भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.16

13.16.1

द्वारकायां यथा प्राह पुराऽयं मुनिसत्तमः ।
वेदविप्रमयत्वं तु वासुदेवस्य तच्छृणु ॥

13.16.2

यूपं विष्णुं वासुदेवं विजान- न्सर्वान्विप्रान्बोधते तत्वदर्शि ।
विष्णुं क्रान्तं वासुदेवं विजान- न्विप्रो विप्रत्वं गच्छते तत्वदर्शी ॥

13.16.3

विष्णुर्यज्ञस्त्विज्यते चापि विष्णुः कृष्णो विष्णुर्यश्च कृत्स्नः प्रभुश्च ।
कृष्णो वेदाङ्गं वेदवादाश्च कृष्ण एवं जानन्ब्राह्मणो ब्रह्म एति ॥

13.16.4

स्थानं सर्वं वैष्णवं यज्ञमार्गे चातुर्होत्रं वैष्णवं तत्र कृष्णः ।
सर्वैर्भावैरिज्यते सर्वकामैः पुण्याँल्लोकान्ब्राह्मणाः प्राप्नुवन्ति ॥

13.16.5

सोमं सद्भावाद्ये च जातं पिबन्ति दीप्तिं कर्म ये विदानाश्चरन्ति ।
एकान्तमिष्टं चिन्तयन्तो दिविस्था- स्ते वै स्थानं प्राप्नुवन्ति व्रतज्ञाः ॥

13.16.6

ओमित्येतद्ध्यायमानो न गच्छे- द्दुर्गं पन्थानं पापकर्मापि विप्रः ।
सर्वं कृष्णं वासुदेवं हि विग्राः कृत्वा ध्यानं दुर्गतिं न प्रयान्ति ॥

13.16.7

आज्यं यज्ञः स्रुक्स्रुवौ यज्ञदाता इच्छा पत्नी पत्निशाला हवींषि ।
इध्याः पुरोडाशं सर्वदा होतृकर्ता कृत्स्नं विष्णुं संविजानंस्तमेति ॥

13.16.8

योगेयोगे कर्मणां चाभिहारे युक्ते वैताने कर्मणि ब्राह्मणस्य ।
पुष्ट्यर्थेषु प्राप्नुयात्कर्मसिद्धिं शान्त्यर्थेषु प्राप्नुयात्सर्वशान्तिम्ट ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc