भाषा

ENहिગુ
ग्रंथ पाठ

महादण्डधारणीशीतवती · भाग 11

महादण्डधारणीशीतवती
[0] [सिद्धम्] नमः सर्वबुद्धबोधिसत्त्वेभ्यः ।
[1] एवं मया श्रुतम् एकस्मिन् समये भगवान् राजगृहे विहरति स्म । शीतवने महाश्मशाने इङ्घिकायतनप्रत्युद्देशे । तत्रायुष्मान् राहुलो ऽतीव विहेठ्यते देवग्रहैर् नागग्रहैर् यक्षग्रहै राक्षसग्रहैः किन्नरग्रहैर् गरुडग्रहैर् महोरगग्रहैर् मनुष्यग्रहैर् अमनुष्यग्रहैः प्रेतग्रहैर् भूतग्रहैः पिशाचग्रहैः कुम्भाण्डग्रहैर् द्वीपिभिः काकैर् उलूकैः कीटैः सरीसृपैऋ अन्यैश् च मनुष्यामनुष्यैः सत्त्वैः ।
[2] अथायुष्मान् राहुलो येन भगवांस् तेनोपसंक्रान्त उपसंक्रम्य भगवतः पादौ शिरसाभिवन्दित्वा भगवन्तं त्रिप्रदक्षिणीकृत्य भगवतः पुरतो रुदन्न् अश्रूणि प्रवर्तयति स्म ।
[3] अथ भगवान् जानन्न् एव राहुलम् आमन्त्रयते स्म । किं त्वं राहुल मम पुरतः स्थित्वा अश्रूणि प्रवर्तयसि । एवम् उक्ते आयुष्मान् राहुलो भगवन्तम् एतद् अवोचत् । इहाहं भगवन् राजगृहे विहरामि । शीतवने महाश्मशाने इङ्घिकायतनप्रत्युद्देशे । सो ऽहं भगवंस् तत्र विहेठ्ये देवग्रहैर् नागग्रहैर् यक्षग्रहै राक्षसग्रहैः किन्नरग्रहैर् गरुडग्रहैर् महोरगग्रहैर् मनुष्यग्रहैर् अमनुष्यग्रहैः प्रेतग्रहैर् भूतग्रहैः पिशाचग्रहैः कुम्भाण्डग्रहैर् द्वीपिभिः काकैर् उलूकैः कीटैः सरीसृपैर् अन्यैश् च मनुष्यामनुष्यैः सत्त्वैर् इति ।
[4] अथ खलु भगवान् आयुष्मन्तं राहुलम् आमन्त्रयते स्म । उद्गृह्ण त्वं राहुल इमां महादण्डधारणीं विद्याम् । चतसृणां पर्षदां रक्षावरणगुप्तये भिक्षूणां भिक्षुणीनाम् उपासकानाम् उपासिकानां च दीर्घरात्रम् अर्थाय हिताय सुखाय भविष्यति ।
[5] तद्यथा । अङ्गा । वङ्गा । भङ्गा । वरङ्गा । संसारतरङ्गा । सासदङ्गा । भङ्गा । जेसुरा । एकतरा । अर वीरा । तर वीरा । कर वीरा । कर कर वीरा । इन्द्रा । इन्द्रकिसरा । हंसा । हंसकिसरा । पिचिमला । महाकिच्चा । विहेठिका । कालुच्छिका । अङ्गोदरा । जया । जयालिका । वेला । एला । चिन्तालि । चिलि चिलि । हिलि हिलि । सुमति । वसुमति । चुलु नट्टे । चुलु चुलु नट्टे । चुलु नाडि । कुनाडि । हारीटकि । कारीटकि । गौरि । गन्धारि । चण्डालि । मातङ्गि । धरणि धारणि । उष्ट्रपालिके । कच कारिके । चल नाटिके । काकलिके । ललमति । रक्षमति । वराकुले । मन्मते उत्पले । कर वीरे । तर वीरे । तर तर वीरे । कुरु वीरे । कुरु कुरु वीरे । चुरु वीरे । चुरु चुरु वीरे । महावीरे । इरमति । वरमति । रक्षमति । सर्वार्थसाधनि । परमार्थसाधनि । अप्रतिहते । इन्द्रो राजा । यमो राजा । वरुणो राजा । कुबेरो राजा । मनस्वी राजा । वासुकी राजा । दण्डाग्नी राजा । ब्रह्मा सहस्राधिपती राजा । बुद्धो भगवान् धर्मस्वामी राजा । अनुत्तरो लोकानुकम्पकः । मम सर्वसत्त्वानां च रक्षां कुर्वन्तु । परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु । जीवतु वर्षशतं पश्यतु शरदां शतम् ।
[6] तद्यथा । बलवति । वरमति । तलमति । लक्षमति । रक्षमति । हुरु हुरु । फुरु फुरु । चर चर । खर खर । खुरु खुरु । मति मति । भूमिचण्डे । कालिकेटि । अकिसला । पीने । सामलते । हूले स्थूले । स्थूलशिखरे । जय स्थूले । जय नट्टे । चल नासि । चुलु नासि । वाग्बन्धनि । विरोहणि । सोलोहिते । अण्डरे । पण्डरे । कराले । किन्नरे । केयूरे । केतुमति । भूतंगमे । भूतमति । धन्ये । मङ्गल्ये । महाबललोहितमूले । अचलचण्डे । धुरंधरा । जयालिके । जया । गोरोहणि । चुरु चुरु । रुन्ध रुन्ध । धुरु धुरु । खुरु खुरु । खुरुमति । बन्धुमति । धुरंधरे । धरे धरे । विधरे विमति । विष्कम्भणि । नाशनि विनाशनि । बन्धनि । मोक्षणि । मोचनि । मोहनि । भावनि । शोधनि । संशोधनि विशोधनि । संखिरणि । संछिन्दनि । साधु तुरुमाणे । हर हर बन्धुमति । हिरि हिरि । खिरि खिरि । खरलि । हुरु हुरु । पिङ्गले । नमो ऽस्तु बुद्धानां भगवतां स्वाहा ।
[7] अस्यां खलु राहुल महादण्डधारण्यां विद्यायाम् अन्तशो ऽष्टोत्तरशतपदानां सूत्रं ग्रन्थिं बद्धायां हस्तेन धार्यमाणायां कण्ठेन धार्यमाणायां समन्ताद् योजनशतस्य रक्षा कृता भविष्यति । गन्धैर् वा पुष्पैर् वा मुद्राभिर् वा नैव मनुष्यो वामनुष्यो वाभिभविष्यति । न विषं न शस्त्रं न रोगो न ज्वरो न प्रज्वरो न विद्यामन्त्रो न वेताडः । न व्याधौ नाग्नौ न विषोदकेन कालं करिष्यति । विद्यामन्त्रप्रयोगानां च सर्वेषां साधुप्रयुक्तानां च बन्धनी । परबन्धानां च प्रमोचनी । सर्वरोगशोकविघ्नविनाशनकरी । कलिकलुषप्रशमनकरी । सर्वग्रहविमोचनकरी । यो ग्रहो न मुञ्चेत्
सप्तधास्य स्फुटेन् मूर्धा अर्जकस्येव मञ्जरी ।
वज्रपाणिश् चास्य महायक्षसेनापतिर् वज्रेणादीप्तेन सम्प्रज्वालितेन एकज्वालीभूतेन ध्यायित्वा मूर्धानं स्फोटयेत् । चत्वारश् च महाराजानो ऽयोमयेन चक्रेण क्षुरधाराप्रहारेण विनाशयेयुः । तस्माद् यक्षलोकाच् च्यवनं भवेत् । अडकवत्यां राजधान्यां न लभते वासम् ।
[8] अस्यां खलु राहुल महादण्डधारण्यां विद्यायां सकृत्परिवर्तितायां राजचौरोदकाग्निविषशस्त्राटवीकान्तारपर्वतदुर्गमध्यगतः सर्वभयेभ्यः प्रतिमुच्यते । इयं खलु महादण्डधारणीविद्या एकनवतिगङ्गानदीवालिकासमैर् बुद्धैर् भाषिता भाष्यते भाषिष्यते च सिद्धा परमसिद्धा सर्वदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाभिर् वन्दिता सर्वजनगणपरिवृता । सर्वभयोपद्रवेषु मम सर्वसत्त्वानां च शिवम् आरोग्यं भवतु ।
[9] इदम् अवोचद् भगवान् आत्तमना आयुष्मान् राहुलो भगवतो भाषितम् अभ्यनन्दन्न् इति ।
[10] आर्यमहादण्डधारणीशीतवती समाप्ता ।

मूल पाठ: Mahādaṇḍadhāraṇīśītavatī · Edition: Hidas, Gergely (2017) Mahā-Daṇḍadhāraṇī-Śītavatī: A Buddhist Apotropaic Scripture. In: V. Vergiani, D. Cuneo, C.A. Formigatti (eds.) Indic Manuscript Cultures through the Ages. Material, Textual, and Historical Investigations. De Gruyter, Berlin: 449-486. · Data entry Gergely Hidas · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc