लर्गेर् प्रज्ञापारमिता · भाग 13
[ग्ब्म् 571.5 = ल्प्ग्(छ्) 202र्5]
एवम् उक्ते आयुष्मां सुभूतिर् भगवन्तम् एतद् अवोचत्* महागुणसमन्वागतो भगवंन् अवैवर्तिको बोधिसत्वो मनासत्वः अ प्र मे यासंख्येयापरिमाणगुणसमन्वागतो
6 भगवन्न् अवैवर्तिको बोधिसत्वो महासत्वः अपरिमितगुणसमन्वागतो भगवन्न् अवैवर्तिको बोधिसत्वो महासत्वः भगवान् आह* एव म्
7 एतत् सुभूते एवम् एतत्* महागुणसमन्वागतः सुभूते अवैवर्तिको बोधिसत्वो महासत्वः अप्रमेयासंख्येयापरिमाणगुणसमन्वागतः सुभूते अवैवर्तिको बोधिस त् व् ओ महा स त्वः
8 अपरिमितगुणसमन्वागतः सुभूते अवैवर्तिको बोधिसत्वो महासत्वः तत् कस्य हेतोः तथा ह्य् अनेनानन्तापर्यन्तं ज्ञानं प्रतिलब्धः असाधारणं सर्वश्रावकप्रत्येकबु द्धैः
9 तत्र च ज्ञाने स्थित्वा अवैवर्तिको बोधिसत्वो महासत्वः प्रतिसंविदो ऽभिनिर्हरति । याभि ः प्रतिसंविद्भिः सदेवमानुषासुरेण लोकेन पृष्टः प्रतिवचनैर् न शक्यं पर्यादातुं सुभूतिर् आह ।
10 प् र् अ ति बलो भगवंस् तथागतो ऽर्हं सम्यक्संबुद्धो गंगानदीवालुकोपमान् कल्पान् अवैवर्तिकस्य बोधिसत्वस्य महासत्वस्याकारलिंगनिमित्तानि निर्देष्टुं । यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैर् अवैवर्तिको बोधिस त्वो
11 महासत्वः प्रभाव्यते । साधु भगवन् ग ं भीरगंभीरस्थानानि निर्देष्टव्यानि । यत्र स्थित्वा बोधिसत्वो महासत्वः षट्सु पारमितासु चरंश् चत्वारि स्मृत्युपस्थानानि परिपूरयति । यावत् सर्वाकार ज्ञ तां
12 परिपूरयति भगवान् आह । साधु साधु सुभूते साधु खलु पुनस् त्वं सुभूते यस् त्वम् अवैवर्तिकानां बोधिसत्वानां महासत्वानाम् अर्थाय तथागतं गंभीरगंभीराणि स्थानानि यान्य् अधिवच नं
13 यद् उत निर्वाणस्य । आह । निर्वाणस्यैवैतद् भगवन्न् अधिवचनन् न पुनः सर्वधर्माणां । भगवान् आह । सर्वधर्माणाम् अप्य् एतत् सुभूते अधिवच न ं गंभीरम् इति । तत् कस्य हेतो ः । रूपं सुभूते ग ं भीरन् वेदना
[ग्ब्म् 572.1 = ल्प्ग्(छ्) 202व्] संज्ञा संस्कारा विज्ञानं सुभूते गंभीरं चक्षुर् अपि सुभूते गंभीरं यावन् मनो ऽपि सुभूते गंभीरं यावद् बोधिर् अपि सुभूते गंभीरा कथं च सुभूते रूपं गंभीरं । यथा रूपस्य तथता तथा गंभीरं । यथा व् एदना या
2 संज्ञाया संस्काराणां यथा विज्ञानस्य तथता तथा ग ं भीरं यावद् यथा बोधेस् तथता तथा गंभीरं । आह । कथं भगवं रूपस्य तथता यावत् कथं बोधेस् तथता । भगवान् आह । यत्र सुभूते रूपतथतायां न
3 रूपं नान्यत्र रूपात् तथता यावद् यत्र सुभूते विज्ञानतथतायां न विज्ञानं नान्यत्र विज्ञानात् तथता यावद् यत्र बोधितथतायां न बोधिर् नान्यत्र बोधेस् तथता । आह । आश्चर्यं भगवन् यावच् चेदं सूक्ष्मेणोपायेना वै वर्तिको
4 बोधिसत्वो महासत्वो रूपाच् च निवारितो निर्वाण् अं च सूचितः वेदनायाः संज्ञायाः संस्कारेभ्यो विज्ञानाच् च निवारितो निर्वाणं च सूचित सर्वग्रहेभ्यश् च लौकिकलोकोत्तरेभ्यः साधारणासाधा र णेभ्यः
5 सास्रवानास्रवेभ्यो निवारितो निर्वाणं च सूचितः भगवान् आह । यः सुभूते बोधिसत्वो महासत्व इमानि गंभीरगंभीराणि स्थानानि प्रज्ञापारमिताप्रतिसंयुक्तानि चिन्तयिष्यति ।
6 तुलयिष्यत्य् उपनिध्यास्यति । एवं मया स्थातव्यं । यथा प्रज्ञापारमितायाम् आज्ञप्तम् एवं मया शिक्षितव्यम्* यथा प्रज्ञापारमितायाम् उपदिष्टम्* अयं सुभूते बोधिसत्वो महासत्वः तथैव
7 सं पा दयन् यथा प्रज्ञापारमितायाम् आख्यातं तथोपनिध्यायंस् तथोपपरीक्षमाणस् तथा युज्यमानस् तथा घठमानस् तथा व्यायच्छमानो यथा प्रज्ञापारमितायाम् उपदिष्टं । एकेन चित्तोत्पादे ना सं ख्येयाप्रमेयान्य्
8 अपरिमाणानि कुशलमूलानि परिग्रहीष्यति । सो ऽपरिमाणां कल्पां संसाराच् छोरयिष्यति । कः पनर् वादो यः अव्यवकीर्ण ः प्रज्ञापारमितायां चरं बोधिप्र त् इ सं यु क्तैर्
9 मनसिकारैर् विहरिष्यति । तद्यथापि नाम स्यात् सुभूते पुरुषो रागचरितो वितर्कचरितस् तेनान्यतरया स्त्रि या सार्धम् अभिरूपया प्रासादिकया दर्शनीयया संकेतः कृ तो भवेत्*
10 सा च स्त्री परपरिगृहीता न शक्नुयाद् गृहा न् निष्क्रान्तुं । तत् किं मन्यसे सुभूते किंप्रतिसंयुक्तास् तस्य पुरुष स्य वितर्का भवेयुः । आह । स्त्रीप्रतिसंयुक्ता एव भगवंस् तस्य पुरुषस्य वि तर्का भवे यु ः
11 इमम् एति इयम् आगता एतया सार्धं निषत्स्यामि परिचारयिष्यामि भगवान् आह तत् किं मन्यसे सुभूते रा त्रेर् अ त्य या द् दिवसस्यात्ययात् कियन्तस् तस्य पुरुषस्य वितर्का वर्तेरन्* आह बहवो भग वं ब हव स्
12 सुगत तस्य पुरुषस्य रात्रेर् अत्यया द् दिवसस्य चात्ययाद् वितर्का वर्तेरन्* । भगवान् आह । यावन्तः सुभूते तस्य पुरुषस्य रात्रेश् च दिवसस्य चात्ययाद् वितर्का वर्तेरन्न् इय न् त ः कल्पान् बोधिसत्वो म हा स त्वः
13 संसाराच् छोरयति विपृष्ठीकरोति य इह गंभीरायां प्रज्ञापारमितायां यथोपदिष्टाया ं शिक्षेत । उपपरीक्ष् ए त उपनिध्यायति । तथा च योगम् आपद्यते । यथा तां दोषान् विवर्ज य ति
14 यैर् दोषैर् बोधिसत्वो महासत्वो विवर्तते ऽनुत्तरस्याः सम्यक्संबोधेः एवं योगम् अनुयुक्तः सुभूते बोधिसत्वो महासत्वो ऽनेन विहारेण विहरन् यथा प्रज्ञापारमितायाम् उपदिष्टम् एकदि व सेन
[ग्ब्म् 573.1 = ल्प्ग्(छ्) 203र्] यत् कुशलमूलं परिगृह्णाति तेन गंगान दी वालुकोपमाल् लोकधातवः परिपूर्णा भवेयुर् न तत् तस्य कुशलमूलस्य शततमीम् अपि कलान् नोपैति । सहस्रतमीम् अपि शतसहस्रतमी म्
2 अ पि यावत् संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिशाम् अपि नोपैति ॥ पुनर् अपरं सुभूते बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरं । गंगानदीवालुकोपमान् कल्पान् दानन् दद्या त्
3 त्रिषु रत्नेषु । बुद्धरत्ने धर्मरत्ने संघरत्ने तत् किं मन्यसे सुभूते अपि नु स बोधिसत्वो महासत्वस् ततोनिदानं बहु पुण्यं प्रसवेत्* आह । बहु भगवं बहु सुगत अप्रमेयम् असंख्ये य म्
4 अपरिमाणम् अतुल्यं भगवान् आह । अयम् एव ततः सुभूते बोधिसत्वो महासत्वो बहुतरं पुन्यं प्रसवेद् य इह गंभीरायां प्रज्ञापारमितायां यथानिर्दिष्टायां योगम् आपद्यते । तत् कस्य
5 हेतोः एषो हि बोधिसत्वानां महासत्वानां नयो येन नयेनानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते । तत् किं मन्यसे सुभूते यो बोधिसत्वो महासत्वः प्रज्ञापारमितया विरहितो ग ं गनदीवालुको प मां
6 कल्पा ं स् तिष्ठन्* श्रोतआपन्नेषु दक्षिणां प्रतिष्ठापयेत् सकृदागामिष्व् अनागामिष्व् अर्हत्सु प्रत्येकबुद्धेषु तथागतेष्व् अर्हत्सु सम्यक्संबुद्धेषु दक्षिणां प्रतिष्ठापये तत् किं मन्यसे सुभू ते
7 अ पि नु स बोधिसत्वो महासत्वः ततोनिदनं बहु पुण्यं प्रसवेत्* आह । बहु भगवं बहु सुगत । भगवान् आह । अयम् एव सुभूते कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रस वे त्*
8 य इह गंभीरायां प्रज्ञापारमितायां यथोपदिष्टायां योगम् आपद्येत । तत् कस्य हेतोः अत्र हि प्रज्ञापारमितायां चरं बोधिसत्वो महासत्वः श्रावक प्रत्येक बुद्धभूमीम् अतिक्रम्य
9 बोधि स त्व न्यामम् अवक्रामति । यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्यते । तत् किं मन्यसे सुभूते यो बोधिसत्वो महासत्वः प्रज्ञापारमितया विरहितो गंगानदीवालुकोपमां कल्पांस् तिष्ठं या प यं
10 दानं दद्याच् छीलं रक्षे क्षान्त्या संपादयेद् वीर्यम् आरभेत ध्यानानि समापद्येत प्रज्ञां भावयेत्* अपि नु स ततोनिदानं बहु पुण्यं प्र स वेत्* आह । बहु भगवं बहु सुगत भगवान् आह । अतः स
11 सु भू ते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद् य इह गंभीरायां प्रज्ञापारमितायां यथोपदिष्टायां स्थित्वा एकदिवसम् अपि दानं दद्याच् छीलं रक्षेत्* क्षान्त्या संपादयेद् वीर्यम् आरभे त
12 ध्यानानि समापद्येत प्रज्ञां भावये तत् कस्य हेत् ओ ः तथा हि सुभूते मातैषा बोधिसत्वानां महासत्वानां यद् उत प्रज्ञापारमिता जनयित्र्यैषा बोधिसत्वाणां महासत्वाणां यद् उत प्रज्ञापारमिता । अत्र सुभू ते
13 प्रज्ञापारमितायां स्थित्वा बोधिसत्वा महासत्वाः सर्वधर्मां परिपूरयंति । यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्यन्ते । तत् किं मन्यसे सुभूते यो बोधिसत्वो महासत्वः प्रज्ञापारमितया विरहितो
14 गंगानदीवालुकोपमां कल्पांस् तिष्ठन्* धर्मदानं दद्यात्* अपि स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्* आह । बहु भगवं बहु सुगत भगवान् आह । अत ः स सुभूते
[ग्ब्म् 574.1 = ल्प्ग्(छ्) 203व्] कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद् य इह गंभीरायां प्रज्ञापारमितायां यथोपदिष्टायां स्थित्वा एकदिवसम् अपि धर्मदानं दद्यात्* तत् कस्य हेतोः तथा हि सुभूते बोधिसत्वो महासत्वः
2 प्रज्ञापारमिताया विरहितः स सर्वाकारज्ञतया विरहितो यः पुनः सुभूते बोधिसत्वो महासत्वः अविरहितः सर्वाकारज्ञतया अविरहितः तस्मात् तर्हि सुभूते बोधिसत्वेन महासत्वेनानुत्त रां
3 सम्यक्संबोधिम् अभिसंबोद्धुकामेन प्रज्ञापारमितया अविरहितेन भवितव्यं । तत् किं मन्यसे सुभूते यो बोधिसत्वो महासत्वः प्रज्ञापारमितया विरहितो गंगानदीबालुकोपमान् कल्पा ं स् तिष्ठ न्
4 योगम् आपद्येत चतुर्षु स्मृत्युपस्थानेषु याव शुन्यतानिमित्ताप्रणिहितेषु यावद् योगम् आपद्येत सर्वसमाधिषु । तत् किं मन्यसे सुभूते अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं ब हु
5 पुण्यं प्रसवेत्* आह । बहु भगवं बहु सुगत भगवान् आह । अयम् एव स सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद् य इह गंभीरायां प्रज्ञापारमितायां यथो प दिष्टायाम्
6 एकदिवसम् अपि योगम् आपद्येत चतुर्षु स्मृत्युपस्थानेषु यावद् अष्टादशष्व् आवेणिकेषु बुद्धधर्मेषु । तत् कस्य हेतोः । अस्थानं सुभूते अनवकाशः यद् बोधिसत्वो महासत्वः
7 प्र ज्ञा पारमितया अविरहितः सर्वाकारज्ञतया विवर्तते । नेदं स्थानं विद्यते । स्थानं खलु पुनः सुभूते विद्यते यद् बोधिसत्वो महासत्वः प्रज्ञापारमितया विरहितः सर्वाकारज्ञतया न्विवर्तेत
8 स्था ना म् एतद् विद्यते । तस्मात् तर्हि सुभूते बोधिसत्वेन महासत्वेन प्रज्ञापारमितया अविरहितेन भवितव्यं । तत् किं मन्यसे सुभूते यो बोधिसत्वो महासत्वः प्रज्ञापारमितया विरहितो गंगान दीवा लु कोपमां
9 कल्पांस् तिष्ठंस् तच् चामिषदानं तच् च धर्मदानं तांश् च प्रतिसंलयनप्रतिसंयुक्तां मनसिकारान् अनुत्तरस्यै सम्यक्संबोधये परिणामयेद् अपि नु स कुलपुत्रो वा कुलदुहिता वा त तोनिदानं
10 बहु पुण्यं प्रसवेत्* आह । बहु भगवं बहु सुगत । भगवान् आह । अतः स सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद् य इह गंभीरायां प्रज्ञापारमितायां
11 यथोप दि ष्टायां स्थित्वा एकदैवसिकं चामिषदानं तच् च धर्मदानं तांश् च प्रतिसंलयनप्रतिसंयुक्तान् अननसिकारान् अनुत्तरस्यां सम्यक्संबोधौ परिणमयेत्* तत् कस्य हेतोः एष हि प र म ः परिणा मो
12 यद् उत प्रज्ञापारमितापरिणामः यः पुनः प्रज्ञापारमितया विना परिणामो नासौ परिणामः । तस्मात् तर्हि सुभूते बोधिसत्वेन महासत्वेनानुत्तरा ं सम्यक्संबोधिम् अभिसंबोद्धुकामे न
13 प्रज्ञापारमितापरिणमनाकुशलमूलेन भवितव्यं । तत् किं मन्यसे सुभूते । यो हि कश्चित् कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितया विरहितो गंगानदीवालुकोपमां कल्पांस् तिष्ठ न्न्
[ग्ब्म् 575.ल् = ल्प्ग्(छ्) 204र्] अ ती तानागतप्रत्युत्पन्नानां बुद्धानां भगवतां सश्रावकसंघानाम् यत् कुशलमूलं तत् सर्वम् अनुत्तरस्यां सम्यक्संबोधौ परिणामयेद् अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्*
2 आह बहु भगवं बहु सुगत भगवान् आह । अतस् स सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद् य इह गंभीरायां प्रज्ञापारमितायां यथोपदिष्टायां स्थित्वा एक दै वसिकम्
3 अपि कुसलमूलम् अनुत्तरस्यां सम्यक्संबोधौ परिणमयेत्* तत् कस्य हेतोः प्रज्ञापारमिता पूर्वंगता हि सुभूते सर्वपरिणमनात् तस्मात् तर्हि सुभूते बोधिसत्वेन महास त्वे ना नुत्तरां
4 सम्यक्संबोधिम् अभिसंबोद्धुकामेन प्रज्ञापारमितापरिणमनाकुशलेन भवितव्यं । आह । यत् पुनर् भगवंन् अभिसंस्कारः कल्पित उक्तो भगवता तत् कथं स कुलपुत्रो वा कुल दुहि ता
5 वा बहुतरं पुण्यं प्रसवेत्* स च भगवंन् अनभिसंस्कारेण शक्यं सम्यग्दृष्टिं चोत्पादयितुं न्यामं चावक्रमितुम्* श्रोतआपत्तिफलं चानुप्राप्तुम्* यावद् अनुत्तरां सम्यक्संबोधिम् अभि सं बो द्धुम्*
6 भगवान् आह । एवम् एतत् सुभूते एवम् एतत्* न ह्य् अनभिसंस्कारेण शक्यं सम्यग्दृष्टिं चोत्पादयितुं न्यामं चावक्रमितुम्* श्रोतआपत्तिफलं चानुप्राप्तुम्* यावद् अनुत्तरां सम्य क्संबोधिम् अ भि संबोद्धुम्*
7 अपि तु खलु पुनः सुभूते तद् अपि दानम् अनभिसंस्कारो बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतः शुन्यकम् एवाख्याति रिक्तकम् एव तुच्छकम् एवासारकम् ए वाख्याति
8 तत् कस्य हेतोः तथा हि सुभूते बोधिसत्वो महासत्वो अध्यात्मशुन्यतायां सुशिक्षितो बहिर्धाशुन्यतायाम् अध्यात्मबहिर्धाशुन्यतायां सुशिक्षितः शुन्यताशुन्यतायां महाशुन्यताया ं पर मा र्थशुन्यतायां
9 संस्कृतशुन्यतायाम् असंस्कृतशुन्यतायाम् अत्यंतशुन्यतायाम् अनवराग्रशुन्यतायाम् अ न वकारशुन्यतायां प्रकृतिशुन्यतायां सर्वधर्मशुन्यतायां स्वलक्षणशु न्य तायाम्
10 अनुपलंभशुन्यतायाम् अभावशुन्यतायां स्वभावशुन्यतायाम् अभावस्वभावशुन्यतायां सुशिक्षितः स खलु पुनः सुभूते बोधिसत्वो महासत्वः आसु शुन्यतासु स्थित्वा यथा यथा
11 तान् संस्कारां प्रत्यवेक्षते । तथा तथा बोधिसत्वो महासत्वः प्रज्ञापारमितया अविरहितो भवति । यथा यथा बोधिसत्वो महासत्वः प्रज्ञापारमितया अविरहितो भवति । तथा तथा
12 अ सं ख्येयम् अप्रमेयम् अपरिमाणं पुण्यं प्रसवति आह । असंख्येयस्य च भगवंन् अप्रमेयस्य चापरिमाणस्य च को विशेषः भगवान् आह । असंख्येयम् अपि195 सुभूते यत् संख्यां नो पै ति
13 संस्कृते वा धातव् असंस्कृते व धातौ अप्रमेयम् इति सुभूते यस्य प्रमाणं नोपलभ्यते अतीतानागतप्रत्युत्पन्नेषु धर्मेषु । अपरिमाणम् इति सुभूते यन् न शक्यं प्र मातुं ।
[ग्ब्म् 576.ल् = ल्प्ग्(छ्) 204व्] आह । स्याद् भगवं पैयायो यद् रूपम् अप्य् असंख्येयम् अप्रमेयम् अपरिमाणं भवेत्* वेदना संज्ञा संस्कार विज्ञानम् असंख्येयम् अप्रमेयम् अपरिमाणं भव् एत्* भगवान् आह । स्यात् सुभूते पर्यायो
2 येन पर्यायेण रूपम् अप्य् असंख्येयम् अप्रमेयम् अपरिमाणं भवेत्* वेदना संज्ञा संस्कारा विज्ञानम् अप्य् असंख्येयम् अप्रमेयम् अपरिमाणं भवेत्* आह । कतमेन भगवन् पर्यायेण रूपम् अ प्य्
3 असंख्येयम् अप्रमेयम् अपरिमाणं भवेद् वेदना संज्ञा संस्कारा विज्ञानम् अप्य् असंख्येयम् अप्रमेयम् भवेत्* भगवान् आह । रूपम् अपि सुभूते शुन्यम् असंख्येयम् अप्रमेय म्
4 अपरिमाणं । वेदना संज्ञा संस्कारा विज्ञानम् अपि सुभूते शुन्यम् असंख्येयम् अप्रमेयम् अपरिमाणं आह । किं पुनर् भगवंन् रूपम् एव शुन्यं वेदना संज्ञा संस्कारा विज्ञानम् एव शुन्यं । न पु न ः
5 सर्वधर्माः शुन्याः भगवान् आह । तत् किं मन्यसे सुभूते ननु मया सर्वधर्माः शुन्या इत्य् आख्याताः आह । शुन्या भगवन् सर्वधर्मा इति तथागतेनाख्याता या च भगवंन् शुन्यता । अक्ष या पि
6 सा । अप्रमेयापि सा अपरिमाणापि सा न हि भगवं शुन्यतायाः संख्योपलभ्यते न प्रमाणं न परिमाणम् उपलभ्यते । तस्मात् तर्हि भगवं नैषान् धर्माणाम् अर्थतो
7 वा व्यंजनतो वा नानाकरणम् उपलभ्यते । भगवान् आह । एवम् एतत् सुभूते एवम् एतत्* नैषान् धर्माणाम् अर्थतो वा व्यंजनतो वा नानाकरणम् उपलभ्यते । अनभिलाप्यम् एतत् सुभूते तथागतेना भि लप्तम्
8 अक्षयम् इति वा अप्रमेयम् इति वा । शुन्यम् इति वा आनिमित्तम् इति वा अप्रणिहितम् इति वा अनभिसंस्कारम् इति वा अनुत्पाद इति वा विराग इति वा निरोध इति वा निर्व् आणम्
9 इ ति वा । देशनाभिनिर्हारनिर्देश एष तथागतस्याक्षयम् इति वा याव न् निर्वाणम् इति वा । आह । आश्चर्यं भगवन् यावच् चेदं धर्माणां धर्मता तथागतेन देशिता अनभिलाप्या । यथाहम् भ गव तो
10 भाषितस्यार्थम् आजानामि । सर्वधर्मा एव भगवन्न् अनभिलाप्याः । भगवान् आह । एवम् एतत् सुभूते एवम् एतत्* सर्वधर्मा सुभूते अनभिलाप्याः या सुभूते धर्माणाम् अनभिलाप्यता सा
11 शु न्य ता न च शुन्यतायां किं चिद् अभिलपितं नापि शुन्यता शक्या अभिलपितुं आह । कच्चित् पुनर् भगवंन् अनभिलाप्यस्यार्थस्य वृद्धिर् वा परिहाणिर् वा । भगवान् आह । नो हीदं सुभूते न सुभूते
12 अ न भिलाप्यस्यार्थस्य वृद्धिर् वा परिहाणिर् वा । आह । सचेत् पुनर् भगवंन् अनभिलाप्यस्यार्थस्य नैव वृद्धिर् न परिहाणिस् तद् दानपारमितया अपि भगवं न वृद्धिर् न परिहाणिर् भविष्यति । ए वं
13 शी ल पारमितयाः क्षान्तिपारमितयाः वीर्यपारमितयाः ध्यानपारमितयाः प्रज्ञापारमितयाः अपि न वृद्धिर् न परिहाणिर् भविष्यति । चतुर्णां स्मृत्युपस्थानानां यावद् आर्याष्टांगस्य
[ग्ब्म् 577.1 = ल्प्ग्(छ्) 205र्] मार्गस्य अष्टानां विमोक्षाणां नवानाम् अनुपूर्वसमापत्तीनां दशानां तथागतबलाणां चतुर्णां वैशारद्यानां च त सृणां प्रतिसंविदां महामैत्र्या महाकरुणाया अष्टादशानाम् आवेणिकानां बुद्ध ध र्माणां
2 न वृद्धिर् न परिहाणिर् भविष्यति । ष् अण्णा ं पारमितानाम् अभावो भविष्यति । यावद् अष्टादशानाम् आवेणिकानां बुद्ध ध र्माणाम् अभावो भविष्यति । एषां च धर्माणाम् अभावात् सर्वाकारज्ञताया अप्य् अभावो
3 भविष्यति । सर्वाकारज्ञताया अभावात् को ह्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्यते । अभिसंभोत्स्यते वा । भगवान् आह । एवम् एतत् सुभूते एवम् एतत्* नानभिलाप्यस्यार्थस्य वृद्धिर् वा परिहाणिर् वा । स
4 चेत् पुनः सुभूते बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायाञ् च् अ रतः प्रज्ञापारमितां भावयतः प्रज्ञापारमितायां योगम् आपद्यमानस्योपायकुशलस्य नैवं भवत्य् अहं प्रज्ञा पा र मितायां
5 विवर्धे एवं यावद् दानपारमिताया ं विवर्धे । अथ च पुनर् अस्यैवं भवति नामधेयमात्रम् एतद् यद् उत दानपारमिता । स दानपारमितायां चरंस् तां मनसिकारांस् तांश् चित्तो त्पादां स्
6 तानि च कुशलमूलानि अनुत्तरस्यां सम्यक्संबोधौ परिणमयति तथा च परिणमयति । यथा सानुत्तरा सम्यक्संबोधिः एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमि तायां
7 ध्यानपारमितायां प्रज्ञापारमितायां चरंस् तां मनसिकारांस् तांश् चित्तोत्पादांस् तानि कुशलमूलानि अनुत्तरस्यां सम्यक्संबोधौ परिणमयति । तथा च परिणमयति । यथानुत्त रा
8 सम्यक्संबोधिः आह कथं भगवंन् अनुत्तरा सम्यक्संबोधिः । भगवान् आह । या सुभूते सर्वधर्माणां तथता सानुत्तरा सम्यक्संबोधिः । आह । कतमेषां भगवं सर्वधर्माणां तथ तानुत्त रा
9 सम्यक्संबोधिः । भगवान् आह । या सुभूते रूपस्य तथता यावद् या निर्वाणस्य तथता सानुत्तरा सम्यक्संबोधिः सा नैव वर्धते न परिहीयते त त् सुभूते बोधिसत्वो महा सत्व ः
10 प्रज्ञापारमितया अविरहितो भीक्ष्णं बहुलं विहरति न कस्य चिद् धर्मस्य वृद्धिर् वा परिहाणिं वा समनुपश्यति । एवं खलु सुभूते अनभिलाप्यस्यार्थस्य नैव वृद्धिर् न
11 प रि हाणि । एवं खलु सुभूते दानपारमिताया शीलपारमिताया क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमिताया प्रज्ञापारमिताया नैव वृद्धिर् न परिहाणिः । एवं
12 यावत् प्रतिसंविदां न वृद्धिर् न परिहाणिः । एवं खलु सुभूते बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां चरितव्यं । अवृद्ध्य् अ परिहाणियोगेन ।
मूल पाठ: Larger Prajñāpāramitā · Edition: edition by Yoke Meei Choong. Zum Problem der Leerheit (śūnyatā) in der Prajñāpāramitā, Frankfurt 2006 (Europäische Hochschulschriften, Reihe 27, Bd. 97), pp. 109-133. = LPG(Ch) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0