भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.33

1.33.1

जाम्बूनदमयो भूत्वा मरीचिनिकरोज्ज्वलः ।
प्रविवेश बलात्पक्षी वारिवेग इवार्णवम् ॥

1.33.2

स चक्रं क्षुरपर्यन्तमपश्यदमृतान्तिके ।
परिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयम् ॥

1.33.3

ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम् ।
घोररूपं तदत्यर्थं यन्त्रं देवैः सुनिर्मितम् ॥

1.33.4

तस्यान्तरं स दृष्ट्वै पर्यवर्तत खेचरः ।
अरान्तरेणाभ्यपतत्सन्क्षिप्याङ्गं क्षणेन ह ॥

1.33.5

अधश्चक्रस्य चैवात्र दीप्तानलसमद्व्युती ।
विद्युज्जिह्वौ महावीर्यौ दीप्तास्यौ दीप्तलोचनौ ॥

1.33.6

चक्षुर्विषौ महाघोरौ नित्यं क्रुद्धौ तरस्विनौ ।
अमृतस्यैव रक्षार्थं ददर्श भुजगोत्तमौ ॥

1.33.7

सदा संरब्धनयनौ सदा चानिमिषेक्षणौ ।
तयोरेकोऽपि यं पश्येत्स तूर्णं भस्मसाद्भवेत् ॥

1.33.8

तौ दृष्ट्वा सहसा खेदं जगाम विनतात्मजः ।
कथमेतौ महावीर्यौ जेतव्यौ हरिभोजिनौ ॥

1.33.9

इति सञ्चिन्त्य गरुडस्तयोस्तूर्णं निराकरः । तयोश्चक्षूंषि रजसा सुपर्णः सहसाऽवृणोत् ।
ताभ्यामदृष्टरूपोऽसौ सर्वतः समताडयत् ॥

1.33.10

तयोरङ्गे समाक्रम्य वैनतेयोऽन्तरिक्षगः ।
आच्छिनत्तरसा मध्ये सोममभ्यद्रवत्ततः ॥

1.33.11

समुत्पाट्यामृतं तत्र वैनतेयस्ततो बली ।
उत्पपात जवेनैव यन्त्रमुन्मथ्य वीर्यवान् ॥

1.33.12

अपीत्वैवामृतं पक्षी परिगृह्याशु निःसृतः ।
आगच्छदपरिश्रान्त आवार्यार्कप्रभां ततः ॥

1.33.13

विष्णुना च तदाकाशे वैनतेयः समेयिवान् ।
तस्य नारायणस्तुष्टस्तेनालौल्येन कर्मणा ॥

1.33.14

तमुवाचाव्ययो देवो वरदोऽस्मीति खेचरम् ।
स वव्रे तव तिष्ठेयमुपरीत्यन्तरिक्षगः ॥

1.33.15

उवाच चैनं भूयोऽपि नारायणमिदं वचः ।
अजरश्चामरश्च स्याममृतेन विनाऽप्यहम् ॥
सौतिरुवाच ।

1.33.16

एवमस्त्विति तं विष्णुरुवाच विनतासुतम् ।
प्रतिगृह्य वनौ तौ च गरुडो विष्णुमब्रवीत् ॥

1.33.17

भवतेपि वरं दद्यां वृणोतु भगवानपि ।
तं वव्रे वाहनं विष्णुर्नरुत्मन्तं महाबलम् ॥

1.33.18

ध्वजं च चक्रे भगवानुपरि स्थास्यसीति तम् ।
एवमस्त्विति तं देवमुक्त्वा नारायणं खगः ॥

1.33.19

वव्राज तरसा वेगाद्वायुं स्पर्धन्महाजवः ।
तं व्रजन्तं खगश्रेष्ठं वज्रेणेन्द्रोऽभ्यताडयत् ॥

1.33.20

हरन्तममृतं रोषाद्गरुडं पक्षिणां वरम् ।
तमुवाचेन्द्रमाक्रन्दे गरुडः पततां वरः ॥

1.33.21

प्रहसञ्श्लक्ष्णया वाचा तथा वज्रसमाहतः ।
ऋषेर्मानं करिष्यामि वज्रं यस्यास्थिसम्भवम् ॥

1.33.22

वज्रस्य च करिष्यामि तवैव च शतक्रतो ।
एतत्पत्रं त्यजाम्येकं यस्यान्तं नोपलप्स्यसे ॥

1.33.23

न च वज्रनिपातेन रुजा मेऽस्तीह काचन ।
एवमुक्त्वा ततः पुत्रमुत्ससर्ज स पक्षिराट् ॥

1.33.24

तदुत्सृष्टमभिप्रेक्ष्य तस्य पर्णमनुत्तमम् ।
हृष्टानि सर्धभूतानि नाम चक्रुर्गरुत्मतः ॥

1.33.25

सुरूपं पत्रमालक्ष्य सुपर्णोऽयं भवत्विति । तद्दृष्ट्वा महदाश्चर्यं सहस्राक्षः पुरन्दरः ।
खगो महदिदं भूतमिति मत्वाऽभ्यभाषत ॥

1.33.26

बलं विज्ञातुमिच्छामि यत्ते परमनुत्तमम् ।
सख्यं चानन्तमिच्छामि त्वया सह खगोत्तम ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc