भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 5.85

5.85.1

तदा दूतैः समाज्ञाय आयान्तं मधुसूदनम् ।
धृतराष्ट्रोऽब्रवीद्भीष्ममर्चयित्वा महाभुजम् ॥

5.85.2

द्रोणं च सञ्जयं चैव विदुरं च महामतिम् ।
दुर्योदनं सहामात्यं हृष्टरोमाऽब्रवीदिदम् ॥

5.85.3

अद्भुतं महादाश्चर्यं श्रूयते कुरुनन्दन ।
स्त्रियो बालाश्च वृद्धाश्च कथयन्ति गृहेगृहे ॥

5.85.4

सत्कृत्याचक्षते चान्ये तथैवान्ये समागताः ।
पृथग्वादाश्च वर्तन्ते चत्वरेषु सभासु च ॥

5.85.5

उपायास्यति दाशार्हः पाण्डवार्थे पराक्रमी ।
स नो मान्यश्च पूज्यश्च सर्वथा मधुसूदनः ॥

5.85.6

तस्मिन्हि यात्रा लोकस्य भूतानामीश्वरोऽहि सः ।
तस्मिन्धृतिश्च वीर्यं च प्रज्ञा चौजश्च माधवे ॥

5.85.7

स मान्यतां नरश्रेष्ठः स हि धर्मः सनातनः ।
पूजितो हि सुखाय स्यादसुखः स्यादपूजितः ॥

5.85.8

स चेत्तुप्यति दाशार्ह उपचरैररिन्दमः ।
कृष्णात्सर्वानभिप्रायान्प्राप्स्यामः सर्वराजसु ॥

5.85.9

तस्य पूजार्थमद्यैव संविधस्त्व परन्तप ।
सभाः पथि विधीयन्तां सर्वकामसमन्विताः ॥

5.85.10

यथा प्रीतिर्महाबाहो त्वयि जायेत तस्य वै ।
तथा कुरुष्व गान्धारे कथं वा भीष्म मन्यसे ॥
वैशम्पायन उवाच ।

5.85.11

ततो भीष्मादयः सर्वे धृतराष्ट्रं जनाधिपम् ।
ऊचुःक परममित्येवं पूजयन्तोऽस्य तद्वचः ॥

5.85.12

तेषामनुमतं ज्ञात्वा राजा दुर्योधनस्तदा ।
सभावास्तूनि रम्याणि प्रदेष्टुमुपचक्रमे ॥

5.85.13

ततो देशेषु देशेषु रमणीयेषु भागशः ।
सर्वरत्नसमाकीर्णाः सभाश्चक्रुरनेकशः ॥

5.85.14

आसनानि विचित्राणि युतानि विविधैर्गुणैः ।
स्त्रियो गन्धानलङ्कानारान्सूक्ष्माणि वसनानि च ॥

5.85.15

गुणवन्त्यन्नपानानि भोज्यानि विविधानि च ।
माल्यानि च सुगन्धीनि तानि राजा ददौ ततः ॥

5.85.16

विशेवतश्च वासार्थं सभां ग्रामे वृकस्थले ।
विदधे कौरवो राजा बहुरत्नां मनोरमाम् ॥

5.85.17

एतद्विधाय वै सर्वं देवार्हमतिमानुषम् ।
आचख्यौ धृतराष्ट्राय राजा दुर्योधनस्तदा ॥

5.85.18

ताः सभाः केशवः सर्वा रत्नानि विविधानि च ।
असमीक्ष्यैव दाशार्ह उपायात्कुरुसद्म तत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc