भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 5.126

5.126.1

धृतराष्ट्रवचः श्रुत्वा भीष्मद्रोणौ समव्यथौ ।
दुर्योधनमिदं वाक्यमूचतुः शासनातिगम् ॥

5.126.2

यावत्कृष्णावसन्नद्धौ यावत्तिष्ठति गाण्डिवम् ।
यावद्धौम्यो न मेधाग्नौ जुहोतीह द्विषद्बलम् ॥

5.126.3

यावन्न प्रेक्षते क्रूद्धः सेनां तव युधिष्ठिरः ।
ह्रीनिषेवो महेष्वासस्तावच्छाम्यतु वैशसम् ॥

5.126.4

यावन्न दृश्यते पार्थः स्वेऽप्यनीके व्यवस्थितः ।
भीमसेनो महेष्वासस्तावच्छाम्यतु वैशसम् ॥

5.126.5

यावन्न चरते मार्गान्पृतनामभिधर्षयन् ।
भीमसेनो गदापाणिस्तावत्संशाम्य पाण्डवैः ॥

5.126.6

यावन्न शातयत्याजौ शिरांसि गजयोधिनाम् . गदया वीरघातिन्या फलानीव वनस्पतेः ।
कालेन परिपक्वानि तावच्छाम्यतु वैशसम् ॥

5.126.7

नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ॥
विराटश्च शिखण्डी च शैशुपालिश्च दंशिताः ॥

5.126.8

यावन्न प्रविशन्त्येते नक्रा इव महार्णवम् ।
कृतास्त्राः क्षिप्रमस्यन्तस्तावच्छाम्यतु वैशसम् ॥

5.126.9

यावन्न सुकुमारेषु शरीरेषु महीक्षिताम् ।
गार्ध्रपत्राः पतन्त्युग्रास्तावच्छाम्यतु वैशसम् ॥

5.126.10

चन्दनागुरुदिग्धेषु हारनिष्कधरेषु च ।
नोरस्सु यावद्योधानां महेष्वासैर्महेषवः ॥

5.126.11

कृतस्त्रैः क्षिप्रमस्यद्भिर्दूरपातिभिरायसाः ।
अभिलक्ष्यैर्निपात्यन्ते तावच्छाम्यतु वैशसम् ॥

5.126.12

अभिवादयमानं त्वां शिरसा राजकुञ्जरः ।
पाणिभ्यां प्रतिगृह्णातु धर्मराजो युधिष्ठिरः ॥

5.126.13

ध्वजाङ्कुशपताकाङ्कं दक्षिणं ते सुदक्षिणः ।
स्कन्धे निक्षिपतां बहुं शान्तये भरतर्षभ ॥

5.126.14

रत्नौषधिसमेतेन रत्नाङ्गुलितलेन च ।
उपविष्टस्य पृष्ठं ते पाणिना परिमार्जतु ॥

5.126.15

शालस्कन्धो महाबहुस्त्वां स्वजानो वृकोदरः . 5-126-15ब्साम्नाऽभिवदतां चापि शान्तये भरतर्षभ ॥

5.126.16

अर्जुनेन यमाभ्यां च त्रिभिस्तैरभिवादितः ।
मूर्ध्नि तान्समुपाघ्राय प्रेम्णाऽभिवद पार्थिव ॥

5.126.17

दृष्ट्वा त्वां पाण्डवैर्वीरैर्भ्रातृभिः सह सन्गतम् ।
यावदानन्दजाश्रूणि प्रन्मुञ्चन्तु नराधिपाः ॥

5.126.18

घुष्यतां राजधानीषु सर्वसम्पन्महीक्षिताम् ।
पृथिवी भ्रातृभावेन भुज्यतां विज्वरो भव ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc