भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.156

1.156.1

धृतराष्ट्रप्रयुक्तेषु पाण्डुपुत्रेषु भारत ।
दुर्योधनः परं हर्षमगच्छत्स दुरात्मवान् ॥

1.156.2

ततः सुबलपुत्रश्च कर्णदुर्योधनावपि । दहने सह पुत्रायाः कुन्त्या मतिमकुर्वत ।
मन्त्रयित्वा स तैः सार्धं दुरात्मा धृतराष्ट्रजः ॥

1.156.3

स पुरोचनमेकान्तमानीय भरतर्षभ ।
गृहीत्वा दक्षिणे पाणौ सचिवं वाक्यमब्रवीत् ॥

1.156.4

ममेयं वसुसम्पूर्णा पुरोचन वसुन्धरा ।
यथैव भविता तात तथा त्वं द्रष्टुमर्हसि ॥

1.156.5

न हि मे कश्चिदन्योऽस्ति विश्वासिकतरस्त्वया ।
सहायो येन सन्धाय मन्त्रयेयं यथा त्वया ॥

1.156.6

संरक्ष तात मन्त्रं च सपत्नांश्च ममोद्धर ।
निपुणेनाभ्युपायेन यद्ब्रवीमि तथा कुरु ॥

1.156.7

पाण्डवा धृतराष्ट्रेण प्रेषिता वारणावतम् ।
उत्सवे विहरिष्यन्ति धृतराष्ट्रस्य शासनात् ॥

1.156.8

स त्वं रासभयुक्तेन स्यन्दनेनाशुगामिना ।
वारणावतमद्यैव यथा यासि तया कुरु ॥

1.156.9

तत्र गत्वा चतुःशालं गृहं परमसंवृतम् ।
नगरोपान्तमाश्रित्य कारयेथा महाधनम् ॥

1.156.10

शणसर्जरसादीनि यानि द्रव्याणि कानिचित् ।
आग्नेयान्युत सन्तीह तानि तत्र प्रदापय ॥

1.156.11

बल्वजेन च सम्मिश्रं मधूच्छिष्टेन चैव हि । सर्पिस्तैलवसाभिश्च लाक्षया चाप्यनल्पया ।
मृत्तिकां मिश्रयित्वा त्वं लेपं कुड्येषु दापय ॥

1.156.12

शणं तैलं घृतं चैव जतु दारूणि चैव हि ।
तस्मिन्वेश्मनि सर्वाणि निक्षिपेथाः समन्ततः ॥

1.156.13

लाक्षाशममधूच्छिष्टवेष्टितानि मृदापि च । लेपयित्वा गुरूण्याशु दारुयन्त्राणि दापय ॥

1.156.14

यथा च तन्न पश्येरन्परीक्षन्तोऽपि पाण्डवाः ।
आग्नेयमिति तत्कार्यमपि चान्येऽपि मानवाः ॥

1.156.15

वेश्मन्येवं कृते तत्र कृत्वा तान्परमार्चितान् ।
वासयेथाः पाण्डवेयान्कुन्तीं च ससुहृज्जनाम् ॥

1.156.16

आसनानि च दिव्यानि यानानि शयनानि न ।
निघातव्यानि पाण्डूनां यथा तुष्येच्च मे पिता ॥

1.156.17

यथा च तन्न जानन्ति नगरे वारणावते । यथा रमेरन्विस्रब्धा नगरे वारणावते ।
तथा सर्वं विधातव्यं यावत्कालस्य पर्ययः ॥

1.156.18

ज्ञात्वा च तान्सुविश्वस्ताञ्शयानानकुतोभयान् ।
अग्निस्त्वया ततो देयो द्वारतस्तस्य वेश्मनः ॥

1.156.19

दग्धानेवं स्वके गेहे दाहिताः पाण्डवा इति ।
न गर्हयेयुरस्मान्वै पाण्डवार्थाय कर्हिचित् ॥

1.156.20

स तथेति प्रतिज्ञाय कौरवाय पुरोचनः ।
प्रायाद्रासभयुक्तेन स्यन्दनेनाशुगामिना ॥

1.156.21

स गत्वा त्वरितं राजन्दुर्योधनमते स्थितः ।
यथोक्तं राजपुत्रेण सर्वं चक्रे पुरोचनः ॥

1.156.22

तेषां तु पाण्डवेयानां गृहं रौद्रमकल्पयत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc