भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 5.172

5.172.1

रोचमानो महाराज पाण्डवानां महारथः ।
योत्स्यतेऽमरवत्संख्ये परसैन्येषु भारत ॥

5.172.2

पुरुजित्कृन्तिभोजश्च महेष्वासो महाबलः ।
मातुलो भीमसेनस्य स च मेऽतिरथो मतः ॥

5.172.3

एष वीरो महेष्वासः कृती च निपुणश्च ह ।
चित्रयोधी च शक्तश्च मतो मे रथपुङ्गवः ॥

5.172.4

स योत्स्यति हि विक्रम्य मघवानिव दानवैः ।
योधा ये चास्य विख्याताः सर्वे युद्धविशारदाः ॥

5.172.5

भागिनेयकृते वीरः स करिष्यति सन्गरे ।
सुमहत्कर्म पाण्डूनां स्थितः प्रियहिते रतः ॥

5.172.6

भैमसेनिर्महाराज हैडिम्बो राक्षसेश्वरः ।
मतो मे बहुमायावी रथयूथपयूथपः ॥

5.172.7

योत्स्यते समरे तात मायावी समरप्रियः ।
ये चास्य राक्षसा वीराः सचिवा वशवर्तिनः ॥

5.172.8

एते चान्ये च बहवो नानाजनपदेश्वराः ।
समेताः पाण्डवस्यार्थे वासुदेवपुरोगमाः ॥

5.172.9

एते प्राधान्यतो राजन्पाण्डवस्य महात्मनः ।
रथाश्चातिरथाश्चैव ये चान्येऽर्धंरथा नृप ॥

5.172.10

नेष्यन्ति समरे सेनां भीमां यौधिष्ठिरीं नृप ।
महेन्द्रेणेव वीरेण पाल्यमानां किरीटिना ॥

5.172.11

तैरहं समरे वीर मायाविद्भिर्जयैषिभिः ।
योत्स्यामि जयमाकाङ्क्षन्नथ वा निधनं रणे ॥

5.172.12

वासुदेवं च पार्थं च चक्रगाण्डीवधारिणौ ।
सन्ध्यागताविवार्केन्दू सभेष्येते रथोत्तमौ ॥

5.172.13

यं चैव ते रथोदाराः पाण्डुपुत्रस्य सैनिकाः ।
सह सैन्यानहं तांश्च प्रतीयां रणमूर्धनि ॥

5.172.14

एते रथाश्चातिरथाश्च तुभ्यं यथाप्रधानं नृप कीर्तिता मया ।
तथा परे येऽर्धरथाश्च केचि- त्तथैंव तेषामपि कौरवेन्द्र ॥

5.172.15

अर्जुनं वासुदेवं च ये चान्ये तत्र पार्थिवाः ।
सर्वांस्तान्वारयिष्यामि यावद्द्रक्ष्यामि भारत ॥

5.172.16

पाञ्चाल्यं तु महाबाहो नाहं हन्यां शिखण्डिनम् ।
उद्यतेषमथो दृष्ट्वा प्रतियुध्यन्तमाहवे ॥

5.172.17

लोकस्तं वेद यदहं पितुः प्रियचिकीर्षया ।
प्राप्तं राज्यं परित्यज्य ब्रह्मचर्यव्रते स्थितः ॥

5.172.18

चित्राङ्गदं कौरवाणामाधिपत्येऽभ्यषेचयम् ।
विचित्रवीर्यं च शिशुं यौवराज्येऽभ्यषेचयम् ॥

5.172.19

देवव्रतत्वं विज्ञाप्य पृथिवीं सर्वराजसु ।
नैव हन्यां स्त्रियं जातु न स्त्रीपूर्वं कदाचन ॥

5.172.20

स हि स्त्रीपूर्वको राजञ्शिखण्डी यदि ते श्रुतः ।
कन्या भूत्वा पुमाञ्चातो न योत्स्ये तेन भारत ॥

5.172.21

सर्वांस्त्वन्यान्हनिष्यामि पार्थिवान्भरतर्षभ ।
यान्समेष्यामि समरे न तु कुन्तीसुतान्नृप ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc