भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.139

13.139.1

तथा विधौ प्रवृत्ते तु सर्व एव महर्षयः ।
पितृयज्ञानकुर्वन्त विधिदृष्टेन कर्मणा ॥

13.139.2

ऋषयो धर्मनित्यास्तु कृत्वा निवपनान्युत ।
तर्पणं चापि कुर्वन्त तीर्थाम्भोभिर्यतव्रताः ॥

13.139.3

निवापैर्दीयमानैश्च चातुर्वर्ण्येन भारत ।
तर्पिताः पितरो देवास्तत्रान्नं जरयन्ति वै ॥

13.139.4

अजीर्णैस्त्वभिहन्यन्ते ते देवाः पितृभिः सह ॥
सोममेवाभ्यपद्यन्त तदा ह्यन्नाभिपीडिताः ॥

13.139.5

तेऽब्रुवन्सोममासाद्य पितरोऽजीर्णपीडिताः ।
निवापान्नेन पीड्यामः श्रेयो नोत्र विधीयताम् ॥

13.139.6

तान्सोमः प्रत्युवाचाथ श्रेयश्चेदीप्सितं सुराः ।
स्वयम्भूसदनं यात स वः श्रेयोऽभिधास्यति ॥

13.139.7

ते सोमवचनाद्देवाः पितृभिः सह भारत ।
मेरुशृङ्गे समासीनं पितामहमुपागमन् ॥
पितर ऊचुः ।

13.139.8

निवापान्नेन भगवन्भृशं पीड्यामहे वयम् ।
प्रसादं कुरु नो देव श्रेयो नः संविधीयताम् ॥

13.139.9

इति तेषां वचः श्रुत्वा स्वयम्भूरिदमब्रवीत् । एष मे पार्श्वतो वह्निर्युष्मच्छ्रेयो विधास्यति ।
अग्निरुवाच ।

13.139.10

सहितास्तस्य भोक्ष्यामो निवापे समुपस्थिते ।
जरयिष्यथ चाप्यन्नं मया सार्धं न संशयः ॥

13.139.11

एतच्छ्रुत्वा तु पितरस्ततस्ते विज्वराऽभवन् ।
एतस्मात्कारणाच्चाग्नेः प्राग्भागो दीयते नृप ॥

13.139.12

निवापे चाग्निपूर्वं वै निवृत्ते पुरुषर्षभ ।
न ब्रह्मराक्षसास्तं वै निवापं धर्षयन्त्युत ॥

13.139.13

रक्षांसि नाभिवर्धन्ते स्थिते देवे हुताशने ।
पूर्वं पिण्डं पितुर्दद्यात्ततो दद्यात्पितामहे ॥

13.139.14

प्रपितामहाय च तत एष श्राद्धविधिः स्मृतः । ब्रूयाच्छ्राद्धे च सावित्रीं पिण्डे पिण्डे समाहितः ।
सोमायेति च वक्तव्यं तथा पितृमतेति च ॥

13.139.15

रजस्वला च या नारी व्यङ्गिता कर्णयोश्च या ।
निवापे नोपतिष्ठेत सङ्ग्राह्या नान्यवंशजा ॥

13.139.16

जलं प्रतरमाणस्च कीर्तयेत पितामहान् ।
नदीमासाद्य कुर्वीत पितॄणां पितृतर्पणम् ॥

13.139.17

पूर्वं स्ववंशजानां तु कृत्वाऽद्भिस्तर्पणं पुनः ।
सुहृत्सम्बन्धिवर्गाणां ततो दद्याज्जलाञ्जलिम् ॥

13.139.18

कल्माषगोयुगेनाथ युक्तेन तरतो जलम् ।
पितरोऽभिलषन्ते वै नावं चाप्यधिरोहिताः ॥

13.139.19

सदा नावि जलं तज्ज्ञाः प्रयच्छन्ति समाहिताः ।
मासार्धे कृष्णपक्षस्य कुर्यान्निर्वपणानि वै ॥

13.139.20

पुष्टिरायुस्तथा वीर्यं श्रीश्चैव पितृभक्तितः ॥

13.139.21

पितामहः पुलस्त्यश्च वसिष्ठः पुलहस्तथा । अङ्गिराश्च क्रतुश्चैव कश्यपश्च महानृषिः ।

13.139.22

एते कुरुकुलश्रेष्ठ महायोगेश्वराः स्मृताः ॥ एते च पितरो राजन्नेष श्राद्धविधिः परः ।

13.139.23

प्रेतास्तु पिण्डसम्बन्धान्मुच्यन्ते तेन कर्मणा ॥ इत्येषा पुरुषश्रेष्ठ श्राद्धोत्पत्तिर्यथागमम् ।

13.139.24

व्याख्याता पूर्वनिर्दिष्टा किं ते वक्ष्याम्यतः परम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc