भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 5.41

5.41.1

अनुक्तं यदि ते किञ्चिद्वाचा विदुर विद्यते ।
तन्मे शुश्रूषतो ब्रूहि विचित्राणि हि भाषसे ॥
विदुर उवाच ।

5.41.2

धृतराष्ट्र कुमारो वै यः पुराणः सनातनः ।
तनत्सुजातः प्रोवाच मृत्युर्नास्तीति भारत ॥

5.41.3

स ते गुह्यान्प्रकाशांश्च सर्वान्हृदयसंश्रयान् ।
प्रवक्ष्यति महाराज सर्वबुद्धिमतां वरः ॥
धृतराष्ट्र उवाच ।

5.41.4

किं त्वं न वेद तद्भूयो यन्मे ब्रूयात्सनातनः ।
त्वमेव विदुर ब्रूहि प्रज्ञाशेषोऽस्ति चेत्तव ॥
विदुर उवाच ।

5.41.5

शूद्रयोनावहं जातो नातोऽन्यद्वक्तुमुत्सहे ।
कुमारस्य तु याबुद्धिर्वेद तां शाश्वतीमहम् ॥

5.41.6

ब्राह्मीं हि योनिमापन्नः सगुह्यमपि यो वदेत् ।
न तेन गर्ह्यो देवानां तस्मादेतद्ब्रवीमि ते ॥
धृतराष्ट्र उवाच ।

5.41.7

ब्रवीहि विदुर त्वं मे पुराणं तं सनातनम् ।
कथमेतेन देहेन स्यादिहैव समागमः ॥
वैशम्पायन उवाच ।

5.41.8

चिन्तयामास विदुरस्तभृषिं शंसितव्रतम् ।
स च तच्चिन्तितं ज्ञात्वा दर्शयामास भारत ॥

5.41.9

स चैनं प्रतिजग्राह विधिदृष्टेन कर्मणा ।
सुखोपविष्टं विश्रान्तमथैनं विदुरोऽब्रवीत् ॥

5.41.10

भगवन्संशयः कश्चिद्धृतराष्ट्रस्य मानसः ।
यो न शक्यो मया वक्तुं त्वमस्मै वक्तुमर्हसि ॥

5.41.11

यं श्रत्वाऽयं मनुष्येन्द्रः सर्वदुःखातिगो भवेत् ॥

5.41.12

लाभालाभौ प्रियद्वेष्यौ यथैनं न जरान्तकौ । विषहेरन्भयामर्षौ श्रुत्पिपासे मदोद्भवौ ।
अरतिश्चैव तन्द्री च कामक्रोधौ क्षयोदयौ ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc