भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.59

14.59.1

उदङ्कस्य वरं दत्त्वा गोविन्दो द्विजत्तम ।
अत ऊर्ध्वं महाबाहुः किं चकार महायशाः ॥
वैशम्पायन उवाच ।

14.59.2

उदङ्काय वरं दत्त्वा प्रायात्सात्यकिना सह ।
द्वारकामेव गोविन्दः शीघ्रवेगैर्महाहयैः ॥

14.59.3

सरांसि सरितश्चैव वनानि च गिरींस्तथा ।
अतिक्रम्याससादाथ रम्यां द्वारवतीं पुरीम् ॥

14.59.4

वर्तमाने महाराज महे रैवतकस्य च ।
उपायात्पुण्डरीकाक्षो युयुधानानुगस्तदा ॥

14.59.5

अलङ्कृतस्तु स गिरिर्नानारूपैर्विचित्रितैः ।
बभौ रत्नमयैः कोशैः संवृतः पुरुर्षर्षभ ॥

14.59.6

काञ्चनस्रग्भिरग्र्याभिः सुमनोभिस्तथैव च ।
वासोभिश्च महाशैलः कल्पवृक्षैस्तथैव च ॥

14.59.7

दीपवृक्षैश्च सौवर्णैरभीक्ष्णमुपशोभितः ।
गुहानिर्झरदेशेषु दिवाभूतो बभूव ह ॥

14.59.8

एताकाभिर्विचित्राभिः सघण्टाभिः समन्ततः । पुम्भिः स्त्रीभिश्च सन्घुष्टः प्रगीत इव चाभवत् ।
अतीव प्रेक्षणीयोऽभून्मेरुर्मुनिगणैरिव ॥

14.59.9

मत्तानां हृष्टरूपाणां स्त्रीणां पुंसां च भारत ।
गायतां पर्वतेन्द्रस्य दिविस्पृगिव निःस्वनः ॥

14.59.10

प्रमत्तमत्तसम्मत्तक्ष्वेडितोद्धुष्टसन्कुलः ।
तथा किलकिलाशब्दैर्भूधरोऽभून्मनोहरः ॥

14.59.11

विपणापणवान्रम्यो भक्ष्यभोज्यविहारवान् ।
वस्त्रमाल्योत्करयुतो वीणावेणुमृदङ्गवान् ॥

14.59.12

सुरामैरेयमिश्रेण भक्ष्यभोज्येन चैव ह ।
दीनान्धकृपणादिभ्यो दीयमानेन चानिशम् । बभौ परमकल्याणो महस्तस्य महागिरेः ॥

14.59.13

पुण्यावसथवान्वीरैः पुण्यकृद्भिर्निषेवितः ।
विहारो वृष्णिवीराणां महे रैवतस्य ह ॥

14.59.14

स नानावेश्मसन्कीर्णो देवलोक इवाबभौ ।
तदा च कृष्णसान्निध्यान्मुदा देवगणैर्युतः ॥

14.59.15

स्तुवन्त्यन्तर्हिता देवा गन्धर्वाश्च सहर्षिभिः ।
साधकः सर्वधर्माणामसुराणां विनाशकः ॥

14.59.16

त्वं स्रष्टा सृज्यमाधारं कारणं धर्मवेदवित् ।
त्वया सत्क्रियते देव ज जानीमोऽत्र मायया ॥

14.59.17

केवलं त्वाऽभिजानीमः शरणं परमेश्वरम् ।
ब्रह्मादीनां च गोविन्द सान्निध्वं शरणं नमः ॥

14.59.18

इति स्तुते मानुषैश्च पूजिते देवकीसुते । शक्रसद्मप्रतीकाशो बभूव स हि शैलराट् ॥

14.59.19

ततः सम्पूज्यमानः स विवेश भवनं शुभम् ।
गोविन्दः सात्यकिश्चैव जग्मतुर्भवनं स्वकम् ॥

14.59.20

विवेश च प्रहृष्टात्मा चिरकालप्रवासतः ।
कृत्वा नसुकरं कर्म दानवेष्विव वासवः ॥

14.59.21

उपायान्तं तु वार्ष्णेयं भोजवृष्ण्यन्धकास्तथा ।
अभ्यगच्चन्महात्मानं देवा इव शतक्रतुम् ॥

14.59.22

स तानभ्यर्च्य मेधावी पृष्ट्वा च कुशलं तदा ।
अभ्यवादयत प्रीतः पितरं मातरं तदा ॥

14.59.23

ताभ्यां स सम्परिष्वक्तः सान्त्वितश्च महाभुजः ।
उपोपविष्टैः सर्वैस्तैर्वृष्णिभिः परिवारितः ॥

14.59.24

स विश्रान्तो महातेजाः कृतपादावनेजनः ।
कथयामास तत्सर्वं पृष्टः पित्रा महाहवम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc