भाषा

ENहिગુ
ग्रंथ पाठ

मध्यमकशास्त्र · अध्याय 14

14.1

14 संसर्गपरीक्षा चतुर्दशमं प्रकरणम् ।
द्रष्टव्यं दर्शनं द्रष्टा त्रीण्येतानि द्विशो द्विशः ।
सर्वशश्च न संसर्गमन्योन्येन व्रजन्त्युत

14.2

एवं रागश्च रक्तश्च रञ्जनीयं च दृश्यताम् ।
त्रैधेन शेषाः क्लेशाश्च शेषाण्यायतनानि च

14.3

अन्येनान्यस्य संसर्गस्तच्चान्यत्वं न विद्यते ।
द्रष्टव्यप्रभृतीनां यन्न संसर्गं व्रजन्त्यतः

14.4

न च केवलमन्यत्वं द्रष्टव्यादेर्न विद्यते ।
कस्यचित्केनचित्सार्धं नान्यत्वमुपपद्यते

14.5

अन्यदन्यत्प्रतीत्यान्यन्नान्यदन्यदृते ऽन्यतः ।
यत्प्रतीत्य च यत्तस्मात्तदन्यन्नोपपद्यते

14.6

यद्यन्यदन्यदन्यस्मादन्यस्मादप्यृते भवेत् ।
तदन्यदन्यदन्यस्मादृते नास्ति च नास्त्यतः

14.7

नान्यस्मिन् विद्यते ऽन्यत्वमनन्यस्मिन्न विद्यते ।
अविद्यमाने चान्यत्वे नास्त्यन्यद्वा तदेव वा

14.8

न तेन तस्य संसर्गो नान्येनान्यस्य युज्यते ।
संसृज्यमानं संसृष्टं संस्रष्टा च न विद्यते

मूल पाठ: Madhyamakaśāstra · Edition: P. L. Vaidya: Madhyamakaśāstra of Nāgārjuna. Darbhanga: Mithila Institute, 1960. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc