महाभारत · अध्याय 13.6
ब्राह्मण्यं यदि दुष्प्राप्यं त्रिभिर्वर्णैर्नराधिप ।
कथं प्राप्तं महाराज क्षत्रियेण महात्मना ॥
विश्वामित्रेण धर्मात्मन्ब्राह्मणत्वं नरर्षभ ।
श्रोतुमिच्छामि तत्त्वेन तन्मे ब्रूहि पितामह ॥
तेन ह्यमितवीर्येण वसिष्ठस्य महात्मनः ।
हतं पुत्रशतं सद्यस्तपसाऽपि पितामह ॥
यातुधानाश्च बहवो राक्षसास्तिग्मतेजसः ।
मन्युनाऽविष्टदेहेन सृष्टाः कालान्तकोपमाः ॥
महान्कुशिकवंशश्च ब्रह्मर्षिशतसन्कुलः ।
स्थापितो नरलोकेऽस्मिन्विद्वद्ब्राह्मणसन्कुलः ॥
ऋतीकस्यात्मजश्चैव शुनःशेपो महातपाः ।
विमोक्षितो महासत्रात्पशुतामप्युपागतः ॥
हरिश्चन्द्रक्रतौ देवांस्तोषयित्वाऽत्मतेजसा ।
पुत्रतामनुसम्प्राप्तो विश्वामित्रस्य धीमतः ॥
नाभिवादयते ज्येष्ठं देवरातं नराधिप ।
पुत्राः पञ्चशतं चापि शप्ताः श्वपचतां गताः ॥
त्रिशङ्कुर्बन्धुभिर्मुक्त ऐक्ष्वाकः प्रीतिपूर्वकम् ।
अवाक्शिरादिवं नीतो दक्षिणामाश्रितोदिशम् ॥
विश्वामित्रस्य भगिनी नदी देवर्षिसेविता ।
कौशिकीति कृता पुण्या ब्रह्मर्षिसुरसेविता ॥
तपोविघ्नकरी चैव पञ्चचूडा सुसम्मता ।
रम्भा नामाप्सराः शापाद्यस्य शैलत्वमागता ॥
तथैवास्य भयाद्बद्ध्वा वसिष्ठः सलिले पुरा ।
आत्मानं मञ्जयञ्श्रीमान्विपाशः पुनरुत्थितः ॥
तदाप्रभृति पुण्या हि विपाशाऽभून्महानदी ।
विख्याता कर्मणा तेन वसिष्ठस्य महात्मनः ॥
वश्यश्च भगवान्येन देवसेनाग्रगः प्रभुः ।
स्तुतः प्रीतमनाश्चासीच्छापाच्चैनममुञ्चत ॥
ध्रुवस्यौत्तानपादस्य ब्रह्मर्षीणां तथैव च ।
मध्ये ज्वलति यो नित्यमुदीचीमाश्रितो दिशम् ॥
तस्यैतानि च कर्माणि तथाऽन्यानि च कौरव ।
क्षत्रियस्येत्यतो जातमिदं कौहतूलं मम ॥
किमेतदिति तत्त्वेन प्रब्रूहि भरतर्षभ ।
देहान्तरमनासाद्य कथं स ब्राह्मणोऽभवत् ॥
एतत्तत्वेन मे तात सर्वमाख्यातुमर्हसि ।
मतङ्गस्य यथातत्त्वं तथैवैतद्वदस्व मे ॥
स्थाने मतङ्गो ब्राह्मण्यं नालभद्भरतर्षभ ।
चण्डालयोनौजातो हि कथं ब्राह्मण्यमाप्तवान् ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0