भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 5.19

5.19.1

युयुधानस्ततो वीरः सात्वतानां महारथः ।
महता चतुरङ्गेण बलेनागाद्युधिष्ठिरम् ॥

5.19.2

तस्य योधा महावीर्या नानादेशसमागताः ।
नानाप्रहरणा वीराः शोभयाञ्चक्रिरे बलम् ॥

5.19.3

परश्वथैर्भिण्डिपालैः शूलतोमरमुद्गरैः ।
परिघैर्यष्टिभिः पाशैः करवालैश्च निर्मलैः ॥

5.19.4

खङ्गकार्मुकनिर्यूहैः शरैश्च विविधैरपि ।
तैलधौतैः प्रकाशद्भिस्तदशोभत वै बलम् ॥

5.19.5

तस्य मेघप्रकाशस्य सौवर्णौः शोभितस्य च ।
बभूव रूपं सैन्यस्य मेघस्येव सविद्युतः ॥

5.19.6

अक्षौहिणी तु सा सेना तदा यौधिष्ठिरं बलम् ।
प्रविश्यान्तर्दधे राजन्सागरं कुनदी यथा ॥

5.19.7

तथैवाक्षौहिणीं गृह्य चेदीनामृषभो बली ।
धृष्टकेतुरुपागच्चत्पाण्डवानमितौजसः ॥

5.19.8

मागधश्च जयत्सेनो जारासन्धिर्महाबलः ।
अक्षौहिण्यैव सैन्यस्य धर्मराजमुपागमत् ॥

5.19.9

तथैव पाण्ड्यो राजेन्द्र सागरानूपवासिभिः ।
वृतो बहुविधैर्योधैर्युधिष्ठिरमुपागमत् ॥

5.19.10

तस्य सैन्यमतीवासीत्तस्मिन्बलसमागमे ।
प्रेक्षणीयतरं राजन्सुवेषं बलवत्तदा ॥

5.19.11

केकयाश्च नरव्याघ्राः सोदराः पञ्च पार्थिवाः . संहर्षयन्तः कौन्तेयोनक्षौहिण्या समागताः ॥

5.19.12

द्रुपदस्याप्यभूत्सेना नानादेशसमागतैः ।
शोभिता पुरुषैः शूरैः पुत्रैश्चास्य महारथैः ॥

5.19.13

तथैव राजा मत्स्यानां विराटो वाहिनीपतिः ।
पार्वतीयैर्महीपालैः सहितः पाण्डवानयात् ॥

5.19.14

इतश्चेतश्च पाण्डूनां समाजग्मुर्महात्मनाम् ।
अक्षौहिण्यस्तु सप्तैव विविधध्वजसङ्कुलाः ॥

5.19.15

युयुत्समानाः कुरुभिः पाण्डवान्समहर्षयन् ।
तथैव धार्तराष्ट्रस्य हर्षं समभिर्धयन् ॥

5.19.16

भगदत्तो महीपालः सेनामक्षौहिणीं ददौ ।
तस्य चीनैः किरातैश्च काञ्चनैरिव संवृतम् ॥

5.19.17

बभौ बलमनाधृष्यं कर्णिकारवनं यथा ।
तथा भूरिश्रवाः शूरः शल्यश्च कुरुनन्दन ॥

5.19.18

दुर्योधनमुपायातावक्षौहिण्या पृथक्पृथक् ।
कृतवर्मा च हार्दिक्यो भोजान्धकुकुरैः सह ॥

5.19.19

अक्षौहिण्यैव सेनाया दुर्योधनमुपागमत् ।
तस्य तैः पुरुषव्याघ्रैर्वनमालाधरैर्बलम् ॥

5.19.20

अशोभत यथा मत्तैर्वनं प्रक्रीडितैर्गजैः ।
जयद्रथमुखाश्चान्ये सिन्धुसौवीरवासिनः ॥

5.19.21

आजग्मुः पृथिवीपालाः कम्पयन्त इवाचलान् ।
तेषामक्षौहिणी सेना बहुला विबभौ तदा ॥

5.19.22

विधूयमानो वातेन बहुरूप इवाम्बुदः ।
सुदक्षिणश्च काम्भोजो यवनैश्च शकैस्तथा ॥

5.19.23

उपाजगाम कौरव्यमक्षौहिण्या विशाम्पते ।
तस्य सेनासमावायः शलभानामिवाबभौ ॥

5.19.24

स च सम्प्राप्य कौरव्यं तत्रैवान्तर्दधे तदा ।
तथा महिष्मतीवासी नीलो नीलायुधैः सह ॥

5.19.25

महीपालो महावीर्यैर्दक्षिणापथवासिभिः ।
आवन्त्यौ च महीपालौ महाबलसुसंवृतौ ॥

5.19.26

पृथगक्षौहिणीभ्यां तावभियातौ सुयोधनम् ।
ततस्ततस्तु सर्वेषां भूमिपानां महात्मनाम् ॥

5.19.27

तिस्रोऽन्याः समवर्तन्त वाहिन्यो भरतर्षभ ।
एवमेकादशावृत्ताः सेना दुर्योधनस्य ताः ॥

5.19.28

युयुत्समानाः कौन्तेयान्नानाध्वजसमाकुलाः ।
न हास्तिनपुरे राजन्नवकाशोऽभवत्तदा ॥

5.19.29

राज्ञां स्वबलमुख्यानां प्राधान्येनापि भारत ।
ततः प़ञ्चनदं चैव कृत्स्नं च कुरुजाङ्गलम् ॥

5.19.30

तथा रोहितकारण्यं मरुभूमिश्च केवला ।
अहिच्छत्रं कालकूटं गङ्गाकूलं च भारत ॥

5.19.31

वारणं वाटधानं च यामुनश्चैव पर्वतः ।
एष देशः सुविस्तीर्णः प्रभूतधनधान्यवान् ॥

5.19.32

बभूव कौरवेयाणां बलेनातीव संवृतः ।
तत्र सैन्यं तथा युक्तं ददर्श स पुरोहितः ॥

5.19.33

यः स पाञ्चालराजेन प्रेषितः कौरवान्प्रति ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc