भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 2.8

2.8.1

कथयिष्ये सभां याम्यां युधिष्ठिर निबोध ताम् ।
वैवस्वतस्य यां पार्थ विश्वकर्मा चकार ह ॥

2.8.2

तैजसी सा सभा राजन्बभूव शतयोजना ।
विस्तारायामसम्पन्ना भूयसी चापि पाण्डव ॥

2.8.3

अर्कप्रकाशा भ्राजिष्णुः सर्वतः कामरूपिणी ।
नातिशीता च चात्युष्णा मनसश्च प्रहर्षिणी ॥

2.8.4

न शोको न जरा तस्यां क्षुत्पिपासे न चाप्रियम् ।
न च दैन्यं क्लमो वाऽपि प्रतिकूलं न चाप्युत ॥

2.8.5

सर्वे कामाः स्थितास्तस्यां ये दिव्या ये च मानुषाः ।
रसवच्च प्रभूतं च भक्ष्यं भोज्यमरिन्दम ॥

2.8.6

लेह्यं चोप्यं च पेयं च हृद्यं स्वादु मनोहरम् ।
पुण्यगन्धाः स्रजस्तस्य नित्यं कामफला द्रुमाः ॥

2.8.7

रसवन्ति च तोयानि शीतान्युष्णानि चैव हि ।
तस्यां राजर्षयः पुण्यास्तथा ब्रह्मर्षयोऽमलाः ॥

2.8.8

यमं वैवस्वतं तात प्रहृष्टाः पर्युपासते ।
ययातिर्नहुषः पुरुर्मान्धाता सोमको नुगः ॥

2.8.9

त्रसदस्युश्च राजर्षिः कृतवीर्यः श्रुतश्रवाः ।
अरिष्टनेमिः सिद्धश्च कृतवेगः कृतिर्निमिः ॥

2.8.10

प्रतर्दनः शिबिर्मत्स्यः पृथुलाक्षो बृहद्रथः ।
वार्तो मरुत्तः कुषिकः साङ्काश्यः साङ्कृतिर्ध्रुवः ॥

2.8.11

चतुरश्चः सदस्योर्मिः कार्तवीर्यश्च पार्थिवः ।
भरतः सुरथश्चैव सुनीथो निशठोऽनलः ॥

2.8.12

दिवोदासश्च सुमना अम्बरीषो भगीरथः ।
व्यश्वः सदश्वो वाघ्र्यश्वः पृथुवेगः पृथुश्रवाः ॥

2.8.13

पृपदश्वो वसुमनाः क्षुपश्च सुमहाबलः ।
रुषद्रुर्वृषसेनश्च पुरुकुत्सो ध्वजी रथी ॥

2.8.14

आर्ष्टिषेणो दिलीपश्च महात्मा चाप्युशीनरः ।
औशीनरिः पुण्डरीकः शर्यातिः शरभः शुचिः ॥

2.8.15

अङ्गो रिष्टश्च वेनश्च दुष्यन्तः सृञ्जयो जयः ।
भाङ्गासुरिः सुनीथश्च निषधोऽथ वहीनरः ॥

2.8.16

करन्धमो बाह्लिकश्च सुद्युम्नो बलवान्मधुः ।
ऐलो मरुत्तश्च तथा बलवान्पृथिवीपतिः ॥

2.8.17

कपोतरोमा तृणकः सहदेवार्जुनौ तथा ।
व्यश्वः साश्वः कृशाश्वश्च शशबिन्दुश्च पार्थिवः ॥

2.8.18

रामो दाशरथिश्चैव लक्ष्मणोऽथ प्रतर्दनः ।
अलर्कः कक्षसेनश्च गयो गौराओश्व एव च ॥

2.8.19

जामदग्न्यश्च रामश्च नाभागसगरौ तथा ।
भूरिद्युम्नो महाश्वश्च पृथाशअवो जनकस्तथा ॥

2.8.20

राजा वैन्यो वारिसेनः पुरिजिज्जनमेजयः ।
ब्रह्मदत्तस्त्रिगर्तिश्च राजोपरिचरस्तथा ॥

2.8.21

इन्द्रद्युम्नो भीमजानुर्गौरपृष्ठोऽनघो लयः ।
पद्मोऽथ मुचुकुन्दश्च भूरिद्युम्नः प्रसेनजित् ॥

2.8.22

अरिष्टनेमिः सुद्युम्नः पृथुलाश्वोऽष्टकस्तथा ।
शतं मत्स्या नृपतयः शतं नीपाः शतं हयाः ॥

2.8.23

धृतराष्ट्राश्चैकशतमशीतिर्जनमेजयाः ।
शतं च ब्रह्मदत्तानां वीरिणामीरिणां शतम् ॥

2.8.24

भीष्णाणां द्वे शतेऽप्यत्र भीमानां तु तथा शतम् ।
शतं च प्रतिविन्ध्यानां शतं नागाः शतं हयाः ॥

2.8.25

पलाशानां शतं ज्ञेयं शतं काशकुशादयः ।
शान्तनुश्चैव राजेन्द्र पाण्डुश्चैव पिता तव ॥

2.8.26

उशङ्गवः शतरथो देवराजो जयद्रथः ।
वृषदर्भश्च राजर्षिर्बुद्धिमान्सहमन्त्रिभिः ॥

2.8.27

अथापरे सहस्राणि ये गताः शसबिन्दवः ।
इष्ट्वाऽश्वमेधैर्बहुभिर्महद्भिर्भूरिदक्षिणैः ॥

2.8.28

एते राजर्षयः पुण्याः कीर्तिमन्तो बहुश्रुताः ।
तस्यां सभायां राजेन्द्र वैवस्वतमुपासते ॥

2.8.29

अगस्त्योऽथ मतङ्गश्च कालो मृत्युस्तथैव च ।
यज्वानश्चैव सिद्धाश्च ये न योगशरीरिणः ॥

2.8.30

अग्निष्वात्ताश्च पितरः फेनपाश्वोष्मपाश्च ये ।
सुधावन्तो बर्हिषदो मूर्तिमन्तस्तथाऽपरे ॥

2.8.31

कालचक्रं च साक्षाच्च भगवान्हव्यवाहनः ।
नरा दुष्कृतकर्माणो दक्षिणायनमृत्यवः ॥

2.8.32

कालस्य नयने युक्ता यमस्य पुरुपाश्च ये ।
तस्यां शिंशुपपालाशास्तथा काशकुशादयः ॥

2.8.33

उपासते धर्मराजं मूर्तिमन्तो जनाधिप । एते चान्ये च बहवः पितृराजसभासदः ।
न शक्याः परिसङ्ख्यातुं नामभिः कर्मभिस्तथा ।

2.8.34

असम्बाधा हि सा पार्थ रम्या कामगमा सभा । दीर्घकालं तपस्तप्त्वा निर्मिता विश्वकर्मणा ।

2.8.35

ज्वलन्ती भासमाना च तेजसा स्वेन भारत ।
तामुग्रतपसो यान्ति सुव्रताः सत्यवादिनः ॥

2.8.36

शान्ताः सन्यासिनः शुद्धाः पूताः पुण्येन कर्मणा ।
सर्वे भास्वरदेहाश्च सर्वे च विरजोम्बराः ॥

2.8.37

चित्राङ्गदाश्चित्रमाल्याः सर्वे ज्वलितकुण्डलाः ।
सुकृतैः कर्मभिः पुण्यैः पारिबर्हैश्च भूषिताः ॥

2.8.38

गन्धर्वाश्च महात्मानः सङ्घशश्चाप्सरोगणाः ।
वादित्रं नृत्तगीतं च हास्यं लास्यं च सर्वशः ॥

2.8.39

पुण्याश्च गन्धाः शब्दाश्च तस्यां पार्थ समन्ततः ।
दिव्यानि चैव माल्यानि उपतिष्ठन्ति नित्यशः ॥

2.8.40

शतं शतसहस्राणि धर्मिणां तं प्रजेश्वरम् ।
उपासते महात्मानं रूपयुक्ता मनस्विनः ॥

2.8.41

ईदृशी सा सभा राजन्पितृराज्ञो महात्मनः ।
वरुणस्यापि वक्ष्यामि सभां पुष्करमालिनीम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc