भाषा

ENहिગુ
ग्रंथ पाठ

मध्यमकशास्त्र · अध्याय 11

11.1

11 पूर्वापरकोटिपरीक्षा एकादशमं प्रकरणम् ।
पूर्वा प्रज्ञायते कोटिर्नेत्युवाच महामुनिः ।
संसारो ऽनवराग्रो हि नास्यादिर्नापि पश्चिमम्

11.2

नैवाग्रं नावरं यस्य तस्य मध्यं कुतो भवेत् ।
तस्मान्नात्रोपपद्यन्ते पूर्वापरसहक्रमाः

11.3

पूर्वं जातिर्यदि भवेज्जरामरणमुत्तरम् ।
निर्जरामरणा जातिर्भवेज्जायेत चामृतः

11.4

पश्चाज्जातिर्यदि भवेज्जरामरणमादितः ।
अहेतुकमजातस्य स्याज्जरामरणं कथम्

11.5

न जरामरणेनैव जातिश्च सह युज्यते ।
म्रियेत जायमानश्च स्याच्चाहेतुकतोभयोः

11.6

यत्र न प्रभवन्त्येते पूर्वापरसहक्रमाः ।
प्रपञ्चयन्ति तां जातिं तज्जरामरणं च किम्

11.7

कार्यं च कारणं चैव लक्ष्यं लक्षणमेव च ।
वेदना वेदकश्चैव सन्त्यर्था ये च केचन

11.8

पूर्वा न विद्यते कोटिः संसारस्य न केवलम् ।
सर्वेषामपि भावानां पूर्वा कोटिर्न विद्यते

मूल पाठ: Madhyamakaśāstra · Edition: P. L. Vaidya: Madhyamakaśāstra of Nāgārjuna. Darbhanga: Mithila Institute, 1960. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc