भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 5.78

5.78.1

एवमेतन्महाबाहो यथा वदसि पाण्डव । पाण्डवानां कुरूणां च प्रतिपत्स्ये निरामयम् ।
सर्वं त्विदं ममायत्तं बीभत्सो कर्मणोर्द्वयोः ॥

5.78.2

क्षेत्रं हि रसवच्छुद्धं कर्मणैवोपपादितम् ।
ऋते वर्षान्न कौन्तेय जातु निर्वर्तयेत्फलम् ॥

5.78.3

तत्र वै पौरुषं ब्रूयुरासेकं यत्र कारितम् ।
तत्र चापि ध्रुवं पश्येच्छोषणं दैवकारितम् ॥

5.78.4

तदिदं निश्चित्तं बुद्ध्या पूर्वैरपि महात्मभिः ।
दैवे च मानुषे चैव संयुक्तं लोककारणम् ॥

5.78.5

अहं हि तत्करिष्यामि परं पुरुषकारतः ।
देवं तु न मया शक्यं कर्म कर्तुं कथञ्चन ॥

5.78.6

स हि धर्मं च लोकं च त्यक्त्वा चरति दुर्मतिः ।
न हि सन्तप्यते तेन तथारूपेण कर्मणा ॥

5.78.7

तथापि बुद्धिं पापिष्ठां वर्धयन्त्यस्य मन्त्रिणः ।
शकुनिः सूतपुत्रश्च भ्राता दुःशासनस्तथा ॥

5.78.8

स हि त्यागेन राज्यस्य न शमं समुपैष्यति ।
अन्तरेण वधं पार्थ सानुबन्धः सुयोधनः ॥

5.78.9

न चापि प्रणिपातेन त्यक्तुमिच्छति धर्मराट् ।
याच्यमानश्च राज्यं स न प्रजास्यति दुर्मतिः ॥

5.78.10

न तु मन्ये स तद्वाच्यो यद्युधिष्ठिरशातनम् ।
उक्तं प्रयोजनं यत्तु धर्मराजेन भारत ॥

5.78.11

तथा पापस्तु तत्सर्वं न करिष्यति कौरवः ।
तस्मिंश्चाक्रियमाणेऽसौ लोके वध्यो भविष्यति ॥

5.78.12

मम चापि स वध्यो हि जगतश्चापि भारत ।
तेन कौमारके यूयं सर्वे विप्रकृताः सदा ॥

5.78.13

विप्रलुप्तं च वो राज्यं नृशंसेन दुरात्मना ।
न चोपशाम्यते पापः श्रियं दृष्ट्वा युधिष्ठिरे ॥

5.78.14

असकृच्चाप्यहं तेन त्वत्कृते पार्थ भेदितः ।
न मया तद्गृहीतं च पापं तस्य चिकीर्षेतम् ॥

5.78.15

जानासि हि महाबाहो त्वमप्यस्य परं मतम् ।
प्रियं चिकीर्षमाणं च धर्मराजस्य मामपि ॥

5.78.16

सञ्जानंस्तस्य चात्मानं मम चैव परं मतम् ।
अजानन्निव मां कस्मादर्जुनाद्याभिशङ्कसे ॥

5.78.17

यच्चापि परमं दिव्यं तच्चाप्यनुगतं त्वया ।
विधानं विहितं पार्थ कथं शर्म भवेत्परैः ॥

5.78.18

यत्तु वाचा मया शक्यं कर्मणा वाऽपि पाण्डव ।
करिष्ये तदहं पार्थ न त्वाशंसे शमं परैः ॥

5.78.19

कथं गोहरणे ह्युक्तो नैतच्छर्म तथा हितम् ।
याच्यमानो हि भीष्मेण संवत्सरगतेऽध्वनि ॥

5.78.20

तदैव ते पराभूता यदा सङ्कल्पितास्त्वया ।
लवशः क्षणशश्चापि न च तुष्टः सुयोधनः ॥

5.78.21

सर्वथा तु मया कार्यं धर्मराजस्य शासनम् ।
विभाव्यं तस्य भूयश्च कर्म पापं दुरात्मनः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc