रुत्वा राजाप्रसेनजित् तस्मिन् गृहे गतः. तेनोक्तम्. अस्माकं पूर्वराजभिस् ते दीनाराः स्थापिता इति. गृहपतिना तस्य ततो गृह्याञ्जलिपूरो दत्तः. अङ्गारः संवृत्तः. राज्ञा भूयो गृहपतेर् दत्ताः. सुवर्णं संवृत्तम्. अथा राजा प्रसेनजिद् विस्मयजातः. गत्वा भगवतो निवेदयति. भगवान् आह. पुण्यनिर्जाता गृहपतेर् न ग्राह्या. सर्वं च तदानुपूर्वेण कथितम्. एवम् एष यदा दाता भवति दुःखेन याचितः समानः प्रतिजानीते. दुःखेन ( म्क्व् 68 ) ददाति दत्त्वा च चित्तं प्रसादयति. तेन हेतुना पूर्वं दरिद्रो भूत्वा पश्चान् महाधनो भवति. इदं कर्म येन समन्वागतः पुद्गलः पूर्वं दुःखितो भूत्वा पश्चात् सुखितो भवति.
xxxव्. कतमत् कर्म येन समन्वागतः पुद्गलः पूर्वं च पश्चाच् च सुखितो भवति. उच्यते. इहैकत्यो दानं याचितः स प्रहृष्टः प्रतिजानीते प्रहृष्टो ददाति. दत्त्वापि च प्रीतिमान् भवति. स यदा मनुष्येषूपपद्यते. आढ्येषु कुलेषूपपद्यते महाधनेषु महाभोगेषु. अत्र भद्रिके नगरे मिण्ढकप्रभृतीनां चतुर्णां दानपतीनां विपाको वक्तव्यः. तैः किल तगरशिखी प्रत्येकबुद्धः पिण्डपातेन प्रतिपादिलः. अत्र विनयावदानं वक्तव्यम्. इदं कर्म येन समन्वागतः पुद्गलः पूर्वं च पश्चाच् च सुखितो भवति.
xxxवि. कतमत् कर्म येन समन्वागतः पुद्गलः पूर्वं च पश्चाच् च दुःखितो भवति. उच्यते. इहैकत्यः कल्याणमित्र विरहितो भवति. स दानं न ददाति. न च तेन किंचित् पापकं कर्म कृतं भवति. स यदा मनुष्येषूपपद्यते दरिद्रेषु कुलेषूपपद्यते. अल्पान्नपानभोजनेषु. यथा श्रावस्त्यां दरिद्रदारकस्यावदानं वर्णयन्ति. श्रावस्त्यां किल भगवान् पिण्डपातं पर्यटति. तदा च श्रावस्त्याम् इक्षुद्वादशी नाम भवति. भगवता चेक्षूणि लब्धानि. अन्यतरस्मिन् गृहद्वारे दरिद्रदारकस् तिष्ठति. स भगवन्तम् इक्षूणि याचति. भगवतैकं दत्तम्. स ( म्क्व् 69 ) भूयो याचतिः भगवान् आह. वत्स. उच्यताम्. नेच्छामीति ते भूयो दास्यामीति. स प्राह. मया भगवन् न कदाचिन् नेच्छामीत्य् उक्तं पूर्वम्. भगवान् आह. वत्स. उच्यतां नेच्छामि भगवन् सर्वाणि दास्यामीति. तेनेक्षुलोभान् नेच्छामीत्य् उक्तम्. भगवता सर्वाणि दत्तानि. अथार्यानन्दः पृच्छति. भगवन् किम् इदम्. भगवान् आह. न कदाचिद् एष आनन्द रूपरसगन्धस्पर्शादीनां तृप्तपूर्वो ऽभवत् नेच्छामीति वा न कदाचिद् उक्तपूर्वम्. तद् एतस्य वचनं तस्य नेच्छामीति हेतुभूतं भविष्यति. आह च.
नेच्छामीत्य् एष व्याहारो न कदाचिद् उदीरितः
कुतो रूपाणि शब्दाश् च गन्धाः स्पर्शाश् च वै कुतह्.
इत्य् एवं प्रार्थयन्न् एष नित्यं भ्रमति बालिशः
नेच्छामीति प्रहर्षेण यैषा वाक् समुदीरिता
हेतुर् अल्पेच्छता यैषा स एवास्य भविष्यति.
इदं कर्म येन समन्वागतः पूर्वं च पश्चाच् च दुःखितो भवति.
xxxविइ. कतमत् कर्म येन समन्वागतः पुद्गल आढ्यो भवति मत्सरी. उच्यते. इहैकत्येनाल्पमात्रं दानं दत्तं भवति शीलवति पात्रभूते न तु पुनस् त्यागचित्तम् अभ्यस्तं भवति. यदा मनुष्येषूपपद्यते. आढ्येषु कुलेषूपपद्यते महाधनेषु महाभोगेषु. तेन दानविशेषेण यत् तेन पुनस् त्यागचित्तम् अभ्यस्तं न भवति स तेन कर्मणा मत्सरी भवति. यथा श्रावस्त्यां ( म्क्व् 70 ) हिल्लिशालगृहपतेर् अवदानम्. स किल पूर्वजन्मनि मत्सरी भवति. अथ तस्य गृहद्वारे तगरशिखी नाम प्रत्येकबुद्ध आगतः. तस्य भिक्षा दत्ता. तेन दृष्ट्वादीयमाना तेन क्षवणये न च भिक्षा दत्ता. स च प्रव्राजितः परिभ्रष्टः. स तेन कर्मणा दिव्यमानुष्यकाः संपत्तयो ऽनुभूय श्रावस्त्याम् अग्रकुलिकपुत्रः प्रत्याजातो मत्सरी कालगतः. तस्य द्रव्यं राज्ञा प्रसेनजितापुत्रकं गृहीत्वा शतवर्गे आगमे प्रसेनजित्संयुक्तेषु राजोपकीर्णकं नाम सूत्रम्. प्रसेनजिद् भगवतः कथयति. इह भगवन्न् अग्रकुलिकः कालगतः. तस्य मयापुत्रकं स्वापतेयं गृहीतम्. भगवान् आह. कतीयं महाराज गृहपतेर् द्रव्यं गृहीतम्. स आह. शतं भगवन् शतसहस्राणां यद् आहतं परिशिष्टं द्रव्यम् अपरिमितम् अनाहतम्. भगवान् आह. इदं तस्य महाराज सप्तमम् अपुत्रकं द्रव्यग्रहणम्. यत् तेन तगरशिखी नाम प्रत्येकबुद्धः पिण्डपातेन प्रतिपादितः. तद् अस्य कर्म परिक्षीणम्. अन्यच् च कुशलमूलं न कृतम्. तेनाद्य प्रथमायां रात्र्यां महारौरवे नरके पच्यते. तत्र भगवान् गाथा भाषते.
धनं धान्यं जातरूपं गवाश्वमणिकुण्डलम्
दासकर्मकरा भृत्या ये चान्ये अनुजीविनः
म्रियमाणस्य नान्वेति नापि आदाय गच्छति.
यत् तेन कृतं भवति कल्याणम् अथ पापकम्
तद् धि तस्य स्वकं भवति तच् च आदाय गच्छति.
तस्मात् कुरुत पुण्यानां निचयं साम्परायिकम्
पुण्यानि परलोके ऽस्मिन् प्रतिष्ठा प्राणिनां स्मृता
गृहे तिष्ठति कायो ऽयं श्मशाने प्रियबान्धवाः
सुकृतं दुष्कृतं चैव गच्छन्तम् अनुगच्छति.
अयं पुद्गल आढ्यो भवति मत्सरी.
xxxविइइ. कतमत् कर्म येन समन्वागतः पुद्गलो दरिद्रो भवति त्यागवान्. उच्यते. इहैकत्येन पुद्गलेन बहु दानं दत्तं भवति. तिर्यग्गतेषु मनुष्येषु च दुःशीलेष्व् अब्रह्मचारिषु. पुनः पुनस् त्यागचित्तम् अभ्यस्तम्. स यदा मनुष्येषूपपद्यते दरिद्रो भवति त्यागवान् तेन दानाभ्यासेन. यत् तु तेनापात्रभूतेषु दानं दत्तं तेन दरिद्रः. यथा श्रावस्त्यां तत्र विनये तन्त्रवायस्य निदानं वर्णयन्ति. स त्यागवान् दरिद्रश् च. पुनः पुनस् त्यागचित्तम् अभ्यस्तम्. इदं कर्म येन समन्वागतः पुद्गलो दरिद्रो भवति त्यागवान्.
xxxइx. कतमत् कर्म येन समन्वागतः पुद्गल आढ्यो भवति त्यागवान्. उच्यते. इहैकत्येन पुद्गलेन बहु दानं दत्तं भवति शीलवत्सु पात्रभूतेषु. पुनः पुनस् त्यागचित्तम् अभ्यस्तं भवति. स तेन कर्मणा यदा मनुष्येषूपपद्यते. आढ्येषु कुलेषूपपद्यते महाधनेषु महाभोगेषु. यत् तु तेन पुनः पुनस् त्यागचित्तम् अभ्यस्तं तेन त्यागवान् भवति. यथानाथपिण्डदेन किल क्रकुच्छन्दे सम्यक्संबुद्धे जेतवनं निर्यातितम्. विहारश् च कारितः. एवं कनकमुनौ सम्यक्संबुद्धे काश्यपे सर्वार्थसिद्धे च. भूयश् च मैत्रेयस्य सुवर्णास्तीर्णं निर्यातयिष्यति. इदं कर्म येन समन्वागतः पुद्गल आढ्यो भवति त्यागवान्.
xल्. कतमस्य पुद्गलस्यायुः क्षीणं न कर्म. उच्यते. यः पुद्गलो नरकाच् च्युतो नरकेषूपपद्यते. तिर्यग्भ्यश् च्युतस् ( म्क्व् 72 ) तिर्यक्षूपपद्यते. यमलोकाच् च्युतो यमलोके उपपद्यते. देवेभ्यश् च्युतो देवेषूपपद्यते. यथा वर्षाकारस्य ब्राह्मणस्य पुनः पुनः कालगतस्य मर्कटोपपत्तिः. यथा काश्मीरायां पूर्वोक्तस्य गृहपतेः पुनः पुनः पशूपपत्तिः. यथा च श्रावस्त्यां कश्चिद् दरिद्रः कुटुम्बी कालगतः. तस्य गृहद्वारे बलीवर्दो व्रणीभूतेन स्कन्धेन तिष्ठति. स गृह आसक्तचित्तः कुटुम्बी तस्य बलीवर्दस्य स्कन्धे कृमिः प्रत्याजातः. उपपन्नमात्रश् च काकेन भक्षितः. पुनस् तत्रैव कृमिः प्रत्याजातः. स एवं सप्तकृत्व एकदिवसेन कालगतः. उपपन्नमात्रश् च काकेन भक्षितः. यथा चार्यमहामौद्गल्यायनो मगधेषु भैक्ष्यं पर्यटमानो ऽन्यतमगृहद्वारम् अनुप्राप्तः. तस्मिंश् च गृहे गृहपतिः पत्नीसहितो मत्स्यमांसप्रकारेण भोजनं भुङ्क्ते. पुत्रेण पर्यङ्कगतेन कृष्णा चास्य कुक्कुरी पुरः स्थिता. स तस्य मत्स्या स्थीनि क्षिपति. अत्ःअ स गृहपतिर् महामौद्गल्यायनं दृष्ट्वाह. गम्यताम् आर्य नास्ति काश्चिद् अत्र यो भिक्षां दास्यति. स खलु संप्रस्थितः. तश्मिंश् च गृहद्वारे देशान्तराभ्यागताः पुरुषा विद्वांसः पूर्वस्थिताः ते तं दृष्ट्वा विस्मयं प्राप्ताः. अहो आश्चर्यम् अयं नाम ऋद्धिमताम् अग्र्यः येन नन्दोपनन्दौ नागराजानौ विनीतौ वैजयन्तश् च प्रासादो वामपादाङ्गुष्ठेन कम्पितः शक्रो विस्मापितः त्रिसाहस्रं लोकधातुं निमेषान्तरचारी स नाम भिक्षाम् अदत्त्वा विसर्जितः. अथ स्थविरस् तेषां संवेजनार्थम् आह. वत्स. नैतद् आश्चर्यम्. पुरुषा ऊचुः. अथ किम् अन्यद् आश्चर्यं विस्मयकारणम्. स उवाच. य एष गृहपतिर् मत्स्यमांसप्रकारैर् भोजनं ( म्क्व् 73 ) भुङ्क्ते एष मत्स्यः अस्य गृहपतेः पिता. तेन या एषास्य गृहस्य पृष्ठतः पुष्करिणी अतः प्रभूतमत्स्यान् उद्धृत्योद्धृत्य भक्षिताः. स कालगतो ऽत्रैव मत्स्यः प्रत्याजातः. स एषो ऽनेकश उद्धृत्योद्धृत्य भक्ष्यते. अत्रैव च भूयो भूय उपपद्यते. याप्य् एषा कुक्कुरी अस्यैव गृहपतेर् माता. एतया लोभदोषेण न किंचिद् दानं दत्तम्. न च शीलं सेवितम्. केवलं कुलवंशार्थं द्रव्यं परिपालितम्. सात्रैव गृहे आसक्तचित्ता कालगता कुक्कुरीषु प्रत्याजाता. कालगता भूयो भूयो ऽत्रैवोपपद्यते. सर्वां च रात्रीं गृहं समन्तात् पर्यटति. मात्र कश्चित् प्रविशेद् इति. अथ यस् त्व् एष पुत्रः पर्यङ्के कृतः एषो ऽस्या एव स्त्रियाः प्रच्छन्नभर्ता अनेन च गृहपतिना श्रुतम्. एषा ते पत्नी परपुरुषव्यासक्ता जातेति. स एष गृहपतिर् ग्रामान्तर गमनव्यपदेशेन गृहान् निष्क्रान्तः. एषापि स्त्री परपुरुषेण सह शयिता. अनेन गृहपतिना रात्राव् आगम्य पुरुषो घातितः. सो ऽस्याम् एव स्त्रियाम् आरक्तचित्तस् तेनैव स्नेहानुबन्धेन कुक्षव् उपपन्नः. पश्य वत्स यः पिता चैव तस्य स मंसानि भक्षयति. या माता जनित्री तस्या मत्स्यकण्तकास्थिकानि ददाति. यश् च शत्रुः क्रुद्धेन मारितः पारदारिकः तं पर्यङ्केन धारयति. एष संसारदोषो निर्वेदः कार्यः. इदम् अत्राश्चर्यकारणम्. अथ स भिक्षुर् महामौद्गल्यायन एतद् एवार्थं सर्वं पश्चिमजनतासंवेजनार्थं श्लोकेन संगृहीतवान्. यथाह.
पितुर् मंसानि खादते मातुः क्षिपति कण्टकान्
भार्या जारं च पोषेति लोको मोहतमोवृतः.
अयं पुद्गलो यस्यायुः क्षीणं न कर्म.
xलि. कतमस्य पुद्गलस्य कर्म क्षीणं नायुः. उच्यते. यः पूर्वं सुखितो भूत्वा पश्चाद् दुःखितो भवति. पूर्वं यो दुःखितो भूत्वा पश्चात् सुखितो भवति. अस्य पुद्गलस्य कर्म क्षीणं नायुः.
xलिइ. कतमस्य पुद्गलस्य कर्म क्षीणम् आयुश् च. उच्यते. यः पुद्गलो नरकाच् च्युतस् तिर्यक्षूपपद्यते. तिर्यग्भ्यश् च्युतो यमलोके उपपद्यते. यमलोकाच् च्युतो मनुष्येषूपपद्यते. ततश् च्युतो देवेषूपपद्यते. यथा श्रावस्त्यां वणिक्पुत्र उद्यानं गतः पुष्पहेतोः पत्नीवचनेनाशोकवृक्षम् आरूढः. सा च वृक्षशाखा विशीर्णा. स पाषाणशिलायां पतितः कालगतः. तत्र महाजनकायो रुदति. अथ भिक्षवो दिवाविहारं गताः. तं दृष्ट्वा संविग्ना भगवतो निवेदयन्ति. भगवन्न् अहो अनित्यता. अत्रोद्याने गृहपतिपुत्रो बालो ऽभुक्तभोगो ऽशोकवृक्षात् पतितः कालगतह्. तत्र महाजनकायः संनिपतितः रौरवसदृशश् च शब्दः श्रूयते. भगवान् आह. एष एव भिक्षवः गृहपतिपुत्रः पूर्वं महासमुद्रे ऽन्यतरस्मिं नागकुले उपपन्नः. स तत्र जातमात्र एव स्त्रीसहितः क्रीडमानो गरुडेनोद्धृत्य भक्षितः. तत्र नागकन्या रुदन्ति इह स्त्रियो रुदन्ति. स च यस्याः स्त्रिया वचनेनाशोकवृक्षम् आरूढस् तस्योपर्य् आघातं कृतवान्. अस्या दोषेणाहं वृक्षम् आरूढः. क्रुद्धः कालगतो नरकेषूपपन्नः. अस्य पुद्गलस्य कर्म क्षीणम् आयुश् च.
xलिइइ. कतमस्य पुद्गलस्य पुण्यानि च क्षीणानि आयुश् च. ( म्क्व् 75 ) उच्यते. यथा स एव हिल्लिशाली गृहपतिः. यथा भगवन् आह. तस्य पुनर् महाराज गृहपतेस् तच् च कुशलं कर्म परिक्षीणम् अन्यच् च न कृतम्. सो ऽद्य प्रथमरात्रीं रौरवे पच्यते. यथा राजा प्रसेनजिद् राज्याद् भ्रष्टो राजगृहम् अनुप्राप्तः. स तत्र पुराणमूलकपत्त्राणि मुखे प्रक्षिप्य खादन् पुरुषेणाक्षिप्तः. श्यासुपूर्णेन म्न्खेनाथ मरणं मृतः. प्रत्येकबुद्धपूर्वस् तस्य [पूर्वस्य?] पिण्डपातस्य विपाकेन. अयं पुद्गलो यस्यायुश् च क्षीणं पुण्यानि च.
xलिइइबिस्. कतमस्य पुद्गलस्य नायुः क्षीणं [न] कर्म. अपि तु क्लेशाः क्षीणाः. उच्यते. श्रोतआपन्नस्य. सकृदागामिनः. अनागामिनः. प्रत्येकबुद्धस्य. अयं पुद्गलो यस्य नायुः क्षीणं [न] कर्म. अपि तु क्लेशाः क्षीणाः.
xलिव्. कतमः पुद्गलः कायेन सुखी न चित्तेन. उच्यते. कृतपुण्यः पृथग्जनः कायेन सुखी न चित्तेन. यथा महाधनब्राह्मणगृहपतयो राजा च मान्धाता. अयं पुद्गलः कायेन सुखी न चित्तेन.
xल्व्. कतमः पुद्गलश् चित्तेन सुखी न कायेन. उच्यते. यथार्हन्न् अपुण्यः चित्तेन सुखी न कायेन. यथार्य शोणोत्तरस् तेन किल पूर्वजन्मनि प्रत्येकबुद्धस्य स्नायतो गोमयपिण्डकः कपिकच्छुमिश्रः स्नानार्थं दत्तः. तेन कर्म विपाकेन कुष्ठेन शरीरं विशीर्यति. तथा हि गाथा भाषिता.
कर्माणि नूनं बलवत्तराणि कर्मभ्यो वज्रकल्पेभ्यः
यत्र वशीभूतो ऽहम् अनुभवामि दुःखानि कर्माणि.
यथा च जङ्घाकाश्यपः. तेन किल वाराणस्यां प्रत्येकबुद्धस्य प्रतिश्रुतम्. भक्तं दाश्यामीति. स तस्य महता परिश्रमेण कालातिक्रमणे आसन्ने भक्तं दत्तवान्. स तेन कर्मणा पश्चिमे जन्मनि वीतरागो ऽपि भूत्वा पूर्वाह्णे पिण्डपातं पर्यटति. कालातिक्रमणे आसन्ने कथंचिद् भक्तं लभते. तथास्य जङ्घाकाश्यप एव नाम. अयं पुद्गलश् चित्तेन सुखी न कायेन.
xल्वि. कतमः पुद्गलः कायेन सुखी चित्तेन च. उच्यते. अर्हन् क्षीणास्रवः कृतपुण्यः. यथा कश्मीरराजा धर्मयशःपुत्रो बकुलः. तथा ह्य् अस्य सिंहनादः. अशीतिर् मे आयुष्मन्तो वर्षाणि प्रव्रजितस्य न कदाचिद् व्याधिर् भूतपूर्वः. अन्ततः शिरोऽर्तिमात्रम् अपि. तेन किल वाराणस्यां गान्धिकबणिजा भूत्वा ककुच्छन्दः सम्यक्संबुद्धः सश्रावकसंघो ग्लानभैषज्येनोपनिमन्त्रितो भिक्षुणा चार्हता एका हरीतकी गृहीता. स तस्य कर्मणो विपाकेन निराबाधः. आरोग्यपरमा लाभा उक्ता भगवता. यथा चार्यानिरुद्धः कथयति. तस्य खल्व् आयुष्मन्तः पिण्डपातस्य विपाकेन सप्तकृत्वः प्रणीते त्रयस्त्रिंशदेवनिकाये उपपन्नः सप्तकृत्वो मनुष्येषु राज्यं कारितम्. तस्यैव च पिण्डपातस्य ( म्क्व् 77 ) विपाकेनार्हत्वफललाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां लाभी. तथा हि तस्य भगवता दुर्भिक्षे पञ्च भिक्षुशतानि दत्तानि. तस्य पुण्यानुभावेन सर्वेषां दिव्यम् अनन्तभक्तं प्रादुर्भवति. अयं पुद्गलः कायेन सुखी चित्तेन च.
xल्विइ. कतमः पुद्गलो न कायेन सुखी न चित्तेन च. अकृतपुण्याः पृथग्जना उत्सन्नकुलवंशा वस्त्रान्नपानविरहिताः परगृहेषु हिण्डन्ति. तथा व्याधिभिः कुष्ठक्षयकासज्वरपाण्डुरोगदद्रुपामादिभिः परिगता हस्तपादविकलाश् चक्षुर्विहीनाश् च. अयं पुद्गलो न कायेन सुखी न चित्तेन.
xल्विइइ. कतमत् कर्म येन समन्वागतः पुद्गलो ऽपायेषूपपन्नो ऽभिरूपो भवति प्रासादिकः स्निग्धकायः स्निग्धच्छविर् नयनाभिरामो दर्शनीयः. उच्यते. यः पुद्गलो रागसमुत्थितेन दौःशील्येन समन्वागतः अपायेषूपपद्यते. यथा मयूरशुकसारिकाकारण्डवचक्रवाकप्रभृतयः. इदं कर्म येन समन्वागतः पुद्गलो ऽपायेषूपपन्नो ऽभिरूपो भवति प्रासादिकः स्निग्धकायः स्निग्धच्छविर् नयनाभिरामो दर्शनीयः.
xलिx. तत्र कतमत् कर्म येन समन्वागतः पुद्गलो ऽपायेषूपपन्नो दुर्वर्णो भवति रूक्षकायो घोरदर्शनः. उच्यते. यः पुद्गलो द्वेषसमुत्थितेन दौःशील्येन समन्वागतो ऽपायेषूपपद्यते. यथा सिंहव्याघ्रकाकशृगालकृष्णसर्पप्रेतपिशाचादयः. इदं कर्म येन अपायेषूपपन्नो दुर्वर्णो भवति रूक्षकायो घोरदर्शनः.
ल्. तत्र कतमत् कर्म येन समन्वागतः पुद्गलो ऽपायेषूपपन्नो दुर्गन्धो भवति जिह्मेन्द्रियो ऽव्यक्तेन्द्रियः. उच्यते. यः पुद्गलो मोहसमुत्थितेन दौःशील्येन समन्वागतः अपायेषूपपद्यते. ( म्क्व् 78 ) यथा छुछुन्दरीकृम्यजगरयूकामक्षिकादयो यथा शरीरे विंशतिकृमिजातयः. इदं कर्म येन समन्वागतः पुद्गलो ऽपायेषूपपन्नो दुर्गन्धो भवति जिह्मेन्द्रियो ऽव्यक्तेन्द्रियः.
लि. दशाकुशलाः कर्मपथाः. कतमे दश. त्रिविधं कायकर्म. चतुर्विधं वाक्कर्म. त्रिविधं मनस्कर्म. एषां दशानाम् अकुशलानां कर्मपथानां विपाकेन दशानां बाह्यानां भावानाम् अभिवृद्धिर् भवति.
लिइ. प्राणातिपातस्याकुशलकर्मपथस्य विपाकेन पृथिव्या ओजश् च तेजश् चान्तर्धीयते. तस्यैव च कर्मणो विपाकेनाल्पायुर् भवति.
लिइइ. अदत्तादानस्याकुशलस्य कर्मपथस्य विपाकेन पृथिव्याम् अशनिशुकशलभमूषिककीटप्रभृतयः सस्यघासका उत्पद्यन्ते. तस्यैव कर्मणो विपाकेन भोगव्यसनम् अधिगच्छति.
लिव्. काममिथ्याचारस्याकुशलस्य कर्मपथस्य विपाकेन पृथिव्यां तृणदर्भादीनि दुर्गन्धीनि प्रादुर्भवन्ति. तस्यैव कर्मणो विपाकेन संपन्नगृहावासं प्रविशन्ति. अत्रावदानं श्वभ्रपदस्य सुसुधी दारिका कासिराज्ञः पत्नी देवावतरणे कालोदयिनः पूर्वजन्मन्य् अवदानं वक्तव्यम्.
ल्व्. मृषावादस्याकुशलस्य कर्मपथस्य विपाकेन मुखरोगदन्तरोगगलरोगमुखदौर्गन्ध्यादीनि ( म्क्व् 79 ) प्रादुर्भवन्ति. तस्यैव कर्मणो विपाकेनाभूताख्यानं प्रतिलभते.
ल्वि. पिशुनवचनस्याकुशलस्य कर्मपथस्य विपाकेन पृथिव्यां शर्करकठल्ल्यादीनि दुःखसंस्पर्शादीनि प्रादुर्भवन्ति. तस्यैव कर्मणो विपाकेन जातिव्यसना मित्रव्यसना भवन्ति भेद्यः परिवारश् च भवति.
ल्विल्. परुषवचसो ऽकुशलकर्मपथस्य विपाकेन पांशुरजोधूलिवातवृष्ट्यादीनि प्रादुर्भवन्ति. तस्यैव कर्मणो विपाकेनामनोज्ञशब्दश्रवणदर्शनान्य् अनुभवन्ति.
ल्विइइ. संभिन्नप्रलापस्याकुशलस्य कर्मपथस्य विपाकेन ... कन्दरश्वभ्रादीनि प्रादुर्भवन्ति. तस्यैव कर्मणो विपाकेनानादेयवचना भवन्ति.
लिx. अभिध्याया अकुशलस्य कर्मपथस्य विपाकेन व्रीहियवगोधूमादीनां सस्यानां तुषपलालादीनि प्रादुर्भवन्ति. तस्यैव कर्मणो विपाकेन परप्रार्थनीयभोगा भवन्ति.
ल्x. व्यापादस्याकुशलकर्मपथस्य विपाकेन प्रभूते उप्ते निष्फलं सस्यं भवति. तस्यैव कर्मणो विपाकेन प्रतिकूलदर्शनो भवति.
ल्xइ. मिथ्यादृष्टेर् अकुशलस्य कर्मपथस्य विपाकेन तिक्तकटुकभावान्य् ( म्क्व् 80 ) अपि पिचुमन्दकोषातकीविषतिक्तालाबुप्रभृतीनि फलानि प्रादुर्भवन्ति. मिथ्यादृष्टेर् अकुशलस्य कर्मपथस्य विपाकेन नास्तिक्यवादी भवति. उच्छेददृष्टिः लोकायतादिषु च शास्त्रेषु प्रसादो भवति. यथा पदाश्वस्य राजपुत्रस्य यः कुमारकाश्यपेन श्वेतिकायां विनीतो लोकायतिकः. यथा यथा सत्त्वा इमान् दशाकुशलान् कर्मपथान् भावयन्ति तथैषां दशानां बाह्यानां भावानाम् अतीव प्रादुर्भावो भवति. अनेनैव च कारणेन महासंवर्तकल्पे भविष्यति समयो ऽनागते ऽध्वनि यत् तिला भविष्यन्ति तिलपिष्टं भविष्यति तैलं न भविष्यति इक्षुर् भविष्यति इक्षुरसो न भविष्यति गुडो न भविष्यति. न खण्डं भविष्यति न शर्करा भविष्यन्ति. गावो भविष्यन्ति क्षीरं भविष्यति दधि भविष्यति नवनीतं न भविष्यति न घृतं न ग्ःर्तमण्डो भविष्यति. एवम् अनुपूर्वेण सर्वेण सर्वे रसा अन्तर्धास्यन्ति.
( म्क्व् 81 ) [नोतेस् ओन्ल्य्]
ल्xइइ. कतमे दशानुशंसा मध्यदेशे चतुर्महाचैत्यलुम्बिनीमहाबोधिप्रभृतिषु तथागतचैत्याञ्जलिकर्मप्रणिपाते. उच्यते. मध्यदेशे जन्म प्रतिलभते. उदाराणि च वस्त्राणि प्रतिलभते. उदारं कुलं प्रतिलभते. उदारं वयः प्रतिलभते. उदारं स्वरं प्रतिलभते. उदारां प्रतिभानतां प्रतिलभते. उदारां श्रद्धां प्रतिलभते. उदारं शीलं प्रतिलभते. उदारं श्रुतं प्रतिलभते. उदारं त्यागं प्रतिलभते. उदारां स्मृतिं प्रतिलभते. उदारां प्रज्ञां प्रतिलभते. अस्योद्दानम्. देशवस्त्रकुलरूपस्वरप्रतिभानताश्रद्धाशीलश्रुतत्यागान् स्मृतिमान् भवति प्रज्ञावान् तथागतस्य बुद्धप्रसादं कृत्वाञ्जलिं लभते धीरः ( म्क्व् 83 ) सप्रज्ञ उदारम् आश्रवक्षयम्. उक्तं च सूत्रे. ये केचिद् आनन्द चैत्यचर्यां चरमाणाः प्रसन्नचित्ताः कालं करिष्यन्ति. यथा भल्लो निक्षिप्तः पृथिव्यां तिष्ठते एवं कायस्य भेदात् स्वर्गेषूपपत्स्यन्ति.
ल्xइइइ. कतमे दशानुशंसास् तथागतचैत्यवन्दनायाम्. उच्यते. अभिरूपो भवति. सुस्वरः. आदेयवाक्यः. परिषदम् उपसंक्रान्तः परिषदम् आवर्जयति प्रियो भवति देवमनुष्याणाम्. महेशाख्यो भवति. महेशाख्यैः समागमो सत्त्वैः भवति. बुद्धैर् बुद्धश्रावकैश् च समागमो भवति. महाभोगो भवति. स्वर्गेषूपपद्यते. क्षिप्रं च परिनिर्वाति. इमे दशानुशांसास् तथागतचैत्यवन्दनायाः.
ल्xइव्. कतमे दशानुशंसाश् छत्त्रप्रदानस्य. उच्यते. छत्त्रभूतो भवति लोकस्य. अनवतप्तो भवति कायेन अनवतप्तो भवति चित्तेन. आधिपत्यसंवर्तनीयं चानेन कर्म कृतं भवत्य् उपचितम्. पुनः पुनश् च राजा भवति चक्रवर्ती. महेशाख्यो भवति. महेशाख्यैः सत्त्वैः समागमो भवति बुद्धैर् बुद्धश्रावकैश् च समागमो भवति. महाभोगो भवति. स्वर्गेषूपपद्यते. क्षिप्रं च परिनिर्वाति.
अ) अत्र गङ्गासंतारे भगवतः प्रत्येकबुद्धस्य स्तूपे दत्तस्य छत्त्रस्य विपाको वर्ण्यते. यथा चार्यसुन्दरनन्दो व्याकरोति.
जेन्ताकस्य च स्नानेन तालस्यालेपनेन च
एकच्छत्त्रप्रदानाच् च प्राप्ता मे सुवर्णवर्णता.
एवमादि छत्त्रप्रदानस्य विपाको वक्तव्यः. आह च.
( म्क्व् 86 ) [नोतेस् ओन्ल्य्]
यद् धार्यते प्रवरदण्डम् उदाररूपं
कोदण्डदामपरिमण्डितवस्तिकोशम्
छत्त्रं विशालम् अमलं शशिमण्डलाभम्
छत्त्रप्रदानजनितेन जगद्धरस्य.
श्रीचिह्नभूतं मणिहेमदण्डम्
पटोज्ज्वलं काञ्चनम् आतपत्रम्
यद् धार्यते मूर्ध्नि नराधिपस्य
छत्त्रप्रदानेन जगद्धरस्य
इमे दशानुशंसश् छत्त्रप्रदानस्य.
ल्xव्. कतमे दशानुशंसा घण्टाप्रदानस्य. उच्यते. अभिरूपो भवति. सुस्वरो भवति. मनोज्ञभाषी भवति. कलविङ्करुतभाषी भवति. आदेयवाक्यो भवति. नित्यं संप्रहार्यजातो भवति. पुनः पुनर् आनन्दं शब्दं शृणोति. स्वर्गेषूपपद्यते. महाभोगश् च भवति. क्षिप्रं च परिनिर्वाति.
अ) यथा विशाखया मृगारमात्रा भगवान् पृष्टः. कथं मम प्रासादे नित्यं कालं पञ्चाङ्गिकं तूर्यं सदैव वदेत्. भगवान् ( म्क्व् 88 ) आह. सर्वस्वरोपेतां घण्टाम् आरोपय. एवं ते नित्यं कालं प्रासादे पञ्चाङ्गिकतूर्यशब्दो भविष्यति. अनवद्यश् च. इमे दश गुणा घण्टाप्रदानस्य.
ल्xवि. कतमे दश गुणा वस्त्रप्रदानस्य. उच्यते. श्लक्ष्णछविर् भवति. स्निग्धच्छविर् भवति. न चरजश् चैलं काये श्लिष्यति. ह्रीरपत्राप्यसंपन्नो भवति प्रियदर्शनो भवति प्रभूतवस्त्रो भवति लाभी च भवति सूक्ष्माणां वस्त्राणाम् आस्तरणानाम्. महाभोगो भवति. स्वर्गेषूपपद्यते क्षिप्रं च परिनिर्वाति. यथोक्तं भगवता देवतासूत्रे. वस्त्रप्रदो भवति वर्णवान्. इमे दश गुणानुशंसा वस्त्रप्रदानस्य.
ल्xविइ. कतमे दशानुशंसा आसनप्रदानस्य. उच्यते. गुरुस्थानीयो भवति लोकस्य. प्रियदर्शनो भवति. प्रासादिको भवति. पण्डितजनाभिगम्यो भवति. यशः कीर्तिश् चास्य लोके प्रथिता भवति. सुखसौमनस्यबहुलो भवति. स्वदेशे ऽभिरमति. आसनैर् अवैकल्यं भवति. उपस्थायकैर् अवैकल्यं भवति. महाभोगश् च भवति. स्वर्गेषूपपद्यते. क्षिप्रं च परिनिर्वाति. इमे दश गुणा आसनप्रदानस्य.
ल्xविइइ. कतमे दशानुशंसा भाजनप्रदानस्य. उच्यते. भाजनभूतो भवति गुणानां स्निग्धसंततिर् भवति. न च तृषाबहुलो भवति. तृषार्तस्य पानीयं प्रादुर्भवति. न च प्रेतेषूपपद्यते. भाजनैर् अवैकल्यं भवति. महाभोगश् च भवति. स्वर्गेषूपपद्यते. क्षिप्रं च परिनिर्वाति. इमे दशानुशंसा भाजनप्रदानस्य.
ल्xइx. कतमे दशानुशंसा भोजनप्रदानस्य. उच्यते. बलवान् भवति. वर्णवान् भवति. सुखितो भवति. प्रतिभानवान् भवति. दीर्घायुर् भवति. महाजनाभिगम्यो भवति. प्रियदर्शनो भवति. महाभोगश् च भवति. स्वर्गेषूपपद्यते. क्षिप्रं च परिनिर्वाति.
अ) यथोक्तं भगवता वैशाल्यां सिंहस्य राजपुत्रस्य. ददन् सिंह प्रियो भवति. सन्तो जना भजन्ति. कल्याणशब्दो भवति. विशारदः पर्षदम् अवगाहति. कालगतो देवेषूपपद्यते.
गाथा चोक्ता.
ते तत्र नन्दन्ति रमन्ति च मोदयन्ति
समर्पिताः कामगुणेषु पञ्चसु
कृत्वा हि वाक्यम् अमितस्य तायिनो
मोदन्ति ते सुगतवरस्य श्रावकाः.
एतद् दानस्य फलं भगवतोक्तम्.
स्वर्गेषूपपद्यते क्षिप्रं च परिनिर्वाति. आह च.
नानारसव्यञ्जनसुप्रणीतं
काले शुभं गन्धरसोपपन्नम्
ददाति यः पात्रम् अवेक्ष्य दानं
सदार्यसंघस्य गुणान् विचिन्त्य
आयुश् च वर्णं च यशो बलं च
संप्राप्य भोगान् प्रतिभां सुखं च
दिवीह चैव प्रथितोत्तमश्रीः
सुखात् सुखं याति विमोक्षम् अन्ते.
इमे दश गुणा भोजनप्रदानस्य.
ल्xx. कतमे दश गुणा यानप्रदानस्य. उच्यते. सुकुमारचरणो भवति. स्न्प्रतिष्ठितचरणो भवति. मार्गक्लमथो न भवति. न च बह्वमित्रो भवति. पुनः पुनः ऋद्धिपादान् प्रतिलभते. हस्त्यश्वादिभिर् यानैर् अवैकल्यं भवति. महाभोगश् च भवति. स्वर्गेषूपपद्यते. क्षिप्रं च परिनिर्वाति.
अ) यथा चोक्तं देवतासूत्रे. यानदः सुखितो भवति. यो ददात्य् उपानहौ. यथा चोक्तम् अभिधर्मे चक्रवर्तिसूत्रे. कतमस्य कर्मणो विपाकेन राजा चक्रवर्ती हस्त्यश्वादीनि वाहनानि प्रतिलभते. दीर्घरात्रं राजा चक्रवर्ती मातरं वा पितरं वोपाध्यायं वा स्कन्धेन वहति वा वाहयति वा. हस्त्यश्वादिभिः शिविकायानैर् वा वहति वा. दुर्गसंक्रमं वा करोति. सेतुबन्धं करोति. उपानहप्रदानानि वा ददाति. कारुण्येन महाटव्यां सार्थम् अतिक्रामयति. तस्य कर्मणो विपाकेन राजा चक्रवर्ती हस्त्यश्वादीनि प्रतिलभते. तत्रारूढः समुद्रपर्यन्तां पृथिवीं दिवसचतुर्भागेन पर्यटति. इमे दश गुणा यानप्रदानस्य.
( म्क्व् 95 ) [नोतेस् ओन्ल्य्]
ल्xxइ. कतमे दश गुणाः प्रतिश्रयप्रदानस्य. उच्यते. राजा भवति प्रादेशिकः. राजा भवति माण्डलिकः. राजा भवति जम्बुद्वीपाधिपतिः. राजा भवति द्वीपद्वयाधिपतिः. राजा भवति द्वीपत्रयाधिपतिः. राजा भवति चतुर्द्वीपाधिपतिश् चक्रवर्ती. महाभोगश् च भवति. स्वर्गेषूपपद्यते. क्षिप्रं च परिनिर्वाति.
यथा सुमेधाया भिक्षुण्या गाथा.
भगवति कोनागमुनौ संघारामे च निवेशे
सख्यस् त्रयो वयं स विहारं ददौ पूर्वम्.
एता गाथा सुमेधायाः. धर्मदिन्ना च भिक्षुणी विशाख्या च मृगारमाता. ताभिः पूर्वं दरिद्रस्त्रीभिश् चत्वारि काष्ठानि निखन्य काशकटकम् उपरि दत्त्वा भगवान् कोनागमुनिर् बुद्धो निमन्त्रितः. स तत्र भिक्षुभिः सार्धं मुहूर्तं विश्रान्तः. ताभिश् चित्तानि प्रसादितानि. तेन कर्मणा शतसहस्रं वारान् देवेषूपपन्नाः. अपरिमितानि चक्रवर्तिराष्ट्रान्य् अनुभूतानि. सुमेधागाथाश् चास्मिन्न् अर्थे सर्वा विस्तरेण प्रत्येकम् अवगन्तव्याः. इमे दश गुणाः प्रतिश्रयप्रदानस्य.
ल्xxइइ. कतमे दश गुणाः पानकप्रदानस्य. उच्यते. सर्वेन्द्रियसंपन्नो भवति. प्रसन्नवदनो. विशुद्धललाटः. स्निग्धच्छविः. संगतभाषी भवति. न च तृषाबहुलो भवति. तृषितस्य ( म्क्व् 98 ) पानीयं प्रादुर्भवति. न च प्रेतेषूपपद्यते. महाभोगश् च भवति. स्वर्गेषूपपद्यते. क्षिप्रं च परिनिर्वाति. यथा चाह.
मनोज्ञवर्णं रसगन्धयुक्तं
सर्वेन्द्रियप्रीतिविवर्धनं च
अकालिकं सत्पुरुषप्रशस्तं
ददाति संघाय तु पानकं यः
सकृत्पिपासाविगतो विशोको
रसान् प्रधानाञ् चतुरो ऽनुभूय
जगच् च सद्धर्मरसेन तर्प्य
तृषाक्षयं याति सुखं सुखेन.
इमे दश गुणाः पानकप्रदानस्य.
ल्xxइइइ. कतमे दश गुणा मालाप्रदानस्य. उच्यते. मालाभूतो भवति लोकस्य. कायाद् दौर्गन्ध्यम् अपैति सौगन्ध्यं प्रादुर्भवति. नित्यसुगन्धो नित्यालंकृतो भवति. अभेद्यपरिवारो भवति. सर्वजनप्रियो भवति. महाभोगश् च भवति. स्वर्गेषूपपद्यते. क्षिप्रं च परिनिर्वाति.
अ) अह च.
माल्यं विचित्रं प्रवरं सुगन्धं
प्रहर्षणं प्रीतिकरं नराणाम्
प्रसन्नचित्तो मुनिधातुगर्भे
तथागतेभ्यश् च ददाति यो वै
स दिव्यमाल्याभरणोज्ज्वलाङ्गः
श्रीमत् सुखं प्राप्य दिवीह चैव
बोध्यङ्गदामप्रतिभूषितात्मा
मोक्षं परं याति गुणाग्रगन्धः.
ब्) तथान्यतरस्य दरिद्रगृहपतेर् दुहिता. सा खलु द्वारे स्थिता जनपदं सर्वालंकारभूषितं पश्यति. उत्सवे रममाणम्. सा पितरम् आह. माम् अप्य् अलंकुरुष्वेति. पिताह. कुतो ऽस्माकं दरिद्राणाम् अलंकारः. एष जनपदः कृतपुण्यो ऽनेकशो बुद्धे भगवति कृताधिकारः. तेन च कर्मणा कर्णेसुमनस्य स्थविरस्यावदानं विस्तरशस् तस्योक्तम्. एवम् अल्पो ऽपि भगवति कृतः प्रसादो महाफलो भवति. तया पितातीवोपरोधितः प्रयच्छ मम किंचिद् एषो ऽग्रतो विहारः अत्र भगवतः पूजाम् उपरिष्यामीति. तेन दुःखार्तेन विभवे ऽविद्यमाने पलालमयीं मालां कृत्वा दत्ता. सा तां पलालमयीं मालां गृह्य बुद्धप्रतिमायाः शिरसि दत्त्वा पादयोः प्रणिपत्य आह. भगवन्न् अनेन कुशलमूलेन संसारे संसरत्या मा भूयः दारिद्र्यं स्याद् इति. तस्याः प्रसादजातायास् तद् अहर् एव मानुष्यं स्त्रीभावम् अतिक्रान्तं दिव्यं रूपं प्रादुर्भूतम्. तद्विषयप्रतिवासिना च राज्ञाग्रदेवी स्थापिता. कालगता देवेषूपपन्ना. पश्चिमे ऽपि च भवे चम्पायाम् अग्रकुलिकस्य ( म्क्व् 100 ) दुहिता प्रत्याजाता परमकल्याणी सौवर्णा चास्या माला सर्वरत्नमण्डिता शिरसि सहसैव प्रादुर्भूता. मातापितृभ्यां विस्मयजाताभ्यां मालिनीत्य् एवास्या नाम कृतम्. यदा च भगवान् अभिसंबुद्धो राजगृहाच् चम्पाम् अनुप्राप्तः. सा चोपसंक्रान्ता. तस्याश् च भगवता धर्मदेशना कृता प्रव्रजिता चार्हन्ती संवृत्ता. साह चित्तोत्पादाद् एवास्या मा मे भूयो माला भवत्व् इत्य् अन्तर्हिता. तां च दृष्ट्वा विस्मयप्राप्ता देवता गाथाम् अनुगायते यथाह.
दत्त्वा तु पलालमयीं मालां सा मालिनी सुगतस्य चैत्ये
वरकनकरत्नमालां लेभे बोध्यङ्गमालां च.
इमे दश गुणा मालाप्रदानस्य.
ल्xxइव्. कतमे दश गुणा मुक्तपुष्पप्रदानस्य. उच्यते. पुष्पभूतो भवति लोकस्य. घ्राणेन्द्रियं विशुध्यति. कायदौर्गन्ध्यं समपैति. सौगन्ध्यं प्रादुर्भवति. दश दिशः शीलगन्धः ख्यातिं गच्छति. अभिगमनीयश् च भवति. लाभी च भवति ( म्क्व् 101 ) इष्टानां धर्माणाम्. महाभोगश् च भवति. स्वर्गेषूपपद्यते क्षिप्रं च परिनिर्वाति.
अ) अत्र कर्णेसुमनस्य पूर्वजन्मनि प्रसादे जाते एकैकपुष्पप्रदानस्य विपाको वक्तव्यः. यथा स एव आह.
एकपुष्पप्रदानेन अशीतिकल्पकोटयः
दुर्गतिं नाभिजानामि बुद्धपूजाय तत् फलम्.
इमे दश गुणा मुक्तपुष्पप्रदानस्य.
ल्xxव्. कतमे दश गुणा दीपप्रदानस्य. उच्यते. प्रदीपभूतो भवति लोकस्य. मांसचक्षुर् नश्यति. दिव्यचक्षुः प्रादुर्भवति. अविद्यान्धकारं विधमति. ज्ञानालोक उत्पद्यते. कुशलाकुशलान् धर्मान् क्षिप्रं प्रज्ञया प्रतिविध्यति. संसारे संसरतो ऽविद्यान्धकारो न भवति. महाभोगश् च भवति. स्वर्गेषूपपद्यते. क्षिप्रं च परिनिर्वाति.
अ) यथा चोक्तम् अभिधर्मे चक्रवर्तिसूत्रविभङ्गे. कस्य कर्मणो विपाकेन राजा चक्रवर्ती मणिरत्नं प्रतिलभते. दीर्घरात्रं राज्ञा चक्रवर्तिना दीपप्रदानानि प्रदत्तानि. प्रदीपैकदानानि च. अन्धकारे रत्नप्रदीपा धारिता. ये चक्षुष्मन्तस् ते समविषमाणि रूपाणि पश्यन्तु. आह च.
बुद्धप्रशस्तं लभते च चक्षुश्
चक्षुस् तु यस्योत्तमहेतुभूतम्
लोकावभासं भवतीह रूपम्
प्रदीपदानेन जगद्धरस्य.
तेजोऽधिको नार्थम् उदीक्षणीयः
अतीव तुष्टः शुभकर्मदर्शी
संप्राप्य सौख्यं दिवि चेह चैव
विशुद्धचक्षुः प्रशमं परैति.
अत्रार्यानिरुद्धस्य दीपे दिव्यचक्षुर् ऋषीणां च चक्षूत्पाटनमोक्षायणे वक्तव्यम्. यथा दीपमालाप्रदानेन दीपङ्करेण बुद्धत्वं प्राप्तम्. या च श्रावस्त्यां चक्षुविकलेन प्रदीपमाला कारिता. सप्रसादो जातः. प्रणिधानं कृतवान्. उत्थितस्य चास्य यथा पौराणं चक्षुः संवृत्तम्. इमे दश गुणा दीपप्रदानस्य.
ल्xxवि. कतमे दश गुणा गन्धप्रदानस्य. उच्यते. गन्धभूतो भवति लोकस्य. घ्राणेन्द्रियं विशुध्यति. कायदौर्गन्ध्यम् अपैति. सौगन्ध्यं प्रादुर्भवति. दश दिशः शीलगन्धः प्रवाति. अभिगमनीयो भवति. लाभी च भवति इष्टानां धर्माणाम्. महाभोगश् च भवति. स्वर्गेषूपपद्यते. क्षिप्रं च परिनिर्वाति.
अ) यथोक्तम् अभिधर्मे चक्रवर्तिसूत्रे. कस्य कर्मणो विपाकेन राज्ञश् चक्रवर्तिनः स्त्रीरत्नस्य रोमकूपेभ्यः शरीराद् गन्धो निर्गच्छति. तद्यथा गन्धसमुद्गकस्य. दीर्घरात्रं तया स्त्रिया चैत्यगर्भगृहेषु गन्धोपलेपनानि दत्तानि. सुरभीणि च पुष्पाणि धूपश् च दत्ताः. स्तूपेषु च गन्धस्नापनानि कृतानि. तस्य कर्मणो विपाकेन राज्ञश् चक्रवर्तिनः स्त्रीरत्नस्य शरीराद् एवंरूपो गन्धो निर्गच्छति. तद्यथा गन्धकरण्डस्य. इमे दश गुणा गन्धप्रदानस्य.
ल्xxविइ. कतमे दश गुणाः प्रव्रज्यायाः. उच्यते. पुत्रभार्यदुहितृधनतृष्णास्य न भवति. कामस्य परिग्रहो न भवति. अरण्यवासे प्रीतिं प्रतिलभते. बुद्धगोचरं सेवते. बालगोचरं विवर्जयति. दुर्गतिगमनीयान् धर्मान् विवर्जयति. सुगतिगमनीयान् धर्मान् सेवते. देवा अस्य स्पृहयन्ति. नित्यं सुगतवचने प्रव्रज्यां प्रतिलभते. इमे दश गुणाः प्रव्रज्याया भवन्ति.
ल्xxविइइ. कतमे दश गुणा अरण्यवासस्य. उच्यते. संगणिका विवर्जयति. प्रविवेकं सेवते. ध्यानालम्बनं चित्तं भवति. न च बहुकर्मकृत्यतां प्राप्नोति. बुद्धानां स्मृतिं याति. प्रीतिसुखसौमनस्यं कायो न जहाति. अन्तरायाश् च न भवन्ति. ब्रह्मचर्यस्य अल्पायासेन समाधिम् अधिगच्छति. उद्दिष्टं चास्य पदव्यञ्जनं न नश्यति. यथाश्रुतानां धर्माणां विस्तरेणार्थम् आजानति. इमे दश गुणा अरण्यवासस्य.
ल्xxइx. कतमे दश गुणाः पैण्डपातिकत्वे. उच्यते. चङ्क्रमो ऽस्य उपार्जितो भवति. गोचरो ऽस्य प्रहतो भवति. मानो ऽस्य निहतो ( म्क्व् 105 ) भवति. आत्मानं लाभेन योजयति. परान् पुण्ये प्रतिष्ठापयति. शास्तुः शासनं दीपयति. पश्चिमाया जनताया आलोकः कृतो भवति. सब्रह्मचारिणाम् उपघातः कृतो न भवति. नीचचित्तम् उपस्थापितं भवति. पिण्डपातपरचित्तस्य भिक्षोः सर्वा दिशो ऽप्रतिकूला भवन्ति गमनाय. इमे दश गुणाः पिण्डपातिकत्वे.
ल्xxx. दश वैशारद्यानि. कतमानि दश. उच्यते. विशारदो ग्रामं प्रविशति. विशारदो ग्रामान् निष्क्रामति. विशारदः पिण्डपातं परिभुङ्क्ते. विशारदः परिषदि धर्मं देशयति. विशारदः संघमध्यम् अवतरति. विशारद आचार्योपाध्यायान् उपसंक्रामति. विशारदो मैत्रचित्तः शिष्यान् अनुशास्ति. विशारदश् चीवरपिइइडपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान् परिभुङ्क्ते. ग्राह्यं चास्य वचो भवति. इमानि दश वैशारद्यानि.
कर्मविभङ्गसूत्रं समाप्तम्
मूल पाठ: Mahākarmavibhaṅga · Edition: Sylvain Lévi: Mahākarmavibhaṅga et Karmavibhaṅgopadeśa, Paris 1932, pp. 21-105. Cf. also N. Kudo: The Karmavibhaṅga. Transliterations and Annotations of the Original Sanskrit Manuscripts from Nepal, Tokyo 2004 (Bibliotheca Philologica et Philosophica Buddhica, 7). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0