भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.296

3.296.1

अथ कन्याप्रदाने स तमेवार्थं विचिन्तयन् ।
समानित्ये च तत्सर्वम्भाण्डं वैवाहिकं नृपः ॥

3.296.2

ततो वृद्धान्द्विजान्सर्वानृत्विक्सभ्यपुरोहितान् ।
समाहूय दिने पुण्ये प्रययौ सह कन्यया ॥

3.296.3

मेध्यारण्यं स गत्वा च द्युमत्सेनाश्रमं नृपः ।
पद्भ्यामेव द्विजैः सार्धं राजर्षिं तमुपागमत् ॥

3.296.4

तत्रापश्यन्महाभागं सालवृक्षमुपाश्रितम् ।
कौश्यां बृस्यां समासीनं चक्षुर्हीनं नृपं तदा ॥

3.296.5

स राजा तस्य राजर्षेः कृत्वापूजां यथाऽर्हतः ।
वाचा सुनियतो भूत्वा चकारात्मनिवेदनम् ॥

3.296.6

तस्यार्ध्यमासं चैव गां चावेद्यस धर्मवित् ।
किमागमनमित्येवं राजा राजानमब्रवीत् ॥

3.296.7

तस्य सर्वमभिप्रायमितिकर्तव्यतां च ताम् ।
सत्यवन्तं समुद्दिश्य सर्वमेव न्यवेदयत् ॥

3.296.8

सावित्री नाम राजर्षे कन्येयं मम शोभना ।
तां स्वधर्मेण धर्मज्ञ स्नुषार्थे त्वं गृहाण मे ॥
द्युमत्सेन उवाच ।

3.296.9

च्युताः स्म राज्याद्वनवासमाश्रिता- श्चराम धर्मं नियतास्तपस्विनः ।
कथं त्वनर्हा वनवासमाश्रमे सहिष्यति क्लेशमिमं सुता तव ॥
अश्वमतिरुवाच ।

3.296.10

सुखं च दुःखं च भवाभवात्मकं यदा विजानाति सुताऽहमेव च ।
न मद्विधे युज्यतेवाक्यमीदृशं विनिश्चयेनाभिगतोस्मि ते नृप ॥

3.296.11

आशां नार्हसि मे हन्तुं सौहृदात्प्रणतस्य च ।
अभितश्चागतं प्रेम्णा प्रत्याख्यातुं न माऽर्हसि ॥

3.296.12

अनुरूपो हि युक्तश्च त्वं ममाहं तवापि च ।
स्नुषां प्रतीच्छ मे कन्यां भार्यां सत्यवतस्ततः ॥
द्युमत्सेन उवाच ।

3.296.13

पूर्वमेवाभिलवितः सम्बन्धो मे त्वया सह ।
भ्रष्टराज्यस्त्वहमिति तत एतद्विचारितम् ॥

3.296.14

अभिप्रायस्त्वयं यो मे पूर्वमेवाभिकाङ्क्षितः ।
स निर्वर्ततु मेऽद्यैव काङ्क्षितो ह्यसि मेऽतिथिः ॥

3.296.15

ततः सर्वान्समानाय्य द्विजानाश्रमवासिनः ।
यथाविधि समुद्वाहं कारयामासतुर्नृपौ ॥

3.296.16

दत्त्वा सोऽश्वपतिः कन्यां यथार्हं सपरिच्छदम् ।
ययौ स्वमेव भवनं युक्तः परमया मुदा ॥

3.296.17

सत्यवानपि तां भार्यां लब्ध्वा सर्वगुणान्विताम् ।
मुमुदे सा रच रतं लब्ध्वा भर्तारं मनसेप्सितम् ॥

3.296.18

गते पितरि सर्वाणि सन्न्यस्याभरणानि सा ।
जगृहेवल्कलान्येव वस्त्रं काषायमेव च ॥

3.296.19

परिचारैर्गुणैश्चैव प्रश्रयेण दमेन च ।
सर्वकामक्रियाभिश्च सर्वेषां तुष्टिमादधे ॥

3.296.20

श्वश्रूं शरीरसत्कारैः सर्वैराच्छादनादिभिः ।
श्वशुरं देवसत्कारैर्वाचः संयमनेन च ॥

3.296.21

तथैव प्रियवादेन नैषुणेन शमेन च ।
रहश्चैवोपचारेण भर्तारं पर्यतोषयत् ॥

3.296.22

एवं तत्राश्रमे तेषां तदा निवसतां सताम् ।
कालस्तपस्यतां कश्चिदपाक्रामत भारत ॥

3.296.23

सावित्र्याग्लायमानायास्तिष्ठन्त्यास्तु दिवानिशम । नारदेन यदुक्तं तद्वाक्यं मनसि वर्तते ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc