भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.136

3.136.1

अत्रोग्रसेनसमितेषु राजन् समागतेष्वप्रतिमेषु राजसु ।
न मे विवित्सान्तरमस्ति वादिनां महाजने हंसविवादिनामिव ॥

3.136.2

न मोक्ष्यसे वै वदमानो निमज्जन् जलं प्रपन्नः सरितामिवाधनः ।
हुताशनस्येव समिद्धतेजसः स्थिरो भवस्वेह ममाद्य वन्दिन् ॥
वन्द्युवाच ।

3.136.3

व्याघ्रं शयानं प्रति मा प्रबोध आशीविषं सृक्विणी संलिहानम् ।
पदा हतस्येह शिरोभिहत्य नादष्टो वै मोक्ष्यसे तन्निबोध ॥

3.136.4

यो वै दर्पात्संहननोपपन्नः सुदुर्बलः पर्वतमाविहन्ति ।
तस्यैव पाणिः सनखो विदीर्यते न चैव शैलस्य हि दृश्यते व्रणः ॥
अष्टावक्र उवाच ।

3.136.5

सर्वे राज्ञो मैथिलस्य मैनाकस्येव पर्वताः ।
निकृष्टभूता राजानो वत्सा ह्यनडुहो यथा ॥

3.136.6

यथा महेन्द्रः प्रवरः सुराणां नदीषु गङ्गा प्रवरा यथैव ।
तथा नृपाणां प्रवरस्त्वमेको वन्दिं समभ्यानय मत्सकाशम् ॥
लोमश उवाच ।

3.136.7

एवमष्टावक्रः समितौ हि गर्ज- ञ्जातक्रोधो वन्दिनमाह राजन् ।
उक्ते वाक्ये चोत्तरं मे ब्रवीहि वाक्यस्य चाप्युत्तरं ते ब्रवीमि ॥
वन्द्युवाच ।

3.136.8

एक एवाग्निर्बहुधा समिध्यते एकः सूर्यः सर्वमिदं विभाति ।
एकोऽवीरो देवराजोऽरिहन्ता यमः पितृणामीश्वरश्चैक एव ॥
अष्टावक्र उवाच ।

3.136.9

द्वाविन्द्राग्नी चरतो वै सखायौ द्वौ देवर्षी नारदपर्वतौ च ।
द्वावश्विनौ द्वे रथस्यापि चक्रे भार्यापती द्वौ विहितौ विधात्रा ॥
वन्द्युवाच ।

3.136.10

त्रिः सूयते कर्मणा वै प्रजेयं त्रयो युक्ता वाजपेयं वहन्ति ।
अध्वर्यवस्त्रिसवनानि तन्वते त्रयो लोकास्त्रीणि ज्योतींषि चाहुः ॥
अष्टावक्र उवाच ।

3.136.11

चतुष्टयं ब्राह्मणानां निकेतं चत्वारो वर्णा यज्ञमिमं वहन्ति ।
दिशश्चतस्रो वर्णचतुष्टयं च चतुष्पदा गौरपि शश्वदुक्ता ॥
वन्द्युवाच ।

3.136.12

पञ्चाग्नयः पञ्चपदा च पङ्क्ति- र्यज्ञाः पञ्चैवाप्यथ पञ्चेनद्रियाणि ।
दृष्ट्वा वेदे पञ्चचूडाप्सराश्च लोके ख्यातं पञ्चनदं च पुण्यम् ॥
अष्टावक्र उवाच ।

3.136.13

षडाधाने दक्षिणामाहुरेके षट् चैवेमे ऋतवः कालचक्रम् ।
षडिन्द्रियाण्युत षट् कृत्तिकाश्च षट् साद्यस्काः सर्ववेदेषु दृष्टाः ॥
वन्द्युवाच ।

3.136.14

सप्त ग्राम्याः पशवः सप्त वन्याः सप्त च्छन्दांसि क्रतुमेकं वहन्ति ।
सप्तर्षयः सप्त चाप्यर्हणानि सप्तन्त्री प्रथिता चैव वीणा ॥
अष्टावक्र उवाच ।

3.136.15

अष्टौ शाणाः शतमानं वहन्ति तथाष्टपादः शरभः सिंहघाती ।
अष्टौ वसूञ्शुश्रुम देवतासु यूपश्चाष्टास्रिर्विहितः सर्वयज्ञे ॥
वन्द्युवाच ।

3.136.16

नवैवोक्ताः सामिधेन्यः पितॄणां तथा प्राहुर्नवयोगं विसर्गम् ।
नवाक्षरा बृहती सम्प्रदिष्टा नवैव योगो गणनामेति शश्वत् ॥
अष्टावक्र उवाच ।

3.136.17

दिशो दशोक्ताः पुरुषस्य लोके सहस्रमाहुर्दशपूर्णं शतानि ।
दशैव मासान्बिभ्रति भर्गवत्यो दशैरका दशदाशा दशार्हाः ॥
वन्द्युवाच ।

3.136.18

एकादशैकादशिनः पशूना- मेकादशैवात्र भवन्ति यूपाः ।
एकादश प्राणभृतां विकारा एकादशोक्ता दिवि देवेषु रुद्राः ॥
अष्टावक्र उवाच ।

3.136.19

संवत्सरं द्वादशमासमाहु- र्जगत्याः पादो द्वादशैवाक्षराणि ।
द्वादशाहः प्राकृतो यज्ञ उक्तो द्वादशादित्यान्कथयन्तीह घीराः ॥
वन्द्युवाच ।

3.136.20

त्रयोदशी तिथिरुक्ता महोग्रा त्रयोदशद्वीपवती मही च ।
लोमश उवाच ।
एतावदुक्त्वा विरराम वन्दी श्लोकस्यार्धं व्याजहाराष्टवक्रः ।
अष्टावक्र उवाच । त्रयोदशाहानि ससार केशी त्रयोदशादीन्यतिच्छन्दांसि चाहुः ॥
लोमश उवाच ।

3.136.21

ततो महानुदतिष्ठन्निनाद- स्तूष्णीम्भूतं सूतपुत्रं निशम्य ।
अधोमुखं ध्यानपरं तदानी- मष्टावक्रं चाप्युदीर्यन्तमेव ॥

3.136.22

तस्मिंस्तथा सन्कुले वर्तमाने स्फीते यज्ञे जनकस्योत राज्ञः ।
अष्टावक्रं पूजयन्तोऽभ्युपेयु- र्विप्राः सर्वे प्राञ्जलयः प्रतीताः ॥
अष्टावक्र उवाच ।

3.136.23

अनेनैव ब्राह्मणाः शुश्रुवांसो वादे जित्वा सलिले मज्जिताः प्राक् ।
तानेव धर्मानयमद्य वन्दी प्राप्नोतु गृह्याशु निमज्जयैनम् ॥
वन्द्युवाच ।

3.136.24

अहं पुत्रो वरुणस्योत राज्ञ- स्तत्रास सत्रं द्वादशवार्षिकं वै ।
सत्रेण ते जनक तुल्यकालं तदर्थं ते प्रहिता मे द्विजाग्र्याः ॥

3.136.25

ते तु सर्वे वरुणस्योत यज्ञं द्रष्टुं गता इम आयान्ति भूयः ।
अष्टावक्रं पूजये पूजनीयं यस्य हेतोर्जनितारं समेष्ये ॥
अष्टावक्र उवाच ।

3.136.26

विप्राः समुद्राम्भसि मज्जिता ये वाचा जिता मेधया वा विदानाः ।
तां मेधया वाचमथोज्जहार यथा वाचमवचिन्वन्ति सन्तः ॥

3.136.27

अग्निर्दहञ्जातवेदाः सतां, गृहान् विसर्जयंस्तेजसा न स्म धाक्षीत् ।
बालेषु पुत्रेषु कृपणं वदत्सु तथा वाचमवचिन्वन्ति सन्तः ॥

3.136.28

श्लेष्मातकी क्षीणवर्चाः शृणोषि उताहो त्वां स्तुतयो मादयन्ति ।
हस्तीव त्वं स्तुतयो मादयन्ति । न मामिकां वाचमिमां शृणोषि ॥
जनक उवाच ।

3.136.29

शृणोमि वाचं तव दिव्यरूपा- ममानुषीं दिव्यरूपोऽसि साक्षात् ।
अजैषीर्यद्वन्द्विनं त्वं विवादे निसृष्ट एष तव कामोऽद्य वन्दी ॥
अष्टावक्र उवाच ।

3.136.30

नानन जीवता कश्चिदर्थो मे वन्दिना नृप ।
पिता यद्यस्य वरुणो मज्जयैनं जलाशये ॥
वन्द्युवाच ।

3.136.31

अहं पुत्रो वरुणस्योत राज्ञो न मे भयं विद्यते मज्जितस्य ।
इमं मुहूर्तं पितरं द्रक्ष्यतेऽय- मष्टावक्रश्चिरनष्टं कहोळम् ॥
लोमश उवाच ।

3.136.32

ततस्ते पूजिता विप्रा वरुणेन महात्मना ।
उदतिष्ठंस्ततः सर्वे जनकस्य समीपतः ॥
कहोळ उवाच ।

3.136.33

इत्यर्थमिच्छन्ति सुताञ्जना जननकर्मणा ।
यदहं नाशकं कर्तुं तत्पुत्रः कृतवान्मम ॥

3.136.34

उताबलस्य क्लवानुत बालस्य पण्डितः ।
उत वाऽविदुषो विद्वान्पुत्रो जनक जायते ॥
वन्द्युवाच ।

3.136.35

शितेन ते परशुना स्वयमेवान्तको नृप ।
शिरांस्यपाहरन्नाजौ रिपूणां भद्रमस्तु ते ॥

3.136.36

महदैक्थ्यं गीयते साम चाग्र्यं सम्यक्सोमः पीयते चात्र सत्रे ।
शुचीन्भागान्प्रतिजगृहुश्च हृष्टाः साक्षाद्देवा जनकस्येह राज्ञः ॥
लोमश उवाच ।

3.136.37

समुत्थितेष्वथ सर्वेषु राजन् विप्रेषु तेष्वधिकं सुप्रभेषु ।
अनुज्ञातो जनकेनाथ राज्ञा विवेश तोयं सागरस्योत वन्दी ॥

3.136.38

अष्टावक्रः पितरं पूजयित्वा सम्पूजितो ब्राह्मणैस्तैर्यथावत् ।
प्रत्याजगामाश्रममेव चाग्र्यं जित्वा वन्दिं सहितो मातुलेन ॥

3.136.39

ततोऽष्टावक्रं मातुरथान्तिके पिता नदीं समङ्गां शीघ्रमिमां विशस्व ।
प्रोवाच चैनं स तथा विवेश समैरङ्गैश्चापि बभूव पुण्या

3.136.40

नदी समङ्गा च बभूव पुण्या यस्यां स्नातो मुच्यते किल्बिषाद्धि ।
त्वमप्येनां स्नानपानावगाहैः सभ्रातृकः सहभार्यो विशश्व ॥

3.136.41

अत्र कौन्तेय सहितो भ्रातृभिस्त्वं सुखोषितः सह विप्रैः प्रतीतः ।
पुण्यान्यन्यानि शुचिकर्मैकभक्ति- र्मया सार्धं चरितास्याजमीढ ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc