भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.293

3.293.1

एवमेतन्महाबाहो रामेणामिततेजसा ।
प्राप्तं व्यसनमत्युग्रं वनवासकृतं पुरा ॥

3.293.2

मा शुचः परुषव्याघ्र क्षत्रियोसि परन्तप ।
बाहुवीर्याश्रयेमार्गे वर्तसे दीप्तनिर्णये ॥

3.293.3

न हि ते वृजिनं किञ्चिद्दृश्यते परमण्वपि ।
अस्मिन्मार्गे निपीदेयुः सेन्द्रा अपि सुरासुराः ॥

3.293.4

संहत्य निहतोवृत्रो मरुद्भिर्वज्रपाणिना ।
नमुचिश्चैवदुर्धर्षो दीर्गजिह्वा चराक्षसी ॥

3.293.5

सहायवति सर्वार्थाः सतिष्ठन्तीह सर्वशः ।
किन्नु तस्याजितं सङ्ख्ये यस् भ्राता धनञ्जयः ॥

3.293.6

अयं च बलिनांश्रेष्ठो भीमो भीमपराक्रमाः ।
युवानौ च महेष्वासौ वीरौ माद्रवतीसुतौ ॥

3.293.7

एभिः सहायैः कस्मात्त्वं विषीदसि परन्तप ।
य इमे वज्रिणः सेनां जयेयुः समरुद्गणाम् ॥

3.293.8

त्वमप्येभिर्महेष्वासैः सहायैर्देवरूपिभिः ।
विजेष्यसि रणे सर्वानमित्रान्भरतर्षभ ॥

3.293.9

इतश्च त्वमिमां पश्यसैन्धवेन दुरात्मना ।
बलिना वीर्यमत्तेन हृतामेभिर्महात्मभिः ॥

3.293.10

आनीतां द्रौपदीं कृष्णां कृत्वा कर्म सुदुष्करम् ।
जयद्रथं च राजानं विजितं वशमागतम् ॥

3.293.11

असहायेन रामेण वैदेही पुनराहृता ।
हत्वासङ्ख्ये दशग्रीवं राक्षसं भीमविक्रमम् ॥

3.293.12

यस् शाखामृगामित्राण्यृक्षाः कालमुखास्तथा ।
जात्यन्तरगता राजन्नेतद्बुद्ध्याऽनुचिन्तय ॥

3.293.13

तस्मात्सर्वं कुरुश्रेष्ठ मा शुचो भरतर्षभ ।
त्वद्विधा हि महात्मानो न शोचन्ति परन्तप ॥
वैशम्पायन उवाच ।

3.293.14

एवमाश्वासितो राजामार्कण्डेयेन धीमता । त्यक्त्वा दुःखमदीनात्मा पुनरप्येनमब्रवीत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc