Lalitavistara · अध्याय 9
अस्मिन् खलु पुनर्भिक्षवो बोधिसत्त्वेन महासत्त्वेन देवकुले प्रवेशे संदर्श्यमाने द्वात्रिंशतां देवपुत्रशतसहस्राणामनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पद्यन्ते । अयं भिक्षवो हेतुरयं प्रत्ययो येनोपेक्षको बोधिसत्त्वो भवति स्म देवकुलमुपनीयमान इति ॥
इति श्रीललितविस्तरे देवकुलोपनयनपरिवर्तो नाम अष्टमो ऽध्यायः ॥
स्तर्त् परिवर्त 9
आभरणपरिवर्तो नवमः ।
अथ खलु भिक्षव उदयनो नाम ब्राह्मणो राज्ञः पुरोहित उदायिनः पिता, स पञ्चमात्रैर्ब्राह्मणशतैः परिवृतो हस्तोत्तरे चित्रानक्षत्रे राजानं शुद्धोदनमुपसंक्रम्यैवमाह - यत्खलु देवो जानीयादाभरणानि कुमाराय क्रियन्तामिति । तं राजा आह - बाढम् । गाढं क्रियतामिति ॥
तत्र राज्ञा शुद्धोदनेन पञ्चमात्रैश्च शक्यशतैः पञ्चमात्राण्याभरणशतानि कारितान्यभूवन् । तद्यथा - हस्ताभरणानि पादाभरणानि मूर्धाभरणानि कण्ठाभरणानि मुद्रिकाभरणानि कर्णिकायाकेयूराणि मेखलासुवर्णसूत्राणि किङ्किणीजालानि रत्नजालानि मणिप्रत्युप्तानि पादुका नानारत्नसमलंकृता हाराः कटका हर्षा मुकुटानि । कारयित्वा च पुष्यनक्षत्रयोगेनानुयुक्तेन ते शाक्या राजानं शुद्धोदनमुपसंक्रम्यैवमाहुः - हन्त देव मण्ड्यतां कुमार इति । राजा आह - अलमलंकृतश्च पूजितश्च भवद्भिः कुमारः । मयापि (कुमारस्य) सर्वाभरणानि कारितानि । ते ऽवोचन् - सप्तसप्तरात्रिंदिवान्यप्यस्माकमाभरणानि कुमारः काय आबध्नातु । ततो ऽस्माकममोघो व्यायामो भविष्यतीति ॥
तत्र रात्रौ विनिर्गतायामादित्य उदिते विमलव्यूहनामोद्यानं तत्र बोधिसत्त्वो निर्गतो ऽभूत् । तत्र महाप्रजापत्या गौतम्या बोधिसत्त्वो ऽङ्के गृहीतो ऽभुत् । अशीतिश्च स्त्रीसहस्राणि प्रत्युद्गम्य बोधिसत्त्वस्य वदनं प्रेक्षन्ते स्म । दश च कन्यासहस्राणि प्रत्युद्गम्य बोधिसत्त्वस्य वदनं प्रेक्षन्ते स्म । पञ्च च ब्राह्मणसहस्राणि प्रत्युद्गम्य बोधिसत्त्वस्य वदनं प्रेक्षन्ते स्म । तत्र यानि भद्रिकेण शाक्यराजेनाभरणानि कारितान्यभूवन्, तानि बोधिसत्त्वस्य काये आबध्यन्ते स्म । तानि समनन्तराबद्धानि बोधिसत्त्वस्य कायप्रभया जिह्मीकृतान्यभूवन्, न भासन्ते स्म, न तपन्ति स्म, न विरोचन्ति स्म । तद्यथापि नाम जाम्बूनदस्य सुवर्णस्य पुरतो मसिपिण्ड उपनिक्षिप्तो न भासति न तपति न विरोचते, एवमेव तान्याभरणानि बोधिसत्त्वस्य कायप्रभयास्पृष्टानि न भासन्ते न तपन्ति न विरोचन्ते स्म । एवं या या आभरणविकृतिर्बोधिसत्त्वस्य काय आबध्यते स्म, सा सा जिह्मीभवति स्म तद्यथापि नाम मसिपिण्डः ॥
तत्र विमला नामोद्यानदेवता सा औदारिकमात्मभावमभिसंदर्श्य पुरतः स्थित्वा राजानं शुद्धोदनं तं च महान्तं शाक्यगणं गाथाभिरभिभाषते स्म -
सर्वेयं त्रिसहस्र मेदिनी सनगरनिगमा पूर्णा काञ्चनसंचिता भवेत् सुरुचिर विमला ।
एका काकिणि जाम्बुकाञ्चने भवति उपहता ना भासी इतरः स काञ्चन प्रभसिरिरहितः
जाम्बूकाञ्चनसंनिभा पुनर्भवेत् सकर इय मही
रोमे आभ प्रमुक्त नायके हिरिसिरिभरिते ।
ना भासी न तपी न शोभते न च प्रभवति
आभाये सुगतस्य कायि नो भवति यथ मसिः
स्वे तेजेन अयं स्वलंकृतो गुणशतभरितो
नो तस्याभरणा विरोचिषू सुविमलवपुषः ।
चन्द्रसूर्यप्रभाश्च ज्योतिषा तथ मणिज्वलनाः
शक्रबह्मप्रभा न भासते पुरत शिरिघने
यस्या लक्षणि कायु चित्रितः पुरिमशुभफलैः
किं तस्याभरणेभिरित्वरैः परकृतकरणैः ।
अपनेथा भरणा म हेठता अबुध बुधकरं
नायं कृत्तिमभूषणार्थिक परममतिकरः
चेटस्याभरणानि देथिमे सुरुचिर विमला
सहजातो य सुभूषि छन्दको नृपतिकुलशुभे ।
तुष्टा शाकिय विस्मिताश्च अभवन्प्रमुदितमनसो
वृद्धिः शाक्यकुलनन्दस्य चोत्तमा भविष्यति विपुला
मूल पाठ: Lalitavistara · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1958 (Buddhist Sanskrit Texts, 1) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0