भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 16.10

16.10.1

शान्तनुः पालयामास यथावद्वसुधामिमाम् । तथा विचित्रवीर्यश्च भीष्मेण परिपालितः ।
पालयामास नस्तातो विदितं वो न संशयः ॥

16.10.2

यथा च पाण्डुर्भाता मे दयितो भवतामभूत् ।
स चापि पालयामास यथावत्तच्च वेत्थ ह ॥

16.10.3

अनन्तरं हि पितरमनुज्ञातो युधिष्ठिरः । नात्र किञ्चिन्मृषा जातु भाषतेति मतिर्मम ॥

16.10.4

मया च भवतां सम्यक् शुश्रूषा या कृताऽनघाः ।
असम्यग्वा महाभागास्तत्क्षन्तव्यमतन्द्रितैः ॥

16.10.5

यदा दुर्योधनेनेदं भुक्तं राज्यमकण्टकम् ।
अपि तत्र न वो मन्दो दुर्बुद्धिरपराद्धवान् ॥

16.10.6

तस्यापराधाद्दुर्बुद्धेरभिमानान्महीक्षिताम् । विमर्दः सुमहानासीदनयात्स्वकृतादथ ।
घातिताः कौरवेयाश्च पृथिवी च विनाशिता ॥

16.10.7

तन्मया साधु वाऽपीदं यदि वाऽसाधु वै कृतम् ।
तद्वो हृदि न कर्तव्यं मया बद्धोऽयमञ्जलिः ॥

16.10.8

वृद्धोऽयं हतपुत्रोऽयं दुःखितोऽयं नराधिपः ।
पूर्वराज्ञां च पुत्रोऽयमिति कृत्वाऽनुजानथ ॥

16.10.9

इयं च कृपणा वृद्धा हतपुत्रा तपस्विनी ।
गान्धारी पुत्रशोकार्ता तुल्यं याचति वो मया ॥

16.10.10

हतपुत्राविमौ वृद्धौ विदित्वा दुःखितौ तथा ।
अनुजानीत भद्रं वो व्रजाव शरणं च वः ॥

16.10.11

अयं च कौरवो राजा कुन्तीपुत्रो युधिष्ठिरः । सर्वैर्भवद्भिर्द्रव्यः समेषु विषमेषु च ।
न जातु विषमं चैव गमिष्यति कदाचन ॥

16.10.12

चत्वारः सचिवा यस्य भ्रातरो विपुलौजसः ।
लोककपालसमा ह्येते सर्वधर्मार्थदर्शिनः ॥

16.10.13

चतुर्णां लोकपालानां मध्ये विपरिवर्तते । ब्रह्मेव भगवानेष सर्वभूतजगत्पतिः ॥

16.10.14

एवमेव महाबाहुर्भीमार्जुनयमैर्वृतः । युधिष्ठिरो महातेजा भवतः पालयिष्यति ॥

16.10.15

अवश्यमेव वक्तव्यमिति कृत्वा ब्रवीमि वः । एष न्यासो मया दत्तः सर्वेषां वो युधिष्ठिरः ।
भवन्तोऽस्य च वीरस्य न्यासभूताः कृता मया ॥

16.10.16

यदेव तैः कृतं किञ्चिद्व्यलीकं वः सुतैर्मम ।
यदन्येनि मदीयेन तदनुज्ञातुमर्हथ ॥

16.10.17

भवद्भिर्न हि मे मन्युः कृतपूर्वः कथञ्चन ।
अत्यन्तगुरुभक्तानामेषोऽञ्जलिरिदं नमः ॥

16.10.18

तेषामस्थिरबुद्धीनां लुब्धानां कामचारिणाम् ।
कृते याचेऽद्य वः सर्वान्गान्धारीसहितोऽनघाः ॥

16.10.19

इत्युक्तांस्तेन ते सर्वे पौरजानपदा जनाः ।
नोचुर्बाष्पकलाः किञ्चिद्वीक्षाञ्चक्रुः परस्परम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc