महाभारत · अध्याय 3.131
अस्मिन्किल स्वयं राजन्निष्टवान्वै प्रजापतिः ।
सत्रमिष्टीकृतं नाम पुरा वर्षसहस्रिकम् ॥
अम्बरीषश्च नाभाग इष्टवान्यमुनामनु ।
यत्रेष्ट्वा दशपद्मानि सदस्येभ्योऽभिसृष्टवान् ॥
यज्ञैश्च तपसा चैव परां सिद्धिमवाप सः ।
देशश्च नाहुषस्यायं ẏअज्वनः पुण्यकर्मणः ॥
सार्वभौमस्य कौन्तेय ययातेरमितौजसः ।
स्पर्धमानस्य शक्रेण तस्येदं यज्ञवास्त्विह ॥
पश्य नानाविधाकारैरग्निभिर्निचितां महीम् ।
मज्जन्तीमिव चाक्रान्तां ययातेर्यज्ञकर्मभिः ॥
एषा शम्येकपत्रा सा शकटं चैतदुत्तमम् ।
पश्य रामह्रदानेतान्पश्य नारायणाश्रमम् ॥
एतच्चर्चीकपुत्रस्य योगैर्विचरतो महीम् ।
प्रसर्पणं महीपाल रौप्यायाममितौजसः ॥
अत्रानुवंशं पठतः शृणु मे कुरुनन्दन ।
उलूखलैराभरणैः पिशची यदभाषत ॥
युगन्धरे दधि प्राश्य उषित्वा चाच्युतस्थले ।
तद्वद्भूतलये स्नात्वा सपुत्रा वस्तुमर्हसि ॥
एकरात्रमुवित्वेह द्वितीयं यदि वत्स्यसि ।
एतद्वै ते गदेवावृत्तं रात्रौ वृत्तमितोऽन्यथा ॥
अद्य चात्र निवत्स्यामः क्षपां भरतसत्तम ।
द्वारमेतत्तु कौन्तेय कुरुक्षेत्रस्य भारत ॥
अत्रैव नाहुषो राजा राजन्क्रतुभिरिष्टवान् ।
ययातिर्बहुरत्नौर्घर्यत्रेन्द्रो मुदमभ्यगात् ॥
एतत्प्लक्षावतरणं यमुनातीर्थमुत्तमम् ।
एतद्वै नाकपृष्ठस्य द्वारमाहुर्मनीषिणः ॥
अत्रसारस्वतैर्यज्ञैरीजानाः परमर्षयः ।
यूपोलूखलिकास्तात गच्छन्त्यवभृथप्लवम् ॥
अत्रवै भरतो राजा राजन्क्रतुभिरिष्टवान् ।
हयमेधेन यज्ञेन मेध्यमश्वमवासृजत् ॥
असकृत्कृष्णसारङ्गं धर्मेणाप्य च मेदिनीम् । अत्रैव पुरुषव्याघ्र मरुत्तः सत्रमुत्तमम् ।
प्राप चैवर्षिमुख्येन संवर्तेनाभिपालितः ॥
अत्रोपस्पृश्य राजेन्द्र सर्वाल्लोँकान्प्रपश्यति ।
पूयते दुष्कृताच्चैव अत्रापि समुपस्पृश ॥
वैशम्पायन उवाच ।
तत्र सभ्रातृकः स्नात्वा स्तूयमानो महर्षिभिः ।
लोमशं पाण्डवश्रेष्ठ इदं वचनमब्रवीत् ॥
सर्वाँल्लोकान्प्रपश्यामि तपसा सत्यविक्रम ।
इहस्तः पाण्डवश्रेष्ठं पश्यामि श्वेतवाहनम् ॥
लोमश उवाच ।
एवमेतन्महाबाहो पश्यन्ति परमर्षयः ।
इह स्नात्वा तपोयुक्तांस्त्रील्लोँकान्सचराचरान् ॥
सरस्वतीमिमां पुण्यां पुण्यैकशरणावृताम् ।
यत्र स्नात्वा नरश्रेष्ठ धूतपाप्मा भविष्यसि ॥
इह सारस्वतैर्यज्ञैरिष्टवन्तः सुरर्षयः ।
ऋषयश्चैव कौन्तेय तथा राजर्षयोपि च ॥
वेदी प्रजापतेरेषा समन्तात्पञ्चयोजना । कुरोर्वै यज्ञशीलस्य क्षेत्रमेतन्महात्मनः ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0