भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.116

7.116.1

सात्वतस्य रणे कर्म दृष्ट्वा योद्धुं महारथाः ।
अमृष्यमाणाः संयत्ताः शैनेयं समुपाद्रवन् ॥

7.116.2

ते किरन्तः शरव्रातान्सर्वे यत्ताः प्रहारिणः ।
त्वरमाणा महाराज युयुधानमयोधयन् ॥

7.116.3

तं द्रोणः सप्तसप्त्या जघान निशितैः शरैः ।
दुर्मर्षणो द्वादशभिर्दुःसहो दशभिः शरैः ॥

7.116.4

विकर्णश्चापि निशितैस्त्रिंशद्भिः कङ्कपत्रिभिः ।
विव्याध मार्गणैस्तूर्णं वामपार्श्वे स्तनान्तरे ॥

7.116.5

दुर्मुखो दशभिर्बाणैस्तथा दुःशासनोऽष्टभिः ।
चित्रसेनश्च शैनेयं द्वाभ्यां विव्याध मारिष ॥

7.116.6

दुर्योधनश्च महता शरवर्षेण माधवम् ।
अपीडयद्रमे राजञ्शूराश्चान्ये महारथाः ॥

7.116.7

सर्वतः प्रतिविद्धस्तु तव पुत्रैर्महारथैः ।
स तुद्यमानश्च तदा सर्वतः कुरुपुङ्गवैः ॥

7.116.8

तान्प्रत्यविध्यद्वार्ष्णेयः पृथक्पृथगजिह्मगैः ।
सात्यकिः पुण्डरीकाक्षो ह्यस्त्रेषु परिनिष्ठितः ॥

7.116.9

भारद्वाजं त्रिभिर्बाणैर्दुःसहं नवभिः शरैः ।
विकर्णं पञ्चविंशत्या चित्रसेनं च सप्तभिः ॥

7.116.10

दुर्मर्षणं द्वादशभिरष्टाभिश्च विविंशतिम् ।
सत्यव्रतं च नवभिर्विजयं दशभिः शरैः ॥

7.116.11

दुर्योधनं त्रिभिर्विद्ध्वा सुपुङ्खैस्तिग्मतेजनैः । ततो रुक्माङ्गदं चापं विधुन्वानो महारथः ।
अभ्ययात्सात्यकिस्तूर्णं पुत्रं तव महारथम् ॥

7.116.12

राजानं सर्वलोकस्य सर्वलोकमहारथम् ।
शरैरभ्यहनद्गाढं ततो युद्धमभूत्तयोः ॥

7.116.13

विमुञ्चतौ शरांस्तीक्ष्णान्सन्दधानौ च सायकान् ।
अदृश्यं समरेऽन्योन्यं चक्रतुस्तौ महारथौ ॥

7.116.14

सात्यकिः कुरुराजेन निर्विद्धो बह्वशोभत ।
अस्रवद्रुधिरं भूरि स्वरसं चन्दनो यथा ॥

7.116.15

सात्वतेन च बाणौधैर्निर्विद्धस्तनयस्तव ।
शातकुम्भमयापीडो बभौ यूप इवोच्छ्रितः ॥

7.116.16

माधवस्तु रमे राजन्कुरुराजस्य धन्विनः ।
धनुश्चिच्छेद समरे क्षुरप्रेण हसन्निव ॥

7.116.17

अथैनं छिन्नधन्वानं शरैर्बहुभिराचिनोत् । निर्भिन्नश्च शरैस्तेन द्विषता क्षिप्रकारिणा ।
नामृष्यत रणे राजा शत्रोर्विजयलक्षणम् ॥

7.116.18

अथान्यद्धनुरादाय हेमपृष्ठं दुरासदम् ।
विव्याध सात्यकिं तूर्णं सायकानां शतेन ह ॥

7.116.19

सोऽतिविद्धो बलवता तव पुत्रेण धन्विना ।
अमर्षवशमापन्नस्तव पुत्रमपीडयत् ॥

7.116.20

पीडितं नृपतिं दृष्ट्वा तव पुत्रं महारथाः ।
सात्यकिं शरवर्षेण छादयामासुरोजसा ॥

7.116.21

स च्छाद्यमानो बहुभिस्तव पुत्रैर्महारथैः । एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः ।
दुर्योधनं व त्वरितो विव्याधाष्टभिराशुगैः ॥

7.116.22

प्रहसंश्चास्य चिच्छेद कार्मुकं रिपुभीषणम् ।
नागं मणिमयं चैव शरैर्ध्वजमपातयत् ॥

7.116.23

हत्वा तु चतुरो वाहांश्चतुर्भिर्निशितैः शरैः ।
सारथिं पातयामास क्षुरप्रेण महायशाः ॥

7.116.24

एतस्मिन्नन्तरे चैव कुरुराजं महारथम् ।
अवारिकच्छरैर्हृष्टो बहुभिर्मर्मभेदिभिः ॥

7.116.25

स विध्यमानः समरे शैनेयस्य शरोत्तमैः । प्राद्रवत्सहसा राजन्पुत्रो दुर्योधनस्तव ।
आप्लुतश्च ततो यानं चित्रसेनस्य धन्विनः ॥

7.116.26

हाहाभूतं जगच्चासीद्दृष्ट्वा राजानमाहवे ।
ग्रस्यमानं सात्यकिना खे मोममिव राहुणा ॥

7.116.27

तं तु शब्दमथ श्रुत्वा कृतवार्मा महारथः ।
अभ्ययात्सहसा तत्र यत्रास्ते माधवः प्रभुः ॥

7.116.28

विधुन्वानो धनुः श्रेष्ठं चोदयंश्चैव वाजिनः ।
भर्त्सयन्सारथिं चाग्रे याहियाहीति सत्वरम् ॥

7.116.29

तमापतन्तं सम्प्रेक्ष्य व्यादितास्यमिवान्तकम् ।
युयुधानो महाराज यन्तारमिदमब्रवीत् ॥

7.116.30

कृतवर्मा रथेनैष द्रुतमापतते शरी ।
प्रत्युद्याहि रथेनैनं प्रवरं सर्वधन्विनाम् ॥

7.116.31

प्रयाहि सत्वरं सूत रथेन रथसत्तमम् ।
निहनिष्यामि तं सङ्ख्ये वृष्णिवीरमरिन्दमम् ॥

7.116.32

ततः प्रजविताश्वेन रथेन रथिनांवरः ।
आससाद रणे भोजं प्रतिमानं धनुष्मताम् ॥

7.116.33

ततो गभस्तिमत्प्रख्यौ ज्वलिताविव पावकौ ।
समेयातां नरव्याघ्रौ व्याघ्राविव तरस्विनौ ॥

7.116.34

कृतवर्मा तु शैनेयं षड्विंशत्या समार्पयत् ।
निशितैः सायकैस्तीक्ष्णैर्यन्तारं चास्य पञ्चभिः ॥

7.116.35

चतुरश्चतुरो वाहांश्चतुर्भिः परमेषुभिः ।
अविध्यत्साधुदान्तान्वै सैन्धवान्सात्वतस्य हि ॥

7.116.36

रुक्मध्वजो रुक्मपृष्ठं महद्विष्फार्य कार्मुकम् ।
रुक्माङ्गदी रुक्मवर्मा रुक्मपुङ्खैरवारयत् ॥

7.116.37

ततोऽशीतिं शिनेः पौत्रः सायकान्कृतवर्मणे ।
प्राहिणोत्त्वरया युक्तो द्रष्टुकामो धनञ्जयम् ॥

7.116.38

सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः ।
समकम्पतः दुर्धर्षः क्षितिकम्पे यथाऽचलः ॥

7.116.39

त्रिषष्ट्या चतुरोऽस्याश्वान्सप्तभिः सारथिं तथा ।
विव्याध निशितैस्तूर्णं सात्यकिः सत्यविक्रमः ॥

7.116.40

हताश्वसूते तु रथे स्थिताय शिनिपुङ्गवः । सुवर्णपुङ्खं विशिखं समादाय च सात्यकिः ।
व्यसृजत्तं महाज्वालं सङ्क्रुद्धमिव पन्नगम् ॥

7.116.41

सोऽविध्यत्कृतवर्माणं यमदण्डोपमः शरः । जाम्बूनदविचित्रं च वर्म निर्भिद्य भानुमत् ।
अभ्यगाद्धरणीमुग्रो रुधिरेण समुक्षितः ॥

7.116.42

सञ्जातरुधिरश्चाजौ सात्वतेषुभिरर्दितः ।
सशरं धनुरुत्सृज्य न्यपतत्स्यन्दनोत्तमात् ॥

7.116.43

स सिंहदंष्ट्रो जानुभ्यां पतितोऽमितविक्रमः ।
शरार्दितः सात्यकिना रथोपस्थे नरर्षभः ॥

7.116.44

सहस्रबाहुसदृशमक्षोभ्यमिव सागरम् ।
निवार्य कृतवर्माणं सात्यकिः प्रययौ ततः ॥

7.116.45

न हि तस्य शरोऽपार्थः कथञ्चिदपि पार्थिव ।
दिदृक्षुः स हि वेगेन प्रायाद्यत्र धनञ्जयः ॥

7.116.46

स शक्त्या क्षत्रियैस्तत्र निरुद्धो बलवत्तरः ।
युयुधे सात्वतो राजन्दिदृक्षुः पाण्डुनन्दनम् ॥

7.116.47

खङ्गशक्तिधनुःकीर्णां गजाश्वरथसङ्कुलाम् ।
प्रवर्तितोग्ररुधिरां शतशः क्षत्रियर्षभैः ॥

7.116.48

प्रेक्षतां सर्वसैन्यानां मध्येन शिनिपुङ्गवः ।
अभ्यगाद्वाहिनीं हित्वा वृत्रहेवासुरीं चमूम् ॥

7.116.49

समाश्वस्य च हार्दिक्यो गृह्य चान्यन्महद्धनुः ।
तस्थौ स तत्र बलवान्वारयन्युधि पाण्डवान् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc