भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.374

12.374.1

आश्चर्यं नात्र सन्देहः सुप्रीतोस्मि भुजङ्गम ।
अन्वर्थोपगतैर्वाक्यैः पन्थानं चास्मि दर्शितः ॥

12.374.2

स्वस्ति तेऽस्तु गमिष्यामि साधो भुजगसत्तम ।
स्मरणीयोस्मि भवता सम्प्रेषणनियोजनैः ॥
नाग उवाच ।

12.374.3

अनुक्त्वा हृद्गतं कार्यं क्वेदानीं प्रस्थितो भवान् ।
उच्यतां द्विज यत्कार्यं यदर्थं त्वमिहागतः ॥

12.374.4

उक्तानुक्ते कृते कार्ये मामामन्त्र्य द्विजर्षभ ।
मया प्रत्यभ्यनुज्ञातस्ततो यास्यसि सुव्रत ॥

12.374.5

न हि मां केवलं दृष्ट्वा त्यक्त्वा प्रणयवानिह ।
गन्तुमर्हसि विप्रर्षे वृक्षमूलगतो यथा ॥

12.374.6

त्वयि चाहं द्विजश्रेष्ठ भवान्मयि न संशयः ।
लोकोऽयं भवतः सर्वः का चिन्ता मयि तेऽनघ ॥
ब्राह्मण उवाच ।

12.374.7

एवमेतन्महाप्राज्ञ विदितात्मन्भुजङ्गम ।
नातिरिक्तास्त्वया देवाः सर्वथैव यथातथम् ॥

12.374.8

स एव त्वं स एवाहं योऽहं स तु भवानपि ।
अहं भवांश्च भूतानि सर्वे यत्र गताः सदा ॥

12.374.9

आसीत्तु मे भोगिपते संशयः पुण्यरसञ्चये ।
सोहमुञ्छव्रतं साधो चरिष्याम्यर्थसाधनम् ॥

12.374.10

एष मे निश्चयः साधो कृतं कारणमुत्तमम् ।
आमन्त्रयामि भद्रं ते कृतार्थोऽस्मि भुजङ्गम ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc