भाषा

ENहिગુ
ग्रंथ पाठ

लोकातीतस्तव · भाग 12

लोकातीत नमस् तुभ्यं विविक्तज्ञानवेदिने ।
यस् त्वं जगद्धितायैव खिन्नः करुणया चिरम् ॥ नग्लोक्_01
स्कन्धमात्रविनिर्मुक्तो न सत्त्वो ऽस्तीति ते मतम् ।
सत्त्वार्थं च परं खेदम् अगमस् त्वं महामुने ॥ नग्लोक्_02
ते ऽपि स्कन्धास् त्वया धीमन् धीमद्भ्यः संप्रकाशिताः ।
मायामरीचिगन्धर्वनगरस्वप्नसंनिभाः ॥ नग्लोक्_03
हेतुतः संभवो येषां तदभावान् न सन्ति ये ।
कथं नाम न ते स्पष्टं प्रतिबिम्बसमा मताः ॥ नग्लोक्_04
भूतान्य् अचक्षुर्ग्राह्याणि तन्मयं चाक्षुषं कथम् ।
रूपं त्वयैवं ब्रुवता रूपग्राहो निवारितः ॥ नग्लोक्_05
वेदनीयं विना नास्ति वेदनातो निरात्मिका ।
तच् च वेद्यं स्वभावेन नास्तीत्य् अभिमतं तव ॥ नग्लोक्_06
संज्ञार्थयोर् अनन्यत्वे मुखं दह्येत वह्निना ।
अन्यत्वे ऽधिगमाभावस् त्वयोक्तं भूतवादिना ॥ नग्लोक्_07
कर्ता स्वतन्त्रः कर्मापि त्वयोक्तं व्यवहारतः ।
परस्परापेक्षिकी तु सिद्धिस् ते ऽभिमतानयोः ॥ नग्लोक्_08
न कर्तास्ति न भोक्तास्ति पुण्यापुण्यं प्रतीत्यजम् ।
यत् प्रतीत्य न तज् जातं प्रोक्तं वाचस्पते त्वया ॥ नग्लोक्_09
अज्ञायमानं न ज्ञेयं विज्ञानं तद् विना न च ।
तस्मात् स्वभावतो न स्तो ज्ञानज्ञेये त्वम् ऊचिवान् ॥ नग्लोक्_10
लक्ष्याल् लक्षणम् अन्यच् चेत् स्यात् तल् लक्ष्यम् अलक्षणम् ।
तयोर् अभावो ऽनन्यत्वे विस्पष्टं कथितं त्वया ॥ नग्लोक्_11
लक्ष्यलक्षणनिर्मुक्तं वागुदाहारवर्जितम् ।
शान्तं जगद् इदं दृष्टं भवता ज्ञानचक्षुषा ॥ नग्लोक्_12
न सन्न् उत्पद्यते भावो नाप्य् असन् सदसन् न च ।
न स्वतो नापि परतो न द्वाभ्यां जायते कथम् ॥ नग्लोक्_13
न सतः स्थितियुक्तस्य विनाश उपपद्यते ।
नासतो ऽश्वविषाणेन समस्य शमता कथम् ॥ नग्लोक्_14
भावान् नार्थान्तरं नाशो नाप्य् अनर्थान्तरं मतम् ।
अर्थान्तरे भवेन् नित्यो नाप्य् अनर्थान्तरे भवेत् ॥ नग्लोक्_15
एकत्वे न हि भावस्य विनाश उपपद्यते ।
पृथक्त्वे न हि भावस्य विनाश उपपद्यते ॥ नग्लोक्_16
विनष्टात् कारणात् तावत् कार्योत्पत्तिर् न युज्यते ।
न चाविनष्टात् स्वप्नेन तुल्योत्पत्तिर् मता तव ॥ नग्लोक्_17
न निरुद्धान् नानिरुद्धाद् बीजाद् अङ्कुरसंभवः ।
मायोत्पादवद् उत्पादः सर्व एव त्वयोच्यते ॥ नग्लोक्_18
अतस् त्वया जगद् इदं परिकल्पसमुद्भवम् ।
परिज्ञातम् असद्भूतम् अनुत्पन्नम् न नश्यति ॥ नग्लोक्_19
नित्यस्य संसृतिर् नास्ति नैवानित्यस्य संसृतिः ।
स्वप्नवत् संसृतिः प्रोक्ता त्वया तत्त्वविदां वर ॥ नग्लोक्_20

स्वयंकृतं परकृतं द्वाभ्यां कृतम् अहेतुकम् ।
तार्किकैर् इष्यते दुःखं त्वया तूक्तं प्रतीत्यजम् ॥ नग्लोक्_21
यः प्रतीत्यसमुत्पादः शून्यता सैव ते मता ।
भावः स्वतन्त्रो नास्तीति सिंहनादस् तवातुलः ॥ नग्लोक्_22
सर्वसंकल्पनाशाय शून्यतामृतदेशना ।
यस्य तस्याम् अपि ग्राहस् त्वयासाव् अवसादितः ॥ नग्लोक्_23
निरीहा वशिकाः शून्या मायावत् प्रत्ययोद्भवाः ।
सर्वधर्मास् त्वया नाथ निःस्वभावाः प्रकाशिताः ॥ नग्लोक्_24
न त्वयोत्पादितं किं चिन् न च किं चिन् निरोधितम् ।
यथा पूर्वं तथा पश्चात् तथतां बुद्धवान् असि ॥ नग्लोक्_25
आर्यैर् निसेविताम् एनाम् अनागम्य हि भावनाम् ।
नानिमित्तम् हि विज्ञानं भवतीह कथं चन ॥ नग्लोक्_26
अनिमित्तम् अनागम्य मोक्षो नास्ति त्वम् उक्तवान् ।
अतस् त्वया महायाने तत् साकल्येन देशितम् ॥ नग्लोक्_27
यद् अवाप्तं मया पुण्यं स्तुत्वा त्वां स्तुतिभाजनम् ।
निमित्तबन्धनापेतं भूयात् तेनाखिलं यगत् इति लोकातीतस्तवः समाप्तः ॥
%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%
चोप्य्रिघ्त् (च्) 2003 ब्य् छ्र्. लिन्द्त्नेर् - देन्मर्क्
%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%

मूल पाठ: Lokātītastava · Data entry Richard Mahoney · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc