भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.66

7.66.1

गयं चाधूर्तरजसं मृतं सृञ्जय शुश्रुम ।
ये वै वर्षशत राजा हुतशिष्टाशनोऽभवत् ॥

7.66.2

तस्मै ह्यग्निर्वरं प्रादात्ततो वव्रे वरं गयः ।
तपसा ब्रह्मचर्येण व्रतेन नियमेन च ॥

7.66.3

गुरूणां च प्रसादेन वेदानिच्छामि वेदितुम् ।
स्वधर्मेणाविहिंस्यान्यान्धनमिच्छामि चाक्षयम् ॥

7.66.4

विप्रेषु ददतश्चैव श्रद्धा भवतु नित्यशः ।
कन्यासु च सवर्णासु सुप्रजस्त्वं च मे भवेत् ॥

7.66.5

अन्नमोजो महो मह्यं धर्मे मे रमतां मनः ।
अविघ्नं चास्तु मे नित्यं धर्मकार्येषु पावक ॥

7.66.6

तथा भिष्यतीत्युक्त्वा तत्रैवान्तरधीयत ।
गयो ह्यवाप्य तत्सर्वं धर्मेणाराधयञ्जगत् ॥

7.66.7

स दर्शपूर्णमासाभ्यां कालेष्वाग्रयणेन च ।
चातुर्मास्यैश्च विविधैर्यज्ञैश्चावाप्तदक्षिणैः ॥

7.66.8

अयजच्छ्रद्धया राजा परिसंवत्सराञ्शतम् ।
गवां शतसहस्राणि शतमश्वशतानि च ॥

7.66.9

शतं निष्कसहस्राणि गवां चाप्ययुतानि षट् ।
उत्थायोत्थाय सम्प्रादात्परिसंवत्सराञ्शतम् ॥

7.66.10

नक्षत्रेषु च सर्वेषु ददन्नक्षत्रदक्षिणाः ।
ईजे च विविधैर्यज्ञैर्यथा सोमोऽङ्गिरा यथा ॥

7.66.11

सौवर्णां पृथिवीं कृत्वा य इमां प्रमिशर्कराम् ।
विप्रेभ्यः प्राददद्राजा सोऽश्वमेधे महामखे ॥

7.66.12

जाम्बूनदमया यूपाः सर्वे रत्नपरिच्छदाः ।
गयस्यासन्समृद्धास्तु सर्वभूतमनोहराः ॥

7.66.13

सर्वकामसमृद्धं च प्रादादन्नं गयस्तदा ।
ब्राह्ममेभ्यः प्रहृष्टेभ्यः सर्वभूतेभ्य एव च ॥

7.66.14

ससमुद्रवनद्वीपनदीनदवनेषु च ।
नगरेषु च राष्ट्रेषु दिवि व्योम्नि च येऽवसन् ॥

7.66.15

भूतग्रामाश्च विविधाः सन्तृप्ता यज्ञसम्पदा ।
गयस्य सदृशो यज्ञो नास्त्यन्य इति तेऽब्रुवन् ॥

7.66.16

षट््त्रिंशद्योजनायामा त्रिंशद्योजनमायता ।
पश्चात्पुरश्चतुर्विंशद्वेदी ह्यासीद्धिरण्मयी ॥

7.66.17

गयस्य यजमानस्य मुक्तावज्रमणिस्तृता ।
प्रादात्स ब्राह्मणेभ्योऽथ वासांस्याभरणानि च ॥

7.66.18

यथोक्ता दक्षिणाश्चान्या विप्रेभ्यो भूरिदक्षिणः ।
यत्र भोजनशिष्टस्य पर्वताः पञ्चविंशतिः ॥

7.66.19

कुल्याश्च क्षीरवाहिन्यो रसानां चापभवंस्तदा ।
वस्त्राभरणगन्धानां शारयश्च पृथग्विधाः ॥

7.66.20

यस्य प्रभावाच्च गयस्त्रिषु लोकेषु विश्रुतः ।
वटश्चाक्षय्यकरणः पुण्यं ब्रह्मसरश्च तत् ॥

7.66.21

स चेन्ममार स्̤अञ्जय चतुर्भद्रतरस्त्वया । पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः ।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc