लिङ्गार्चनतन्त्रम् · अध्याय 1
॥ श्रीः ॥
ओं नमो गणेशाय ।
देव्युवाच-
कामरूपं समासीनं शङ्करं प्रियशङ्करम् ।
पप्रच्छु सादरं देवी योगमाया जगन्मयी ॥
त्रिलोचन महादेव सर्वेषामीश्वर प्रभो ।
पूर्वं या सूचितं देव शिवलिङ्गार्चनं प्रभो ॥
हृदये चिन्त्यते देव मम प्राणोपमं सदा ।
इदानीं परमेशान कृपया सम्यगुच्चर ॥
शिवलिङ्गार्चनन्तत्त्वं विचार्य कथय प्रभो ।
साङ्गोपाङ्गेन सहितं रहस्यं यच्च विद्यते ॥
देवगन्धर्वमनुजा असुरा राक्षक्षाश्च ये ।
ते सर्वे सिद्धिमायान्ति शिवलिङ्गार्चनात्प्रभो ॥
पूर्वं हि सूचितं देव चान्यदेवैर्महेश्वर ।
सर्वं हि कथयेशान यद्यहं तव वल्लभा ॥
ईश्वर उवाच-
शृणु नगात्मजे प्रौढे मेनका नगनन्दिनि ।
एतत् ज्ञानं महेशानि वक्ष्येतेहं सदा प्रिये ॥
पदन्ते परमेशानि * * * * क्षते तथा ।
मया दत्तं महेशानि स्थिति संहारकारिणे ॥
यत्कृत्वा परमेशानि विष्णुस्तु स्थितिकारकः ।
सृष्टिकर्ता भवेद् ब्रह्मा एतज्ज्ञानप्रभावतः ॥
प्. २)
एतज्ज्ञानप्रभावेण मृत्युं जित्वा वरानने ।
मृत्युञ्जयोऽहं देवेशि सदासुन्दरि योगिनि ॥
सर्वपूजासु देवेशि लिङ्गपूजां परं पदम् ।
लिङ्गपूजां विना देवि अन्यपूजां करोति यः ॥
विकृता तस्य सा पूजा अन्ते नरकमाप्नुयात् ।
तस्माल्लिङ्गं महेशानि प्रथमं परिपूजयेत् ॥
यद्राज्यं लिङ्गपूजायां रहितं सततं प्रिये ।
तद्राज्यं पतितं मन्ये चिताभूमिसमं स्मृतम् ॥
ब्रह्मविच्चापि देवेशि यदि लिङ्गं न पूजयेत् ।
तत्क्षणात् परमेशानि चाण्डालतां व्रजेत् ॥
शूद्रश्च परमेशानि सदा सुरवर प्रिये ।
पूजयेत् शिवलिङ्गन्तु चत्वारो ब्राह्मणादयः ॥
शिवपूजासु चार्वङ्गि यद्गृहं वर्जितं सदा ।
विष्ठागर्तसमं तस्य तद्गृहं विद्धि पार्वति ॥
अन्नं विष्ठा पयो मूत्रं तस्य वेश्मनि कामिनि ।
शिवपूजां विना देवि अन्यपूजां करोति यः ॥
सर्वं विष्ठासमं तस्य पूजानैवेद्यमेव च ।
अन्नं विष्ठासमं तस्य पयोमूत्रं वरानने ॥
कान्तो वा चेश्वरो वापि * चो वा परमेश्वरि ।
आदौ नित्यं प्रपूज्याथ बिल्वपत्रे वरानने ॥
प्. ३)
पश्चादन्यं महेशानि शिवं प्रार्थ्य प्रपूजयेत् ।
अन्यथा मूत्रवत् सर्वं शिवपूजां विना प्रिये ॥
यत्कृतं गन्धनैवेद्यं धूपं दीपं तथा प्रिये ।
पाद्यं चार्घ्यमाचमनीयं घृतं मधु सशर्करम् ॥
दधिदुग्धं महेशानि नानापुष्पं मनोहरम् ।
फलं सर्वविधं भद्रे आम्रं द्राक्षाफलं तथा ॥
पनसन्तु तथा सर्वं विष्ठासमं भवेत् प्रिये ।
तस्मात् सर्वासु पूजासु प्रथमं लिङ्गपूजनम् ॥
सर्ववेदेषु तन्त्रेषु पुराणेषु वरानने ।
गीयते परमेशानि प्रथमं लिङ्गपूजनम् ॥
शिवपूजां विना देवि नास्ति पूजा कदाचन ।
स्वर्गे मर्त्ये च पाताले शिवपूजा गरीयसी ॥
ब्रह्माण्डवासिनां देवि शिवपूजा सदा धनम् ।
शिवपूजां विना देवि अन्यपूजां करोति यः ॥
स एव रसनाहीनः कुम्भीरो जायते प्रिये ।
शिवपूजा महेशानि सर्वधर्मसु शस्यते ॥
सर्वधर्मसु यद्धर्म सर्वदानेषु यद्धनम् ।
तद्धनं समवाप्नोति शिवपूजाक्रियादिभिः ॥
तस्मात्सर्व प्रयत्नेन शिवपूजां सदा प्रिये ।
निर्माय पार्थिवं लिङ्गं रुद्रं संहाररूपिणम् ॥
प्. ४)
आशुतोषं महादेवं शाश्वतं वृषभध्वजम् ।
निर्माय विधिवल्लिङ्गं विधिवत् पूजयेत् शिवम् ॥
रहस्यं विधिवद्देवि कृत्वा मोक्षमवाप्नुयात् ।
अर्चयेद्विविधैः पुष्पैर्गन्धैश्च सुमनोहरैः ॥
पुष्पैरनेक जातीयैः फलैर्बहुविधैस्ततः ॥
॥ इति लिङ्गार्चनतन्त्रे हरपर्वातीसंवादे प्रथमः पटलः
श्रीदेव्युवाच-
इन्द्रियरहितो देव शून्यरूपः शिवः स्मृतः ।
शिवस्य कारणं नास्ति किं तस्य पूजनं ततः ॥
ईश्वर उवाच-
साधु पृष्ठं महेशानि शृणु वक्ष्यामि पार्वति ।
प्रेत पूजा महेशानि कदाचिनास्ति भामिनि ॥
रुद्रस्य परमेशानि रौद्रीशक्तिरिति स्मृता ।
ज्येष्ठा च वैष्णवी शक्तिर्यथा विष्णोः प्रकीर्तिता ॥
वामा तद्ब्रह्मणः शक्तिर्यथा भवति कामिनि ।
रुद्रस्य परमेशानि रौद्री शक्तिस्तथा स्मृता ॥
रुद्रं हि परमेशानि महाकुण्डलिनीयुतम् ।
वर्तते सततं देवि ब्रह्मविष्णुशिवेषु च ॥
सार्द्धत्रिवलयाकारैः शिवं वेष्ट्य सदास्थितम् ।
शक्तिं विना महेशानि प्रेतत्वं तस्य निश्चयम् ॥
शक्तिसंयोगमात्रेण कर्ता हर्ता महेश्वरः ।
अत एव महेशानि पूजयेत् शिवलिङ्गकम् ॥
प्. ५)
शिवशक्त्योर्महेशानि एकदा यदि जायते ।
तदैव परमं ज्ञानं सर्ववेदेषु सम्मतम् ॥
सर्ववेदेषु तन्त्रेषु पुराणेषु वरानने ।
एकदा शिवशक्त्योस्तु परमं ज्ञानमुच्यते ॥
अत एव महेशानि शिवं नित्यं प्रपूजयेत् ।
पूजयेत् परमेशानि चत्वारो ब्राह्मणादयः ॥
संपूज्य परया भक्त्या निर्वाणं याति पूजकः ।
शिवपूजा महेशानि यद्गृहे सततं प्रिये ॥
काशीपुरं महेशानि तद्गृहं विद्धि पार्वति ।
शिवलिङ्गं प्रपूज्याथ सर्वपूजाफलं लभेत् ॥
श्रीदेव्युवाच-
शिवलिङ्गं महादेव परमज्ञानसंयुतम् ।
साक्षाद्ब्रह्म महादेव कृपया कथय प्रभो ॥
शिवलिङ्गार्चनं देव साक्षादुक्तं न संशयः ।
ईश्वर उवाच-
शृणु देवि प्रवक्ष्यामि तव भक्त्या वरानने ।
पूजयेत् परमेशानि सर्व ब्रह्माण्डवासिनः ॥
मृत्युञ्जयपुरं गत्वा ब्रह्माद्यास्त्रिदिवौकसः ।
शिवशक्तिमये गेहे तिष्ठन्ति त्रिदशादयः ॥
सर्वं ज्ञानमयं द्रष्ट्वा तावद्दृष्ट्यादिभिः प्रिये ।
चतुर्युगं नाभसस्तु एवं हि गतवान् प्रिये ॥
तदन्ते प्रलयस्तावान् द्राक्षीरात्रिः प्रगीयते ।
एवमेव प्रकाशेन प्रलयं नाभसो गतः ॥
ब्रह्माद्या परमेशानि प्रेतत्यं गतवान् प्रिये ।
ततस्तु शतवर्षान्ते रौद्री रुद्रमुखात् प्रिये ॥
भावितः परमेशानि अग्निपर्वत सन्निभः ।
जलादिकं महेशानि तत्क्षणात् भस्मसात्कृतः ॥
दृष्ट्वाश्चर्यं महेशानि कौतुकं मम जायते ।
भस्मञ्च परमेशानि गृहीत्वा परमं पदम् ॥
विलिप्य देहे देवेशि भस्म श्रीमन्त्रसन्निभम् ।
क्षणमात्रं महेशानि ध्यानस्थोऽहं नगात्मजे ॥
भस्मराशिगते लोके सदेवासुरमानुषे ।
विभाव्य परमेशानि हृदये परमेश्वरि ॥
भावनात् परमेशानि लक्षवर्षं गतं मम ।
ध्यानभावं महेशानि यदा मम शुचिस्मिते ॥
तदैव परमेशानि कामिनी वृषरूपधृक् ।
संमुखे दर्शनं दत्वा किञ्चिद्वाक्यं च मां प्रति ॥
उवाच शुभया वाचा सुन्दरं कमलेक्षणे ।
मृत्युञ्जय महाबाहो वाक्यं मे शृणु सत्वरम् ॥
यद्दृष्टं हृदये देव साहं शान्तिस्वरूपिणी ।
कामिनी वृषरूपेण साक्षाद्धर्मो न संशयः ॥
आकर्ण्य मम पूर्वोक्तं पार्थिवं शिवमर्चय ।
शक्तिरूपी महादेव कामिनी सततं सदा ॥
प्. ७)
नाम्ना नन्दी महादेव वाहनं तव सुन्दरः ।
धर्मराजेति लोकेऽस्मिन् गीयते मां महेश्वर ॥
उल्लूकोऽहं महादेव गीयते सततं जनाः ।
शक्तिरूपी अहं देव किञ्चिन्नास्त्यत्र संशयः ॥
शक्तिपुञ्जं महादेवं सर्वं त्वयि प्रतिष्ठितम् ।
अत एव महादेव धर्मराट् शक्तिरूपिणी ॥
वृषरूपं समास्थाय उल्मुकोऽहं महेश्वरः ।
सर्वं प्रेतमयं दृष्ट्वा शक्तिराविर्भूता प्रभो ॥
अत एव महादेव नम्ना निरञ्जन संज्ञकः ।
उकारश्च उमादेवि ऊकारं कामिनी प्रभो ॥
नकारं पृथिवी देवी विद्धित्वं गुणसागर ।
ककारञ्च महादेव सदा ते उ * * ते जिनं ॥
अत एव महादेव नाम्ना उल्लूक योगधृक् ।
सर्वयोगेश्वरस्त्वं हि सततं मृत्युनाशकः ॥
सर्वदेवाः सगन्धर्वा हरिर्वृक्षादयस्तथा ।
प्रेतत्वं गतवान् सर्वं देववृक्षान्तवासिनः ॥
प्रेतत्वरहितं देव त्वं हि वृक्षः सनातनः ।
अनन्ताः शक्त्यो देव त्वययंशे विद्यते विभो ॥
यकारस्यान्तिमो विन्दुः त्वं हि देव निरञ्जनः ।
यद्बीजं सप्तमं देव यकारस्य तपोधन ॥
प्. ८)
शक्तिपुञ्जं महादेव स एव सर्गवान् विभो ।
भृगुस्तु परमेशान त्वं गतिभिर्यदा प्रभो ॥
तदैव परमेशान स्थिति सृष्टिं भवेद् ध्रुवम् ।
त्वं देवा परमेशान भृगुबीजं हि गच्छति ॥
प्रलयं परमेशान तत्क्षणात् जायते ध्रुवम् ।
मृत्युञ्जयपदात्त्वं हि सदाशक्त्या प्रसादतः ॥
आरुह्य मम पृष्ठे तु पार्थिवं शिवमर्चय ।
ईश्वर उवाच-
उल्मुकस्य वचः श्रुत्वा वृषमारुह्य पार्वति ।
यत्कृत परमेशानि सत्वरं तच्छृणु प्रिये ॥
यत्कृतं पार्थिवं लिङ्गमर्चनम् अवधारय ।
आरुह्य वृषभेऽन्तस्थे उल्मुके शक्तिरूपिणी ॥
साक्षाद्वक्षमयं देवि आरुह्य यत् कृतं मम ।
शिवलिङ्गं विनिर्माय अन्तस्थानं शुचिस्मिते ॥
भूतशुद्धिं महेशानि प्राणायामं तथा प्रिये ।
अन्तर्न्यासं बहिर्न्यासं मातृकाद्या शुचिस्मिते ॥
यानि यानि महेशानि श्रीकण्ठादीनि पार्वति ।
बहूनि परमेशानि न्यासानि कथितं मया ॥
पूर्वतन्त्रे महेशानि यदुक्तं परमेश्वरि ।
कृत्वा तु सर्वं कृत्स्नेन बहुधा परमेश्वरि ॥
भूतशुद्धौ महेशानि लक्षवर्षं गतं मम ।
दृष्ट्वानन्दमयीं देवीं हृत्पद्मे परमेश्वरि ॥
प्. ९)
शक्तिपुञ्जं महेशानि दृष्ट्वा देविञ्चराचरम् ।
सुषुम्नान्तर्गता देवि तत्रस्थां परमेश्वरीम् ॥
सूक्ष्माति सूक्ष्मा परमां यवासिन्दूर आकृतिं ।
वर्तन्ते देवतास्तत्र वृक्षाद्याश्च तदा शिव ॥
तां दृष्ट्वा परमेशानि अन्तरात्मनि पार्वति ।
लक्षवर्षं गते देवि उमुकोपरि पार्वति ॥
सम्पूज्य प्रथमं धर्मं वाहनं मम पार्वति ।
उल्मुकं वृषभं देवि नाम्ना नन्दी प्रकीर्तितं ॥
कामिनी या तु सा देव सा तु धर्मादयः प्रिये ।
शक्तिं विना महेशानि स्वां धर्तुं कथमुत्सहे ॥
अनन्ताः शक्तयो देवि सर्वं मयि शुचिस्मिते ।
शक्तित्वात् परमेशानि मां हि धर्तुं समुत्सहे ॥
शक्तिः स्वयं महेशानि धर्मश्चापि वृषः स्वयं ।
प्रथमं परमेशानि धर्म्मं संपूज्य सत्वरम् ॥
ततस्तु परमेशानि पार्थिवं लिङ्गपूजनम् ।
कृत्वा क्रमेण पश्चाद्धि दृष्ट्वा तु पत्रकं सदा ॥
श्री देव्युवाच-
देव देव महादेव सृष्टिस्थित्यन्तकारकः ।
पूजनं धर्मराजस्य यथार्थं वद शङ्कर ॥
ईश्वर उवाच-
आसनं मम चार्वङ्गि स्वयं धर्मस्वरूपिणि ।
आसनं प्रथमं पूज्य धर्मपूजां यथा कृतिम् ॥
प्. १०)
निगदामि महेशानि सावधानावधारय ।
पूर्वोक्ततन्त्रवत्सर्वं स्नानमाचमनं प्रिये ॥
शक्तिक्रमेण देवेशि कृत्वा सर्वं वरानने ।
धर्मबीजेन देवेशि यदुक्तं परमेश्वरि ॥
कृत्वा तु बहुयत्नेन मातृकान्यासपूर्वकम् ।
पूर्वोक्त तन्त्रवद्देवि प्रथमं परमेश्वरि ॥
कृत्वा तु भूतशुद्धिं वै मातृकान्यासमाचरेत् ।
प्राणायामं ततः कृत्वा अर्घ्यस्थापनमाचरेत् ॥
पूर्वोक्ततन्त्रवद्देवि अर्घ्यं परमदुर्ल्लभं ।
वर्ममन्त्रं वरारोहे तत्रस्थो जपमाचरेत् ॥
सर्वं हि पूर्ववत्कृत्वा कामिनीं धर्मरूपिणीं ।
ध्यात्वा तु परमेशानि हृत्पद्मे परमेश्वरीं ॥
ध्यानं शृणु वरारोहे साक्षादानन्दरूपिणं ।
कोटिचन्द्रप्रभाकारं श्वेतसिंहासनस्थितम् ॥
चतुर्भुजं महाबाहुं पद्मनेत्रं मनोहरं ।
आजानुलम्बिनी माला हृदि यत्परिशोभिता ॥
गङ्गातरङ्गकर्पूरं शुभ्राम्बरविभूषितं ।
हास्ययुक्तं कटाक्षञ्च भुवनत्रयमोहनम् ॥
उल्मुकं भावयेद्देवं साक्षाद्धर्मं त्वकारणम् ।
ध्यात्वैवं मनसा देवि हृत्पद्मे परमेश्वरि ॥
प्. ११)
संपूज्य परमेशानि मानसैः परमेश्वरि ।
जपञ्च मानसं कृत्वा धर्ममन्त्रं शुचिस्मिते ॥
धर्ममन्त्रं महादेवि शृणु वक्ष्यामि कामिनि ।
यन्नोक्तं सर्वतन्त्रेषु इदानीं कथयामि ते ॥
प्रणवं पूर्वमुद्धृत्य दन्तिबीजं ततः प्रिये ।
वर्णबीजयुतं कृत्वा मुद्रा?युक्तं ततः कुरु ॥
धर्मशब्दं चतुर्थ्यन्तं वह्निजाया ततः ।
एषा सप्ताक्षरी विद्या चतुर्वर्गफलप्रदा ॥
लक्षं जप्त्वा महेशानि समर्प्य दक्षिणे त्यजेत् ।
आरुह्य धर्मरूपे च वृषे उल्लूकसंज्ञके ॥
संपूज्य पार्थिवं लिङ्गं विधिना येन पार्वति ॥
॥ इति लिङ्गार्चन तन्त्रे हरपार्वतीसंवादे द्वितीयः पटलः ॥
ईश्वर उवाच-
स्वगात्रे भस्म आदाय लिङ्गं निर्माय कामिनि ।
भस्माभावे महेशानि लिङ्गं कुर्याच्च मृण्मयम् ॥
दृष्ट्वा तु विस्मयाविष्टो सततं नगनन्दिनि ।
किं करोमि क्व पृच्छामि इति चिन्ताकुलाम्यहम् ॥
शरीरस्थं महेशानि भस्म आदाय यत्नतः ।
स्वगात्र स्पर्शनाद्भस्म साक्षात्तु चन्द्रचन्दनम् ॥
॥ ओं विं धर्माय स्वाहा ॥
प्. १२)
हस्ते गृहीत्वा देवेशि भस्मस्थं चन्दनप्रभं ।
मातृकामन्त्रमुच्चार्य अनुलोम विलोमतः ॥
गङ्गाजलैः श्लथं कृत्वा निर्माय पार्थिवं शिवम् ।
जटासु च स्थिता गङ्गा सततं परमेश्वरि ॥
गङ्गा त्रिजगतां माता सर्वदा पापहारिणी ।
आदिभूता जगन्माता साक्षात् शक्तिस्वरूपिणी ॥
अत्रेहान्यं प्रवक्ष्यामि गुरूं परमदुर्लभम् ।
भारनाशाय विष्णुश्च स्थितो यदा अभूत्प्रिये ॥
कृष्णनाम्ना महेशानि कारणं तस्य संशृणु ।
ब्रह्मशापभवात् कृष्ण पिप्पलस्थो यमाश्रितः ॥
तत्र व्याधोदुराधर्षो कृष्णस्य चरणश्रिये ।
विव्याध कृष्णं सव्याधः शापं संनम्य निर्मितम् ॥
लोहनिर्मितवाणेन कृष्णस्य चरणे रुषा ।
व्यधिते परमेशानि कृष्ण * * करः सदा ॥
स्वधामं गतवान् देवि वृक्षदण्डहतः प्रिये ।
जाज्वल्यमानं तत् शापं कृष्णस्य चरणे सदा ॥
दाहयामास सर्वं हि कृष्णस्य चरणं तदा ।
वृक्षशापं स्वचाधर्मं चरणे सततं स्थितं ॥
ददाह परमेशानि कृष्णस्य वपुरुत्तमं ।
सत्वरं प्रययौ विष्णुः कृष्णलोकं वरानने ॥
प्. १३)
सर्वं हि पूर्वं विज्ञातं कृष्णशापं वरानने ।
वृक्षञ्च कथयामास प्रणिपत्य वरानने ॥
विष्णोर्वाक्यं महेशानि श्रुत्वा कृष्णः प्रजापतिः ।
उवाच मधुरं वाक्यं विष्णवे प्रभविष्णवे ॥
शृणु वाक्यं महाविष्णो औषधं परमौषधं ।
औषधं जाह्नवीतोयं मम कमण्डलौ स्थितं ॥
पादौ प्रक्षाल्य देवेश निष्पापो भव सुन्दर ।
त्रिलोकजननीगङ्गा आदिशक्तिर्जगन्मयी ॥
हरिस्तु पादौ प्रक्षाल्य कमण्डलुजलात् प्रिये ।
आदौ शिवमिमं वन्द्य पादं पंचाननं ततः ॥
विन्यस्य परमेशानि तत्पापं मज्जनात् प्रिये ।
वैकुण्ठं प्रययौ शीघ्रं स हरिः परमेश्वरि ॥
ततः पादावनीयात् सा गत्वा त्रिपथगामिनी ।
भूमौ भागीरथी नाम तले भोगवती तथा ॥
स्वर्गे मन्द्रा महामाया विष्णोर्यशः प्रकाशिनी ।
सा गत्वा परमेशानि पुण्यरूपावधारणे ॥
जटाजूटे महेशानि सततं मम संस्थिता ।
पृथ्व्यप्तेजो महेशानि वायवाकाशं वरानने ॥
इदं तत्त्वं महाद्वारं सप्तावरणसंयुतं ।
प्रज्ञावेष्टितं सर्वं प्रलये मयि पार्वति ॥
प्. १४)
विभूति भूषणां देवि पृथिवीं विद्धि पार्वति ।
अपस्तु परमेशानि गत्वाश्नीयाज्जटातटे ॥
यत्तेजः परमेशानि तदग्निं विद्धि पार्वति ।
नासिकायां वहेद्वायु तद्वायुं विद्धि पार्वति ॥
आकाशं कण्ठदेशन्तु शिवस्य सततं प्रिये ।
महत्तत्त्वमहङ्कारं प्रकृतिः शक्तिरूपिणी ॥
शिवस्य परमेशानि शरीरे संस्थिता सदा ।
शरीरस्य महेशानि कारणं परमं पदम् ॥
अत एव महेशानि श्लथं कृत्वा तु चन्दनम् ।
निर्माय पार्थिवं देवि यथा पूजित वाहनम् ॥
तत्शृणुस्व च चार्वङ्गि गुह्यं परमदुर्लभम् ।
उत्तराभिमुखोभूत्वा उल्मुकोपरि पार्वति ॥
पद्मासनेनोपविश्य यत्कृतं परमेश्वरि ।
तत्सर्वं परमेशानि निगदामि शृनु प्रिये ॥
हस्तप्रमाणं लिङ्गां हि निर्माय परमेश्वरि ।
सर्वाङ्गसुन्दरं लिङ्गं सर्वावयव सुन्दरम् ॥
दिव्याकृतिं महेशानि साक्षात् रुद्रं सुरेश्वरि ।
वेष्टिता अञ्जली लिङ्ग प्रकृतिः परमेश्वरि ॥
द्वयोरेकतमाद्देवि परं ब्रह्म परं पदम् ।
तत्क्षणाज्जायते देवि किञ्चिन्नास्त्यत्र संशयः ॥
प्. १५)
उक्तञ्च पार्थिवं लिङ्गं मृत्स्नाभेदेन पार्वति ।
शुक्लं रक्तं तथा पीतं कृष्णञ्च परमेश्वरि ॥
शुक्लं तु ब्राह्मणे शस्तं क्षत्रिये रक्तमिष्यते ।
हरितं वैश्यजातौ तु कृष्णं शूद्रे प्रकीर्तितम् ॥
चन्दनञ्च महेशानि सर्वाजातिषु शस्यते ।
चन्दनं हि म्हेशानि विभूतिभूषणो मम ॥
तस्माद्धि चन्दनं भद्रे सर्वजातिषु शस्यते ।
ब्रह्माण्डमोहनं देवि चन्दनं मम लेपनम् ॥
दाहनात् परमेशानि शुक्लरूपञ्च भूषणं ।
ब्रह्माण्डबीजं देवेशि सर्वशक्तिमयं सदा ॥
शुक्लरूपं महेशानि तद्भस्म कमलानने ।
ब्रह्माण्डबीजं तद्भस्म ममाङ्गे सततं स्थितं ॥
चन्दनस्य तु लिङ्गं हि निर्माय यस्तु पूजयेत् ।
ब्रह्माण्डं पूजयेत्तेन महामोक्षप्रदायकम् ॥
शुक्लं हि पार्थिवं लिङ्गं निर्माय यस्तु पूजयेत् ।
स च विप्रो महेशानि त्रिवर्गकुलभाग्भवेत् ॥
क्षत्रियश्च वरारोहे रक्तं निर्माय पार्थिवं ।
पूजयेत् सततं यस्तु त्रिवर्गं कुलभाग्भवेत् ॥
हरितं पार्थिवं देवि निर्माय यस्तु पूजयेत् ।
स च वैश्यो महेशानि त्रिवर्गकुलभाग्भवेत् ॥
प्. १६)
कृष्णं हि पार्थिवं लिङ्गं निर्माय यस्तु पूजयेत् ।
स शूद्रः परमेशानि त्रिवर्गकुलभाग्भवेत् ॥
मृत्सूक्ते परमेशानि वर्णभेदेन सुन्दरि ।
संगृह्य मातृकामन्त्रैरनुलोमविलोमतः ॥
जप्त्वान्ते परमेशानि दशधा परमेश्वरि ।
इति मन्त्रं जप्त्वा वै मृत्सु प्राप्य वरानने ॥
सर्वशक्तिमये देवि मूर्तिके त्रिदशेश्वरि ।
निर्माय पार्थिवं लिङ्गं शिवपूजां करोम्यहम् ॥
द्वारं धर्मश्च कामश्च अर्थञ्चोक्तं त्वयीश्वरि ।
चतुर्वर्गप्रदे देवि नानारत्नविभूषिते ॥
त्वां विना परमेशानि ज्ञात्वा प्रोक्तं कुतः सुखं ।
अर्थकामौ च देवेशि त्वां विना न हि जायते ॥
ओं ह्रीं मूर्तिके दुष्कृति हरे ह्रीं ओं इति मन्त्र समुच्चार्य गृह्णीयात् भृत्तिकां
प्रिये ।
द्वादशाक्षरमन्त्रं च यदा मम हृदि स्थितं ।
अति गोप्यं महत्पूण्यं चतुर्वर्गप्रदायकम् ॥
अज्ञात्वा परमेशानि गृह्णीयाद्यस्तु मृतिकाम् ।
निष्फला तस्य सा पूजा पार्थिवस्य शिवस्य च ॥
ओं हराय इति मन्त्रेण गृह्णीयाद्वा शुचिस्मिते ।
निर्माणं मातृकामन्त्रैः ओं महेश्वराय इति प्रिये ॥
प्. १७)
उच्चार्य मातृकामन्त्रं शूलपाणे ततः परम् ।
सुप्रतिष्ठो भव इत्युच्चार्य मातृकां ततः ॥
प्राणं नियोजयेद्देवि पार्थिवे शिवलिङ्गके ।
प्राणपतिष्ठामन्त्रेण प्राणं नियोजयेत् ततः ॥
भूतशुद्धिं महेशानि प्रथमं परिकीर्तयेत् ।
पूर्वोक्तमन्त्रवत् कुर्यात् भूतशुद्ध्यादिकं च यत् ॥
ततस्तु मातृकान्यासं कुर्यात्परमयत्नतः ।
प्राणायामं ततः कुर्यात् शिवं ध्यात्वा शुचिस्मिते ॥
ध्यात्वा शिवं महादेवं सर्वदेवादिकारणम् ।
ध्यात्वा षोडशधा देवि वामनाड्यां वरानने ॥
वायुमापूर्य चार्वङ्गि ध्यानमार्गेण कामिनि ।
वायुधारणमाचर्य रेचकं कारयेत् सुधीः ॥
पूरकं धारकं देवि रेचकं परमेश्वरि ।
प्राणस्य सततं देवि प्राणायाममिदं स्मृतम् ॥
द्वादशाकुलमानेन प्राणं हि परिकीर्तितं ।
प्राणश्च परमेशानि आत्मज्ञानं शुचिस्मिते ॥
यस्तु प्राणं महेशानि सर्वाङ्गं परिकीर्तितम् ।
प्रदीपकलिकाकारं हृदये विद्यते प्रिये ॥
परं ब्रह्म महेशानि प्रदीपकलिका कृति ।
अन्तरात्मा महेशानि सर्वेषां हृदि विद्यते ॥
प्. १८)
अन्तरात्मा परब्रह्म शरीरं व्याप्य तिष्ठति ।
द्वयोस्तेजो वरारोहे शक्तिः प्रकृति रूपिणी ॥
प्राणायामस्य काले तु दृष्ट्वाश्चर्यं वरानने ।
यद्युक्तं परमं गुह्यं तन्निशामय योगिनि ॥
॥ इति लिङ्गार्चनतन्त्रे हरपार्वति संवादे तृतीयः पटलः
ईश्वर उवाच-
आत्मा ब्रह्ममयो भूत्वा यदुक्तं परमेश्वरि ।
तत्क्षणं परमेशानि दृष्टमानन्दमद्भुतम्
मनोमयं महेशानि कृत्वा तत्रैव पार्वति ।
सुधान्तरे महेशानि मनोभूत्वा वरानने
लक्षवर्षं महेशानि गतवान् परमेश्वरि ।
प्राणायामक्षणे देवि लक्षवर्षं गतं मम
यद्दृष्टं परमेशानि निर्दिष्टं तत् शृणु प्रिये ।
नातः परतरं किंचिद् वर्तते मम गोचरे
पर्यङ्कं परमेशानि आश्चर्यं रूपमद्भुतं ।
तत्र फेननिभां शययां नानावस्त्र विभूषिताम्
सा शयया परमेशानि महावस्त्रा सदाशिवः ।
तस्योपरि महेशानि सुप्तां त्रिपुरसुन्दरीम्
यवायावक सिन्दूरसदृशाकृति कामिनीम् ।
चतुर्भुजां त्रिनेत्राञ्च पञ्चबाणधनुर्धराम्
प्. १९)
वरदाभयमुद्रां च धारिणीं परमेश्वरीम् ।
दृष्ट्वानन्दमयीं लोलां लक्षवर्षं गतं मम
यदा च परमेशानि मम दृग्गोचरं गता ।
तदैव सहसा तु सूक्ष्मरूपमुपागता
ध्यानभङ्गो महेशानि तदैव मम सुन्दरि ।
तत्रैव दृष्टं ब्रह्माण्डं ब्रह्माद्यास्त्रि दिवौकसः
शक्तिं विना महेशानि नास्ति किञ्चिन्मयि प्रिये ।
शक्तिर्हि ब्रह्मणो रूपं शक्ति पुञ्जं वरानने
शक्तिं विना महेशानि न किंचिन्मम गोचरे ।
एवं हि क्रमशो देवि प्राणायाममनुत्तमम्
प्राणायामे कृते देवि मातृकान्यासमुत्तमम् ।
कृत्वा न्यासं महेशानि मातृकां विश्वमोहिनीं
अतः परं वरारोहे श्रीकण्ठन्यासमाचरेत् ।
श्रीकण्ठन्यासमात्रेण शिवोऽहं कमलानने
श्रीकण्ठं परमेशानि त्रैलोक्ये चापि वन्दितं ।
पूर्वोक्त तन्त्रवत्सर्वं विशेषार्ह्यं च कामिनि
सर्वं कुर्यान्महेशानि यत्नतः परमेश्वरि ।
ध्यायेत् शिवं महेशानि हृत्पद्मे कमलेक्षणे
हृत्पद्मे परमेशानि ब्रह्मज्ञानं मनोहरम् ।
जीवस्य स्थानमत्रोक्तं हृदयं परमं पदम्
प्. २०)
हृत्पद्मं द्वादशदलं सहस्रादित्यवर्चसम् ।
तन्मध्ये भावयेद्देवं शिवं मृत्युञ्जयं प्रिये
शुद्धस्फटिकसंकाशं पञ्चवक्त्रं महाप्रभम् ।
आजानुबाहु देवेशि रक्तपद्मच्छवीक्षणम्
किरीटिनं कुण्डलिनं केशराङ्क सुशोभितम् ।
सततं हास्ययुक्तञ्च दन्तपंक्तिविराजितं
रुद्राक्षशोभितं वक्षः जटाशोभितमस्तकम् ।
व्याघ्रचर्मपरीधानं दशबाहुविराजितं
एवं ध्यात्वा महादेवं सदा मृत्युञ्जयं प्रिये ।
शक्तियुक्तं महादेवं सर्वज्ञं सर्वमोहनम्
सर्वज्ञ चिन्तनं कृत्वा एकाङ्गं चिन्तयेत्ततः ।
एकाङ्गञ्च परित्यज्य समाधिर्जायते ततः
समाधिकाले देवेशि यत् तेजस्तूपजायते ।
तन्निशामय देवेशि ज्ञानं परमशोभनम्
सर्वज्ञञ्च परित्यज्य यत् तेजस्तूपजायते ।
स एव परमेशानि शिवो मृत्युञ्जयः प्रिये
प्रदीपकलिकाकारां प्रकृतिं विद्धि पार्वति ।
तत्र तेजसि देवेशि अद्भुतात्मा सदा स्थितः
अद्भुतात्मा महेशानि कार्यकारणवर्जितम् ।
भ्रमरं भ्रमरी बद्ध्वा हृत्पद्मे परमेश्वरि
योगस्थोऽहं महेशानि लक्षवर्षं गजो मम ।
एतस्मिन् समये देवि भ्रमरीं गतवान् प्रिये
आज्ञापुरं महेशानि तद्दृष्ट्वा भ्रमर प्रिये ।
तत्पश्चात् प्रद्ययौ शीघ्रं लोलत्वं कमलानने
कार्यञ्च कारणञ्चैव प्रकृतिं विद्धि पार्वति ।
एवं ध्यानपरो भूत्वा यत् कृतं तत् शृणु प्रिये
भ्रमरश्च महेशानि भ्रमर्या सह सुन्दरि ।
ज्ञानपाशेन विज्ञातो अन्योन्यं च शुचिस्मिते
षट्पद्मसंस्थितो भूत्वा मधुपानयुतः सदा ।
भ्रमरी परमेशानि साक्षान्मोक्ष प्रदायिनी
यत्र यत्र महेशानि भ्रमरी याति सुन्दरी ।
तत्र तत्र महेशानि भ्रमरः प्रययौ द्रुतम्
भ्रमरीं तु गते देवि योगभङ्गमभून्मया ।
योगस्थे सति चार्वङ्गि षट्पुरं परमाद्भुतम्
षट्पुरीपरमेशानि सदा ज्योतिर्मयी प्रिये ।
पूरीं ज्योतिर्मयीं दिव्यां परमामृतपूरिताम्
दृष्ट्वा पद्मवनं भद्रे कदाचिन्न निवर्तते ।
भ्रमरी मम देवेशि नहि याति वनात् प्रिये
श्रीदेव्युवाच-
तत्कथं परमेशान भ्रमरस्तत्र जायते ।
ज्ञानपाशं महेशान चिद्व्योम प्रययौ कथम्
प्. २२)
ईश्वर उवाच-
भ्रमरी चाङ्गना देवि पक्षि यस्यानुगामिनी ।
अत एव महेशानि योगमङ्गममून् मम
अत एव महेशानि बाह्यपूजां समाचरेत् ।
भेत्तुरभिमुखो भूत्वा उल्मुकोपरि पार्वति
उपविश्य महेशानि यथा पूजितवाहनः ।
निगदामि शृणु प्रोक्तं तत्सर्वं वरवर्णिनी
अन्तःपूजां विधायैवं बाह्यपूजां यथा कृतम् ॥
॥ इति लिङ्गार्चनतन्त्रे हरपार्वतीसंवादे चतुर्थः पटलः
ईश्वर उवाच-
पूर्वोक्तं तन्त्रवत् सर्वप्रथमं परमेश्वरि ।
कृत्वा तु बहुयत्नेन बाह्यध्यानं समाचरेत् ॥
पूर्वोक्त ध्यानं देवेशि कृत्वा पुष्पं विनिक्षिपेत् ।
मण्डपं रक्तवर्णं हि चतुर्द्वारसमन्वितम् ॥
सुवेशं सुन्दरं रम्यं प्रस्तूय परमेश्वरि ।
नन्दिपृष्ठे महेशानि कृत्वा तु चन्दनोपरि ॥
चतुरस्रं चतुर्द्वारं परमज्ञानसंयुतं ।
आत्मदक्षिणवेद्यां हि पूर्ववेद्यां शृणु प्रिये ॥
पूर्वस्यां दिशि या वेदी अन्तरात्मा तु गीयते ।
या वेदी उत्तरे देवि परमात्मा सा च गीयते ॥
या वेदी पश्चिमे देवि ज्ञानात्मा सा च गीयते ।
चतुरस्रे चतुष्कोणे अणिमाद्यष्ट सिद्ध्यः ॥
प्. २३)
वर्तन्ते सततं देवि नात्र कार्या विचारणा ।
अणिमा पूर्ववेद्यां च महिमा वह्नि कोणके ॥
व्याप्तिस्तु याम्यवेद्यां वै नैर्-ऋते प्राकाम्य पार्वति ।
महिमा पश्चिमे देवि ईशिता वायुकोणके ॥
वशिता ऊर्ध्वे देवेशि ऐशाने कामसुन्दरी ।
तन्मध्ये परमेशानि बिन्दुं निर्माय सुन्दरम् ॥
तन्मध्ये परमेशानि कामबीजं वरानने ।
विलिख्य बीजं देवेशि सर्वशक्तिमयं प्रिये ॥
चतुरस्रं हि संवेष्ट्य कुण्डली द्वितयं प्रिये ।
संलिख्य परमेशानि कुण्डलीं विश्वमोहिनीम् ॥
चतुरस्रे महेशानि चतुरस्रं प्रणवं लिखेत् ।
ततस्तु परमेशानि अष्टबीजं क्रमाल्लिखेत् ॥
तद्बीजं परमेशानि क्रमाद् वक्ष्यामि संशृणु ।
बिन्दूर्ध्वसंयुतं देवि संलिख्य अभयं प्रिये ॥
बिन्दूर्ध्वसंयुतं कृत्वा पृथिवीबीजं ततः परम् ।
शक्तिबीजं महेशानि बिन्दुर्ध्वसंयुतं प्रिये ॥
पुनः शक्तिं महेशानि संलिख्य पूर्ववत् सदा ।
पपञ्चमं महेशानि कृत्वा बिन्दूर्ध्वसंयुतं ॥
वामाक्षिसंयुतं बिन्दुं कृत्वा परमयत्नतः ।
वलबीजयुतं कृत्वा संलिख्य परमेश्वरि ॥
प्. २४)
अष्टबीजं महेशानि अष्टैश्वर्य प्रदायकम् ।
सर्वं वेष्ट्य महेशानि महाकुण्डलिनी प्रिये ॥
संलिख्य चञ्चलापाङ्गि मन्त्रं ब्रह्माण्डरूपिणम् ।
द्वारस्य बाह्यकोणे तु अष्टपद्मं शुचिस्मिते ॥
संलिख्य बहुयत्नेन सुन्दरं सुमनोहरं ।
एतन्मात्रं वरारोहे सदा मम हृदि स्थितम् ॥
एतन्मन्त्रप्रभावेण सिद्धोऽहं च नगात्मजे ।
एतन्मन्त्रं महेशानि सुरासुरसुदुर्लभम् ॥
अतः परं महेशानि निर्माणं शृणु पार्वति ।
हस्तमात्रप्रमाणेन चन्दनस्य महेश्वरि ॥
निर्माय विधिवल्लिङ्गं घटितं चन्दनेन च ।
आत्मनो हस्तमात्रं हि निर्माय सुरपूजिते ॥
संस्थाप्यमन्त्रमध्ये तु कामबीजोपरि प्रिये ।
सम्पूज्य ध्यानमाचर्य तस्योपरि विनिक्षिपेत् ॥
बिल्वपत्रं महेशानि ब्रह्मविष्णु शिवात्मकम् ।
गुणत्रयात्मकं देवि त्रिपत्रं सर्वदायकम् ॥
ततस्तु परमेशानि कृत्वा सङ्कल्पमानसम् ।
यथा पूर्वं महादेवं ब्रह्माण्डं स्थितवानसौ ॥
तथा भवतु ब्रह्माण्डं इति संकल्पमेव च ।
त गोप्यं मम देवेशि ननाम परमेश्वरि ॥
प्. २५)
न माता परमेशानि न पिता मम कामिनि ।
तस्मिन् काले महेशानि मम सर्वं न हि प्रिये ॥
न वारं न तिथिं देवि तस्मिन्काले शुचिस्मिते ।
न काष्ठां न कलां देवि तस्मिन्काले वरानने ॥
न दिवा परमेशानि न रात्रिं परमेश्वरि ।
अत एव महेशानि संकल्पं मानसं स्मृतम् ॥
मानसं यदि आयाति तदा स्थूलेन किं प्रिये ।
संकल्पं मानसं देवि चतुर्वर्ग प्रदायकम् ॥
स्थूलं हि परमेशानि सङ्कल्पं व्यर्थमुच्यते ।
सङ्कल्पेन विना देवि यत्किंचित् कृतवान् सुधीः ॥
यदुक्तं परमेशानि तत्सर्वं मानसं परम् ।
यदुक्तं परमेशानि मुनिना क्षुद्रबुद्धिना ॥
तत्सर्वं परमेशानि व्यर्थं भवति पार्वति ।
इति सङ्कल्पमाचर्य जीवन्यासं समाचरेत् ॥
जीवन्यासं महेशानि सावधानावधारय ।
प्राणापानसमानश्च उदानव्यान एव च ॥
पञ्चप्राणा इमे देवि हृदये मम विद्यते ।
हृदि प्राणो महेशानि अपानन्तु गुदे प्रिये ॥
नाभिदेशे समानन्तु उदानं कण्ठदेशतः ।
व्यानन्तु परमेशानि शरीरं व्याप्य तिष्ठति ॥
प्. २६)
एतान् वायून् महेशानि प्रणवेन समाचरेत् ।
प्रतिपद्मं महेशानि तेजः पुञ्जं प्रजायते ॥
वामनासापुटे नीत्वा तत्तेजः प्रणवे प्रिये ।
वामनासापुटे देवि लक्षं विश्राम्य पार्वति ॥
तदोजः परमेशानि जवाकुसुमसन्निभम् ।
शिवलिङ्गे विनिक्षिप्य तदोजः कमलानने ॥
इति कृत्वा महेशानि वायोर्मन्त्रं शृणुष्व मे ।
पञ्चमन्त्रं वरारोहे सावधानावधारय ॥
ओं प्राणाय इति देवेशि अन्ते स्वाहां समुच्चरेत् ।
ओं अपानाय स्वाहा इत्यन्तं सुरपूजिते ॥
ओं समानाय इति स्वाहान्तं सुरवन्दिते ।
ओं उदानाय स्वाहा इत्यन्तं मीनलोचने ॥
ओं व्यानाय इति स्वाहान्तं सर्वदा सदा ।
पञ्चमन्त्रं जपित्वा वै प्राणं न्यस्य शिवोपरि ।
धृत्वा शिवं महेशानि सततं ज्ञानमुद्रया ॥
प्राणप्रतिष्ठां देवेशि विशेषं शृणु पार्वति ।
ओं ह्रां ह्रीं यं रं लं वं शं षं सं हं क्षं सौं नमः शिवायेति उच्चार्य यत्
कृतं मया अस्य शूलपाणेः प्राणाः इह प्राणाः । पूर्वमन्त्रं
समुच्चार्य अस्य शूलपाणेः सर्वेन्द्रियाणि पुनः पूर्वमुच्चार्य अस्य
शूलपाणेः वाङ्मनः चक्षुः श्रोत्रं प्राण प्राणा इहागत्य चिरं
तिष्ठन्तु स्वाहा । इति ।
ततः पुनः समुच्चार्य ओं नमः शिवाय षडक्षरम् ।
इति मन्त्रं महेशानि उच्चार्य सप्तवा प्रिये ॥
प्. २७)
धृत्वान्ते परमेशानि लिङ्गं श्रीकण्ठनिर्मितं ।
अतः परं महेशानि पाद्यं दत्त्वा वरानने ॥
अर्घ्यञ्चाम्चमनीयञ्च दत्त्वा तु शिवालिङ्गके ।
पूर्वोक्तध्यानं देवेशि कृत्वाहं वरवर्णिनि ॥
कलकण्ठप्रिये देवि बिल्वपत्रैः शुचिस्मिते ।
ध्यानञ्च हृदयायान्तं कृत्वा पुष्पं शुचिस्मिते ॥
लिङ्गे निक्षिप्य देवेशि बिल्वपत्रं मनोहरं ।
ततस्तु परमेशानि आवाह्य परमेश्वरम् ॥
पूर्वोक्ततन्त्रवत्सर्वं कृत्वाहं जगदीश्वरि ।
तर्पणं त्रिविधं दत्त्वा आत्माभेदेन सुन्दरि ॥
ततस्तु प्रार्थनं मन्त्रं पठित्वा परमेश्वरि ।
आगच्छ देवदेवेश लिङ्गेऽत्र सुस्थिरो भव ॥
स्थितो भूत्वा महादेव पूजां गृहण नमोऽस्तुते ।
तव प्रसादाद्देवेश ब्रह्माण्डं रचयाम्यहम् ॥
ततस्तु षोडशैर्देवि उपचारैः पृथक् पृथक् ।
सम्पूज्य देवदेवेशं लिङ्गं श्रीकण्ठसम्भवम् ॥
ततस्तु अञ्जलिं देवि दत्तं भक्त्या शिवाय वै ।
सर्वं दद्यान्महेशानि लिङ्गे श्रीकण्ठसम्भवे ॥
एतस्मिन् समये देवि उल्मुकं सव्यविक्रमः ।
यदुक्तं मयि चार्वङ्गि निगदामि शृणु प्रिये ॥
॥ इति लिङ्गार्चनतन्त्रे हरपार्वतीसंवादे पञ्चमः पटलः
ईश्वर उवाच-
मृत्युञ्जय महाबाहो वचनं प्रथमे प्रभो ।
न शक्नोमि महादेव धर्तुं लिङ्गं कदाचन ॥
मम पृष्ठे महादेव द्वितीयं शिवमेव हि ।
स्थित्वान्तरिक्षे देवेशि धारयामि कथं प्रभो ॥
क्षमस्व देवदेवेश कृपां कुरुमयि प्रभो ।
नमस्ते देवदेवेश परमेशः पुरातनः ॥
नमस्ते जगतां नाथ मृत्युञ्जय नमोऽस्तु ते ।
उल्मुकस्य वचः श्रुत्वा किं करोमि इति प्रिये ॥
चिन्ताकुलोऽहं देवेशि तत्क्षणादपि पार्वति ।
ध्यानस्थोऽहं महादेवि तत्क्षणादपि पार्वति ॥
विभाव्य हृदये देवीं तडिन्मे * तनीमयीं ।
हृत्पद्मान्त स्थितां देवीं सुन्दरीं सूक्ष्मरूपिणीं ॥
साक्षान्मन्त्रमयीं दिव्यां षोडशीं मोक्षदायिनीं ।
इति रूपं महेशानि दृष्ट्वाश्चर्यं वरानने ॥
शीविद्यां परमां सूक्ष्मां मयाराध्यां शुचिस्मिते ।
सुषुम्नान्तर्गतां विद्यां धर्मकामार्थमोक्षदाम् ॥
परं ब्रह्ममयीं नित्यां शब्दब्रह्मस्वरूपिणीं ।
सिन्दूरसदृशाकारां यवायावकसन्निभां ॥
तरुणादित्य सङ्काशां प्रणम्य परमेश्वरीं ।
प्रजप्य परमेशानि श्रीविद्यां परमेश्वरीं ॥
प्. २९)
जपित्वा मानसे देवि दशधा परमेश्वरि ।
अन्तरात्मनि सा देवी यदुक्तं मयि पार्वति ॥
शृणु तत्साम्प्रतं गुह्यं ज्ञानसारं वदामि ते ।
माभैर्माभैर्महादेव मृत्युञ्जय सदाशिव ॥
मां विना परमेशान नास्ति किञ्चित्तपोधन ।
एतद्विश्वं महादेव सप्तावरणसंयुतम् ॥
सर्वमेतन्महादेव ब्रह्माण्डं मयि वर्तते ।
शक्तिं विना महादेव न किञ्चिद्विद्यते प्रभो ॥
शक्तिं विना महादेव जगत् शवमयं सदा ।
प्रलये सति देवेश मयि सर्वमुपस्थितम् ॥
कथिते सति चार्वङ्गि तदित् शक्तिपुरीं ययौ ।
ईश्वर उवाच-
यदुक्तं परमेशानि सा तडित् परमेश्वरि ।
शृणु गुह्यं महेशानि ज्ञानसारं वदामिते ॥
मृत्युञ्जय महाबाहो भ्रमश्च उपजायते ।
एतद्धिपूजनं देव भ्रमजन्यं सदाशिव ॥
श्रीविद्या परमाराध्या सर्वदा तव सुव्रत ।
तत्कथं परमेशान इष्ट विद्यां त्यजेत् प्रभो ॥
इष्टविद्यां प्रथमतो जप्त्वा देवि समर्चयेत् ।
एतद्धि केवलाद्देव बलहीनश्च उल्मुकं ॥
इदानीं स्मर देवेन्द्र मृत्युञ्जय सदाशिव ।
तस्या वाक्यं ततः श्रुत्वा प्रणम्य मोक्षरूपिणीम् ॥
प्. ३०)
तत उल्मुकमाश्वास्य कथितं यत् शृणु प्रिये ।
भो विश्व उल्मुकस्त्वं हि वदामि वरमुत्तमम् ॥
कलौ तु भारतेवर्षे प्रादुर्भावो भविष्यति ।
तव देव महाभाग उल्मुकं सत्यविक्रमः ॥
कामिनी त्वं महाभाग धर्मस्त्वं श्वेतरूपधृक् ।
कलौ तु तवपूजायां योऽन्यच्च मनसायुतं ॥
ब्राह्मणः क्षत्रियो वापि वैश्यो वा शूद्रजातयः ।
तत्क्षणात् परमेशानि तेषां व्याधिः प्रजायते ॥
योगभङ्गं महेशानि तत्क्षणात् मम जायते ।
इष्ट विद्यां न जप्त्वा वै विघ्नं तस्मात्प्रजायते ॥
जगत्शक्तिमयं सर्वं यो न वेत्ति स नारकी ।
योगभङ्गं महेशानि कृत्वा सुन्दरि यत्कृतम् ॥
तत्सर्वं शृणु चार्वङ्गि पार्थिवस्य मखं प्रिये ।
विभाव्य मुखपद्मं हि शिवस्य वरवर्णिनि ॥
सद्योजातं वामदेवं अघोरञ्च ततः परम् ।
तत्पुरुषं तथेशानं पञ्चवक्त्रं प्रकीर्तितम् ॥
सद्योजातञ्च वै शुक्लं शुक्लेन तेजसान्वितं ।
पीतवर्णं तथा सौम्यं वामदेवं मनोहरम् ॥
कृष्णवर्णमघोरञ्च समं भीम विवर्धनम् ।
रक्तं तत्पुरुषं देवं दिव्यमूर्तिं मनोहरम् ॥
प्. ३१)
श्यामलञ्च तथेशानं सर्वदेवशिवात्मकं ।
चिन्तयेत्पश्चिमेनाद्यं द्वितीयन्तु तथोत्तरे ॥
अघोरं दक्षिणे देवं पूर्वे तत्पुरुषं तथा ।
ईशानं मध्यतो ज्ञेयं चिन्तयेद् भक्तितत्परः ॥
पञ्चमन्त्रं महेशानि निगदामि वरानने ।
मृत्युञ्जयोऽहं देवेशि यज्जप्त्वा परमेश्वरि ॥
समस्तानां स्वराणान्तु दीर्घाः शेषाः सबिन्दुकाः ।
ऋ-ऌशून्याः सार्धचन्द्र प्रणवैः सहिता सदा ॥
पञ्चवक्त्रं महेशानि पञ्चभूतात्मकं सदा ।
पृथिवीं वायुबीजञ्च आप आकाशमेव च ॥
इति तत्त्वं महेशानि पञ्चभूतं परम्पदम् ।
सद्योजातक्रमेणैव भावयेत्परमेश्वरि ॥
क्रमात् सन्मद सन्मोह नाद गौरवसंज्ञकाः ।
प्रसादस्तु भवेत् पुष्टः पञ्चमन्त्राः प्रकीर्तिताः ॥
आमोदकारकः शम्भोर्मन्त्रः सन्मद् उच्यते ।
मनः प्रपूरं गत्वा च सन्मोहः परिकीर्तितः ॥
आकर्षणं महेशानि नादमन्त्रं प्रकीर्तितं ।
श्रेष्ठं हि गोरवं मन्त्रं धर्मार्थकाममोक्षदं ॥
प्रासादं परमेशानि विभवप्रदमुच्यते ।
एकैकेन तथैकैकं वक्त्रं मन्त्रेण पूजयेत् ॥
प्. ३२)
एकं समुदितं कृत्वा पञ्चभिर्वै प्रपूजयेत् ।
एतत्तत्त्वं महेशानि ज्ञानसारं शिवस्य हि ॥
सर्वेषां स्थावरादीनां ज्ञानसारं सुदुर्लभम् ।
तवभक्त्या मयाख्यातं ज्ञानसारं सुदुर्लभम् ॥
॥ इति लिङ्गार्चनतन्त्रे हरपर्वती संवादे षष्ठः पटलः
अपरञ्च महेशानि ज्ञानसारं शृणु प्रिये ।
यस्य स्मरणमात्रेण आपदः प्रलयं गताः ॥
ध्यायेन्नित्यं महादेवं रजताद्रिसमप्रभम् ।
हास्ययुक्तं प्रसन्नासां श्रवणे चन्द्रमण्डनम् ॥
आरक्तनयनं देवं पञ्चवक्त्रं मनोहरं ।
जटाजूटसमायुक्तं प्रतिवक्त्रत्रिलोचनम् ॥
योगपद्मसमासीनं मुण्डमाला विभूषणम् ।
विभूतिभूषणं देवं व्याघ्रचर्मपरिच्छदम् ॥
चतुर्भुजं महाकायं अक्षमालाधरं सदा ।
एवं हि चिन्तयेद्देवं देवदेवं सनातनम् ॥
एवं हि चिन्तयित्वा तु सर्वदेवेश्वरेश्वरम् ।
अणिमाद्यष्टसिद्धिवत्पूजां कृत्वा वरानने ॥
स्वस्वमन्त्रैः प्रपूज्याथ बिल्वपत्रैर्वरानने ।
चतुर्थ्यन्तं महेशानि कृत्वा सिद्धिन् शुचिस्मिते ॥
आदौ प्रणवमुच्चार्यं
यद्बीजं पुनरुद्धृत्य चतुर्थ्यन्तं शुचिस्मिते ।
बीजं हि पुनरुद्धृत्य प्रणवान्तं ततः परः ॥
अनेनैव विधानेन अष्टविद्या शुचिस्मिते ।
अष्टविद्यां महेशानि संपूज्य सुरवन्दिते ॥
प्रतिकोणे महेशानि चतुर्दिक्षु च सुन्दरि ।
सम्पूज्य विधिवद्भक्त्या जप्त्वा स्तुत्वा शुचिस्मिते ॥
कृत्वा पूजां महादेवि अष्टमूर्तिशिवस्य च ।
यथां परमेशानि तत् शृणुष्व वरानने ॥
द्वारदेशे महेशानि अष्टमूर्तिं प्रपूज्य वै ।
सिद्धोऽहं परमेशानि सम्पूज्य विधिवत्सदा ॥
अष्टमूर्तेर्महेशानि नामानि शृणु सुन्दरि ।
सम्पूज्य परया भक्त्या संमुखादिक्रमेण हि ॥
प्रयोगं शृणु चार्वङ्गि हृदयस्यं सदा मम ।
ओं शर्वाय क्षितिमूर्तये नमः ।
ओं भवाय जलमूर्तये नमः ।
ओं रुद्राय अग्निमूर्तये नमः ।
ओं उग्राय वायुमूर्तये नमः ।
ओं भीमाय आकाशमूर्तये नमः ।
ओं पशुपतये यजमानमूर्तये नमः ।
ओं महादेवाय सोममूर्तये नमः ।
ओं ईशानाय सूर्यमूर्तये नमः ।
कृत्वा पूजां महेशानि अनेन विधिना प्रिये ।
अपरैकं महेशानि ज्ञानसार वदामि ते ॥
अष्टविष्णुं महेशानि सम्पूज्य तदनन्तरम् ।
सम्पूज्य परमेशानि कुण्डल्या बाह्यवेष्टनि ॥
अष्टविष्णोर्महेशानि नामानि निगदामि ते ।
उग्रं विष्णुं महाविष्णु ह्यनन्तं संप्रतापनम् ॥
प्. ३४)
नृसिंहं भीषणं भीमं मृत्युमृत्युं प्रकीर्तितम् ।
एतान् विष्णु महेशानि यथा संपूज्य तत् शृणु ॥
संमायादिक्रमाद्देवि पूजितं विष्णुमव्ययम् ।
तन्मन्त्रं शृणु चार्वङ्गि ज्ञानसारं वरानने ॥
ओं उग्राय विष्णवे नम इति महाविष्णवे नमस्ततः ।
ओं अनन्ताय विष्णवे नम इति संप्रतापनाय विष्णवे नमः ॥
ओं नृसिंहाय विष्णवे नम इति भीषणाय विष्णवे नमः ।
ओं भीमाय विष्णवे नमः ।
ओं मृत्युमृत्यवे विष्णवे नमः ॥
इति पूजां महेशानि कृत्वाहं परमेश्वरि ।
विष्णुज्ञानं मया प्राप्तं सर्वशक्ति समन्वितम् ॥
षोडशैरुपचारैश्च पूजितं विष्णुमव्ययम् ।
ततः परं वरारोहे मन्त्रवाह्यं शुचिस्मिते ॥
सर्वेषां मातृणां माता पूजिता सुरवन्दिते ।
यदुक्तं पूर्वतन्त्रेषु मातृकामन्त्रमुत्तमम् ॥
एतैर्मन्त्रैर्महेशानि मातृकां पूजितां मया ।
अकारादि क्षकारान्तां मातृकां ब्रह्मरूपिणीम् ॥
सर्वेषां मातृभूता सा ऐश्वरी मातृरूपिणी ।
यां विना परमेशानि वाणी च जडतामियात् ॥
तां देवीं परमेशानि कलारूपेण साक्षिणीम् ।
पूजयित्वा यथान्यायं विधिवत्सुरवन्दिते ॥
रक्षार्थमात्मनो देवि ब्रह्माण्डस्य च सुन्दरि ।
या नारी परमेशानि मातृका सा शुचिस्मिते ॥
प्. ३५)
तस्मादादौ च मध्ये च अन्त्ये च नगनन्दिनि ।
संपूज्य मातृकां देवीम् अन्यथा विघ्नता भवेत् ॥
पूर्वोक्तमन्त्रवत्सर्वं मातृकामन्त्रमेव हि ।
पूजयित्वा यथा न्यायं गणेशं तदनन्तरम् ॥
संपूज्य परयाभक्त्या गन्धपुष्पादिभिः प्रिये ।
अतः परं वरारोहे दक्षिणे विष्णुमर्चयेत् ॥
वामे गौरीं महामायां संपूज्य परमेश्वरि ।
दक्षिणे ओं विष्णवे नम इति वामे गौर्यै नमस्ततः ॥
अनेन विधिना देवि संपूज्य लिङ्गमद्भुतम् ।
आम्तादि मन्त्रभेदेन त्रिवारं तर्पयेत् शिवम् ॥
अतः परं वरारोहे जपं कुर्याद्यथा प्रिये ।
तन्निशामय चार्वङ्गि ज्ञानसारं परात्परम् ॥
ततश्च हृत्पद्मान्ते ध्यात्वा लिङ्गं मनोहरं ।
पञ्चमन्त्रं महेशानि प्रजप्य वरवर्णिनि ॥
अकारादिक्षकारान्ता वर्तमाना प्रकीर्तिता ।
अनुलोमविलोमेन जप्त्वा लिङ्गं शुचिस्मिते ॥
सुषुम्नान्तर्गतां चित्रां जपमालां वरानने ।
मालां सूक्ष्मां महेशानि नानाचित्रविचित्रिताम् ॥
सुषुम्नान्तर्गता या तु सा नाभि मुच्यते ।
शिवशक्तिमयी सा तु सततं कमलानने ॥
प्. ३६)
जपमालां गृहीत्वा तु जप्त्वा लक्षं शुचिस्मिते ।
सहस्रारे महापद्मे दृष्ट्वा चानन्दमद्भुतम् ॥
आनन्दं ब्रह्मणो रूपं इयं प्रकृति रूपिणी ।
सदाशिव महाप्रेत दृष्टा शक्तिपुरी प्रिये ॥
मालां नित्यनतां देवि कृत्वा तत्रैव लीयते ।
तदक्षरं महेशानि लक्षं जप शुचिस्मिते ॥
एतस्मिन् समये देवि मनोब्रह्मणि लीयते ।
सदाशिवपुरो देवि दृष्ट्वा शक्तिं सुधामयीम् ॥
यद्वा षडक्षरं जाप्यं यदुक्तं तत् शृणु प्रिये ॥
॥ इति लिङ्गार्चनतन्त्रे हरपार्वती संवादे सप्तमः पटलः
ईश्वर उवाच-
सूक्ष्माति सूक्ष्मां परमां यवा सिन्दूरसन्निभाम् ।
चतुर्भूजां त्रिनेत्रां च पञ्चबाण धनुर्धराम् ॥
रक्तवस्त्रपरीधानां किङ्किणी कटिशोभिताम् ।
नूपुरादिरणत्कारैः शोभितां परमेश्वरीम् ॥
शङ्खकङ्कणकेयूर वलयादि विभूषिताम् ।
स्तनद्वययुतां देवीं तारहार विराजिताम् ॥
सर्वदेवमयीं देवीं सर्वदेवमयीं शिवां ।
ब्रह्मविष्णुशिरोरत्न निधृष्टचरणाम्बुजाम् ॥
अभयं वरदं चैव मुद्राद्वय विधारिणीम् ।
गङ्गाञ्च यमुनाञ्चैव शोणञ्च नयनस्थिताम् ॥
सिन्दूरमसृणं यस्याः प्रातरारुणसन्निभाम् ।
एवं दृष्ट्वा महेशानि आनन्दं मम जायते ॥
प्. ३७)
विस्मृतोऽहं महेशानि सडक्षरजपं प्रिये ।
श्रीविद्यां परमेशानि मुक्ंहे तस्याः शुचिस्मिते ॥
श्रीविद्यां परमेशानि सदा मम हृदि स्थिताम् ।
तथा च कालिकां विद्यां तस्याः कण्ठे विराजते ॥
अथ दशमहाविद्याया उत्पत्तिः
भुवनेशीं महाविद्यां तस्या दक्षिणबाहुषु ।
वामबाहौ महेशानि तस्यास्तु भैरवी प्रिये ॥
हृदये छिन्नमस्ता च तस्यास्तु परमेश्वरि ।
मातङ्गी वगलादेवी तस्याः पादद्वये तथा ॥
तस्या नाभौ महेशानि लक्ष्मीञ्च कमलानने ।
तस्याः मौलौ महेशानि स्वयं महिषमर्दिनी ॥
पञ्चाशन्मातृकां देवीं पञ्चाशत् स्थानसन्धिषु ।
तिष्ठन्ति परमेशानि स्वस्वरूपादिभिः प्रिये ॥
सर्वागममयीं देवीं सुन्दरीं मोक्षरूपिणीं ।
तस्या मुखे महेशानि दृष्ट्वा विद्यां पराक्षराम् ॥
तां विद्यां परमेशानि दृष्ट्वा हृदयपद्मसु ।
निर्वच्य परमं ज्ञानं श्रीविद्यामन्त्रमुत्तमम् ॥
जपित्वा परमेशानि लक्षं मानससंभवम् ।
आत्मना मनसो देवि कृत्वा संयोगमुत्तमम् ॥
एवं जप्त्वा महेशानि लक्षवर्षं गतो मम ।
स्वाहागमो महेशानि अजपाद्व्यक्षरात्मकम् ॥
स्वयमात्मा महेशानि तस्याः शिरसि वर्तते ।
अतः परं वरारोहे भ्रमरीं गतवान् प्रिये ॥
प्. ३८)
भ्रमरेण सह शीघ्रं भ्रमरी नागनन्दिनि ।
मूलाधारं ययौ देवि मधुपानाय कामिनी ॥
बद्ध्वा तु भ्रमरी देवि मुखन्तूर्ध्वं शुचिस्मिते ।
सदाशिवपुरे रम्ये यत्रास्ते मोक्षरूपिणी ॥
लक्षं हि मानसं जप्त्वा श्रीविद्यां परमेश्वरीम् ।
योगं मम महेशानि तत्क्षणात् भङ्गतामियात् ॥
भ्रमरः परमेशानि सृष्ट्यादीनां शुचिस्मिते ।
भ्रमरीं सिद्धिहस्ताञ्च बध्वायाति पुरीं पुरीम् ॥
बद्ध्वा तु भ्रमरं देवि ब्रह्मरूपं निरञ्जनम् ।
सर्वेषां परमेशानि सृष्ट्यादीनां शुचिस्मिते ॥
भ्रमरः कारणं देवि मोक्षादीनां न संशयः ।
भ्रमरी तु महेशानि भ्रमरस्य च कारणम् ॥
कार्यञ्च कारणं देवि भ्रमरी कमलानने ।
भ्रमरानुगः सदात्मा च भ्रमर्या अनुगतौ च तौ ॥
सर्वेषां कारणं देवि भ्रमरी सिद्धिधारिणी ।
या सिद्धीः सिद्धिसूत्राणां सर्वमावृत्य तिष्ठति ॥
भ्रमरः परमेशानि साक्षाद्ब्रह्मयः सदा ।
भ्रमरी उन्मनी देवि साक्षान्मोक्षस्वरूपिणी ॥
स्थित्वा पद्मवते देवि मधुपानं करोति हि ।
दृष्ट्वा मोक्षप्रदां नित्यां साक्षान्मोक्षस्वरूपिणीम् ॥
तदैव सहसा जातं ज्ञानसारं मम प्रिये ।
ईश्वर उवाच-
अपरैकं शृणुज्ञानं परमं पद्ममुत्तमम् ।
त्रिगुणैर्धारितां देवि दृष्टाश्चर्यं मम प्रिये ॥
त्रिगुणं परमेशानि रुद्रविष्णुपितामहाः ।
सर्वे ते परमेशानि स्त्रीरूपा परमेश्वरि ॥
या वामा परमेशानि ब्रह्मा साक्षाच्चतुर्मुखः ।
रजोगुणान्विता वामा सिन्दूराकृति रूपिणी ॥
या विष्णु परमेशानि सदा सत्त्वगुणात्मकः ।
शुक्लाकारा महेशानि सदा पालनकारिणी ॥
चतुर्भुजा महेशानि शङ्खचक्रगदाधरा ।
सनकाद्यैः स्तुता दृष्टा आश्चर्यमपरं शृणु ॥
या रौद्री परमेशानि सा कृष्णा परमेश्वरि ।
जित्वा मां परमेशानि लेलिहाना जगत्त्रयम् ॥
अत एव महेशानि निर्धूय मम मानसि ।
ब्रह्मा विष्णुश्च रुद्रश्च स्त्रीरूपा सर्वदास्थिताः ॥
चतुर्वेदं शिरेधृत्वा वामा तिष्ठति सन्निधौ ।
अन्यच्चतुर्दशं शास्त्रं धृत्वा विष्णुः शुचिस्मिते ॥
सूर्यशास्त्रमितीहास धृत्वा रुद्रः शुचिस्मिते ।
अस्यामन्ते महेशानि पादेलग्ना स्थितिः प्रिये ॥
वामा ब्रह्मामहेशानि ज्येष्ठा विष्णुरितीरिता ।
रुद्रस्तु रौद्री विज्ञेया त्रिगुणं परमेश्वरि ॥
प्. ४०)
कोटिलक्षं आगमं हि सुन्दर्या हस्तसंस्थितम् ।
जपनविद्यां मयाराध्यां श्रीविद्यां ब्रह्मविग्रहाम् ॥
सदाशिवपुरे दृष्ट्वा आश्चर्यं मम जायते ।
परं रूपं समास्थाय सदाशिवपुरे सदा ॥
सा देवी सुन्दरी देवि जगन्मोहनरूपिणी ।
सर्वेषां स्थावरादीनाभादिभूता सनातनी ॥
अतः परं वरारोहे लक्षं जप्त्वा शुचिस्मिते ।
आदौ तन्त्रं महेशानि पठित्वा देवदुर्ल्लभम् ॥
निगदामि शृणु प्रौढे तन्त्रं गुह्यं परात्परम् ।
अस्य श्री पञ्चाक्षरमन्त्रस्य ब्रह्मविष्णुरुद्रा ऋषयः ऋग्यजुः
सामाथर्वच्छन्दांसि श्रीमृत्युञ्जया सर्वे देवता चतुर्वर्गसिद्ध्यर्थं
जपे विनियोग ।
बाह्य जापं महेशानि कृत्वा लक्षं प्रयत्नतः ।
अर्पणीयं ततो दृष्ट्वा बिल्वपत्रं प्रयत्नतः ॥
नमस्कृत्य पार्थिवं लिङ्गं परब्रह्ममयं प्रिये ।
ततस्तु लिङ्गं कवचं पठित्वा कमलानने ॥
अथ मुखवाद्य प्रशंसा
मुखवाद्यं सनित्यं हि कृत्वा तु परमेश्वरि ।
मातृकामन्त्र सहितं मुखवाद्यं सुदुर्लभम् ॥
अकारादिक्षकारान्तं अनुलोमविलोमतः ।
उच्चार्य परमेशानि मुखवाद्यं प्रयत्नतः ॥
सबिन्दुं वर्णमुच्चार्य पञ्चाशन्मातृकां प्रिये ।
अनुलोम विलोमेन शब्देन च वरानने ॥
प्. ४१)
अनेनैव विधानेन मुखवाद्यं करोति यः ।
स सिद्धः स शिवः सोऽपि सगुणो नात्र संशयः ॥
मृत्युञ्जयोऽहं देवेशि मुखवाद्यप्रसादतः ।
यस्मिन् काले महेशानि असुरो बलवद्भवेत् ॥
तस्मिन्काले महेशानि मुखवाद्यं करोम्यहम् ।
तत् श्रुत्वा परमेशानि असुरा वाह्ययाश्रिताः ॥
पलायन्ते महेशानि तत् श्रुत्वा परमेश्वरि ।
ये नवा भुवि तिष्ठन्ति मुखवाद्यं विना प्रिये ॥
स सर्व यातनाभोगी अन्ते कुम्भीरतां व्रजेत् ॥
॥ इति लिङ्गार्चनतन्त्रे हरपार्वती संवादे अष्टमः पटलः
श्रीदेव्युवाच-
भगवन् देवदेवेश शूलपाणे पिनाकधृक् ।
योगेन्द्रेन्द महाबाहो मृत्युञ्जय नमोऽस्तुते ॥
षोडशैरुपचारैस्तु कुतो लब्धं तपोधन ।
प्रलये सति देवेश नष्टे स्थावरजङ्गमे ॥
प्राणायामस्य काले च भूतशुद्धौ तथा प्रभो ।
यदा तत्र महादेव मनोबुद्ध्यादि लीयते ॥
क्षणमात्रेण देवेश लक्षवर्षं गतो मम ।
चन्द्रार्कौ गगने नष्टे कुतो रात्रिः कुतो दिवा ॥
कारणं परमेशान कुतो सङ्ख्या तपोनिधे ।
ईश्वर उवाच-
साधुपृष्ठं त्वया भद्रे वाक्यं पीयुषसम्भवं ।
तव वाक्यं महेशानि सदा पीयुषसम्भवम् ॥
प्. ४२)
पीयूषसम्भवं वाक्यं हास्ययुक्तं तव प्रिये ।
ब्रह्मानन्दमयं वाक्यं मम योगसमं प्रिये ॥
योगेन परमेशानि भावयामि दिवानिशं ।
शरीरं तव देवेशि बहुभाव्येन भामिनि ॥
योगकाले महेशानि पश्यामि बहुभाग्यतः ।
बाह्यज्ञानं महेशानि पश्यामि सकलं तव ॥
अन्तर्ज्ञानं बहिर्ज्ञानं तव माया वरानने ।
तव माया दुराधर्षा तव हस्तस्थिता यदा ॥
भ्रमरी या तु देवेशि सिद्धसूत्रविधारिणी ।
स्थावरं जङ्गमं देवि त्वयि सर्वं प्रतिष्ठितम् ॥
मृत्युञ्जयोऽहं देवेशि तवाङ्गस्पर्शनात् प्रिये ।
शृणु पार्वति वक्ष्यामि यत्त्वया गदितं प्रिये ॥
प्रलये परमेशानि नष्टे स्थावर जङ्गमे ।
सर्वं मयि महेशानि स्थावरा जङ्गमाश्च ये ॥
तानि सर्वाणि देवेशि तिष्ठन्ति सततं प्रिये ।
मम तेजसि चार्वङ्गि सर्वं तिष्ठति कामिनि ॥
तेजस्तु परमेशानि सदा प्रकृतिरूपिणि ।
निर्गुणोऽहं महेशानि सततं परमेश्वरिं ॥
सगुणा सर्वदात्वं हि सगुणास्त्वं शुचिस्मिते ।
विशेषं शृणु वक्ष्यामि रहस्यमति गोपनम् ॥
ये ये भक्त्या महेशानि ब्रह्माद्यास्त्रिदिवौकसः ।
ये ये मर्त्या महेशानि क्षालाद्याः परमेश्वरि ॥
प्. ४३)
मातृका प्रभृताश्चान्ये नराः गन्धर्वयोनयः ।
ब्रह्माण्डवासिनां देवि भक्तानां कमलानने ॥
गन्धपुष्पादिभिर्देवि दत्त्वा पूजितवान् मयि ।
सर्वं तदक्षयं भूत्वा तिष्ठते परमेश्वरि ॥
जटाजूटेषु देवेशि सततं मम कामिनि ।
षोडशैरुपचारैश्च कृत्वा पूजामयि स्थिता ॥
मम मध्यमुखं देवि ईशानं ब्रह्म सम्मितं ।
तत्र दत्तं महेशानि सर्वं ब्रह्ममयं भवेत् ॥
षोडशैरुपचारैश्च यदत्तं भक्तिभावतः ।
सर्वं हि अक्षयो भूत्वा जटाजूटे स्थितो मम ॥
यत् किञ्चित् परमेशानि जलंदत्त्वा शुचिस्मिते ।
तज्जलं देवदेवेशि जटाजूटे स्थितं मम ॥
सा गङ्गा परमेशानि ब्रह्माण्डव्यापिनी परा ।
श्वेत मूर्तिधरा देवि श्वेतपद्मासनस्थिता ॥
श्वेताम्बरपरीधाना श्वेतमाल्योपशोभिता ।
युक्तामाणिक्य जटिता कुण्डलं सततं धृता ॥
चतुर्भुजा महामाया अभयं वरदं धृता ।
सुधाकुण्डञ्च देवेशि धृता सा परमेश्वरि ॥
धृता रुद्राक्षमालाञ्च सततं जपकामिनी ।
धृता तु जपमाला वै जपकारणमुत्तमम् ॥
तन्मन्त्रं शृणु चार्वङ्गि कालिकायाः सुदुर्लभं ।
अष्टाक्षरीं महेशानि शृणु वक्ष्यामि कामिनि ॥
प्. ४४)
कामबीजं समुद्धृत्य दक्षिणे कालिके ततः ।
पुनः कामं समुद्धृत्य अष्टाक्षरमिदं प्रिये ॥
एवं भूत्वा तु सा गङ्गा सदा जटातटे स्थिता ।
स्थावरं जङ्गमं चैव जटाजूटे स्थितो मम ॥
ब्रह्माण्ड व्यापिनी यस्याः सा गङ्गा इति गीयते ।
सा गङ्गा परमेशानि ईश्वरी अद्यनाशिनी ॥
जलरूपेण सा देवी सदा मम शिरः स्थिता ।
एतद्द्रव्यैः षोडशैश्च उपचारैः पृथक् पृथक् ॥
सम्पूज्य पार्थिवं लिङ्गं बाह्ययोगं मम प्रिये ।
बाह्ययोगं विना देवि अन्तर्योगं न सिद्ध्यति ॥
अन्तर्योगं विना देवि बाह्ययोगं न सिद्ध्यति ।
अत एव महेशानि लिङ्गपूजा कृता मया ॥
बाह्यपूजां विना देवि न हि सृष्टिः प्रजायते ।
सृष्टिं विना महेशानि सर्वं हि गुप्ततामियात् ॥
इति तत्त्वं महेशानि गङ्गा जन्मसमुद्भवम् ।
योगकाले महेशानि कतिलक्षं गतो मम ॥
सर्वं तेजसि तद्दृष्टं प्रकृतौ सर्वसंस्थितं ।
इति ज्ञानं न जानामि यदि कामिनी तच्छृणु ॥
तदा योगेन देवेशि किं करोमि वरानने ।
एतत्सर्वं महेशानि योगमार्गस्थितं सदा ॥
योगमार्गं वरारोहे पञ्चाशत्तत्त्वं संयुतम् ।
तत्त्वं हि परमं ज्ञानं प्रकृतीरूपमव्ययम् ॥
प्. ४५)
प्रकृतिर्ब्रह्मणो रूपं त्रैलोक्यमोहिनि प्रिये ।
लोमेयादि वर्ष पर्यन्तं सर्वं तिष्ठति पार्वति ॥
इति दृष्ट्वा महेशानि लक्षसंख्यं करोम्यहम् ।
गङ्गा हि कारण जलं जटाजूटे स्थितं सदा ॥
गङ्गायाः परमेशानि उत्पत्ति स्थानमुत्तमं ।
जटाजूटं महेशानि सदा मम शुचिस्मिते ॥
प्रलये परमेशानि नष्टे स्थावरजङ्गमे ।
तस्मिन् काले महेशानि कारणं द्रुतमागतं ॥
समीपं मम देवेशि सा गङ्गा सत्वरं वचः ।
उवाच सूक्ष्मया वाचा तस्मिन् पूर्वेण पार्वति ॥
भो देव तपसां श्रेष्ठ परमात्मन् नमोस्तुते ।
गौरीनाथ महादेव प्रसन्नो भव मे प्रभो ॥
चन्द्रार्कौ गगने देव अदृश्ये सति शूलभृत ।
स्थावरे जङ्गमे देव अदृश्ये परमेश्वर ॥
किं करोमि क्वगच्छामि सत्यं वद दयानिधे ।
स्थानं देवि महाबाहो मृत्युञ्जय नमोस्तु ते ॥
ईश्वर उवाच-
तस्यास्तु कारणं वाक्यं श्रुत्वा यत् प्रव्रुवं शृणु ।
आगच्छ मृगशावाक्षि कारणे परमेश्वरि ॥
जटाजूटे महेशानि स्थिताभव नमोस्तु ते ।
प्रकृतिस्त्वं महाभागे सर्वपापप्रणाशिनि ॥
त्राहि मां चञ्चलापाङ्गि श्वेतमूर्तिधरे शुभे ।
जटाजूटं महेशानि गङ्गास्थानमनुत्तमम् ॥
प्. ४६)
तत्र गङ्गा सदाव्याप्ता प्रकृतिः परमेश्वरी ।
या या च मम देवेशि साक्षात् प्रकृतिरूपिणी ॥
जलैः पिङ्गलवर्णाभा सहस्रादित्यसन्निभा ।
तेजोमयीं जटां दिव्यां साक्षान्मोक्षं वरानने ॥
जटायां क्राणे देवि सर्वपापपहारिणि ।
तस्या नाम महागङ्गा वेदोक्ता परमेश्वरि ॥
महागङ्गा तु सा देवि जटाजूटतटे स्थिता ।
आनन्द प्रलयीभूता आनन्दलहरी सदा ॥
या सा गङ्गा महादेवि स्वयं शक्ति स्वरूपिणी ।
बिल्वपत्रयुता सा तु जटाजूटे स्थिता सदा ॥
मृत्युं जित्वामथा देवि तिष्ठामि तव हेतुना ।
यथा गङ्गा प्रिया देवि अजरामरता मम ॥
अजरामरतां देवि महागङ्गाप्रभावतः ।
सा या तु महतीगङ्गा अष्टैश्वर्य प्रदायिनी ॥
तस्मात्तु कारणजले निर्मले पापहारिणि ।
जटायां तिष्ठ चार्वङ्गि महादेव प्रिये सदा ॥
अतः परं तु सा गङ्गा स्थिरीभूता जटातटे ।
दृष्ट्वा जतातटे रम्यां नानापुष्प समन्विताम् ॥
नानागन्ध समायुक्तां नानारत्नपरिष्कृतां ।
यद्यद् दृष्टं जटाजूटे मम सुन्दरि कामिनि ॥
दृष्टा तु कारणी गङ्गा तत्क्षणात् च स्वयं गता ।
जटाजूटेषु यद्दृष्टं वर्णितुं नैव शक्यते ॥
प्. ४७)
जटाजूटेषु या गङ्गा आदिगङ्गेति विश्रुता ।
श्वेत गङ्गेति देवेशि जीवभूता सनातनी ॥
ईश्वर उवाच-
गङ्गाद्वयं महेशानि सदा मम शिरः स्थितम् ।
यत् किञ्चिद् दृश्यते स्थूलं सूक्ष्मं वा परमेश्वरि ॥
जटाजूटेऽसि देवेशि सर्वं मम शुचिस्मिते ।
जटा तु परमेशानि शुक्लरूपा मनोहरा ॥
कर्पूरसदृशाकारा शुभ्रमेघ समप्रभा ।
जटा मम महेशानि अष्टधा वरवर्णिनि ॥
अष्टस्वङ्गे वरारोहे सदा जटातटे स्थिता ।
सम्पूज्य पार्थिवं लिङ्गं गन्धपुष्पादिभिः प्रिये ॥
यावच्च उपचाराणि तत्सर्वं प्रकृतिः प्रिये ।
ततः पश्चान्महादेवि सुखदं पुष्पचन्दनं ॥
नैवेद्यं विविधं देवि सुगन्धं गन्धवर्जितम् ।
बिल्वपत्रं च कल्हारं तगरं मल्लिकां तथा ॥
मालतीं यूथिकां देवि करवीरं मनोहरम् ।
पद्मञ्च केतकीं कुन्दं तथा आमलकीं प्रिये ॥
कुमुदं कोकनदं चैव चतुर्वर्णञ्च सुन्दरम् ।
दूर्वाञ्च तुलसीं चैव दत्त्वा संपूज्य पार्थिवम् ॥
अन्यानि यानि पुष्पाणि धुस्तूरादीनि पार्वति ।
धुस्तूरसदृशं पुष्पं मम ज्ञानेन दृश्यते ॥
धुस्तूरं परमेशानि साक्षान्मोक्षस्वरूपकम् ।
गोकोटिदाने देवेशि यत्फलं परमेश्वरि ॥
प्. ४८)
धुस्तूरस्य प्रदानेन समतां यानि पार्वति ।
यानि यानि च पुष्पाणि ब्रह्माण्ड भरितानि च ॥
तानि सर्वाणि संन्यस्य देवेशि पार्थिवोपरि ।
यानि यानि च धूपानि दीपानि विविधानि च ॥
अन्यानि उपचाराणि यथोक्त विधिना प्रिये ॥
॥ इति श्रीलिङ्गार्चन तन्त्रे हरपार्वती संवादे नवमः पटलः
ईश्वर उवाच-
यथोक्तविधिना देवि शिवं सम्पूज्य पार्थिवम् ।
कृतार्थोऽहं महेशानि सर्वं त्वयि शुचिस्मिते ॥
पूजाकाले महेशानि बहुकालं गतो मम ।
तथा तु विजयापत्रं संन्यस्य पार्थिवोपरि ॥
दत्त्वा तु विजया पत्रं अश्वमेधफलं भवेत् ।
मुखवाद्यं हि सम्यक् कृत्वा लक्षं गतो मम ॥
ताण्डवं मम देवेशि मुखवाद्यं वरानने ।
दृष्ट्वा तु परमेशानि लिङ्गं भित्त्वा तदा प्रिये ॥
आविरासीत्ततो भद्रे स्वयं प्रकृतिः कामिनि ।
आविर्भूता महामाया जगतां रक्षणाय च ॥
दृष्ट्वा देवीं महेशानि साक्षान्मोक्षस्वरूपिणी ।
पार्श्वभूता महामाया दशवाद्यसमन्विता ॥
सिद्धस्था परमेशानि पूजनात्तव सुव्रते ।
तस्या वाक्य ततः श्रुत्वा निपत्यचरणोपरि ॥
प्. ४९)
पाद्यार्घ्यादीनि देवेशि यद्दत्तं भक्तिभावतः ।
यद्दत्तं परमेशानि जलगङ्गाशिरः स्थितम् ॥
सा गङ्गा परमेशानि तस्याः पद्मे व्यवस्थिता ।
त्रैलोक्य जननी भूत्वा त्रैलोक्यस्यापि संस्थिता ॥
यद्दत्तं परमेशानि तस्यै देव्यै शुचिस्मिते ।
तच्छृणुष्व महेशानि निगदामि तवानघे ॥
ईश्वर उवाच-
परमानन्दविभवे नमोऽस्तु परमेश्वरि ।
साक्षात्तु धर्मदे सत्ये कामदेऽर्थदे सदा ॥
नमस्ते जगतां मातः पापहन्त्रि नमोऽस्तुते ।
नष्टे तु परमेशानि ब्रह्माण्डे मणि पूजिते ॥
किं करोमि च्छगच्छामि चिन्ता व्याकुलमानसः ।
सम्पूज्य पार्थिवं लिङ्गं बहुयानेन सुन्दरि ॥
अद्यैव सफला पूजा श्रीपाददर्शनात्तव ।
कृतार्थोऽहं महेशानि तव श्रीपाददर्शनात् ॥
यद्दत्तं तु महेशानि उपचारं मनोहरं ।
तत्सर्वं परमेशानि पश्यामि तव पादयोः ॥
वरं देहि महामाये सृष्टिसंहारकारिणि ।
विश्वं पूर्वं स्थितं देवि स्थावरं जङ्गमं च यत् ॥
ते नैव विधिना देवि ब्रह्माण्डपतनं कुरु ।
अतः परं महामाया श्रुत्वा मम शिवं प्रिये ॥
चन्दनैर्मिलितं लिङ्गं आदाय वामकेऽङ्गुले ।
पूतनीं परमां रम्यां निर्माय सा जगन्मयं ॥
प्. ५०)
वामा ज्येष्ठा तथा रौद्री पूतनीयमिदं स्मृतम् ।
वामा ब्रह्मा महेशानि ज्येष्ठा विष्णुस्तु गीयते ॥
ततो रौद्रीं विनिर्माय प्राणमन्त्रेण पार्वति ।
प्राणप्रतिष्ठां देवेशि तत्र कृत्वा शुचिस्मिते ॥
प्राणप्रतिष्ठाकाले तु यद्दृष्टं योगवर्धिनि ।
ब्रह्माविष्णुश्च रुद्रश्च रजः सत्त्व तमोगुणः ॥
पूतन्यां परमेशानि ते देवास्तत्क्षणात् प्रिये ।
आविर्भूता महेशानि सत्यं सत्यं शुचिस्मिते ॥
मूर्तित्रयं विनिर्माय तत्रैवान्तरधीयते ।
अन्तर्धानं गते सा तु चिन्मयोऽहं वरानने ॥
तस्मिन् काले महेशानि योगस्थोऽहं वरानने ।
योगमार्गे महेशानि स्थित्वा च लक्षवत्सरम् ॥
योनिकुण्डे महेशानि सुन्दर्याः परमेश्वरि ।
बहुयत्नेन तां देवीं दृष्ट्वा महिषमर्दिनीम् ॥
यो योनिरर्धमात्रा सा तारं ब्रह्मादिभिः सदा ।
मुखं तस्या विजानंति बिन्द्वर्कं कमलानने ॥
दृष्टमात्रेण देवेशि भ्रमरो भ्रमरीसह ।
प्रययौ परमेशानि अन्तस्थानं शुचिस्मिते ॥
तस्या डिम्भे महेशानि त्वं मया सहिता प्रिये ।
सर्वं दृष्टं महेशानि यथा पूर्वं शुचिस्मिते ॥
प्. ५१)
श्रीदेव्युवाच-
योनिकुण्डे महेशान यद्दृष्टं परमेश्वर ।
तन्मे कथय देवेश ज्ञानसारं तपोधन ॥
ईश्वर उवाच-
दृष्टं मया महेशानि त्रिगुणं सिंहवाहिनि ।
तस्याः पादाम्बुजे देवि दृष्टं त्रिगुणविग्रहं ॥
रजः सत्त्वं महेशानि तथा तमोगुणं प्रिये ।
रजो ब्रह्मा महेशानि विष्णुश्च सत्त्वरूपधृक् ॥
रुद्रस्तमात्मकं देवि दृष्टं तस्याः पदद्वये ।
पदे लग्ना महेशानि तिष्ठन्ति सततं प्रिये ॥
वाग्भवं कामबीजं च श्रीबीजं च शुचिस्मिते ।
वाग्भवं रजोगुणं देवि श्रीबीजं सत्त्वमद्भुतम् ॥
कामबीजं महेशानि तमोरूपञ्च मूर्तिमान् ।
बीजत्रयं वरारोहे स्त्रीरूपी नात्र संशयः ॥
वामा तु वाग्भवं बीजं ज्येष्ठा श्रीबीजमुच्यते ।
कामं रौद्री महेशानि दृष्ट्वा तस्याः पदद्वये ॥
बाह्यज्ञाने महेशानि मम कामिनि सुन्दरि ।
योगमार्गे च यद्दृष्टं बाह्यज्ञाने च यत् प्रिये ॥
॥ इति श्रीलिङ्गार्चनतन्त्रे हरपार्वतीसंवादे दशमः पटलः
ईश्वर उवाच-
निगदामि वरारोहे बाह्यज्ञानं शृणु प्रिये ।
यत्पृष्टं परमेशानि विष्णुं रुद्रं पितामहम् ॥
या ब्रह्मा सृष्टिकर्ता सा विष्णुः पालनतत्परः ।
रुद्रस्तु परमेशानि सदा संहारकारकः ॥
प्. ५२)
उद्ग्राह्य विश्वं ब्रह्माण्डं वामाशक्त्याः प्रसादतः ।
ब्रह्मणे किमधिष्ठानं यः सुमेरुश्च पार्वति ॥
अन्ते ब्रह्मा महेशानि सदारजोगुणात्मिका ।
विष्णुः प्रविश्य ब्रह्माण्डं पालयत्यति सुन्दरि ॥
वष्णवीं शक्तिमास्थाय विष्णुस्तु पालकः सदा ।
रुद्रः संहारको देवि रौद्रीशक्त्याः प्रसादतः ॥
अतः परं महेशानि ज्ञानसारं वदामि ते ।
विष्णोः सत्त्वगुणे देवि यद्दृष्टं परमेश्वरि ॥
निगदामि शृणु प्राज्ञे खञ्जनाक्षि नमोस्तु ते ।
खञ्जनं तव नेत्रं हि यथाभवति पार्वति ॥
तव तत्परमेशानि निगदामि शृणु प्रिये ।
अवतारा महेशानि व्यासेन गीयन्ते सदा ॥
व्यासस्तु परमेशानि मम देहो वरानने ।
स च व्यासो महेशानि मम मूर्तिमुपासय ॥
मत्स्यः कूर्मो वराहश्च नृसिंहो वामनस्तथा ।
रामः कृष्णश्च देवश्च जामदग्न्यस्तथा परे ॥
बुद्धश्च कल्किरूपश्च अन्ये च बहवः प्रिये ।
विष्णौ सत्त्वमये देवि मया दृष्टाः शुचिस्मिते ॥
विष्णुवेशा महेशानि मत्स्याद्याः परमेश्वरि ।
एतत्सर्वं मया दृष्टं विष्णोः सत्त्वनिकेतने ॥
ब्रह्मा रुद्रस्तथा विष्णुः सदा दृष्टो महेश्वरि ।
तदा तु परमेशानि अभिषेकं मया कृतम् ॥
अभिषिक्ते महेशानि देवान् त्रिगुणधारिणः ।
ततस्तु परमेशानि देवत्वं परमेश्वरि ॥
ततो ब्रह्मा महेशानि तज्जलं परमेश्वरि ।
कमण्डलुं पूरयित्वा ब्रह्मलोकं ययौ द्रुतम् ॥
इति तत्त्वं महेशानि सदा मम हृदि स्थितम् ।
ततो ब्रह्मादयः सर्वे मां नमस्कृत्य पार्वति ॥
स्वस्थानं परमेशानि या तुं बद्धादराः सदा ।
अहन्तु परमेशानि देवानाश्वास्य सत्वरम् ॥
कैलासं पर्वतश्रेष्ठं निर्वाणसदृशं प्रिये ।
कैलासं परमेशानि स्थानं मम सुदुर्लभम् ॥
अलका पूश्च देवेशि सर्वशक्तिमयि प्रिये ।
विमानं पुष्पकं देवि सर्वगं परमेश्वरि ॥
मम कोषं महेशानि सर्वरत्नविभूषितम् ।
कोषाध्यक्षो महेशानि कुबेरः कमलेक्षणे ॥
वासार्थं परमेशानि योगधारणसक्षमम् ।
उल्मुकं पृष्ठमारुह्य धर्मस्य वृषरूपिणः ॥
नाम्ना नन्दी महेशानि सीयन्ते सकला जनाः ।
सा नन्दी परमेशानि कामिनी सा वरानने ॥
कैलासमाश्रितं देवि कृतं यत्नेन सुन्दरि ।
एतस्मिन् समये देवि शरीरग्रहणं कृतम् ॥
शक्तित्वात्परमेशानि शान्तोऽहं वरवर्णिनि ।
प्. ५४)
श्रीदेव्युवाच-
भो देव करुणानाथ सदात्वं भक्तवत्सलः ।
दीनत्राणपरो देव नीलकण्ठ तपोधन ॥
अपरैकं महादेव सन्देहं ज्ञानयोगहृत् ।
ब्रह्माण्डं नाशमायाति जायते तत्कथं पुनः ॥
जीवे गते महेशान पुनर्याति कथं प्रभो ।
नष्टे सति महादेव स्थूलं भस्ममवाप्नुयात् ॥
सूक्ष्मं हि परमेशान निर्वाणं पदमाप्नुयात् ।
स्थूलं सूक्ष्मं महादेव शरीरद्वयमुच्यते ॥
स्थूलेनष्टे महेशानि कृमिविड्भस्मसाद्भवेत् ।
सूक्ष्मं हि परमं ज्ञानं निर्वाणं पदमाप्नुयात् ॥
निर्वाणं ब्रह्मणो रूपं प्रकृतिर्मोक्षरूपिणी ।
स्थूलं हि परमेशान सामान्यं प्रकृतेर्वपुः ॥
तत्कथं परमेशान पुनः सृष्टिं व्रजत्यसौ ।
ईश्वर उवाच-
सन्देहं त्यज चार्वङ्गि ज्ञानसारं वदामि ते ।
ब्रह्माण्डे परमेशानि गते नष्टे शुचिस्मिते ॥
स्थावरं जङ्गमं चैव सर्वमेव चराचरम् ।
पुनरायान्महेशानि यथापूर्वं यथामति ॥
सर्वं दृष्टं मया देवि सर्वशक्तिस्वरूपिणि ।
स्थूलं वा प्रमेशानि सूक्ष्मं सर्वञ्च अद्भूतम् ॥
मया दृष्टं ब्रह्ममार्गे योगेन्द्रत्वं मयि प्रिये ।
ब्रह्माद्यास्तृणपर्यन्तं सर्वशक्तिपुरे मया ॥
प्. ५५)
यथा दृष्टं शक्तिपुरे तत्सर्वं परमेश्वरि ।
अपरं ज्ञानसारं हि सारात्सारं परात्परम् ॥
निगदामि शृणु प्रौढे सावधानावधारय ।
ब्रह्ममार्गे शक्तिपुरे परमानन्दरूपिणि ॥
मयादृष्टं महेशानि आश्चर्यं परमाद्भुतम् ।
आयान्ति यान्ति बहुशो गणना तस्य का प्रिये ॥
लोमकूपात् महेशानि आमोक्षात् प्रकरोति हि ।
तत्सर्वं परमेशानि ब्रह्माण्डोपमयं प्रिये ॥
एतत्तथ्यं वरारोहे न हि मिथ्या शुचिस्मिते ।
जन्मवन्मरणञ्चैव गमनागमनं प्रिये ॥
सर्वं दृष्टं मया देवि सदा शक्तिपुरे प्रिये ।
तस्मात्तु परमेशानि मरणं जननं तथा ॥
एतद् द्वयं महेशानि गमनागमनं स्मृतम् ।
गमनं द्विविधं भद्रे जननं मरणं प्रिये ॥
तस्मात्तु जननं देवि मरणं वा वरानने ।
कस्य स्याच्चञ्जलापाङ्गि मिथ्यावदसि कामिनि ॥
सर्वं शक्तिमयं देवि ब्रह्माण्डं सचराचरम् ।
यथापूर्वं शरीरं हि पुनरायात् वरानने ॥
यन्नष्टं परमेशानि शरीरं स्थूलरूपकम् ।
यदाकारं महेशानि दृष्टं शक्तिपुरे मया ॥
सन्देहं त्यज चार्वङ्गि आत्मनो मरणे प्रिये ।
आत्मा हि ब्रह्मणो रूपं प्रकृतिः परमेश्वरी ॥
प्. ५६)
शुद्धजम्बूनदाकारं आत्मानं विद्धि सुन्दरि ।
तत्कथं परमेशानि मरणं तस्य सुन्दरि ॥
श्रीदेव्युवाच-
नमस्ते पुण्डरीकाक्ष योगेन्द्र परमेश्वर ।
अतिगुह्यं रहस्यं हि कृपया वद शङ्कर ॥
यद्यस्ति परमेशान कोटिशो ह्यचराशय ।
कस्मिन् पिण्डे महादेव स्थितिस्तु तव योगमृत् ॥
ईश्वर उवाच-
प्रति पिण्डे महेशानि स्थितोऽहं सर्वदा मम ।
प्रतिपिण्डं महेशानि एतद्विश्वोपमं सदा ॥
पिण्डे पिण्डे महेशानि तिष्ठामि सततं सदा ।
त्वां विना परमेशानि न हि तिष्ठामि कुत्रचित् ॥
तव योगबलाद्देवि शरीरं बहुधा मम ।
महति प्रलये देवि सर्वदेवमवाप्नुयात् ॥
महति प्रलयं देवि एकदैव भवेत्प्रिये ॥
॥ इति श्रीलिङ्गार्चनतन्त्रे हरपार्वती संवादे एकादशः पटलः
श्रीदेव्युवाच-
देवदेव महादेव यत्त्वया पूर्वसूचितम् ।
रहस्यं शिवलिङ्गस्य कृपया वद शङ्कर ॥
ईश्वर उवाच-
रहस्यं परमेशानि सामान्यं तव सम्मतम् ।
पूर्वोक्त विधिना देवि सम्पूज्य पार्थिवं शिवम् ॥
सम्पूज्य आत्मनो गेहे यथा शक्त्या विनिर्मितम् ।
षोडशैरुपचारैश्च सम्पूज्य पार्थिवं सिवम् ॥
प्. ५७)
एवं वत्सरपर्यन्तं सद्भक्त्या पूजयेच्छिवं ।
रहस्यं वाह यत्पश्चात् मासि मासि शुचिस्मिते ॥
सम्पूज्य दिवसे लिङ्गं यावत्सङ्ख्यं वरानने ।
तद्रात्रौ परमेशानि तल्लिङ्गं परमेश्वरि ॥
आदाय निशितल्लिङ्गं गत्वा बिल्वतरुं प्रिये ।
अमावस्यां चतुर्दश्यां पौर्णमास्यां विशेषतः ॥
कुण्डे च शनिवारे च सोमवारे विशेषतः ।
पूजितव्यं प्रयत्नेन नग्नो भूत्वा वरानने ॥
बिल्वपत्रैः प्रपूज्याथ सहस्रैः परमेश्वरि ।
बिल्वपत्रं महेशानि कीटादिदोष वर्जितम् ॥
कोमलं मधुरं पत्रं पत्रत्रययुतं प्रिये ।
बिल्वपत्रं विना देवि न हि पूजां समाचरेत् ॥
एतद्धि वचनं देवि सृष्टिवत्परमेश्वरि ।
संहारं परमेशानि एकदैव वरानने ॥
न कस्मैचित्प्रवक्तव्यं पशवे परमेश्वरि ।
ब्रह्माण्डं प्रकृते रूपं सर्वशक्तिमयं यतः ॥
अत एव महेशानि स्त्रीमयं सकलं जगत् ।
प्रलये परमेशानि मातृकां ब्रह्मरूपिणीम् ॥
एतद्धि वचनं देवि रहस्यं प्रति पार्वति ।
पूजयेत्सर्वथा देवि यथानुष्ठान पूर्वकम् ॥
अतः परं महेशानि मन्त्रमुच्चार्य यत्नतः ।
बिल्वपत्रं प्रददयात्तु एकैकेन पृथक् पृथक् ॥
प्. ५८)
संशोध्य विधिवद्देवि बिल्वपत्रं वरानने ।
एवं वत्सरपर्यन्तं यः करोति प्रसन्नधीः ॥
मनसा कार्यमुद्दिश्य एवं यस्तु प्रपूजयेत् ।
शीघ्रं काममवाप्नोति गणेशदृशो भवेत् ॥
अतः परं महेशानि गर्तं कृत्वा तु तत्स्थले ।
निक्षिप्य लिङ्गं तत्रैव मन्त्रं जप्त्वा तु तत्र वै ॥
नमस्कृत्य महेशानि क्षमस्वेति विसर्जनम् ।
* * हवनं कृत्वा रहस्यं परमेश्वरि ॥
यः करोति प्रसन्नात्मा स एव श्रीसदाशिवः ।
अनेन च क्रमेणैव लक्षं यस्तु प्रपूजयेत् ॥
सर्वपूजा कृता देवि च तेनात्र संशयः ।
अन्यथा त्रिफला पूजा अन्ते नरकमाप्नुयात् ॥
अष्टोत्तरशतं देवि सहस्रं वा शुचिस्मिते ।
अयुतं वा महेशानि लक्षवद्वरवर्णिनि ॥
पूजयेद्यस्तु देवेशं पार्थिवं वरवर्णिनि ।
स एव परमेशानि साक्षात् श्रीपरमेश्वरः ॥
श्रीयुक्तः परमेशानि साक्षात् श्रीपरमेश्वरः ।
श्रीशक्ति युक्तो देवेशि साक्षात् श्रीपरमेश्वरः ॥
कार्यं च कारणं देवि तत्र श्रीपरमेश्वरी ।
परमेश्वरो यस्तु देवि न कार्यं कारणं न च ॥
कार्यवत्कारणं देवि प्रकृतिमोक्षिरूपिणी ॥
प्. ५९)
ईश्वर उवाच-
निगदामि शृणु प्रौढे श्रीशिवस्य च पूजनम् ।
नरलोकं महेशानि निर्माय पार्थिवं शिवम् ॥
अङ्गुष्ठमात्रं निर्माय शर्करारहितं प्रिये ।
पूर्ववद्विधिना देवि सम्पूज्य पार्थिवं शिवम् ॥
बिल्वपत्रैः समम्यर्च्य कल्हारैः परमेश्वरि ।
यद्यद्दत्तं महेशानि शिवाय परमात्मने ॥
तत्सर्वं परमेशानि तत्क्षणात्तन्मयो भवेत् ।
प्रत्यहं परमेशानि यावज्जीवं वरानने ॥
पूजयेत् परयाभक्त्या लिङ्गं ब्रह्ममयं प्रिये ।
एकं वा पूजयेल्लिङ्गं युगलं न तु पूजयेत् ॥
एकीकृत्य महेशानि दशपञ्चशतानि वै ।
प्रत्येकेवाथवा देवि उपचारैः प्रपूजयेत् ॥
यत्किञ्चिदुपचारं हि तस्य किञ्चित् शुचिस्मिते ।
गृहीत्वा परमेशानि लिङ्गोपरि निवेदयेत् ॥
तन्निर्माल्यं महेशानि अग्राह्यं परमेश्वरि ।
तन्निर्माल्य महादेवि कालकूटयुतं सदा ॥
॥ इति लिङ्गार्चनतन्त्रे हरपार्वती संवादे द्वादशः पटलः
श्रीदेव्युवाच-
दुर्लभं तव निर्माल्यं ब्रह्मादीनां कृपानिधे ।
तत्कथं परमेशान निर्माल्यं तव दूषितम् ॥
कृपया कथयेशान यद्यहं तव वल्लभा ।
यदिनो कथ्यते देव विमुञ्चामि तदा तनूम् ॥
कृपया परमेशान हृदयाच्छल्यमुद्धर ।
तव वाक्यं महादेव ब्रह्मतुल्यं सुदारुणम् ॥
हृदयान्मम देवेश शल्यमुद्धर साम्प्रतम् ।
अग्राह्यं तव निर्माल्यं कथं वदसि योगभृत् ॥
मूल पाठ: liṅgārcanatantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0