भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.146

3.146.1

ततः प्रयातमात्रेषु पाण्डवेषु महात्मसु ।
पद्भ्यामनुचिता गन्तुं द्रौपदी समुपाविशत् ॥

3.146.2

श्रान्ता दुःखपरीता च वातवर्षेण तेन च ।
सौकुमार्याच्च पाञ्चाली सम्मुमोह तपस्विनी ॥

3.146.3

सा कम्पमाना मोहेन बाहुभ्यामसितेक्षणा ।
रवृत्ताभ्यामनुरूपाभ्यामूरू समवलम्बत ॥

3.146.4

आलम्बमाना सहितावूरू गजकरोपमौ ।
रपपात सहसा भूमौ वेपन्ती कदली यथा ॥

3.146.5

तां पतन्तीं वरारोहां भज्यमानां लतामिव ।
नकुलः समभिद्रुत्य परिजग्राह वीर्यवान् ॥
नकुल उवाच ।

3.146.6

राजन्पाञ्चालराजस्य सुतेयमसितक्षणा ।
श्रान्ता निपतिता भूमौ तामवेक्षस्व भारत ॥

3.146.7

अदुःखार्हा परं दुःखं प्राप्तेयं मृदुगामिनी ।
आश्वासय महाराज तामिमां श्रमकर्शिताम् ॥
वैशम्पायन उवाच ।

3.146.8

राजा तु वचनात्तस्य भृशं दुःखसमन्वितः ।
भीमश्च सहदेवश्च सहसा समुपाद्रवन् ॥

3.146.9

तामवेक्ष्यतु कौन्तेयो विवर्णवदनां कृशाम् ।
अङ्कमानीय धर्मात्मा पर्यदेवयदातुरः ॥
युधिष्ठिर उवाच ।

3.146.10

कथं वेश्मसु गुप्तेषु स्वास्तीर्णशयनोचिता ।
भूमौ निषतिता शेते सुखार्हा वरवर्णिनी ॥

3.146.11

सुकुमारौ कथं पादौ मुखं च कमलप्रभम् ।
मत्कृतेऽद्य वरार्हायाः श्यामतां समुपागतम् ॥

3.146.12

किमिदं द्यूतकामेन मया कृतमबुद्धिना ।
आदाय कृष्णां चरता वने मृगगणाकुले ॥

3.146.13

सुखं प्राप्स्यसि कल्याणि पाण्डवान्प्राप्य वै पतीन् ।
इतिद्रुवदराजेन पित्रा दत्ताऽयतेक्षणा ॥

3.146.14

तत्सर्वमानवाप्येयं श्रमशोकाद्विकर्शिता ।
शेते निपतिता भूमौ पापस्य मम कर्मभिः ॥
वैशम्पायन उवाच ।

3.146.15

तथा लालप्यमाने तु धर्मराजे युधिष्ठिरे ।
धौम्यप्रभृतयः सर्वे तत्राजग्मुर्द्विजोत्तमाः ॥

3.146.16

ते समाश्वासयामासुराशीर्भिश्चाप्यपूजयन् ।
राक्षोघ्नांश्च तथा मन्त्राञ्जेपुश्चक्रुश्च ते क्रियाः ॥

3.146.17

पठ्यमानेषु मन्त्रेषु शान्त्यर्थं परमर्षिभिः ।
स्पृश्यमाना करैः शीतैः पाण्डवैश्च मुहुर्मुहुः ॥

3.146.18

सेव्यमाना च शीतेन जलमिश्रेण वायुना ।
पाञ्चाली सुखमासाद्य लेभे चेतः शनैः शनैः ॥

3.146.19

परिगृह्यच तां दीनां कृष्णामजिनसंस्तरे ।
पार्था विश्रामयामासुर्लब्धसञ्ज्ञां तपस्विनम् ॥

3.146.20

तस्या यमौ रक्ततलौ पादौ पूजितलक्षणौ ।
कराभ्यां किणजाताभ्यां शनकैः संववाहतुः ॥

3.146.21

पर्याश्वासयदप्येनां धर्मराजो युधिष्ठिरः ।
उवाच च कुरुश्रेष्ठो भीमसेनमिदं वचः ॥

3.146.22

बहवः पर्वता मीम विषमा हिमदुर्गमाः ।
तेषु कृष्णा महाबाहो कथं नु विचरिष्यति ॥
भीमसेन उवाच ।

3.146.23

त्वां राजन्राजपुत्रीं च यमौ च पुरुषर्षभ ।
स्वयं नेष्यामि राजेनद्र मा विषादे मनुः कृथाः ॥

3.146.24

अथवा यो मया जातो विहगो मद्बलोपमः । वहेदनघ सर्वान्नो वचनात्ते घटोत्कचः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc