भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 6.23

6.23.1

धार्तराष्ट्रबलं दृष्ट्वा युद्धाय समुपस्थितम् ।
अर्जुनस्य हितार्थाय कृष्णो वचनमब्रवीत् ॥
श्रीभगवानुवाच ।

6.23.2

शुचिर्भूत्वा महाबाहो सन्ग्रामाभिमुखे स्थितः ।
पराजयाय श्त्रुणां दुर्गास्तोत्रमुदीरय ॥
सञ्जय उवाच ।

6.23.3

एवमुक्तोऽर्जुनः सङ्ख्ये वासुदेवेन धीमता ।
अवतीर्य रथात्पार्थः स्तोत्रमाह कृताञ्जलिः ॥
अर्जुन उवाच ।

6.23.4

नमस्ते सिद्धसेनानि आर्ये मन्दरवासिनि ।
कुमारि कालि कापालि कपिले कृष्णपिङ्गले ॥

6.23.5

भद्रकालि नमस्तुभ्यं महाकालि नमोऽस्तु ते ।
चण्डि चण्डे नमस्तुभ्यं तारिणि वरवर्णिनि ॥

6.23.6

कात्यायनि महाभागे करालि विजये जये ।
शिखिपिच्छध्वजधरे नानाभरणभूषिते ॥

6.23.7

अट्टशूलप्रहरणे स्वङ्गखेटकधारिणि ।
गोपेन्द्रस्यानुजे ज्येष्ठे नन्दगोपकुलोद्भवे ॥

6.23.8

महिषासृक्प्रिये नित्यं कौशिकि पीतवासिनि ।
अट्टहासे कोकमुखे नमस्तेऽस्तु रणप्रिये ॥

6.23.9

उभे शाकम्भरि श्वेते कृष्णे कैटभनाशिनि ।
हिरण्याश्चि विरूपाक्षि सुधूम्राक्षि नमोऽस्तु ते ॥

6.23.10

वेदश्रुति महापुण्ये ब्रह्मण्ये जातवेदसि ।
जम्बूकटकचैत्येषु नित्यं सन्निहितालये ॥

6.23.11

त्वं ब्रह्मविद्या विद्यानां महानिद्रा च देहिनाम् ।
स्कन्दमातर्भगवति दुर्गे कान्तारवासिनि ॥

6.23.12

स्वाहाकारः स्वधा चैव कला काष्ठा सरस्वती ।
सावित्री वेदमाता च तथा वेदान्त उच्यते ॥

6.23.13

स्तुतासि त्वं महादेवि विशुद्धेनान्तरात्मना ।
जयो भवतु मे नित्यं त्वत्प्रसादाद्रणाजिरे ॥

6.23.14

कान्तारभयदुर्गेषु भक्तानां चालयेषु च ।
नित्यं वससि पाताले युद्धे जयसि दानवान् ॥

6.23.15

त्वं जम्भनी मोहिनी च माया ह्रीः श्रीस्तथैव च ।
सन्ध्या प्रभावती चैव सावित्री जननी तथा ॥

6.23.16

तुष्टिः पुष्टिर्धृतिर्दीप्तिश्चन्द्रादित्यविवर्धिनी ।
भूतिर्भूतिमतां सङ्ख्ये वीक्ष्यसे सिद्धचारणैः ॥
सञ्जय उवाच ।

6.23.17

ततः पार्थस्य विज्ञाय भक्तिं मानववत्सला । 6-23-17बन्तरिक्षगतोवाच गोविन्दस्याग्रतः स्थिता ॥
देव्युवाच ।

6.23.18

स्वल्पेनैव तु कालेन शत्रूञ्जेष्यसि पाण्डव ।
नरस्त्वमसि दुर्धर्ष नारायणसहायवान् ॥

6.23.19

अजेयस्त्वं रणेऽरीणामपि वज्रभृतः स्वयम् ।
इत्येवमुक्त्वा वरदा क्षणेनान्तरधीयत ॥

6.23.20

लब्ध्वा वरं तु कौन्तेयो मेने विजयमात्मनः ।
आरुरोह ततः पार्थो रथं परमसम्मतम् ॥

6.23.21

कृष्णार्जुनावेकरथौ दिव्यौ शङ्खौः प्रदध्मतुः ।
य इदं पठते स्तोत्रं कल्य उत्थाय मानवः ॥

6.23.22

यक्षरक्षःपिशाचेभ्यो न भयं विद्यते सदा ।
न चापि रिपवस्तेभ्यः सर्पाद्या ये च दंष्ट्रिणः ॥

6.23.23

न भयं विद्यते तस्य सदा राजकुलादपि ।
विवादेक जयमाप्नोति बद्धो मुच्यति बन्धनात् ॥

6.23.24

दुर्गं तरति चावश्यं तथा चोरैर्विमुच्यते ।
सन्ग्रामे विजयेन्नित्यं लक्ष्मीं प्राप्नोति केवलाम् ॥

6.23.25

आरोग्यबलसम्पन्नो जीवेद्वर्षशतं तथा ।
एतद्दृष्टं प्रसादात्तु मया व्यासस्य धीमतः ॥

6.23.26

मोहादेतौ न जानन्ति नरनारायणावृषी ।
तव पुत्रा दुरात्मानः सर्वे मन्युवशानुगाः ॥

6.23.27

प्राप्तकालमिदं वाक््यं कालपाशेन कुण्ठिताः . द्वैपायनो नारदश्च कण्वो रामस्तथानघः ।
अवारयंस्तव सुतं न चासौ तद्गृहीतवान् ॥

6.23.28

यत्र धर्मो द्युतिः कान्तिर्यत्र ह्रीः श्रीस्तथा मतिः ।
यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc