महाभारत · अध्याय 5.122
प्रत्यभिज्ञातमात्रोऽथ सद्भिस्तैर्नरपुङ्गवः । समारुरोह नृपतिरस्पृशन्वसुधातलम् ।
ययातिर्दिव्यसंस्थानो बभूव विगतज्वरः ॥
दिव्यमाल्याम्बरधरो दिव्याभरणभूषितः ।
दिव्यगन्धगुणोपेतो न पृथ्वीमस्पृशत्पदा ॥
ततो वसुमनाः पूर्वमुच्चैरुच्चारयन्वचः ॥
ख्यातो दानपतिर्लोके व्याजहार नृपं तदा ॥
प्राप्तवानस्मि यल्लोके सर्ववर्णेष्वगर्हया ।
तदप्यथ च दास्यामि तेन संयुज्यतां भवान् ॥
यत्फलं दानशीलस्य क्षमाशीलस्य यत्फलम् ।
यच्च मे फलमाधाने तेन संयुज्यतां भवान् ॥
ततः प्रतर्दनोऽप्याह वाक्यं क्षत्रियपुङ्गवः ।
यथा धर्मरतिर्नित्यं नित्यं युद्धपरायणः ॥
प्राप्तवानस्मि यल्लोके क्षत्रवंशोद्भवं यशः . वीरशब्दफलं चैव तेन संयुज्यतां भवान् ।
यथा धर्मे रतिर्नित्यं तेन सत्येन खं व्रज ॥
शिबिरौशीनरो धीमानुवाच मधुरां गिरम् ।
यथा बालेषु नारीषु वैवाह्येषु तथैव च ॥
सङ्गरेषु निपातेषु तथा तद्व्यसनेषु च ।
अनृतं नोक्तपूर्वं मे तेन सत्येन खं व्रज ॥
यथा प्राणांश्च राज्यं च राजन्कामसुखानि च ।
त्यजेयं न पुनः सत्यं तेन सत्येन खं व्रज ॥
यथा सत्येन मे धर्मो यथा सत्येन पावकः ।
प्रीतः शतक्रतुश्चैव तेन सत्येन खं व्रज ॥
अष्टकस्त्वथ राजर्षिः कौशिको माधवीसुतः ।
अनेकशतयज्वानं नाहुषं प्राह धर्मवित् ॥
शतशः पुण्डरीका मे गोसवाश्चरिताः प्रभो ।
क्रतवो वाजपेयाश्च तेषां फलमवाप्नुहि ॥
न मे रत्नानि न धनं न तथाऽन्ये परिच्छदा ।
क्रतुष्वनुपयुक्तानि तेन सत्येन खं व्रज ॥
नारद उवाच ।
यथायथा हि जल्पन्ति दौहित्रास्तं नराधिपम् ।
तथतथा वसुमतीं त्यक्त्वा राजा दिवं ययौ ॥
एवं सर्वे समस्तैस्ते राजानः सुकृतैस्तदा ।
ययातिं स्वर्गतो भ्रष्टं तारयामासुरञ्जसा ॥
दौहित्राः स्वेन धर्मेण यज्ञदानकृतेन वै . चतुर्षु राजवंशेषु सम्भूताः कुलवर्धनाः ।
मातामहं महाप्राज्ञं दिवमारोपयन्त ते ॥
राजान ऊचुः ।
राजधर्मगुणोपेताः सर्वधर्मगुणान्विताः ।
दौहित्रास्ते वयं राजन्दिवमारोह पार्थिव ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0