भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.24

3.24.1

ततस्तेषु प्रयातेषु कौन्तेयः सत्यसन्गरः ।
अभ्यभाषत धर्मात्मा भ्रातॄन्सर्वान्युधिष्ठिरः ॥

3.24.2

द्वादशेमाः समाऽस्माभिर्वस्तव्यं निर्जने वने ।
समीक्षध्वं महारण्ये देशं बहुमृगद्विजम् ॥

3.24.3

बहुपुष्पफलं रम्यं शिवं पुण्यजनोचितम् ।
यत्रेमा द्वादश समाः सुखं प्रतिवसेमहि ॥

3.24.4

एवमुक्ते प्रत्युवाच धर्मराजं धनञ्जयः ।
गुरुवन्मानववरं मानयित्वा मनस्विनम् ॥

3.24.5

भवानेव महर्षीणां वृद्धानां पर्युपासिता ।
अज्ञातं मानुषे लोके भवतो नास्ति किञ्चन ॥

3.24.6

त्वया ह्युपासिता नित्यं ब्राह्मणा वेदपारगाः ।
द्वैपायनप्रभृतयो नारदश्च महातपाः ॥

3.24.7

यः सर्वलोकद्वाराणि नित्यं सञ्चरते वशी ।
देवलोकाद्ब्रह्मलोकं गन्धर्वाप्सरसामपि ॥

3.24.8

अनुभावांश्च जानासि ब्राह्मणानां न संशयः ।
प्रभावांश्चैव वेत्थ त्वं सर्वेषामेव पार्थिव ॥

3.24.9

त्वमेव राजञ्जानासि श्रेयःकारणमेव च ।
यत्रेच्छसि महाराज निवासं तत्र कुंर्महे ॥

3.24.10

इदं द्वैतवनं नाम सरः पुण्यजनोषितम् ।
बहुपुष्पफलं रम्यं नानाद्विजनिषेवितम् ॥

3.24.11

अत्रेमा द्वादश समा विहरेमेति रोचये ।
यदि तेऽनुमतं राजन्किमन्यन्मन्यते भवान् ॥
युधिष्ठिर उवाच ।

3.24.12

ममाप्येतन्मतं पार्थ त्वया यत्समुदाहृतम् ।
गच्छामः पुण्यविख्यातं महद्द्वैतवनं सरः ॥
वैशम्पायन उवाच ।

3.24.13

ततस्ते प्रययुः सर्वे पाण्डवा धर्मचारिणः ।
ब्राह्मणैर्बहुभिः सार्धं पुण्यं द्वैतवनं सरः ॥

3.24.14

ब्राह्मणाः साग्निहोत्राश्च तथैव च निरग्नयः ।
स्वाध्यायिनो भिक्षवश्च तथैव वनवासिनः ॥

3.24.15

बहवो ब्राह्मणास्तत्र परिवव्रुर्युधिष्ठिरम् ।
तपस्विनः सत्यशीलाः शतशः संशितव्रताः ॥

3.24.16

ते यात्वा पाण्डवास्तत्रब्राह्मणैर्बहुभिः सह ।
पुण्यं द्वैतवनं रम्यं विविशुर्बरतर्षभाः ॥

3.24.17

तत्सालतालाम्रमधूकनीप- कदम्बसर्जार्जुनकर्णिकारैः ।
तपात्यये पुष्पधरैरुपेतं महावनं राष्ट्रपतिर्ददर्श ॥

3.24.18

महाद्रुमाणां शिखरेषु तस्थु- र्मनोरमां वाचमुदीरयन्तः ।
मयूरदात्यूहचकोरसङ्घा- स्तस्मिन्वने बर्हिणकोकिलाश्च ॥

3.24.19

करेणुयूथैः सह यूथपानां मदोत्कटानामचलप्रभाणाम् ।
महान्ति यूथानि महाद्विपानां तस्मिन्वने राष्ट्रपतिर्ददर्श ॥

3.24.20

मनोरमां भोगवतीमुपेत्य पूतात्मनां चीरजटाधराणाम् ।
तस्मिन्वने धर्मभृतां निवासे ददर्श सिद्धर्षिगणाननेकान् ॥

3.24.21

ततः स यानादवरुह्य राजा सभ्रातृकः सजनः काननं तत् ।
विवेश धर्मात्मवतां बरिष्ठ- स्त्रिविष्टपं शक्र इवामितौजाः ॥

3.24.22

तं सत्यसन्धं सहिताऽभिपेतु- र्दिदृक्षवश्चारणसिद्धसङ्घाः ।
वनौकसश्चापि नेरन्द्रसिंहं मनस्विनं तं परिवार्य तस्थुः ॥

3.24.23

स तत्रवृद्धानभिवाद्य सर्वान् प्रत्यर्चितो राजवद्देववच्च ।
विवेश सर्वैः सहितो द्विजाग्र्यैः कृताञ्जलिर्धर्मभृतां वरिष्ठः ॥

3.24.24

स पुण्यशीलः पितृवन्महात्मा तपस्विभिर्मपरैरुपेत्य ।
प्रत्यर्चितः पुष्पधरस्य मूले महाद्रुमस्योपविवेश राजा ॥

3.24.25

भीमश्च कृष्णा च धनञ्जयश्च यमौ च ते चानुचरा नरेन्द्रम् ।
विमुच्यवाहानवशाश्च सर्वे तत्रोपतस्थुर्भरतप्रबर्हाः ॥

3.24.26

लतावतानावनतः स पाण्डवै- र्महाद्रुमः पञ्चभिरेव धन्विभिः ।
बभौ निवासोपगतैर्महात्मभि- र्महागिरिर्वारणयूथपैरिव ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc