भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 2.37

2.37.1

तत आमन्त्रिता राजन्राजानः सत्कृतास्तदा ।
पुरेभ्यः प्रययुस्तेभ्यो विमानेभ्य इवामराः ॥

2.37.2

ते वै दिग्भ्यः समापेतुः पार्थिवास्तत्र भारत ।
समादाय महार्हाणि रत्नानि विविधानि च ॥

2.37.3

तच्छ्रुत्वा धर्मराजस्य यज्ञे यज्ञविदस्तदा ।
राजानः शतशस्तुष्टैर्मनोभिर्मनुर्षभ ॥

2.37.4

बहु वित्तं समादाय विविधं पार्थिवा ययुः ।
द्रष्टुकामाः सभां चैव धर्मराजं च पाण्डवम् ॥

2.37.5

स गत्वा हास्तिनपुरं नकुलः समितिञ्जयः ।
भीष्ममामन्त्रयाञ्चक्रे धृतराष्ट्रं च पाण्डवः ॥

2.37.6

प्रयतः प्राञ्जलिर्भूत्वा भारतानानयत्तदा ।
धृतराष्ट्रं च भीष्मं च विदुरं च महामतिम् ॥

2.37.7

दुर्योधनमुखांश्चैव भ्रातॄन्सर्वानथानयत् ॥

2.37.8

सत्कृत्यामन्त्रिताः सर्वे ह्याचार्यप्रमुखास्ततः ।
प्रययुः प्रीतमनसो यज्ञं ब्रह्मपुरस्सराः ॥

2.37.9

धृतराष्ट्रश्च भीष्मश्च विदुरस्च महामतिः । दुर्योधनपुरोगाश्च भ्रातरः सर्व एव ते ।
गान्धारराजः सुबलः शकुनिश्च महाबलः ॥

2.37.10

अचलो वृषकश्चैव कर्णश्च रथिनां वरः ।
तथा शल्यश्च बलवान्बाह्लिकश्च महाबलः ॥

2.37.11

सोमदत्तोऽथ कौरव्यो भूरिर्भूरिश्रवाः शलः ।
अश्वत्थामा कृपो द्रोणः सैन्धवश्च जयद्रथः ॥

2.37.12

यज्ञसेनः सपुत्रश्च साल्वश्च वसुधाधिपः ।
प्राग्ज्योतिषश्च नृपतिर्भगदत्तो महारथः ॥

2.37.13

स तु सर्वैः सह म्लेच्छैः सागरानूपवासिभिः ।
पार्वतीयाश्च राजानो राजा चैव बृहद्बलः ॥

2.37.14

पौण्ड्रको वासुदेवश्च वङ्गः कालिङ्गकस्तथा ।
आकर्षाः कुन्तलाश्चैव गालवाश्चान्ध्रकास्तथा ॥

2.37.15

द्राविडाः सिंहलाश्चैव राजा काश्मीरकस्तथा ।
कुन्तिभोजो महातेजाः पार्थिवो गौरवाहनः ॥

2.37.16

बाह्लिकाश्चापरे शूरा राजानः सर्व एव ते ।
विराटः सह पुत्राभ्यां मावेल्लश्च महाबलः ॥

2.37.17

राजानो राजपुत्राश्च नानाजनपदेश्वराः ।
शिशुपालो महावीर्यः सह पुत्रेण भारत ॥

2.37.18

आगच्छत्पाण्डवेयस्य यज्ञं समरदुर्मदः ।
रामश्चैवानिरुद्धश्च कङ्कश्च सहसारणः ॥

2.37.19

गदप्रद्युम्नसाम्बाश्च चारुदेष्णश्च वीर्यवान् ।
उल्मुको निशठश्चैव वीरश्चाङ्गावहस्तथा ॥

2.37.20

वृष्णयो निखिलाश्चान्ये समाजग्मुर्महारथाः ।
एते चान्ये च बहवो राजानो मध्यदेशजाः ॥

2.37.21

आजग्मुः पाण्डुपुत्रस्य राजसूयं महाक्रतुम् ।
ददुस्तेषामावसथान्धर्मराजस्य शासनात् ॥

2.37.22

बहुभक्ष्यान्वितान्राजन्दीर्घिकावृक्षशोभितान् ।
तथा धर्मात्मजः पूजां चक्रे तेषां महात्मनाम् ॥

2.37.23

सत्कृताश्च यथोद्दिष्टाञ्जग्मुरावसथान्नृपाः ।
कैलासशिखरप्रख्यान्मनोज्ञान्द्रव्यभूषितान् ॥

2.37.24

सर्वतः संवृतानुच्चैः प्राकारैः सुकृतैः सितैः ।
सुवर्णजालसंवीतान्मणिकुट्टिमभूषितान् ॥

2.37.25

सुखारोहणसोपानान्महासनपरिच्छदान् ।
स्नग्दामसमवच्छन्नानुत्तमागुरुगन्धिनः ॥

2.37.26

हंसेन्दुवर्णसदृशानायोजनसुदर्शनान् ।
असम्बाधान्समद्वारान्युतानुच्चावचैर्गुणैः ॥

2.37.27

बहुधातुनिबद्धाङ्गान्हिमवच्छिखरानिव ।
विश्रान्तास्ते ततोऽपश्यन्भूमिपा भूरिदक्षिणम् ॥

2.37.28

वृतं सदस्यैर्बहुभिर्धर्मराजं युधिष्ठिरम् । तत्सदः पार्थिवैः कीर्णं ब्राह्मणैश्च महर्षिभिः ।
भ्राजते स्म तदा राजन्नाकपृष्ठं यथाऽमरैः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc