भाषा

ENहिગુ
ग्रंथ पाठ

Lalitavistara · अध्याय 7

7.1

इति श्रीललितविस्तरे गर्भावक्रान्तिपरिवर्तो नाम षष्ठमो ऽध्यायः ॥
स्तर्त् परिवर्त 7
जन्मपरिवर्तः सप्तमः ।
इति हि भिक्षवो दशमासेषु निगतेषु बोधिसत्त्वस्य जन्मकालसमये प्रत्युपस्थिते राज्ञः शुद्धोदनस्य गृहोद्याने द्वात्रिंशत्पूर्वनिमित्तानि प्रादुरभूवन् । कतमानि द्वात्रिंशत्? सर्वपुष्पाणि सुङ्गीभूतानि न पुष्पन्ति स्म । पुष्करिणीषु चोत्पलपद्मकुमुदपुण्डरीकाण्यभ्युद्गतानि कुड्मलीभूतानि न पुष्पन्ति स्म । तदा च पुष्पफलवृक्षा धरणीतलादभ्युद्गम्य क्षारकजाता न फलन्ति स्म । अष्टौ च रत्नवृक्षाः प्रादुरभूवन् । विंशति च रत्ननिधानशतसहस्राण्युत्प्लत्य व्यवस्थितानि दृश्यन्ते स्म । अन्तःपुरे च रत्नाङ्कुराः प्रादुरभूवन् । सुगन्धितैलपरिवासिताश्च गन्धोदकशीतोष्णाः प्रस्रवन्ति स्म । हिमवत्पर्वतपार्श्वाच्च सिंहपोतका आगत्यागत्याभिनदन्तः कपिलाह्वयपुरवरं प्रदक्षिणीकृत्य द्वारमूलेष्ववतिष्ठन्ते स्म, न कंचित्सत्त्वं विहेठयन्ति स्म । पञ्चशतानि पाण्डराणां हस्तिशावकानामागत्य राज्ञः शुद्धोदनस्याग्रकरैश्चरणावभिलिखन्ति स्म । मेखलीबद्धकाश्च देवदारका राज्ञः शुद्धोदनस्यान्तःपुरे उत्सङ्गेनोत्सङ्गमनुपरिवर्तमानाः संदृश्यन्ते स्म । गगनतलगतार्धकाया नागकन्या नानापूजोपकरणपरिगृहीता अध्यालम्बमानाः संदृश्यन्ते स्म । दश च नागकन्यासहस्राणि मयूराङ्गहस्तकपरिगृहीता गगततले ऽवस्थिताः संदृश्यन्ते स्म । दश च पूर्णकुम्भसहस्राणि कपिलवस्तु महानगरं प्रदक्षिणीकुर्वन्ति संदृश्यन्ते स्म । दश च देवकन्यासहस्राणि गन्धोदकभृङ्गारपरिगृहीता मूर्ध्नि धारयन्त्यो ऽवस्थिताः संदृश्यन्ते स्म । दश च देवकन्यासहस्राणि छत्रध्वजपताकापरिगृहीता अवस्थिताः संदृश्यते स्म । बहूनि चाप्सरःशतसहस्राणि शङ्खभेरीमृदङ्गपणवैः घण्टावसक्तैः प्रतीक्षमाणान्यवस्थितानि संदृश्यन्ते स्म । सर्वे वायवश्चावस्थिता न वान्ति स्म । सर्वनदी च प्रस्रवणानि च न वहन्ति स्म । चन्द्रसूर्यविमानानि नक्षत्रज्योतिर्गणाश्च न वहन्ति स्म । पुष्यं च नक्षत्रयुक्तमभूत् । रत्नजालपरिस्फुटं च राज्ञः शुद्धोदनस्य गृहं संस्थितमभूत् । वैश्वानरश्च न ज्वलति स्म । कूटागारप्रासादतोरणद्वारकतलेषु च मणिरत्नान्यभिप्रलम्बमानानि च संदृश्यन्ते स्म । दूष्यगञ्जाश्च विविरत्नगञ्जाश्च प्रावृताः संदृश्यन्ते स्म । काकोलूकगृध्रवृकशृगालशब्दाश्चान्तर्हिता अभूवन् । सुजातजातशब्दाश्च श्रूयन्ते स्म । सर्वजनपदकर्मान्ताश्च समुच्छिन्ना अभूवन् । उत्कूलनिकूलाश्च पृथिवीप्रदेशाः समाः समवस्थिताः सर्ववीथीचत्वरशृङ्गाटकरथ्यान्तरापणमुखानि च पाणितलमृष्टानीव पुष्पाभिकीर्णानि विरोचन्ते स्म । सर्वाश्च गुर्विण्यः सम्यक्सुखेन प्रसूयन्ते स्म । सर्वशालवनदेवताश्च पत्रेष्वर्धकायानभिनिर्माय नम्यमानाः स्थिताः संदृश्यन्ते स्म । इमानि द्वात्रिंशत्पूर्वनिमित्तानि प्रादुरभूवन् ॥
अथ खलु मायादेवी बोधिसत्त्वस्य जन्मकालसमयं ज्ञात्वा बोधिसत्त्वस्यैव तेजोनुभावेन रात्र्यां प्रथमे यामे राजानं शुद्धोदनमुपसंक्रम्य गाथाभिरभ्यभाषत -
देव शृणु हि मह्यं भाषतो यं मतं मे अचिरचिरचिरेणा जात उद्यानबुद्धिः ।
यदि च तव न रोषो नैव दोषो न मोहः क्षिप्रमहु व्रजेया क्रीडौद्यानभूमिम्

7.2

त्वमिह तपसि खिन्नो धर्मचित्तप्रयुक्तो अहु च चिरप्रविष्टा शुद्धसत्त्वं धरेन्ती ।
द्रुमवर प्रतिबुद्धाः फुल्लिता शालवृक्षाः युक्त भविय देवा गन्तुमुद्यानभूमिम्

7.3

ऋतुप्रवर वसन्तो योषितां मण्डनीयो भ्रमरवरविघुष्टाः कोकिलबर्हिगीताः ।
शुचिरुचिरविचित्रा भ्राम्यते पुष्परेणुः साधु ददहि आज्ञां गच्छमो मा विलम्बः

7.4

वचनमिमु श्रुणित्वा देविये पार्थिवेन्द्रः
तुष्टो मुदितचित्तः पारिषद्यानवोचत् ।
हयगजरथं पङ्क्त्या वाहना योजयध्वं
प्रवरगुणसमृद्धां लुम्बिनीं मण्डयध्वम्

7.5

नीलगिरिनिकाशां मेघवर्णानुबद्धां विंशति च सहस्रान् योजयध्वं गजानाम् ।
मणिकनकविचित्रां हेमजालोपगूढां घण्टरुचिरपार्श्वान् षड्विषाणां गजेन्द्रान्

7.6

हिमरजतनिकाशां मुञ्जकेशां सुकेशां विंशति च सहस्रान् योजयध्वं हयानाम् ।
कनकरचितपार्श्वा किङ्किणीजाललम्बा पवनजवितवेगा वाहना पार्थिवस्य

7.7

नरगण रणशौण्डान् शूर संग्रामकामान् असिधनुशरशक्तिपाशखड्गाग्रहस्तान् ।
विंशति च सहस्रान् योजयध्वं सुशीघ्रं माय सपरिवारां रक्षथा अप्रमत्ता

7.8

मणिकनकनिषिक्तां लुम्बिनीं कारयध्वं विविधवसनरत्नैः सर्ववृक्षां प्रवेथा ।
विविधकुसुमचित्रं नन्दनं वा सुराणां वदथ च मम शीघ्रं सर्वमेतं विधाय

7.9

वचनमिमु निशम्या पारिषद्यैः क्षणेन वाहन कृत सज्जा लुम्बिनी मण्डिता सा ।
पारिषद्य आह -
जय जय हि नरेन्द्रा आयु पालेहि दीर्घं सर्व कृतु यथोक्तं कारु देव प्रतीक्ष

7.10

सो च नरवरेन्द्रो हृष्टचित्तो भवित्वा गृहवरमनुविष्टो इष्टिकानेवमाह ।
यस्य अहु मनापो या च मे प्रीतिकामा सा मि कुरुत आज्ञां मण्डयित्वात्मभावम्

7.11

वरसुरभिसुगन्धां भावरङ्गां विचित्रां वसन मृदुमनोज्ञां प्रावृणोथा उदग्राः ।
उरसि विगलितानां मुक्तहारा भवेथा आभरणविभूषां दर्शयेथाद्य सर्वाः

7.12

तुणपणवमृदङ्गां वीणवेणूमुकुण्डां तूर्यशतसहस्रान् योजयध्वं मनोज्ञां ।
भूय कुरुत हर्षं देवकन्यान यूयं श्रुत्व मधुरघोषं देवतापि स्पृहेयुः

7.13

एकरथवरेस्मिं तिष्ठतां मायदेवी मा च पुरुष इस्त्री अन्य तत्रारुहेया ।
नारि विविधवर्मा तं रथं वाहयन्तां मा च प्रतिकूलं मा मनापं श्रुणेष्या

7.14

हयगजरथपत्तीं सैन्यश्रीमद्विचित्रां द्वारि स्थित नृपस्या श्रूयते उच्चघोषाः ।
क्षुभितजलनिधिर्वा श्रूयते एव शब्दो * * * *

7.15

माय यद गृहातो निर्गता द्वारमूलं घण्ट शतसहस्रा ताडिता मङ्गलार्थम्

7.16

सो च रथ विचित्रो मण्डितः पार्थिवेन अपि च मरुसहस्रैर्दिव्यसिंहासनेभिः ।
चतुरि रतनवृक्षा पत्रपुष्पोपपेता अभिनदितमनोज्ञां हंसक्रौञ्चान् मयूरान्

7.17

छत्रध्वजपताकाश्चोच्छ्रिता वैजयन्त्यः किङ्किणिवरजालैश्छादितं दिव्यवस्त्रैः ।
मरुवधु गगनेस्मिं तं रथं प्रेक्षयन्ते दिव्यमधुरघोषं श्रावयन्त्यः स्तुवन्ति

7.18

उपविशति यदा सा माय सिंहासनाग्रे प्रचलित त्रिसहस्रा मेदिनी षड्विकारम् ।
पुष्प मरु क्षिपिंसू अम्बरां भ्रामयिंसू अद्य जगति श्रेष्ठो जायते लुम्बिनीये

7.19

चतुरि जगतिपालास्तं रथं वाहयन्ते त्रिदशपतिरपीन्द्रो मार्गशुद्धिं करोति ।
ब्रह्म पुरतु गच्छी दुर्जनां वारयन्तो अमरशतसहस्राः प्राञ्जलीका नमन्ते

7.20

नृपति मुदितचित्तो वीक्षते तां वियूहां तस्य भवति एवं व्यक्त यं देवदेवो ।
यस्य चतुरि पाला ब्रह्म सेन्द्राश्च देवाः कुरुत विपुलपूजां व्यक्त यं शुद्धभावी

7.21

नास्ति त्रिभवि सत्त्वो यः सहेत्पूजमेतां देव अथ च नागाः शक्र ब्रह्मा च पालाः ।
मूर्ध तद फलेया जीवितं चास्य नश्येत् अयु पुन अतिदेवः सर्वपूजां सहाति

7.22

अथ खलु भिक्षवो मायादेवी चतुरशीत्या हयरथसहस्रैः सर्वालंकारविभूषितैः परिवृता चतुरशीत्या गजरथसहस्रैः सर्वालंकारविभूषितैः चतुरशीत्या च पत्तिसहस्रैः शूरैर्वीरैर्वराङ्गरूपिभिः सुसंनद्धदृढवर्मकवचितैरनुपरिगृहीता षष्ट्या च शाक्यकन्यासहस्रैः पुरस्कृता चत्वारिंशता च सहस्रै ( वैद्य 61 ) राज्ञः शुद्धोदनस्य ज्ञातिकुलप्रसूतैः शाक्यैः वृद्धदहरमध्यमैः संरक्षिता, षष्ट्या च सहस्रै राज्ञः शुद्धोदनस्यान्तःपुरेण गीतवाद्यसम्यक्तूर्यताडावचरसंगीतिसंप्रवादितेन परिवृता, चतुरशीत्या च देवकन्यासहस्रैः परिवृता, चतुरशीत्या च नागकन्यासहस्रैः चतुरशीत्या च गन्धर्वकन्यासहस्रैः चतुरशीत्या च किन्नरकन्यासहस्रैः चतुरशीत्या चासुरकन्यासहस्रैः नानाव्यूहालंकारालंकृताभिः नानागीतवाद्यवर्णभाषिणीभिरनुगम्यमाना निर्याति स्म । सर्वं च लुम्बिनीवनं गन्धोदकसिक्तं दिव्यपुष्पाभिकीर्णीकृतमभूत् । सर्ववृक्षाश्च तस्मिन् वनवरे अकालपत्रपुष्पफलानि ददन्ति स्म । देवैश्च तथा तद्वनं समलंकृतमभूत् तद्यथापि नाम मिश्रकावनं देवानां समलंकृतम् ॥
अथ खलु मायादेवी लुम्बिनीवनमनुप्रविश्य तस्माद्रथवरादवतीर्य नरमरुकन्यापरिवृता वृक्षेण वृक्षं पर्यटन्ती वनाद्वनं चंक्रम्यमाणा द्रुमाद् द्रुमं निरीक्षमाणा अनुपूर्वेण येनासौ प्लक्षो महाद्रुमरत्नवरप्रवरः सुविभक्तशाखः समपत्रमञ्जरीधरो दिव्यमानुष्यनानापुष्पसंपुष्पितो वरप्रवरसुरभिगन्धिनानागन्धिनानारङ्गवस्त्राभिप्रलम्बितो विविधमणिविचित्रप्रभोज्ज्वलितः सर्वरत्नमूलदण्डशाखापत्रसमलंकृतः सुविभक्तविस्तीर्णशाखः करतलनिभे भूमिभागे सुविभक्तविस्तीर्णनीलतृणमयूरग्रीवासंनिभे काचिलिन्दिकसुखसंस्पर्शे धरणीतले संस्थितः पूर्वजिनजनेत्र्याभिनिवासितः देवसंगीत्यनुगीतः शुभविमलविशुद्धः शुद्धावासदेवशतसहस्रैः प्रशान्तचित्तैरभिनतजटामकुटावलम्बितावनतमूर्धभिरभिनन्द्यमानस्तं प्लक्षवृक्षमुपजगाम ॥
अथ स प्लक्षवृक्षो बोधिसत्त्वस्य तेजोनुभावेनावनम्य प्रणमति स्म । अथ मायादेवी गगनतलगतेव विद्युत् दृष्टिं दक्षिणं बाहुं प्रसार्य प्लक्षशाखां गृहीत्वा सलीलं गगनतलं प्रेक्षमाणा विजृम्भमाना स्थिताभूत् । अथ तस्मिन् समये षष्ट्यप्सरःशतसहस्राणि कामावचरदेवेभ्य उपसंक्रम्य मायादेव्या उपस्थाने परिचर्यां कुर्वन्ति स्म ॥
एवंरूपेण खलु पुन ऋद्धिप्रातिहार्येण समन्वागतो बोधिसत्त्वो मातुः कुक्षिगतो ऽस्थात् । स परिपूर्णानां दशानां मासानामत्ययेन मातुर्दक्षिणपार्श्वान्निष्क्रमति स्म स्मृतः संप्रजानन्ननुपलिप्तो गर्भमलैर्यथा नान्यः कश्चिदुच्यते ऽन्येषां गर्भमल इति ॥
तस्मिन् खलु पुनर्भिक्षवः समये शक्रो देवानामिन्द्रो ब्रह्मा च सहापतिः पुरतः स्थितावभूताम्, यौ बोधिसत्त्वं परमगौरवजातौ दिव्यकाशिकवस्त्रान्तरितं सर्वाङ्गप्रत्यङ्गैः स्मृतौ संप्रज्ञौ प्रतिगृह्णाते स्म ॥
यस्मिंश्च कूटागारे बोधिसत्त्वो मातुः कुक्षिगतो ऽस्थात्, तं ब्रह्मा सहापतिर्ब्रह्मकायिकाश्च देवपुत्रा अभ्युत्क्षिप्य ब्रह्मलोकं चैत्यार्थं पूजार्थं चोपनामयामासुः । अपरिगृहीतः खलु पुनर्बोधिसत्त्वः केनचिन्मनुष्यभूतेन, अथ तहि बोधिसत्त्वं देवताः प्रथमतरं प्रतिगृह्णन्ति स्म ॥
अथ बोधिसत्त्वो जातमात्रः पृथिव्यामवतरति स्म । समनन्तरावतीर्णस्य च बोधिसत्त्वस्य महासत्त्वस्य महापृथिवीं भित्त्वा महापद्मं प्रादुरभूत् । नन्दोपनन्दौ च नागराजानौ गगनतले ऽर्धकायौ ( वैद्य 62 ) स्थित्वा शीतोष्णे द्वे वारिधारे ऽभिनिर्भिंत्त्वा बोधिसत्त्वं स्नापयतः स्म । शक्रब्रह्मलोकपालाः पूर्वंगमाश्चान्ये च बहवो देवपुत्राः शतसहस्रा ये बोधिसत्त्वं जातमात्रं नानागन्धोदकमुक्तकुसुमैः स्नापयन्त्यभ्यवकिरन्ति स्म । अन्तरिक्षे च द्वे चामरे रत्नच्छत्रं च प्रादुर्भूतम् । स तस्मिन् महापद्मे स्थित्वा चतुर्दिशमवलोकयति स्म । (चतुर्दिशमवलोक्य) सिंहावलोकितं महापुरुषावलोकितं व्यवलोकयति स्म ॥
तस्मिन् खलु पुनः समये बोधिसत्त्वः पूर्वकुशलमूलविपाकजेनाप्रतिहतेन दिव्यचक्षुप्रादुर्भूतेन दिव्येन चक्षुषा सर्वावन्तं त्रिसाहस्त्रं महासाहस्त्रं लोकधातुं सनगरनिगमजनपदराष्ट्रराजधानीं सदेवमानुषं पश्यति स्म । सर्वसत्त्वानां च चित्तचरितं च प्रजानाति स्म । ज्ञात्वा च व्यवलोकयति स्म - अस्ति त्वसौ कश्चित्सत्त्वो यो मया सदृशः शीलेन वा समाधिना वा प्रज्ञया वा कुशलमूलचर्यया वा । यदा च बोधिसत्त्वः त्रिसाहस्रमहासाहस्रलोकधातौ न कंचित्सत्त्वमात्मतुल्यं पश्यति स्म, अथ तस्मिन्समये बोधिसत्त्वः सिंह इव विगतभयभैरवो ऽसंत्रस्तः अस्तम्भी सुचिन्तितं स्मृत्वा चिन्तयित्वा सर्वसत्त्वानां चित्तचरितानि ज्ञात्वा अपरिगृहीतो बोधिसत्त्वः पूर्वां दिशमभिमुखः सप्त पदानि प्रक्रान्तः - पूर्वंगमो भविष्यामि सर्वेषां कुशलमूलानां धर्माणाम् । तस्य प्रक्रमत उपर्यन्तरीक्षे ऽपरिगृहीतं दिव्यश्वेतविपुलछत्रं चामरशुभे गच्छन्तमनुगच्छन्ति स्म - यत्र यत्र च बोधिसत्त्वः पदमुत्क्षिपति स्म, तत्र तत्र पद्मानि प्रादुर्भवन्ति स्म । दक्षिणां दिशमभिमुखः सप्त पदानि प्रक्रान्तः - दक्षिणीयो भविष्यामि देवमनुष्याणाम् । पश्चिमां दिशमभिमुखः सप्त पदानि प्रकान्तः । सप्तमे स्थित्वा सिंह इवाह्लादनात्मिकां वाचं भाषते स्म - अहं लोके ज्येष्ठो ऽहं लोके श्रेष्ठः । इयं मे पश्चिमा जातिः । करिष्यामि जातिजरामरणदुःखस्यान्तम् । उत्तरां दिशमभिमुखः सप्त पदानि प्रक्रान्तः - अनुत्तरो भविष्यामि सर्वसत्त्वानाम् । अधस्ताद्दिशमभिमुखः सप्त पदानि प्रक्रान्तः - निहनिष्यामि मारं च मारसेनां च । सर्वनैरयिकाणां च निरयाग्निप्रतिघाताय सह धर्ममेघवृष्टिं वर्षिष्यामि, येन ते सुखसमर्पिता भविष्यन्ति । उपरिष्टाद्दिशमभिमुखः सप्त पदानि प्रक्रान्तः, उर्ध्वं चावलोकयति स्म - उल्लोकनीयो भविष्यामि सर्वसत्त्वानाम् । समनन्तरभाषिता चेयं बोधिसत्त्वेन वाकू । अथ तस्मिन् समये अयं त्रिसाहस्रमहासाहस्रलोकधातुः स्वरेणाभिविज्ञाप्तो ऽभूत् । इयं बोधिसत्त्वस्य कर्मविपाकजा अभिज्ञाधर्मता ॥

यदा बोधिसत्त्वश्चरमभविक उपजायते, यदा चानुत्तरां सम्यक्संबोधिमभिसंबुध्यते, तदा अस्येमान्येवंरूपाणि ऋद्धिप्रातिहार्याणि भवन्ति - तस्मिन् खलु पुनर्भिक्षवः समये संहृषितरोमकूपजाताः सर्वसत्त्वा अभूवन् । महतश्च पृथिवीचालस्य लोके प्रादुर्भावो ऽभूत् भैरवस्य रोमहर्षणस्य । अघट्टितानि च दिव्यमानुष्यकानि तूर्याणि संप्रवादितानि । सर्वर्तुकालिकाश्च ( वैद्य 63 ) वृक्षास्तस्मिन् समये त्रिसाहस्रमहासाहस्रलोकधातौ संकुसुमिताः फलिताश्च । विशुद्धाच्च गगनतलान्मेघशब्दः श्रूयते स्म । अपगतमेघाच्च गगनाच्छनैः सूक्ष्मसूक्ष्मो देवः प्रवर्षति स्म । नानावर्षदिव्यकुसुमवस्त्राभरणगन्धचूर्णव्यामिश्राः परमसुखसंस्पर्शाश्च सौम्याः सुगन्धवाताः प्रवायन्ति स्म । व्यपगततमोरजोधूमनीहाराश्च सर्वदिशः सुप्रसन्ना विराजन्ते स्म । उपरिष्टाच्चान्तरिक्षाददृश्या गम्भीरा महाब्रह्मघोषाः संश्रूयन्ते स्म । सर्वचन्द्रसूर्यशक्रब्रह्मलोकपालप्रभाश्चाभिभूता अभूवन् । परमसुखसंस्पर्शया च सर्वसत्त्वकायचित्तसुखसंजनन्या लोकोत्तरया अनेकशतसहस्रवर्णप्रभया सर्वत्रिसाहस्रमहासाहस्रलोकधातुः परिस्फुटो ऽभूत् । समन्तरजातस्य खलु पुनर्बोधिसत्त्वस्यैकान्तसुखसमर्पिताः सर्वसत्त्वा बभूवुः । सर्वरागद्वेषमोहदर्पारतिविषादभयलोभेर्ष्यामात्सर्यविगताः सर्वाकुशलक्रियाप्रतिविरता व्याधितानां सत्त्वानां व्याधय उपशान्ताः । क्षुत्पिपासितानां सत्त्वानां क्षुत्पिपासा प्रस्रब्धाभूत् । मद्यमदमत्तानां च सत्त्वानां मदापगमः संवृत्तः । उन्मत्तैश्च स्मृतिः प्रतिलब्धा । चक्षुर्विकलैश्च सत्त्वैश्चक्षुः प्रतिलब्धम्, श्रोत्रविकलैश्च सत्त्वैः श्रोत्रम् । अङ्गप्रत्यङ्गविकलेन्द्रियाश्चाविकलेन्द्रियाः संवृत्ताः । दरिद्रैश्च धनानि प्रतिलब्धानि । बन्धनबद्धाश्च बन्धनेभ्यो विमुक्ताः । आवीचिमादिं कृत्वा सर्वनैरयिकाणां सत्त्वानां सर्वकारणाद् दुःखं तस्मिन्समये प्रस्रब्धम् । तियग्योनिकानामन्योन्यभक्षणादि दुःखम्, यमलोकिकानां सत्त्वानां क्षुत्पिपासादिदुःखं व्युपशान्तमभूत् ॥
यदा च बोधिसत्त्वो जातमात्रः सप्त पदानि प्रक्रान्तो ऽभूत्, असंख्येयाकल्पकोटिनयुतशतसहस्रैः सुचरितचरणैर्महावीर्यमहास्थामधर्मताप्रतिलम्भेन तस्मिन् समये दशदिग्लोकधातुस्थिता बुद्धा भगवन्तस्तं पृथ्वीप्रदेशं वज्रमयधितिष्ठन्ति स्म । येन महापृथिवी तस्मिन् प्रदेशे नावतीर्यत, तावन्महाबलवेगसमन्वागतो हि भिक्षवो जातमात्रो बोधिसत्त्वः सप्त पदानि प्रक्रान्तो ऽभूत् । सर्वलोकान्तरिकाश्च तस्मिन् समये महतावभासेन स्फुटा अभूवन् । महांश्च तस्मिन् समये गीतशब्दो ऽभून्नृत्यशब्दः । अप्रमेयाश्च तस्मिन् समये पुष्पचूर्णगन्धमाल्यरत्नाभरणवस्त्रमेघा अभिप्रवर्षन्ति स्म । परमसुखसमर्पिताश्च सर्वसत्त्वा अभूवन् । संक्षेपादचिन्त्या सा क्रियाभूत्, यदा बोधिसत्त्वो लोके प्रादुरभूत् सर्वलोकाभ्युद्गतः ॥
अथ खल्वायुष्मानानन्दः उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणजानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् - सर्वसत्त्वानां भगवंस्तथागत आश्चर्यभूतो ऽभूत्, बोधिसत्त्वभूत् एवाद्भुतधर्मसमन्वागतश्च । कः पुनर्वादः एवं ह्यनुत्तरां सम्यक्संबोधिमभिसंबुद्धः । एषो ऽहं भगवंश्चतुष्पञ्चकृत्वो ऽपि दशकृत्वो ऽपि यावत्पञ्चाशत्कृत्वो ऽपि शतकृत्वो ऽपि यावदनेकशतसहस्रशो ऽप्यहं भगवन् बुद्धं भगवन्तं शरणं गच्छामि ॥
एवमुक्ते भगवानायुष्मन्तमानन्दमेतदवोचत् - भविष्यन्ति खलु पुनरानन्द अनागते ऽध्वनि केचिद्भिक्षवो ऽभावितकाया अभावितचित्ता अभावितशीला अभावितप्रज्ञा बाला अपण्डिता आभिमानिका उद्धता उन्नता असंवृता विक्षिप्तचित्ताः काङ्क्षापरीत्ता विचिकित्साबहुला अश्रद्धाः श्रमणमलाः श्रमणप्रतिरूपकाः । ते न श्रद्दास्यन्ति इमामेवंरूपां बोधिसत्त्वस्य गर्भावक्रान्तिपरिशुद्धिम् । ते ऽन्योन्यमेकान्ते संनिपात्यैवं वक्ष्यन्ति - पश्यत भो यूयमेतदपूज्यमानं बोधिसत्त्वस्य किल मातुः कुक्षिगतस्योच्चारप्रस्रावमण्डोपरिमिश्रस्य ईदृशी विभूतिरासीत् । स च किल अभिनिष्क्रामन् मातुर्दक्षिणायाः कुक्षेरनुपलिप्तो गर्भमलेनाभूदिति । कथमेतद्योज्यते? न पुनस्ते मोहपुरुषा एवं ज्ञास्यन्ति - न सुकृतकर्मणां सत्त्वानामुच्चारप्रस्रावमण्डे कायः संभवतीति । भद्रिका खल्वपि तथारूपाणां सत्त्वानां गर्भावक्रान्तिर्भवति । गर्भावस्थितश्च सत्त्वानुकम्पया हि बोधिसत्त्वो मनुष्यलोके उपपद्यते, न देवभूत एव धर्मचक्रं प्रवर्तयति । तत्कस्मात्? मा खल्वानन्द सत्त्वाः कौसीद्यमापत्स्यन्ते । देवभूतः स भगवान् तथागतो ऽर्हन् सम्यक्संबुद्धः, वयं तु मनुष्यमात्राः । न वयं समर्थास्तत्स्थानं परिपूरयितुमिति कौसीद्यमापद्येरन् । न खलु पुनस्तेषां मोहपुरुषाणां धर्मस्तैन्यकानामेवं भविष्यति - अचिन्त्यो हि स सत्त्वः, नासावस्माभिः प्रामाणिकः कर्तव्य इति । अपि तु खल्वानन्द बुद्धऋद्धिप्रातिहार्यमपि ते तस्मिन् काले नावकल्पयिष्यन्ति, किमङ्ग पुनर्बोधिसत्त्वभूतस्य तथागतस्य बोधिसत्त्वप्रातिहार्याणि । पश्य आनन्द कियन्तं ते मोहपुरुषा बह्वपुण्याभिसंस्कारमभिसंस्करिष्यन्ति, ये बुद्धधर्मान् प्रतिक्षेप्स्यन्ति लाभसत्कारश्लोकाभिभूता उच्चारलग्ना लाभसत्काराभिभूता इतरजातीयाः ॥
आनन्द आह - मा मैवंरूपा भगवन् अनागते ऽध्वनि भिक्षवो भविष्यन्ति य इमामेवं भद्रिकां सूत्रान्तां प्रतिक्षेप्स्यन्ति प्रतिपक्षं पक्षन्ति च ॥
भगवानाह - एवंरूपाश्च ते आनन्द सूत्रान्तां प्रपिक्षेप्स्यन्ति, प्रतिवक्ष्यन्ति चानेकप्रकारान् चान्यान् पापकानभिसंस्कारानभिसंस्करिष्यन्ति । अनर्थिकाश्च ते श्रामण्येन भविष्यन्ति ॥
आनन्द आह - का पुनर्भगवन् तेषां तथारूपाणामसत्पुरुषाणां गतिर्भविष्यति? को ऽभिसंपरायः?
भगवानाह - या गतिर्बुद्धबोधिमन्तर्धायाप्यतीतानागतप्रत्युत्पन्नांश्च बुद्धान् भगवतो ऽत्याख्याय तां ते गतिं गमिष्यन्ति ॥
अथ खल्वायुष्मानानन्दः संहर्षितरोमकूपजातो नमो बुद्धाय इत्युक्त्वा भगवन्तमेतदवोचत्मूर्छा मे भगवन् कायस्याभूदिमं तेषामसत्पुरुषाणां समुदाचारं श्रुत्वा ॥

भगवानाह - न तेषामानन्द समाचारो भविष्यति । विषमसमुदाचाराः खलु पुनस्ते सत्त्वा भविष्यन्ति । ते तेन विषमेन समुदाचारेणवीचौ महानरके प्रपतिष्यन्ति । तत्कस्य हेतोः? ये केचिदानन्द भिक्षवो वा भिक्षुण्यो वा उपासको वा उपासिका वा इमानेवंरूपान् सूत्रान्तान् श्रुत्वा नाधिमोक्ष्यन्ति न श्रद्धास्यन्ति न प्रतिवेत्स्यन्ति, ते च्युताः समाना अवीचौ महानरके प्रपतिष्यन्ति । मा आनन्द तथागताप्रामाणिकं अकार्षुः । तत्कस्माद्धेतोः? अप्रमेयो ह्यानन्द तथागतो गम्भीरो विपुलो दुरवगाहः । येषां केषांचिदानन्द इमानेवंरूपान् सूत्रान्ताञ्छ्रुत्वोपपत्स्यते प्रीतिप्रामोद्यम्, प्रसादलाभास्तैः सत्त्वैः सुलब्धाः । अमोघं च तेषां जीवितम्, अमोघं च तेषां मानुष्यम्, सुचरितचरणाश्च ते, आदत्तं च तैः सारम्, मुक्ताश्च ते त्रिभ्यो ऽपायेभ्यः, भविष्यन्ति च ते पुत्रास्तथागतस्य, परिप्राप्तं च तैः सर्वकार्यम्, अमोघश्च तेषां श्रद्धाप्रतिलम्भः, सुविभक्त च तै राष्ट्रपिण्डम्, प्रसन्नाश्च ते ऽग्रसत्त्वैः, संछिन्नास्तैर्मारपाशाः, निस्तीर्णश्च तैः संसाराटवीकान्तारः, समुद्धृतश्च तैः शोकशल्यः, अनुप्राप्तं च तैः प्रामोद्यवस्तु, सुगृहीतानि च तैः शरणगमनानि, दक्षिणीयाश्च ते पूजार्हाः, दुर्लभप्रादुर्भावाश्च ते लोके, दक्षिणीयाश्च ते धारयितव्याः । तत्कस्य हेतोः? तथा हि - ते सर्वलोके इममेवं सर्वलोकविप्रत्यनीकं तथागतधर्मं श्रद्दधन्ति । न ते आनन्द सत्त्वा अवरकेण कुशलमूलेन समन्वागता भवन्ति । ते चानन्द सत्त्वा ममैकजातिप्रतिबद्धानि मित्राणि भविष्यन्ति । तत्कस्माद्धेतोः? कश्चिदानन्द श्रवणादेव प्रियो भवति मनापश्च न तु दर्शनेन । कश्चिदानन्द दर्शनेनापि प्रियो भवति मनापश्च न तु खलु पुनः श्रवणेन । कश्चिदानन्द दर्शनेनापि श्रवणेनापि प्रियो भवति मनापश्च । तेषां केषांचिदानन्द अहं दर्शनेन वा श्रवणेन वा प्रियो मनापो भवेयं निष्ठां त्वं तत्र गच्छेथाः - न तानि ममैकजातिप्रतिबद्धानि मित्राणि । दृष्टास्ते तथागतेन, मोचयितव्यास्ते तथागतेन, ते समगुणप्रत्यंशाः, ते तथागतगुणप्रत्यंशाः, ते तथागतेन कर्तव्या उपासकाः, ते तथागतं शरणं गताः, उपात्तास्ते तथागतेन । ममान्तिकात् खल्वप्यानन्द पूर्वं बोधिसत्त्वचर्यामेव तावच्चरतो ये केचिद्भयार्दिताः सत्त्वा आगत्य अभयं प्रतियाचन्ते स्म, तेभ्यो ऽहं सत्त्वेभ्यो ऽभयं दत्त्वान्, किमङ्ग पुनरेतर्ह्यनुत्तरां सम्यक्संबोधिमभिसंबुद्धः । श्रद्धायामानन्द योगः करणीयः । इदं तथागतो विज्ञापयति । यदानन्द तथागतेन युष्माकं करणीयं कृतम्, तत्तथागतेन शोधितो मानशल्यः । श्रवणेनाप्यानन्द मित्रस्य ननु योजनशतान्तरमपि गच्छन्ति, गत्वा च सुखिता भवन्ति अदृष्टपूर्वं मित्रं दृष्ट्वा । कः पुनर्वादो ये मां निश्रित्य कुशलमूलान्यवरोपयन्ति । ज्ञास्यन्त्यानन्द तथागता अर्हन्तः सम्यक्संबुद्धाः - पूर्व मित्राण्येते सत्त्वास्तथागतानाम्, अस्माकमप्येते मित्राणि भवन्तीति । तत्कस्मात् खलु पुनरानन्द मित्रं मित्रस्य प्रियं च मनापं च भवति? तस्यापि (तदपि) प्रियमेव भवति, मित्रस्य यत्प्रियं मित्रम्, तदपि प्रियमेव भवति मनापं च । तस्मात्तर्ह्यानन्द आरोचयामि च प्रतिवेदयामि च । श्रद्धामात्रकमुत्पादयथ । अनुपरिन्दिष्यामो ( वैद्य 66 ) वयमनागतानां तथागतानामर्हतां सम्यक्संबुद्धानामन्तिके, ते ऽस्माकमपि मित्राणीति विदित्वा यथाभिप्रायं परिपूरयिष्यन्ति । तद्यथापि नाम आनन्द कस्यचिदेव पुरुषस्यैकपुत्रको भवेत् सुवयाः प्रदक्षिणग्राही । स च पुरुषो बहुमित्रो भवेत् । स तस्मिन् पितरि कालगते न हि विहन्येत पितृमित्रसुपरिगृहीतः । एवभेव आनन्द ये केचिन्मम श्रद्धास्यन्ति तानहमुपाददामि । मित्राणीव मम तानि । (ते) मम शरणं गताः । बहुमित्रश्च तथागतः । तानि च तथागतस्य मित्राणि भूतवादीनि न मृषावादीनि । अनुपरिन्दाम्यहं भूतवादीनाम् । यानि तथागतस्य मित्राण्यनागतास्तथागता अर्हन्तः सम्यक्संबुद्धा । श्रद्धायामानन्द योगः करणीयः । अत्राहं युष्मान् विज्ञापयामीति ॥
इति हि जाते बोधिसत्त्वे गगनतलगतान्यप्सरःकोटिनयुतशतसहस्राणि दिव्यैः पुष्पधूपगन्धमाल्यविलेपनवस्त्राभरणैर्मायादेवीमभ्यवकिरन्ति स्म । तत्रेदमुच्यते -
शुभविमलविशुद्धहेमप्रभा चन्द्रसूर्यप्रभा
षष्टि दशसहस्र देवाप्सरा मञ्जुघोषस्वराः ।
तस्मि क्षणि उपेत्य तां लुम्बिनीं मायदेव्यब्रुवन्
मा खु जनि विषादु तुष्टा भवोपस्थायिकाष्ते वयम्

7.23

भणहि किं करणीयु किं कुर्महे केन कार्यं च ते
वयं तव सुसमर्थोपस्थायिका प्रेमभावस्थिताः ।
अपि च भव उदग्र हर्षान्विता मा च खेदं जनेहि
जरामरणविघाति वैद्योत्तमं अद्य देवी जनेषी लघुम्

7.24

यथ द्रुम परिफुल्ल संपुष्पिता शालवृक्षा इमे
यथ च मरुसहस्र पार्श्वे स्थिता भ्रामयन्तो भुजान् ।
यथ च चलि ससागरा मेदिनी षड्विकारा इयं
दिवि दिवि च विघुष्ट लोकोत्तरं त्वं जनेषी सुतम्

7.25

यथ च प्रभ विशुद्ध विभ्राजते स्वर्णवर्ण शुभा
तूर्यशत मनोज्ञा चाघट्टिता घुष्ययन्ते ऽम्बरे ।
यथ च शतसहस्र शुद्धा शुभा वीतरागाः सुरा
नमिषु मुदितचित्ता अद्यो जने सर्वलोके हितम्

7.26

शक्रमपि च ब्रह्मपालापि चान्या च या देवता
तुष्टमुदितचित्ता पार्श्वे स्थिता नामयन्तो भुजाम् ।
सो च पुरुषसिंह शुद्धव्रतो (भित्त्व) कुक्षिनिर्धावितो
कनकगिरिनिकाश शुद्धव्रतो निष्क्रमी नायकः

7.27

शक्रमपि च ब्रह्म तौ पाणिभिः संप्रतीच्छा मुनिं
क्षेत्र शतसहस्र संकम्पिता आभ मुक्ता शुभा ।
अपि च त्रिषु अपायि सत्त्वा सुखी नास्ति दुःखं पुन
अमरशतसहस्र पुष्पां क्षिपी भ्रामयन्त्यम्बरान्

7.28

वीर्यबलौपेत वज्रात्मिका मेदिनी संस्थिता (ऽभुत्तदा)
पद्मु रुचिरचित्रु अभ्युद्गतो यत्र (चक्राङ्गचित्रेभिः) पद्भ्यां स्थितो (ऽपि) नायकः ।
सप्त पद क्रमित्व ब्रह्मस्वरो मुञ्चि घोषोत्तमं
जरमरणविघाति वैद्योत्तमो भेष्यि सत्त्वोत्तमः

7.29

गगनतल स्थिहित्व ब्रह्मोत्तमो शक्रदेवोत्तमः
शुचिरुचिरप्रसन्नगन्धोदकैर्विस्नपी नायकम् ।
अपि च उरगराजा शीतोष्ण द्वे वारिधारे शुभे (व्यमुञ्चतान्तरीक्षे स्थिताः)
अमर शतसहस्र गन्धोदकैर्विस्नपी नायकम्

7.30

लोकपालाश्च संभ्रान्त संधारयन्ती करैः शोभनैः ।
त्रिसहस्रा इयं भूमिः कम्पते सचराचरा

7.31

प्रभा च रुचिरा मुक्ता अपायाश्च विशोधिताः ।
क्लेशदुःखाश्च ते शान्ता जाते लोकविनायके

7.32

क्षिपन्ति मरुतः पुष्पं जाते ऽस्मिन्नरनायके ।
क्रम सप्त पदां वीरः क्रमते बलवीर्यवान्

7.33

पादौ निक्षिपते यत्र भूमौ पद्मवराः शुभाः ।
अभ्युद्गच्छंस्ततो मह्यां सर्वरत्नविभूषिताः

7.34

यदा सप्त पदां गत्वा ब्रह्मस्वरमुदाहरि ।
जरामरणविघाति भिषग्वर इवोद्गतः

7.35

व्यवलोकयित्वा च विशारदो दिशः ततो गिरां मुञ्चति अर्थयुक्ताम् ।
ज्येष्ठो ऽहं सर्वलोकस्य श्रष्ठो (लोके विनायकः) इयं च जातिर्मम पश्चिमा (इति)

7.36

हास्यं च मुक्तं नरनायकेन सलोकपालैर्मरुभिश्च सेन्द्रैः ।
प्रसन्नचित्तैर्वरगन्धवारिभिः संस्कारितो लोकहितार्थकारी

7.37

अपि चोरगेन्द्रैः सहितैः समग्रैः गन्धोग्रधाराविसरैः स्नपिंसु ।
अन्ये ऽपि देवा नयुता (स्थिताः) ऽन्तरीक्षे स्नपिंसु गन्धाग्रजिने स्वयंभुम्

7.38

श्वेतं च विपुलं छत्रं चामरांश्च शुभाम्बरान् ।
अन्तरीक्षे गता देवाः स्नापयन्ति नरर्षभम्

7.39

पञ्चकुलिकशतानि प्रसूयन्ते स्म ।
पुरुष त्वरितु गत्व शुद्धोदनमब्रवीत् हर्षितो
वृद्धि विपुल जातु देवा सुतो भूषितो लक्षणैः ।
महकुलरतनस्य (वृद्धिभूता) व्यक्तो असौ चक्रवर्तीश्वरः
न च भवि प्रतिशत्रु जम्बुध्वजे एकछत्रो भवेत्

7.40

द्वितियु पुरुषु गत्व (राज्ञि) शुद्धोदने श्लेषयित्वा क्रमे
वृद्धि विपुल देव जाता नृपे शाकियानां कुले ।
पञ्चविंशतिसहस्र जाताः सुताः शाकियानां गृहे
सर्वि बलौपेत नग्नाः समा दुष्प्रधर्षा परैः

7.41

अपरु पुरुष आह देवा श्रुणा नन्दशब्दं ममा
छन्दकप्रमुखानि चेटीसुता जात अष्टौ शता ।
अपि च दशसहस्र जाता हयाः कण्ठकस्य सखा
तुरगवरप्रधान हेमप्रभा मञ्जुकेशा वराः

7.42

विंशति च सहस्र पर्यन्तकाः कोट्टराजास्तथा
नृपति क्रमतलेभि चान्वाक्रमी साधु देवा जया ।
आज्ञा खलु ददाहि गच्छाम किं वा करोमो नृपा
त्वमिह वशितु प्राप्तु भृत्या वयं भट्ट देवा जया

7.43

विंशति च सहस्र नागोत्तमा हेमजालोज्ज्वला
त्वरितमुपगमिंसु राज्ञो गृहं गर्जमाना नभे ।
कृष्णशबल वत्स गोपामुखा जात षष्टिशता
इयमपि सुति देवदेवोत्तमे वृद्धि राज्ञो गृहे

7.44

अपि च नृपति गच्छ प्रेक्ष स्वयं सर्वमेव प्रभो (पुण्यतेज प्रभो)
नरमरुतसहस्र ये हर्षिता दृष्ट्व जाते गुणां ।
बोधिवर अशोक संप्रस्थिताः क्षिप्र भोमा जिनाः

7.45

इति ॥
इति हि भिक्षवो जाते बोधिसत्त्वे तत्क्षणं दाननिसर्गः पुनरुत्तरि प्रवर्तते स्म । पञ्च च कुलिकाशतानि प्रसूयन्ते स्म, दश च कन्यासहस्राणि यशोवतीप्रमुखानि । अष्टौ दासीशतानि अष्टौ दासशतानि छन्दकप्रमुखानि । दश वडवासहस्राणि दश किशोरसहस्राणि कण्ठकप्रमुखानि । पञ्च करेणुसहस्राणि पञ्च पिङ्गसहस्राणि प्रसूयन्ते स्म । तानि सर्वाणि राज्ञा शुद्धोदनेन पुस्तवरोपितानि कुमारस्य क्रीडार्थं दत्तान्यभूवन् ॥
चतुर्णां च द्वीपकोटीशतसहस्राणां मध्ये पृथिवीप्रदेशे अश्वत्थयष्टिः प्रादुरभूदन्तर्द्वीपे च चन्दनवनं प्रादुर्बभूव बोधिसत्त्वस्य परिभोगार्थं बोधिसत्त्वस्यैवानुभावेन । पञ्च चोद्यानशतानि समन्तान्नगरस्य प्रादुर्बभूवुर्बोधिसत्त्वस्य परिभोगाय । पञ्च च निधानसहस्राणि धरणीतलादुत्प्लुत्य मुखं दर्शयन्ति स्म । इति हि ये केचिद्राज्ञः शुद्धोदनस्यार्थाभिप्रेता अभूवन्, ते सर्वे समृद्धाभिप्रेता अभूवन् संसिद्धाः ॥
ततो राज्ञः शुद्धोदनस्यैतदभूत् - किमहं कुमारस्य नामधेयं करिष्यामीति । ततो ऽस्यैतदभूत् - अस्य हि जातमात्रेण मम सर्वार्थाः संसिद्धाः । यन्न्वहमस्य सर्वार्थसिद्ध इति नाम कुर्याम् । ततो राजा बोधिसत्त्वं महता सत्कारेण सत्कृत्य सर्वार्थसिद्धो ऽयं कुमारो नाम्ना भवतु इति नामास्याकार्षीत् ॥
इति हि भिक्षवो जाते बोधिसत्त्वे मातुः कुक्षिपार्श्वमक्षतमनुपहतमभवद्यथा पूर्वं तथा पश्चात् । त्रितविष्यन्दाम्बुकूपाः प्रादुरभूवन् अपि च सुगन्धतैलपुष्करिण्यः । पञ्चाप्सरः - सहस्राणि दिव्यगन्धपरिवासिततैलपरिगृहीतानि बोधिसत्त्वमातरमुपसंक्रम्य सुजातजाते तामक्लान्तकायतां च परिपृच्छन्ति स्म । पञ्चाप्सरःसहस्राणि दिव्यानुलेपनपरिगृहीतानि बोधिसत्त्वमातरमुपसंक्रम्य सुजातजाते तामक्लान्तकायतां च परिपृच्छन्ति स्म । पञ्चाप्सरःसहस्राणि दिव्यगन्धोदकपरिपूर्णघटापरिगृहीतानि बोधिसत्त्वमातरमुपसंक्रम्य सुजातजाते तामक्लान्तकायतां च परिपृच्छन्ति स्म । पच्चाप्सरःसहस्राणि दिव्यानुलेपनपरिगृहीतनि बोधिसत्त्वमातरमुपसंक्रम्य सुजातजाते तामक्लान्तकायतां च परिपृच्छन्ति स्म । पञ्चाप्सरःसहस्राणि दिव्यदारकाचीवरपरिगृहीतानि बोधिसत्वमातरमुपसंक्रम्य सुजारजाते तामक्लान्तकायतां च परिपृच्छन्ति स्म । पञ्चाप्सरः - सहस्राणि दिव्यदारकाभरणपरिगृहीतानि बोधिसत्त्वमातरमुपसंक्रम्य सुजातजाते तामक्लान्तकायतां च परिपृच्छन्ति स्म । पञ्चाप्सरःसहस्राणि दिव्यतूर्यसंगीतिसंप्रभणितेन बोधिसत्त्वमातरमुपसंक्रम्य सुजातजाते तामक्लान्तकायतां च परिपृच्छन्ति स्म । यावन्तश्चेह जम्बुद्वीपे बाह्याः पञ्चभिज्ञा ऋषयस्ते सर्वे गगनतलेनागत्य राज्ञः शुद्धोदनस्य पुरतः स्थित्वा जयवृद्धिशब्दमनुश्रावयन्ति स्म ॥
इति हि भिक्षवो जातमात्रो बोधिसत्त्वः सप्तरात्रः लुम्बिनीवने दिव्यमानुष्यकैस्तूर्यतालावचरैः सत्क्रियते स्म, गुरुक्रियते स्म, मान्यते स्म, पूज्यते स्म, खाद्यभोज्यस्वादनीयानि ( वैद्य 70 ) विश्राण्यन्ते स्म । सर्वशाक्यगणाश्च संनिपात्यानन्दशब्दमुदीरयन्ति स्म, दानानि च ददन्ति स्म, पुण्यानि च कुर्वन्ति स्म । द्वात्रिंशच्च ब्राह्मणशतसहस्राणि दिने दिने संतर्प्यन्ते स्म । येषां च येनार्थेन तेभ्यस्तद्दीयते स्म । शक्रश्च देवानामिन्द्रो ब्रह्मा च तस्यां ब्राह्मणपर्षदि माणवकरूपमभिनिर्मायाग्रासने निषद्येमां मङ्गल्यां गाथामभ्यभाषताम् -
अपायाश्च यथा शान्ता सुखी सर्वं यथा जगत् ।
ध्रुवं सुखावहो जातः सुखे स्थापयिता जगत्

7.46

यथा वितिमिरा चाभा रविचन्द्रसुरप्रभाः ।
अभिभूता न भासन्ते ध्रुवं पुण्यप्रभोद्भवः

7.47

पश्यन्त्यनयना यद्वच्छ्रोत्रहीनाः श्रुणन्ति च ।
उन्मत्तकाः स्मृतीमन्तो भविता लोकचेतियः

7.48

न बाधन्ते यथा क्लेशा जातं मैत्रजनं जगत् ।
निःसंशयं ब्रह्मकोटीनां भविता पूजनारहः

7.49

यथा संपुष्पिताः शाला मेदिनी च समा स्थिता ।
ध्रुवं सर्वजगत्पूज्यः सर्वज्ञो ऽयं भविष्यति

7.50

यथा निराकुलो लोको महापद्मो यथोद्भवः ।
निःसंशयं महातेजा लोकनाथो भविष्यति

7.51

यथा च मृदुका वाता दिव्यगन्धोपवासिताः ।
शमेन्ति व्याधिं सत्त्वानां वैद्यराजो भविष्यति

7.52

वीतरागा यथा चेमे रूपधातौ मरुच्छताः ।
कृताञ्जलिं नमस्यन्ते दक्षिणीयो भविष्यति

7.53

यथा च मनुजा देवान् देवाः पश्यन्ति मानुषान् ।
हेठयन्ति न चान्योन्यं सार्थवाहो भविष्यति

7.54

यथा च ज्वलनः शान्तः सर्वा नद्यश्च विस्थिताः ।
सूक्ष्मं च कम्पते भूमिः भविता तत्त्वदर्शकः

7.55

इति ॥
इति हि भिक्षवः सप्तरात्रजातस्य बोधिसत्त्वस्य माता मायादेवी कालमकरोत् । सा कालगता त्रायत्रिंशति देवेषूपपद्यत । स्यात् खलु पुनर्भिक्षवो युष्माकमेवं बोधिसत्त्वापराधेन मायादेवी कालगतेति? न खल्वेवं द्रष्टव्यम् । तत्कस्माद्धेतोः? एतत् परमं हि तस्या आयुष्प्रमाणमभूत् । अतीतानामपि भिक्षवो बोधिसत्त्वानां सप्तरात्रजातानां जनेत्र्यः कालमकुर्वन्त । तत्कस्माद्धेतोः? विवृद्धस्य हि बोधिसत्त्वस्य परिपूर्णेन्द्रियस्याभिनिष्क्रामतो मातुर्हृदयं स्फुटेत् ॥
इति हि भिक्षवः सप्तमे दिवसे यादृशेनैव व्यूहेन मायादेवी कपिलवस्तुनो महानगरादुद्यानभूमिमभिनिष्क्रान्ताभूत्, ततः कोटीशतसहस्रगुणोत्तरेण महाव्यूहेन बोधिसत्त्वः कपिलवस्तु महानगरं प्राविक्षत् । तस्य च प्रविशतः पञ्च पूर्णकुम्भसहस्राणि गन्धोदकपरिपूर्णानि पुरतो नीयन्ते स्म । एवं पञ्चकन्यासहस्राणि मयूरहस्तकम्परिगृहीतानि पुरतो गच्छन्ति स्म । पञ्च च कन्यासहस्राणि तालवृक्षकपरिगृहीतानि पुरतो गच्छन्ति स्म । पञ्च स कन्यासहस्राणि गन्धोदकभृङ्गारपरिगृहीतानि पुरतो गच्छन्ति स्म, मार्गमवसिञ्चन्ति स्म । पञ्च च कन्यासहस्राणि विचित्रपटलकपरिगृहीतानि पुरतो गच्छन्ति स्म । पञ्च च कन्यासहस्राणि नवविचित्रप्रलम्बनमालापरिगृहीतानि पुरतो गच्छन्ति स्म । पञ्च च कन्यासहस्राणि रत्नभद्रालंकारपरिगृहीतानि पुरतो गच्छन्ति स्म, मार्गं शोधयन्ति स्म । पञ्च च कन्यासहस्राणि भद्रासनपरिगृहीतानि पुरतो गच्छन्ति स्म । पञ्च च ब्राह्मणसहस्राणि घण्टापरिगृहीतानि माङ्गल्यशब्दं श्रावयन्तः पुरतो गच्छन्ति स्म । विंशति नागसहस्राणि सर्वालंकारविभूषितानि पुरतो गच्छन्ति स्म । विंशति हयसहस्राणि सुवर्णालंकारसंछन्नानि सर्वालंकारविभूषितानि पुरतो गच्छन्ति स्म । अशीति रथसहस्राणि उछ्रितछत्रध्वजपताकाकिङ्किणीजालसमलंकृतानि बोधिसत्त्वस्य पृष्ठतो ऽनुच्छन्ति स्म । चत्त्वारिंशत्पदातिसहस्राणि शूराणां वीराणां वराङ्गुरूपिणां संनद्धदृढवर्मकवचानां बोधिसत्त्वं गच्छन्तमनुगच्छन्ति स्म । गगनतलगतानि चाप्रमेयासंख्येयान्यभिज्ञातानि कामावचराणां रूपावचरदेवपुत्रकोटीनयुतशतसहस्राणि नानाप्रक्रारमनेकव्यूहैर्बोधिसत्त्वस्य पूजां कुर्वन्तो ऽनुगच्छन्ति स्म । यस्मिंश्च वरप्रवररथे बोधिसत्त्वः समभिरूढो ऽभूत्, स कामावचरैर्देवैरनेकैर्महाव्यूहैः समलंकृतो ऽभूत् । विंशति च देवकन्यासहस्राणि सर्वालंकारविभूषितानि रत्नसूत्रपरिगृहीतानि तं रथं वहन्ति स्म । द्वयोश्चाप्सरसोर्मध्ये एका मानुषी कन्या द्वयोर्मानुषीकन्ययोर्मध्ये एकाप्सरा । न चाप्सरसो मानुषीणामामगन्धं जिघ्रन्ति स्म । न च मानुषा अप्सरसां रूपं दृष्ट्वा प्रमादमापद्यन्ते स्म यदिदं बोधिसत्त्वस्य तेजोनुभावेन ॥
इति हि भिक्षवः कपिलाह्वये पुरवरे सर्वार्थसिद्धाय पञ्चमात्रैः शाक्यशतैः पञ्चगृहशतानि निर्मापितान्यभूवन् बोधिसत्त्वमुद्दिश्य । ते बोधिसत्त्वं नगरं प्रविशन्तं स्वस्वगृहद्वारमूले स्थित्वा कृताञ्जलिपुटा अभिनतकायाः सगौरवा एवमाहुः - इह भोः सर्वार्थसिद्ध प्रविश । इह भो देवातिदेव प्रविश । इह भोः शुद्धसत्त्व प्रविश । इह भोः सारथिवर प्रविश । इह भोः प्रीतिप्रामोद्यकर प्रविश । इह भो अनिन्दितयशः प्रविश । इह भोः समन्तचक्षु प्रविश । इह भो असमसम प्रविश । इह भो असदृशगुणतेजोधर लक्षणानुव्यञ्जनस्वलंकृतकाय प्रविशेति । ततश्चोपादाय कुमारस्येह सर्वार्थसिद्धः सर्वार्थसिद्ध इति संज्ञामगमत् ॥
तत्र राजा शुद्धोदनस्तेषां सर्वेषामनुवर्तनार्थं बोधिसत्त्वं सर्वगृहेषु प्रवेश्य चतुर्णां मासानामत्ययाद्बोधिसत्त्वं स्वगृहे प्रवेशयति स्म । तत्र च नानारत्नव्यूहो नाम ( वैद्य 72 ) महाप्रासादस्तं बोधिसत्त्वः समारूढो ऽभूत् । तत्र ते बृद्धवृद्धाः शाक्याः संनिपत्यैवं मतं चारयन्ति स्म - का नु खलु समर्था बोधिसत्त्वं गोपायितुं केलयितुं ममायितुं हितचित्ततया मैत्रचित्ततया गुणचित्ततया सौम्यचित्ततया चेति । तत्र पञ्चमात्राणि शाक्यवधूशतानि । एकैका एवमाहूः - अहं कुमारमुपस्थास्य इति । तत्र महल्लकमहल्लिकाः शाक्या एवमाहुः - सर्वा एता वधूका नवा दह्नास्तरुण्यः रूपयौवनमदमत्ताः । नैताः समर्था बोधिसत्त्वं कालेन कालमुपस्थापयितुम् । अथ च पुनरियं महाप्रजापती गौतमी कुमारस्य मातृस्वसा । एषा समर्था कुमारं सम्यक्सुखेन संवर्धयितुम्, राजानं च शुद्धोदनमभिधारयितुम् । इति हि ते सर्वे समग्रा भूत्वा महाप्रजापतीं गौतमीमुत्साहयन्ति स्म । इति हि महाप्रजापती गौतमी कुमारं संवर्धयति स्म । तत्र बोधिसत्त्वस्यार्थे द्वात्रिंशद्धात्र्यः संस्थापिता अभुवन् अष्टावङ्गधात्र्यः, अष्टौ क्षीरधात्र्यः, अष्टौ मलधात्र्यः, अष्टौ क्रीडाधात्र्यः ॥
ततो राजा शुद्धोदनः सर्वं शाक्यगणं संनिपात्यैवं मीमांसते स्म - किं नु खल्वयं कुमारो राजा भविष्यति चक्रवर्ती, आहोस्विदभिनिष्क्रमिष्यति प्रव्रज्यायै?
तेन च समयेन हिमवतः पर्वतराजस्य पार्श्वे असितो नाम महर्षिः प्रतिवसति स्म पञ्चाभिज्ञः सार्धं नरदत्तेन भागिनेयेन । स बोधिसत्त्वस्य जातमात्रस्य बहून्याश्चर्याद्भुतप्रातिहार्याण्यद्राक्षीत् । गगनतलगतांश्च देवपुत्रान् बुद्धशब्दमनुश्रावयतो ऽम्बराणि च भ्रामयत इतस्ततः प्रमुदितान् भ्रमतो ऽद्राक्षीत् । तस्यैतदभूत् - यन्न्वहं व्यवलोकयेयमिति । स दिव्येन चक्षुषा सर्वं जम्बुद्वीपमनुविलोकयन्नद्राक्षीत् कपिलाह्वये महापुरवरे राज्ञः शुद्धोदनस्य गृहे कुमारं जातं शतपुण्यतेजस्तेजितं सर्वलोकमहितं द्वात्रिंशन्महापुरुषलक्षणैः समलंकृतगात्रम् । दृष्ट्वा च पुनर्नरदत्तं माणवकमामन्त्रयते स्म - यत् खलु माणवक जानीया जम्बुद्वीपे महारत्नमुत्पन्नम् । कपिलवस्तुनि महानगरे राज्ञः शुद्धोदनस्य गृहे कुमारो जातः शतपुण्यतेजस्तेजितः सर्वलोकमहितो द्वात्रिंशन्महापुरुषलक्षणैः समन्वागतः । सचेत्सो ऽगारमध्यावसिष्यति, राजा भविष्यति चतुरङ्गश्चक्रवर्ती विजितवान् धार्मिको धर्मराजो जानपदस्थामवीर्यप्राप्तः सप्तरत्नसमन्वागतः । तस्येमानि सप्त रत्नानि भवन्ति । तद्यथा - चक्ररत्नं हस्तिरत्नं अश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नम् । एवं सप्तरत्नसंपूर्णश्च । अस्य पुत्रसहस्रं भविष्यति शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम् । स इमं महापृथिवीमण्डलं समुद्रपरिखमदण्डेनाशस्त्रेण स्वेन (धर्मेण) बलेनाभिभूयाभिनिर्जित्य राज्यं करिष्यत्यैश्वर्याधिपत्येन । सचेत्पुनरगारादनगारिकां प्रव्रजिष्यति, तथागतो भविष्यति अर्हन् सम्यक्संबुद्धो नेता अनन्यनेयः शास्ता लोके संबुद्धः । तदेतर्ह्युपसंक्रमिष्यावस्तद् द्रष्टुमिति ॥

अथ खल्वसितो महर्षिः सार्धं नरदत्तेन भागिनेयेन राजहंस इव गगनतलादभ्युद्गम्य समुत्प्लुत्य येन कपिलवस्तु महानगरं तेनोपसंक्रामत् । उपसंक्रम्य ऋद्धिं प्रतिसंहृत्य पद्भ्यामेव कपिलवस्तु महानगरं प्रविश्य येन राज्ञः शुद्धोदनस्य निवेशनं तेनोपसंक्रामत् । उपसंक्रम्य राज्ञः शुद्धोदनस्य गृहद्वारे ऽस्थात् ॥
इति हि भिक्षवो ऽसितो महर्षिः पश्यति स्म राज्ञः शुद्धोदनस्य गृहद्वारे ऽनेकानि प्राणिशतसहस्राणि संनिपतितानि । अथ खल्वसितो महर्षिर्दौवारिकमुपसंक्रम्यैवमाह - गच्छ त्वं भोः पुरुष राज्ञः शुद्धोदनस्य, निवेदय द्वारे ऋषिर्व्यवस्थित इति । परमेति दौवारिको ऽसितस्य महर्षेः प्रतिश्रुत्य येन राजा शुद्धोदनस्तेनोपसंक्रामत् । उपसंक्रम्य कृताञ्जलिपुटो राजानं शुद्धोदनमेवमाह - यत् खलु देव जानीया ऋषिर्जीर्णो वृद्धो महल्लको द्वारे स्थितः । एवं च वदति - राजानमहं द्रष्टुकाम इति । अथ राजा शुद्धोदनो ऽसितस्य महर्षेरासनं प्रज्ञाप्य तं पुरुषमेवमाह - प्रविशतु ऋषिरिति । अथ स पुरुषो राजकुलान्निष्क्रम्यासितं महर्षिमेवमाह - प्रविशेति ॥
अथ खल्वसितो महर्षिर्येन राजा शुद्धोदनस्तेनोपसंक्रामत् । उपसंक्रम्य पुरतः स्थित्वा राजानं शुद्धोदनमेवमाह - जय जय महाराज, चिरमायुः पालय, धर्मेण राज्यं कारयेति ॥
अथ स राजा शुद्धोदनो ऽसितस्य महर्षेरर्घपाद्यमर्चनं च कृत्वा साधु सुष्ठु च परिगृह्य आसनेनोपनिमन्त्रयते स्म । सुखोपविष्टं चैनं ज्ञात्वा सगौरवः सुप्रतीत एवमाह - न स्मराम्यहं तव ऋषे दर्शनम् । तत्केनार्थेनेहाभ्यागतो ऽसि, किं प्रयोजनम्?
एवमुक्ते ऽसितो महर्षी राजानं शुद्धोदनमेतदवोचत् - पुत्रस्ते महाराज जातस्तमहं द्रष्टुकाम इहागत इति ॥
राजा आह - स्वपिति महर्षे कुमारः । मुहूर्तमागमय यावदुत्थास्यतीति ॥
ऋषिरवोचत् - न महाराज तादृशा महापुरुषाश्चिरं स्वपन्ति । जागरशीलास्तादृशाः सत्पुरुषा भवन्ति ॥
इति हि भिक्षवो बोधसत्त्वो ऽसितस्य महर्षेरनुकम्पया जागरणनिमित्तमकरोत् । अथ खलु राजा शुद्धोदनः सर्वार्थसिद्धं कुमारमुभाभ्यां पाणिभ्यां साधु च सुष्ठु चानुपरिगृह्य असितस्य महर्षेरन्तिकमुपनामयति स्म ॥
इति हि असितो महर्षिर्बोधिसत्त्वमवलोक्य द्वात्रिंशता महापुरुषलक्षणैः समन्वागतमशीत्यनुव्यञ्जनसुविचित्रगात्रं शक्रब्रह्मलोकपालातिरेकवपुषं दिनकरशतसहस्रातिरेकतेजसं सर्वाङ्गसुन्दरं दृष्ट्वा चोदानमुदानयति स्म - आश्चर्यपुद्गलो बतायं लोके प्रादुर्भूत, महाश्चर्यपुद्गलो बतायं लोके प्रादुर्भूतः इत्युत्थायासनात्कृताञ्जलिपुटो बोधिसत्त्वस्य चरणयोः प्रणिपत्य प्रदक्षिणीकृत्य च बोधिसत्त्वमङ्केन परिगृह्य निध्यायन्नवस्थितो ऽभूत् । सो ऽद्राक्षीद्बोधिसत्त्वस्य द्वात्रिंशन्महापुरुषलक्षणानि यैः समन्वागतस्य पुरुषपुद्गलस्य द्वे गती भवतो नान्या । सचेदगारमध्यावसति राजा भवति चतुरङ्गश्चक्रवर्ती पूर्ववद्यावदेवैश्वर्याधिपत्येन । सचेत्पुनरगारादनगारिकां प्रव्रजति तथागतो भविष्यति विघुष्टशब्दः सम्यक्संबुद्धः । स तं दृष्ट्वा प्रारोदीदश्रूणि च प्रवर्तयन् गम्भीरं च निश्वसति स्म ॥
अद्राक्षीद्राजा शुद्धोदनो ऽसितं महर्षिं रुदन्तमश्रूणि च प्रवर्तयमानं गम्भीरं च निश्वसन्तम् । दृष्ट्वा च संहर्षितरोमकूपजातस्त्वरितत्वरितं दीनमना असितं महर्षिमेतदवोचत् - किमिदमृषे रोदसि अश्रूणि च प्रवर्तयसि गम्भीरं च निश्वससि? मा खलु कुमारस्य काचिद्विप्रतिपत्तिः ॥
एवमुक्ते ऽसितो महर्षी राजानं शुद्धोदनमेवमाह - नाहं महाराज कुमारस्यार्थेन रोदिमि, नाप्यस्य काचिद्विप्रतिपत्तिः । किं त्वात्मानमहं रोदिमि । तत्कस्माद्धेतोः? अहं च महाराज जीर्णो वृद्धो महल्लकः । अयं च सर्वार्थसिद्धः कुमारो ऽवश्यमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यति । अभिसंबुध्य चानुत्तरं धर्मचक्रं प्रवर्तयिष्यति अप्रवर्तितं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा अन्येन वा पुनः केनचिल्लोके सहधर्मेण । सदेवकस्य लोकस्य हिताय सुखाय धर्मं देशयिष्यति आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणम् । स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं सत्त्वानां संप्रकाशयिष्यति । अस्मात्तं धर्मं श्रत्वा जातिधर्माणः सत्त्वा जात्या परिमोक्षन्ते । एवं जराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः परिमोक्षन्ते । रागद्वेषमोहाग्निसंतप्तानां सत्त्वानां सद्धर्मजलवर्षेण प्रह्लादनं करिष्यति । नानाकुदृष्टिग्रहणप्रस्कन्धानां सत्त्वानां कुपथप्रयातानामृजुमार्गेण निर्वाणपथमुपनेष्यति । संसारपञ्जरचारकावरुद्धानां क्लेशबन्धनबद्धानां बन्धननिर्मोक्षं करिष्यति । अज्ञानतमस्तिमिरपटलपर्यवनद्धनयनानां सत्त्वानां प्रज्ञाचक्षुरुत्पादयिष्यति । क्लेशशल्यविद्धानां सत्त्वानां शल्योद्धरणं करिष्यति । तद्यथा महाराज औदुम्बरपुष्पं कदाचित्कर्हिचिल्लोके उत्पद्यते, एवमेव महाराज कदाचित्कर्हिचिद्बहुभिः कल्पकोटिनयुतैर्बुद्धा भगवन्तो लोके उत्पद्यन्ते । सो ऽयं कुमारो ऽवश्यमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते । अभिसंबुध्य च सत्त्वकोटीनियुतशतसहस्राणि संसारसागरात् पारमुत्तारयिष्यति, अमृते च प्रतिष्ठापयिष्यति । वयं च तं बुद्धरत्नं न द्रक्ष्यामः । इत्येव तदहं महाराज रोदिमि परिदीनमना दीर्घं च निश्वसामि यदहमिमं नारोग्ये ऽपि राधयिष्यामि ॥

यथा ह्यस्माकं महाराज मन्त्रवेदशास्त्रेष्वागच्छति - नार्हति सर्वार्थसिद्धः कुमारो ऽगारमध्यावसितुम् । तत्कस्य हेतोः? तथा हि महाराज सर्वार्थसिद्धः कुमारो द्वात्रिंशता महापुरुषलक्षणैः समान्वागतः । कतमैर्द्वात्रिंशता? तद्यथा । उष्णीषशीर्षो महाराज सर्वार्थसिद्धः कुमारः । अनेन महाराज प्रथमेन महापुरुषलक्षणेन समन्वागतः सर्वार्थसिद्धः कुमारः । भिन्नाञ्जनमयूरकलापाभिनीलवल्लितप्रदक्षिणावर्तकेशः । समविपुलललाटः । ऊर्णा महाराज सर्वार्थसिद्धस्य कुमारस्य भ्रुवो र्मध्ये जाता हिमरजतप्रकाशा । गोपक्ष्मनेत्रः । अभिनीलनेत्रः । समचत्त्वारिंशद्दन्तः । अविरलदन्तः । शुक्लदन्तः । ब्रह्मस्वरो महाराज सर्वार्थसिद्धः कुमारः । रसरसाग्रवान् । प्रभूततनुजिह्वः । सिंहहनुः । सुसंवृत्तस्कन्धः । सप्तोत्सदः । चितान्तरांसः । सूक्ष्मसुवर्णवर्णच्छविः । स्थितो ऽनवनतप्रलम्बबाहु । सिंहपूर्वार्धकायः । न्यग्रोधपरिमण्डलो महाराज सर्वार्थसिद्धः कुमारः । एकैकरोमा । ऊर्ध्वाग्राभिप्रदक्षिणावर्तरोमाः । ( वैद्य 75 ) कोशोपगतबस्तिगुह्यः । सुविवर्तितोरुः । एणेयमृगराजजङ्घः । दीर्घाङ्गुलिः । आयतपार्ष्णिपादः । उत्सङ्गपादः । मृदुतरुणहस्तपादः । जालाङ्गुलिहस्तपादः । दीर्घाङ्गुलिरधःक्रमतलयोर्महाराज सर्वार्थसिद्धस्य कुमारस्य चक्रे जाते चि (अर्चिष्मती प्रभास्वरे सिते) सहस्रारे सनेमिके सनाभिके । सुप्रतिष्ठितसमपादो महाराज सर्वार्थसिद्धः कुमारः । अनेन महाराज द्वात्रिंशत्तमेन महापुरुषलक्षणेन समन्वागतः सर्वार्थसिद्धः कुमारः । न च महाराज चक्रवर्तिनामेवंविधानि लक्षणानि भवन्ति । बोधिसत्त्वानां च तादृशानि लक्षणानि भवन्ति ॥
संविद्यन्ते खलु पुनर्महाराज सर्वार्थसिद्धस्य कुमारस्य काये ऽशीत्यनुव्यञ्जनानि, यैः समन्वागतः सर्वार्थसिद्धः कुमारो नार्हत्यगारमध्यावसितुम् । अवश्यमभिनिष्क्रमिष्यति प्रव्रज्यायै । कतमानि च महाराज तान्यशीत्यनुव्यञ्जनानि? तद्यथा - तुङ्गनखश्च महाराज सर्वार्थसिद्धः कुमारः । ताम्रनखश्च स्निग्धनखश्च वृत्ताङ्गुलिश्च अनुपूर्वचित्राङ्गुलिश्च गूढशिरश्च गूढगुल्फश्च घनसंधिश्च अविषमसमपादश्च आयतपार्ष्णिश्च महाराज सर्वार्थसिद्धः कुमारः । स्निग्धपाणिलेखश्च तुल्यपाणिलेखश्च गम्भीरपाणिलेखश्च अजिह्मपाणिलेखश्च अनुपूर्वपाणिलेखश्च बिम्बोष्ठश्च नोच्चवचनशब्दश्च मृदुतरुणताम्रजिह्वश्च गजगर्जिताभिस्तनितमेघस्वरमधुरमञ्जुघोषश्च परिपूर्णव्यञ्जनश्च महाराज सर्वार्थसिद्धः कुमारः । प्रलम्बबाहुश्च शुचिगात्रवस्तुसंपन्नश्च मृदुगात्रश्च विशालगात्रश्च अदीनगात्रश्च अनुपूर्वोन्नतगात्रश्च सुसमाहितगात्रश्च सुविभक्तगात्रश्च पृथुविपुलसुपरिपूर्णजानुमण्डलश्च वृत्तगात्रश्च महाराज सर्वार्थसिद्धः कुमारः । सुपरिमृष्टगात्रश्च अजिह्मवृषभगात्रश्च अनुपूर्वगात्रश्च गम्भीरनाभिश्च अजिह्मनाभिश्च अनुपूर्वनाभिश्च शुच्याचारश्च ऋषभवत्समन्तप्रासादिकश्च परमसुविशुद्धवितिमिरालोकसमन्तप्रभश्च नागविलम्बितगतिश्च महाराज सर्वार्थसिद्धः कुमारः । सिंहविक्रान्तगतिश्च ऋषभविक्रान्तगतिश्च हंसविक्रान्तगतिश्च अभिप्रदक्षिणावर्तगतिश्च वृत्तकुक्षिश्च मृष्टकुक्षिश्च अजिह्मकुक्षिश्च चापोदरश्च व्यपगतछन्ददोषनीलकालकादुष्टशरीरश्च वृत्तदंष्ट्रश्च महाराज सर्वार्थसिद्धः कुमारः । तीक्ष्णदंष्ट्रश्च अनुपूर्वदंष्ट्रश्च तुङ्गनासश्च शुचिनयनश्च विमलनयनश्च प्रहसितनयनश्च आयतनयनश्च विशालनयनश्च नीलकुवलयदलसदृशनयनश्च सहितभ्रूश्च महाराज सर्वार्थसिद्धः कुमारः । चित्रभ्रूश्च असितभ्रूश्च संगतभ्रूश्च अनुपूर्वभ्रूश्च पीनगण्डश्च अविषमगण्डश्च व्यपगतगण्डदोषश्च अनुपहतक्रुष्टश्च सुविदितेन्द्रियश्च सुपरिपूर्णेन्द्रियश्च महाराज सर्वार्थसिद्धः कुमारः । संगतमुखललाटश्च परिपूर्णोत्तमाङ्गश्च असितकेशश्च सहितकेशश्च (सुसंगतकेशश्च) सुरभिकेशश्च अपरुषकेशश्च अनाकुलकेशश्च अनुपूर्वकेशश्च सुकुञ्चितकेशश्च श्रीवत्सस्वस्तिकनन्द्यावर्तवर्धमानसंस्थानकेशश्च महाराज सर्वार्थसिद्धः कुमारः । इमानि तानि महाराज सर्वार्थसिद्धस्य कुमारस्याशीत्यनुव्यञ्जनानि, ( वैद्य 76 ) यैः समन्वागतः सर्वार्थसिद्धः कुमारो नार्हत्यगारमध्यावसितुम् । अवश्यमभिनिष्क्रमिष्यति प्रव्रज्यायै ॥
अथ खलु राजा शुद्धोदनो ऽसितस्य महर्षेः सकाशात्कुमारस्येदं व्याकरणं श्रुत्वा संतुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजात उत्थायासनाद्बोधिसत्त्वस्य चरणयोः प्रणिपत्येमां गाथामभाषत -
वन्दितस्त्वं सुरैः सेन्द्रैः ऋषिभिश्चासि पूजितः ।
वैद्य सर्वस्य लोकस्य वन्दे ऽहमपि त्वां विभो

7.56

इति हि भिक्षवो राजा शुद्धोदनो ऽसितं महर्षि सार्धं नरदत्तेन भागिनेयेनानुरूपेण भक्तेन संतर्पयति स्म । संतर्प्याभिच्छाद्य प्रदक्षिणमकरोत् । अथ खल्वसितो महर्षिस्तत एवर्द्ध्या विहायसा प्राक्रमत्, येन स्वाश्रमस्तेनोपासंक्रामत् ॥
अथ खलु द्वयं संक्रम्य तत्र खल्वसितो महर्षिर्नरदत्तं माणवकमेतदवोचत् - यदा त्वं नरदत्त शृणुया बुद्धो लोके उत्पन्न इति, तदा त्व गत्वा तस्य शासने प्रव्रजेः । तत्ते भविष्यति दीर्घरात्रमर्थाय हिताय सुखायेति ॥
तत्रेदमुच्यते -
दृष्ट्वा देवगणान्नभस्तलगतान् बुद्धश्रवोद्गारिणो
देवर्षीरसितो ऽद्रिकन्दरगतः प्रीतिं परां प्राप्तवान् ।
बुद्धो नाम पदं किमेतदिह भो हर्षावहं प्राणिनां
प्रह्लाद मम काय एति सुखितं शान्तं च चित्तं परम्

7.57

किं देवो त्वसुरो ऽथवापि स भवेद् गरुडो ऽथवा किन्नरः
बुद्धो नाम किमेतदश्रुतपदं प्रीतिकरं मोदनम् ।
दिव्या चक्षुष प्रेक्षते दश दिशः शैलान् महीं सागरान्
भूयः पश्यति चाद्भुतं बहुविधं भूमौ गिरौ सागरे

7.58

आभेयं प्रविराजते सुरुचिरा प्रह्लादयन्ती तनुं
जाताश्चैव यथा हि शैलशिखरे स्निग्धाः प्रवालाङ्कुराः ।
वृक्षाश्चैव यथा सुपुष्पभरिता नानाफलैर्मण्डिताः
सुव्यक्तं त्रिभवे भविष्यति लघु रत्नोद्भवः शोभनः

7.59

भूमिर्भाति यथा च पाणिसदृशा सर्वा समा निर्मला
देवाश्चैव यथा प्रहृष्टमनसः खे भ्रामयन्त्यम्बरान् ।
यद्वत् सागरनागराजनिलये रत्नाः प्लवन्ते ऽद्भुताः
सुव्यक्तं जिनरत्न जम्बुनिलये धर्माकरस्योद्भवः

7.60

यद्वच्छान्त अपाय दुःखविगताः सत्त्वाश्च सौख्यान्विताः
यद्वद्देवगणा नभस्तलगता गच्छन्ति हर्षान्विताः ।
यथ च स्निग्धरवं मनोज्ञ शृणुया दिव्यान संगीतिनां
रतनस्या इव प्रादुर्भावु त्रिभवे यस्या निमित्ता इमे

7.61

असितः प्रेक्षति जम्बुसाह्वयमिदं दिव्येन वै चक्षुषा
सो ऽद्राक्षीत् कपिलाह्वये पुरवरे शुद्धोदनस्यालये ।
जातो लक्षणपुण्यतेजभरितो नारायणस्थामवान्
दृष्ट्वा चात्तमना उदग्रमनसः स्थामास्य संवर्धितः

7.62

उद्युक्तस्त्वरितो ऽतिविस्मितमना चासौ स्वशिष्यान्वितः
आगत्वा कपिलाह्वयं पुरवरं द्वारि स्थितो भूपतेः ।
अनुबद्धा बहुप्राणिकोटिनयुता दृष्ट्वा ऋषिर्जीर्णकः
अवची सारथि राज्ञ वेदय लघुं द्वारे ऋषिस्तिष्ठति

7.63

श्रुत्वा चाशु प्रविश्य राजभवनं राज्ञस्तमाख्यातवान्
द्वारे देव तपस्वि तिष्ठति महान् जीर्णो ऋषिर्जर्जरः ।
सो चापी अभिनन्दते ऋषिवरः प्रावेष्टु राज्ञो गृहं
आज्ञा दीयतु ताव पार्थिववरा देमि प्रवेशं तेसा

7.64

स्थाप्या चासनमस्य चाह नृपतिः गच्छ प्रवेशं दद
असितः सारथिवाक्य श्रुत्व मुदितः प्रीत्या सुखेनान्वितः ।
शीतं वारि यथाभिकाङ्क्षि तृषितो भुक्त्वादितो चाशनं
तद्वत्सुख्यभिनन्दितो ऋषिवरः तं द्रष्टु सत्त्वोत्तमम्

7.65

जय भोः पार्थिव इत्युवाच मुदितो चायुं चिरं पालय
वृद्धिं कृत्व निषण्ण दान्तमनसः शान्तेन्द्रियः सूरतः ।
राजा वै अभिवाद्य तं सुनिभृतं प्रोवाच किं कारणं
आगामस्तव पार्थिवेन्द्र निलये तद् ब्रूहि शीघ्रं मुने

7.66

पुत्रस्ते वररूप पारमिगतो जातो महातेजवान्
द्वात्रिंशद्वरलक्षणैः कवचितो नारायणस्थामवान् ।
तं द्रष्टुं हि ममेप्सितं नरपते सर्वार्थसिद्धं शिशुम्
इत्यर्थं समुपागतो ऽस्मि नृपते नास्त्यन्यकार्यं मम

7.67

साधु स्वागतु याचसे किलमितः प्रीतो ऽस्मि ते दर्शनात्
एषो ऽसौ शयितः कुमार वरदो द्रष्टुं न शक्यो ऽधुना ।
साधू ताव मूहूर्तमागम इहा यद् द्रक्ष्यसे निर्मलं
चन्द्रं वा यथ पूर्णमासि विमलं तारागणैर्मण्डितम्

7.68

यद चासौ प्रतिबुद्ध सारथिवरः परिपूर्णचन्द्रप्रभः
तद राजा प्रतिगृह्य वह्निवपुषं सूर्यातिरेकप्रभम् ।
हन्ता पश्य ऋषे नृदेवमहितं हेमाग्रबिम्बोपमम्
असितो दृष्ट्व च तस्य तौ सुचरणौ चक्राङ्कितौ शोभनौ

7.69

प्रत्युत्थाय ततः कृताञ्जलिपुटो चरणानि सो वन्दते
अङ्के गृह्य महात्मशास्त्रकुशलो निध्यायतो प्रेक्षते ।
सो ऽपश्यद्वरलक्षणैः कवचितं नारायणस्थामवं
शीर्षं कम्प्य स वेदशास्त्रकुशलो द्वे तस्य पश्यद्गती

7.70

राजा वा भवि चक्रवर्ति बलवान् बुद्धो व लोकोत्तमः
बाष्पं त्यक्त सुदीनकायमनसो गम्भीर निश्वस्य च ।
उद्विग्नश्च बभूव पार्थिववरः किं ब्राह्मणो रोदिती
मा विघ्नं खलु पश्यते ऽयमसितः सर्वार्थसिद्धस्य मे

7.71

भूतं व्याहर किं तु रोदिषि ऋषे श्रेयो ऽथ किं पापकं
पापं नास्ति न चान्तरायमिह भोः सर्वार्थसिद्धस्य ते ।
आत्मानं बहु शोचमी नरपते जीर्णो ऽस्मि यज्जर्जरः
यदयं भेष्यति बुद्ध लोकमहितो धर्मं यदा वक्ष्यते

7.72

न द्रक्षे अहु लब्धप्रीतिमनसो इत्यर्थ रोदाम्यहं
यस्या कायि भवन्ति लक्षणवरा द्वात्रिंशति निर्मला ।
द्वे तस्या गतयो न अन्य तृतिया जानीष्व एवं नृप
राजा वा भवि चक्रवर्ति बलवान् बुद्धो ऽथ लोकोत्तमः

7.73

नायं कामगुणेभिरर्थिकु पुनः बुद्धो अयं भेष्यति
श्रुत्वा व्याकरणं ऋषेः स नृपतिः प्रीतिं सुखं लब्धवान् ।
प्रत्युत्थाय ततः कृताञ्जलिपुटो चरणावसौ वन्दते
देवैस्त्वं स्वभिपूजितः सुबलवान् ऋषिभिश्च संवर्णितः

7.74

वन्दे त्वां वरसार्थवाह त्रिभवे सर्वे जगे पूजितं
असितः प्राह च भागिनेय मुदितः संश्रूयतां भाषतो ।
बुद्धा बोधि यदा शृणोषि जगतो वर्तेति चक्रं ह्ययं
शीघ्रं प्रव्रज शासने ऽस्य मुनये तत्प्राप्स्यसे निर्वृतिम्

7.75

वन्दित्वा चरणौ ह्यसौ मुनिवरः कृत्वा च प्रादक्षिणं
लाभा ते नृपते सुलब्ध विपुला यस्येदृशस्ते सुतः ।
एषो लोक सदेवकं समनुजं धर्मेण तर्पेष्यति
निष्क्रामं कपिलाह्वयादृषिवरो ऽरण्ये स्थितः स्वाश्रमे

7.76

इति ॥
इति हि भिक्षवो जातमात्रस्य बोधिसत्त्वस्य महेश्वरो देवपुत्रः शुद्धावासकायिकान् देवपुत्रानामन्त्र्यैवमाह - यो ऽसौ मार्षा असंख्येयकल्पकोटिनियुतशतसहस्रसुकृतकर्मदानशीलक्षान्तिवीर्यध्यानप्रज्ञोपायश्रतचरणव्रततपःसुचरितचरणः महामैत्रीमहाकरुणामहामुदितासमन्वागतः उपेक्षासमुद्गतचित्तः सर्वसत्त्वहितसुखोद्यतः दृढवीर्यकवचसुसंनाहसंनद्धः पूर्वजिनकृतकुशलमूलोदितः शतपुण्यलक्षणसमलंकृतः सुकृतनिश्चयपराक्रमः परचक्रप्रमथनः सुविमलशुद्धाशयसंपन्नः सुचरितचरणो महाज्ञानकेतुध्वजः मारबलान्तकरणः त्रिसाहस्रमहासाहस्रसार्थवाहः देवमनुष्यपूजितमहायज्ञयष्टः सुसमृद्धपुण्यनिचयनिःसरणाभिप्रायो जातिजरामरणान्तकरः सुजातजातः इक्ष्वाकुराजकुलसंभूतो जगद्विबोधयिता बोधिसत्त्वो महासत्त्वो मनुष्यलोक उपपन्नः । न चिरादसावनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते । हन्त गच्छामस्तमभिवन्दितुं मानयितुं पूजयितुमभिस्तोतुमन्येषां च मानाभिभूतानां देवपुत्राणां मानमददर्पच्छेदनार्थम् । ते ऽस्मानभिवन्दमानान् दृष्ट्वा ते ऽपि बोधिसत्त्वं वन्दिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति च । तत्तेषां भविष्यति दीर्घरात्रमर्थाय हिताय सुखाय यावदमृताधिगमाय । राज्ञश्च शुद्धोदनस्य जयवृद्धिरनुश्राविता भविष्यति । तत्त्वव्याकरणेन च बोधिसत्त्वं व्याकृत्य पुनरप्यागमिष्याम इति ॥
अथ खलु महेश्वरो देवपुत्रो द्वादशभिर्देवपुत्रशतसहस्रैः परिवृतः पुरस्कृतः सर्वकपिलवस्तुमहानगरमवभासेन स्फुरयित्वा येन राज्ञः शुद्धोदनस्य निवेशनं तेनोपसंक्रामत् । उपसंक्रम्य दौवारिके निवेद्य राज्ञाभ्यनुज्ञातो राजकुलं प्रविश्य बोधिसत्त्वस्य पादौ शिरसाभिवन्द्यैकांसमुत्तरासङ्गं कृत्वां अनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य बोधिसत्त्वमङ्के समारोप्य राजानं शुद्धोदनमाश्वासयति स्म - तुष्टो महाराज भव परमप्रीतश्च । तत्कस्माद्धेतोः? यथा महाराज बोधिसत्त्वस्य लक्षणैरनुव्यञ्जनैश्च कायः समलंकृतः, यथा च कुमारो ऽभिभवति सदेवमानुषासुरलोकं वर्णेन तेजसा च यशसा लक्ष्म्या च, निःसंशयं महाराज बोधिसत्त्वो ऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते ॥
इति हि भिक्षवो महेश्वरो देवपुत्रः सार्धं शुद्धावासकायिकैर्देवपुत्रैर्बोधिसत्त्वस्य महत्पूजोपस्थानं कृत्वा बोधिसत्त्वं तत्त्वव्याकरणेन व्याकृत्य पुनरपि स्वभवनं प्राक्रामत् ॥
तत्रेदमुच्यते -
जातस्य तस्य गुणसागरसागरस्य ज्ञात्वा सुरेश्वरमरुद् ब्रुवते उदग्रः ।
यस्या सुदुर्लभश्रवो बहुकल्पकोट्या हन्तेथ तं व्रजम पूजयितुं मुनीन्द्रम्

7.77

परिपूर्णद्वादशसहस्र मरुद्विशुद्धा मणिरत्नचूडसमलंकृत इर्यवन्तः ।
कपिलाह्वयं पुरवरं समुपेत्य शीघ्रं द्वारि स्थिता नरपतेः सुविलम्बचूडाः

7.78

ते द्वारपालमवदन् सुमनोज्ञघोषाः प्रतिवेदयस्व नृपते भवनं प्रविश्य ।
दौवारिको वचन श्रुत्व गृहं प्रविष्टः प्रह्वः कृताञ्जलिपुटो नृपतिं बभाषे

7.79

जय देव नित्यमनुपालय दीर्घमायुः द्वारे स्थिता विपुलपुण्यविशुद्धभासः ।
मणिरत्नचूडसुविभूषित इर्यवन्तः परिपूर्णचन्द्रवदना शशिनिर्मलाभाः

7.80

छायां न तेष नृपते क्वचिदप्यपश्यन् शब्दं न चैव चरणोत्क्षिपणे शृणोमि ।
न च मेदिनीं विचरतो रजमुत्क्षिपन्ति तृप्तिं न यान्ति च जनाः समुदीक्षतां वै

7.81

कायप्रभा सुविपुला च विभाति तेषां वाचा मनोज्ञ यथ नास्ति ह मानुषाणाम् ।
गम्भिरश्लक्ष्णसुशिला च सुआकरा च शङ्का हि मे सुरगणा न हि ते मनुष्याः

7.82

वरपुष्पमाल्यअनुलेपनपट्टदामा पाणी गृहीत्वन उदीक्षिषु गौरवेण ।
निःसंशयं नृपति द्रष्टु कुमारमेते देवाधिदेव मरुतागत पूजनार्थम्

7.83

राजा निशाम्य वचनं परमं उदग्रो गच्छा भणाहि प्रविशन्तु गृहं भवन्तः ।
न हि मानुषाण इयमीदृश ऋद्धि काचि यथ भाषसे च गुण तेष यथा च इर्या

7.84

दौवारिकः कृतपुटो मरुतैवमाह प्रविशी भवन्त अनुज्ञातु नराधिपेन ।
ते हृष्टतुष्टमनसो वरमाल्यहस्ता गेहं प्रविष्ट नृपतेरमरालयं वा

7.85

दृष्ट्वा च तां सुरवरां प्रविशन्त गेहं प्रत्युत्थितो नृपतिरञ्जलि संप्रगृह्य ।
संविद्ययन्त इम आसन रत्नपादा अत्रा निषीदत भवन्ननुकम्प्य बुद्ध्या

7.86

ते मानदर्पविगता स्थित आसनेषु यस्यार्थि आगत इहा नृपते शृणुष्व ।
पुत्रस्तवातिपृथुपुण्यविशुद्धकायो जातः सुजातचरणं वय द्रष्टुकामाः

7.87

अस्मो विधिज्ञ वरलक्षणलक्षणज्ञा येषां तथा भवति या गति यः प्रयोगः ।
तत्साधु पार्थिववर प्रजहस्व खेदं पश्याम लक्षणविचित्रविभूषिताङ्गम्

7.88

स स्त्रीगणैः परिवृतो नृपतिः प्रहृष्टो गृह्य कुमारमसमं ज्वलनार्चिवर्णम् ।
उपनामयन् सुरवरां सुविलम्बचूडां द्वारात्तु निष्क्रमतु कम्पित त्रिसहस्राः

7.89

दृष्ट्वैव ते सुरवरा क्रम नायकस्य ताम्रा नखां विमलपत्रविशुद्धतेजा ।
ते उत्थिता त्वरित रूपविलम्बचूडा मूर्ध्नाभिवन्दिषु क्रमां विमलप्रभस्य

7.90

यथ लक्षणा यथ च दर्शित लक्षिता च यथ पुण्यतेजि शिरि मूर्ध विलोकितं च ।
यथ इर्य नेत्र विमलाप्रभ ऊर्णकोशा निःसंशयं स्पृशति बोधि विजित्य मारम्

7.91

ते तं स्तुवन्ति गुणभूत यथार्थदर्शी ध्यायी गुणां विगतक्लेशतमोनुदस्य ।
सुचिरेण सत्त्वरतनस्य हि प्रादुर्भावो जातीजरामरणक्लेशरणंजहस्य

7.92

आदीप्त सर्वत्रिभवं त्रिभिरग्नितप्तं संकल्परागविषयारणिउच्छ्रितेन ।
त्वं धर्ममेघ त्रिसहस्र स्फरित्व धीरा अमृतोदकेन प्रशमेष्यसि क्लेशतापम्

7.93

त्वं मैत्रवाक्य करुणान्वित श्लक्ष्णवाक्य ब्रह्मस्वरारचितघोष मनोज्ञवाणि ।
त्रिसहस्र आज्ञपरिविज्ञपनी जगस्य क्षिप्रं प्रमुञ्च भगवन् महबुद्धघोषम्

7.94

भग्ना कुतीर्थिकगणा विपरीतदृष्टिः भवरागबन्धननिमग्न स्थिता भवाग्रे ।
हेतु प्रतीत्य भव शून्य श्रुणित्व धर्मा सिंहस्य क्रोष्टुकगणैव पलायिनास्ते

7.95

भित्त्वा अविद्यपटलं महक्लेशधूमं पर्युत्थिता जनतये नियतप्रकाशे ।
ज्ञानार्चिप्रज्ञप्रभविद्युविलोकितेन सर्वं जगे विधमये महदन्धकारम्

7.96

लाभा सुलब्ध विपुला मरुमानुषाणां यत्रोद्भवा ऽद्भुत इहेदृशि शुद्धसत्त्वे ।
पिथिता अपायपथ स्फीत मरुत्पथानि भेष्यन्ति सत्त्वरतनेन विबोधकेन

7.97

वर्षित्व दिव्यकुसुमां कपिलाह्वये ऽस्मिन् कृत्वा प्रदक्षिण स्तवित्व च गौरवेण ।
बुद्ध सुबुद्ध इति वाक्यमुदीरयन्तः प्रक्रान्त ते सुरगणा गगने सलीलाः

मूल पाठ: Lalitavistara · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1958 (Buddhist Sanskrit Texts, 1) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc