भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 5.64

5.64.1

शकुनीनामिहार्थाय पाशं भूमावयोजयत् ।
कश्चिच्छाकुनिकस्तात पूर्वेषामिति शुश्रुम् ॥

5.64.2

तस्मिंस्तौ शकुनौ बद्धौ युगपत्सहचारिणौ ।
तावुपादाय तं पाशं जग्मतुः खचरावुभौ ॥

5.64.3

तौ विहायसमाक्रान्तौ दृष्ट्वा शाकुनिकस्तदा ।
अन्वधावदनिर्विण्णो येन येन स्म गच्छतः ॥

5.64.4

तथा तमनुधावन्तमृगयुं शकुनार्थिनम् ।
आश्रमस्थो मुनिः कश्चिद्ददर्शाथ कृताह्निकः ॥

5.64.5

तावन्तरिक्षगौ शीघ्रमनुयान्तं महीचरम् ।
श्लोकेनानेन कौरव्य पप्च्छ स मुनिस्तदा ॥

5.64.6

विचित्रमिदमाश्चर्यं मृगहन्प्रतिभाति मे ।
प्लवमानौ हि खचरौ पदातिरनुधावसि ॥
शाकुनिक उवाच ।

5.64.7

पाशमेकमुभावेतौ सहितौ हरतो मम ।
यत्र वै विवदिष्येते तत्र मे वशमेष्यतः ॥
विदुर उवाच ।

5.64.8

तौ विवादमनुप्राप्तौ शकुनौ मृत्युसन्धितौ ।
विगृह्य च स्रुदुर्बुद्धी पृथिव्यां सन्निपेततुः ॥

5.64.9

तौ युध्यमानौ संरब्धौ मृत्युपाशवशानुगौ ।
उपसृत्य प्रमत्तौ तौ जग्राह मृगहा तदा ॥

5.64.10

एवं ये ज्ञातयोऽर्थेषु मिथो गच्छन्ति विग्रहम् ।
ते मृत्युवशमायान्ति शकुनाविव विग्रहात् ॥

5.64.11

सम्भोजनं सन्कथनं सम्प्रश्नोऽथ समागमः ।
एतानि ज्ञातिकार्याणि न विरोधः कदाचन ॥

5.64.12

ये स्म काले सुमनसः सर्वे वृद्धानुपासते ।
सिंहगुप्तमिवारण्यमप्रधृष्या भवन्ति ते ॥

5.64.13

येऽर्थं सन्ततमासाद्य दीना इव समासते ।
श्रियं ते सम्प्रयच्छन्ति द्विषद्भ्यो भरतर्षभ ॥

5.64.14

धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च ।
धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ ॥

5.64.15

इदमन्यत्प्रवक्ष्यामि यथा दृष्टं गिरौ मया ।
श्रुत्वा तदपि कौरव्य यथा श्रेयस्तथा कुरु ॥

5.64.16

वयं किरातैः सहिता गच्छामो गिरिमुत्तरम् ।
ब्राह्मणैर्देवकल्पैश्च विद्याजम्भकवार्तिकैः ॥

5.64.17

कुञ्चभूतं गिरिं सर्वमभितो गन्धमादनम् ।
दीप्यमानौषधिगणं सिद्धगन्धर्वसेवितम् ॥

5.64.18

तत्रापश्याम वै सर्वे मधु पीतकमाक्षिकम् ।
मरुप्रपाते विषमे निविष्टं कुम्भसम्मितम् ॥

5.64.19

आशीविषै रक्ष्यमाणं कुबेरदयितं भृशम् ।
यत्प्राप्य पुरुषो मर्त्योऽप्यमरत्वं नियच्छति ॥

5.64.20

अचक्षुर्लभते चक्षुर्वृद्धो भवति वै युवा ।
इति ते कथयन्तिस्म ब्राह्मणा जम्भसाधकाः ॥

5.64.21

ततः किरातास्तद्दृष्ट्वा प्रार्थयन्तो महीपते ।
विनेशुर्विषमे तस्मिन्ससर्पे गिरिगह्वरे ॥

5.64.22

तथैव तव पुत्रोऽयं पृथिवीमेक इच्छति ।
मधु पश्यति सम्मोहात्प्रपातं नानुपश्यति ॥

5.64.23

दुर्योधनो योद्धुमनाः समरे सव्यसाचिना ।
न च पश्यामि तेजोस्य विक्रमं वा तथाविधम् ॥

5.64.24

एकेन रथमास्थाय पृथिवी येन निर्जिता ।
भीष्मद्रोणप्रभृतयः सन्त्रस्ताः साधुयायिनः ॥

5.64.25

विराटनगरे भग्नाः किं तत्र तव दृश्यताम् ।
प्रतीक्षमाणो यो वीरः क्षमते वीक्षितं तव ॥

5.64.26

द्रुपदो मत्स्यराजश्च सङ्कुद्धश्च धनञ्जयः ।
न शेषयेयुः समरे वायुयुक्ता इवाग्नयः ॥

5.64.27

अङ्के कुरुष्व राजानं धृतराष्ट्र युधिष्ठिरम् ।
युध्यतोर्हि द्वयोर्युद्धे नैकान्तेन भवेञ्जयः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc