महाभारत · अध्याय 5.66
दुर्योधने धार्तराष्ट्रे तद्वचो नाभिनन्दति ।
तूष्णीम्भूतेषु सर्वेषु समुत्तस्थुर्नरर्षभाः ॥
उत्थितेषु महाराज पृथिव्यां सर्वराजसु ।
रहिते सञ्जयं राजा परिप्रष्टुं प्रचक्रमे ॥
आशंसमानो विजयं तेषां पुत्रवशानुगः ।
आत्मनश्च परेषां च पाण्डवानां च निश्चयम् ॥
धृतराष्ट्र उवाच ।
गावल्गणे ब्रूहि नः सारफल्गु स्वेसनायं यावदिहास्ति किञ्चित् ।
त्वं पाण्डवानां निपुणं वेत्थ सर्वं किमेषां ज्यायः किमु तेषां कनीयः ॥
त्वमेतयोः सारवित्सर्वदर्शी धर्मार्थयोर्निपुणो निश्चयज्ञः ।
स मे पृष्टः सञ्जय ब्रूहि सर्वं युध्यमानाः कतरेऽस्मिन्न सन्ति ॥
सञ्जय उवाच ।
न त्वां ब्रूयां रहिते जातु किञ्चि- दसूया हि त्वां प्रविशेत राजन् ।
आनयस्व पितरं महाव्रतं गान्धारीं च महिषीमाजमीढ ॥
तो तेऽसूयां विनयेतां नरेन्द्र धर्मज्ञौ तौ निपुणौ निश्चयज्ञौ ।
तयोस्तु त्वां सन्निधौ तद्वदेयं कृत्स्नं मतं केशवपार्थयोर्यत् ॥
वैशम्पायन उवाच ।
इत्युक्तेन च गान्धारी व्यासश्चात्राजगामह ।
आनीतौ विदुरेणेह सभां शीघ्रं प्रवेशितौ ॥
ततस्तन्मतमाज्ञाय सञ्जयस्यात्मजस्य च ।
अभ्युपेत्य महाप्राज्ञः कृष्णद्वैपायनोऽब्रवीत् ॥
व्यास उवाच ।
सम्पृच्छते धृतराष्ट्रय सञ्जय आचक्ष्व सर्वं यावदेषोऽनुयुङ्क्ते ।
सर्वं यावद्वेत्थ तस्मिन्यथाव- द्याथातथ्यं वासुदेवेऽर्जुने च ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0