भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 2.85

2.85.1

उपोह्यमाने द्यूते तु राजानः सर्व एव ते ।
धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां ततः ॥

2.85.2

भीष्मो द्रोणः कृपश्चैव विदुरश्च महामतिः ।
नातिप्रीतेन मनसा तेऽन्ववर्तन्त भारत ॥

2.85.3

ते द्वन्द्वशः पृथच्कैव सिंहग्रीवा महौजसः ।
सिंहासनानि भूरिणी विचित्राणि च भेजिरे ॥

2.85.4

शुशुभे सा सभा राजन्राजभिस्तैः समागतैः ।
देवैरिव महाभागैः समवेतैस्त्रिविष्टपम् ॥

2.85.5

सर्वे वेदविदः शूराः सर्वे भास्वरमूर्तयः ।
प्रवर्तत महाराज सुहृद्द्यूतमनन्तरम् ॥
युधिष्ठिर उवाच ॥

2.85.6

अयं बुहधनो राजन्सागरावर्तसम्भवः ।
मणिर्हारोत्तरः श्रीमान्कनकोत्तमभूषणः ॥

2.85.7

एतद्राजन्मम धनं प्रतिपाणोऽस्ति कस्तव ।
येन मां त्वं महाराज धनेन प्रतिदीव्यसे ॥
दुर्योधन उवाच ॥

2.85.8

सन्ति मे मणयश्चैव धनानि सुबहूनि च ।
मत्सरश्च न मेऽर्थेषु जयस्वैनं दुरोदरम् ॥
वैशम्पायन उवाच ॥

2.85.9

ततो जग्राह शकुनिस्तानक्षानक्षतत्त्ववित् ।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥
युधिष्ठिर उवाच ॥

2.85.10

मत्त कैतकेनैव यज्जितोऽस्मि दुरोदरे ।
शकुने हन्त दीव्यामो ग्लहमानाः परस्परम् ॥

2.85.11

सन्ति निष्कसहस्रस्य भाण्डिन्यो भरिताः शुभाः । कोशो हिरण्यमक्षय्यं जातरूपमनेकशः ।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया ॥
वैशम्पायन उवाच ॥

2.85.12

कौरवाणां कुलकरं ज्येष्ठं पाण्डवमच्युतम् ।
इत्युक्तः शकुनिः प्राह जितमित्येव तं नृपम् ॥
युधिष्ठिर उवाच ॥

2.85.13

अयं सहस्रसमितो वैयाघ्रः सुप्रतिष्ठितः ।
सुचक्रोपस्करः श्रीमान्किङ्किणीजालमण्डितः ॥

2.85.14

संह्रादनो राजरथो य इहास्मानुपावहत् ।
जौत्रो रथवरः पुण्यो मेघसागरनिः स्वनः ॥

2.85.15

अष्टौ यं कुररच्छायाः सदश्वा राष्ट्रसम्मताः । वहन्ति नैषां मुच्येत पदाद्भूमिमुपस्पृशन् ।
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥
वैशम्पायन उवाच ॥

2.85.16

एवं श्रुत्वा व्यवसितो निकृतिं समुपाश्रितः ।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥
युधिष्ठिर उवाच ॥

2.85.17

शतं दासीसहस्राणि तरुण्यो हेमभद्रिकाः ।
कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलङ्कृताः ॥

2.85.18

महार्हमाल्याभरणाः सुवस्त्राश्चन्दनोक्षिताः ।
मणीन्हेम च बिभ्रत्यश्चतुःषष्टिविशारदाः ॥

2.85.19

अनुसेवां चरन्तीमाः कुशला नृत्तसामसु । स्नातकानाममात्यानां राज्ञां च मम शासनात् ।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया ॥
वैशम्पायन उवाच ॥

2.85.20

एतच्छुत्वा व्यवसितो निकृतिं समुपाश्रितः ।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥
युधिष्ठिर उवाच ।

2.85.21

एतावन्ति च दासानां सहस्राण्युत सन्ति मे ।
प्रदक्षिणानुलोमाश्च प्रावारवसनाः सदा ॥

2.85.22

प्राज्ञा मेधाविनो दान्ता युवानो मृष्टकुण्डलाः । पात्रीहस्ता दिवारात्रमतिथीन्भोजयन्त्युत ।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया ॥
वैशम्पायन उवाच ॥

2.85.23

एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः ।
जितमित्येव शकुनिर्युधिष्ठिरभाषत ॥
युधिष्ठिर उवाच ॥

2.85.24

सहस्रसङ्ख्या नगा मे मत्तास्तिष्ठन्ति सौबल ।
हेमकक्षाः कृतापीडाः पद्मिनो हेममालिनः ॥

2.85.25

सुदान्ता राजवहनाः सर्वशब्दक्षमा युधि ।
ईषादन्ता महाकायाः सर्वे चाष्टकरेणवः ॥

2.85.26

सर्वे च पुरभेत्तारो नवमेघनिभा गजाः ।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया ॥
वैशम्पायन उवाच ॥

2.85.27

इत्येवंवादिनं पार्थं प्रहसन्निव सौबलः ।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥
युधिष्ठिर उवाच ॥

2.85.28

रथास्तावन्त एवेमे हेमदण्डाः पताकिनः ।
हयैर्विनीतैः सम्पन्ना रथिभिश्चित्रयोधिभिः ॥

2.85.29

एकैको ह्यत्र लभते सहस्रपरमां भृतिम् । युध्यतोऽयुध्यतो वापि वेतनं मासकालिकम् ।
एतद्राजन्म धनं तेन दीव्याम्यहं त्वया ॥
वैशम्पायन उवाच ॥

2.85.30

इत्येवमुक्ते वचने कृतवैरो दुरात्मवान् ।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥
युधिष्ठिर उवाच ॥

2.85.31

अश्वांस्तित्तिरिकल्माषान्गान्धर्वान्हेममालिनः ।
ददौ चित्ररथस्तुष्टो यांस्तान्गाण्डीवधन्वने ॥

2.85.32

युद्धे जितः पराभूतः प्रीतिपूर्वमरिन्दमः ।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया ॥
वैशम्पायन उवाच ॥

2.85.33

एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः ।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥
युधिष्ठिर उवाच ॥

2.85.34

रथानां शकटानां च श्रेष्ठानां चायुतानि मे ।
युक्तान्येव हि तिष्ठन्ति वाहैरुच्चावचैस्तथा ॥

2.85.35

एवं वर्णस्य वर्णस्य समुच्चीय सहस्रशः ।
यथा समुदिता वीराः सर्वे वीरपराक्रमाः ॥

2.85.36

क्षीरं पिबन्तस्तिष्ठन्ति भुञ्जानाः शालितण्डुलान् । षष्टिस्तानि सहस्राणि सर्वे विपुलवक्षसः ।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया ॥
वैशम्पायन उवाच ॥

2.85.37

एतच्छ्रत्वा व्यवसितो निकृति समुपाश्रितः ।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥
युधिष्ठिर उवाच ।

2.85.38

ताम्रलोहैः परिवृता निधयो ये चतुः शताः ।
पञ्चद्रौणिक एकैकः सुवर्णस्याहतस्य वै ॥

2.85.39

जातरूपस्य मुख्यस्य नार्घो यस्य हि भारत ।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया ॥
वैशम्पायन उवाच ॥

2.85.40

एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः ।
जितमित्येव शकुनिर्युधिष्ठिरमभापतः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc