भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.114

13.114.1

शतं वर्षसहस्राणां तपस्तप्तं सुदुष्करम् ।
गोभिः पूर्वं विसृष्टाभिर्गच्छेम श्रेष्ठतामिति ॥

13.114.2

लोकेऽस्मिन्दक्षिणानां च सर्वासां वयमुत्तमाः ।
भवेम न च लोप्येम दोषेणेति परन्तप ॥

13.114.3

अस्मत्पुरीषस्नानेन जनः पुयेत सर्वदा ।
शकृता च पवित्रार्थं कुर्वीरन्देवमानुषाःठ ॥

13.114.4

तथा सर्वाणि भूतानि स्थावराणि चराणि च ।
प्रदातारश्च लोकान्नो गच्छेयुरिति मानद ॥

13.114.5

ताभ्यो वरं ददौ ब्रह्मा तपसोऽन्ते स्वयं प्रभुः ।
एवं भवन्विति विभुर्लोकांस्तारयतेति च ॥

13.114.6

उत्तस्थुः सिद्धकामास्ता भूतभव्यस्य मातरः ।
तपसोऽन्ते महाराज गावो लोकपरायणाः ॥

13.114.7

तस्माद्गावो महाभागाः पवित्रं परमुच्यते ।
तथैव सर्वभूतानां समतिष्ठन्त मूर्धनि ॥

13.114.8

सम्मनवत्सां कपिलां धेनुं दत्त्वा पयस्विनीम् ॥
सुव्रतां वस्त्रसंवीतां ब्रह्मलोके महीयते ॥

13.114.9

लोहितां तुल्यवत्सां तु धेनुं दत्त्वा पयस्विनीम् ।
सुव्रतां वस्त्रसंवीतां सूर्यलोके महीयते ॥

13.114.10

समानवत्सां शबलां धेनुं दत्त्वा पयस्विनीम् ।
सुव्रतां वस्त्रसंवीतीं सोमलोके महीयते ॥

13.114.11

समानवत्सां श्वेतां तु धेनुं दत्त्वा पयस्विनीम् ।
सुव्रतां वस्त्रसंवीतामिन्द्रलोके महीयते ॥

13.114.12

समानवत्सां कृष्णां तु धेनु दत्त्वा पयस्विनीम् ।
सुव्रतां वस्त्रसंवीतामग्निलोके महीयते ॥

13.114.13

समानवत्सां धूम्रां तु धेनुं दत्त्वा पयस्विनीम् ।
सुव्रतां वस्त्रसंवीतां याम्यलोके महीयते ॥

13.114.14

अपां फेनसवर्णां तु सवत्सां कांस्यदोहनाम् ।
प्रदाय वस्त्रसंवीतां वारुणं लोकमाप्नुते ॥

13.114.15

वातरेणुसवर्णां तु सवत्सां कांस्यदोहनाम् ।
प्रदाय वस्त्रसंवीतां वायुलोके महीयते ॥

13.114.16

हिरण्यवर्णां पिङ्गाक्षीं सवत्सां कांस्यदोहनाम् ।
प्रदाय वस्त्रसंवीतां कौबेरं लोकमश्नुते ॥

13.114.17

पलालधूम्रवर्णां तु सवत्सां कांस्यदोहनाम् ।
प्रदाय वस्त्रसंवीतां पितृलोके महीयते ॥

13.114.18

सवत्सां पीवरीं दत्त्वा दृतिकण्ठामलङ्कृताम् ।
वैश्वदेवमसम्बाधं स्थानं श्रेष्ठं प्रपद्यते ॥

13.114.19

समानवत्सां गौरीं तु धेनुं दत्त्वा पयस्विनीम् ।
सुव्रतां वस्त्रसंवीतां वसूनां लोकमाप्नुयात् ॥

13.114.20

पाण्डुकम्बलवर्णाभां सवत्सां कांस्यकदोहनाम् ।
प्रदाय वस्त्रसंवीतां साध्यानां लोकमाप्नुते ॥

13.114.21

वैराटपृष्ठमुक्षाणं सर्वरत्नैरलङ्कृतम् ।
प्रददन्मरुतां लोकान्स राजन्प्रतिपद्यते ॥

13.114.22

वत्सोपपन्नां नीलां गां सर्वरत्नसमन्विताम् ।
गन्धर्वाप्सरसां लोकान्दत्त्वा प्राप्नोति मानवः ॥

13.114.23

दृतिकण्ठमनड्वाहं सर्वरत्नैरलङ्कृतम् ।
दत्त्वा प्रजापतेर्लोकान्विशोकः प्रतिपद्यते ॥

13.114.24

गोप्रदानरतो याति भित्त्वा जलदसञ्चयान् ।
विमानेनार्कवर्णेन दिवि राजन्विराजता ॥

13.114.25

तं चोरुवेषाः सुश्रोण्यः सहस्रं वारयोपितः ।
रमयन्ति नरश्रेष्ठं गोप्रदानरतं नरम् ॥

13.114.26

वीणानां वल्लकीनां च नू पुराणां च शिञ्जितैः ।
हासैश्च हरिणाक्षीणां सुप्तः सुप्रतिबोध्यते ॥

13.114.27

यावन्ति रोमाणि भवन्ति धेन्वा- स्तावन्ति वर्षाणि महीयते सः ।
स्वर्गच्युतश्चापि ततो नृलोके कुले प्रसूतो विपुले विशोकः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc