भाषा

ENहिગુ
ग्रंथ पाठ

Lalitavistara · अध्याय 11

11.1

इति हि भिक्षवो दश दारकसहस्राणि बोधिसत्त्वेन सार्धं लिपिं शिष्यन्ते स्म । तत्र बोधिसत्त्वाधिस्थानेन तेषां दारकाणां मातृकां वाचयतां यदा अकारं परिकीर्तयन्ति स्म, तदा अनित्यः सर्वसंस्कारशब्दो निश्चरति स्म । आकारे परिकीर्त्यमाने आत्मपरहितशब्दो निश्चरति स्म । इकारे इन्द्रियवैकल्यशब्दः । ईकारे ईतिबहुलं जगदिति । उकारे उपद्रवबहुलं जगदिति । ऊकारे ऊनसत्त्वं जगदिति । एकारे एषणासमुत्थानदोषशब्दः । ऐकारे ऐर्यापथः श्रेयानिति । ओकारे ओघोत्तरशब्दः । औकारे औपपादुकशब्दः । अंकारे अमोघोत्पत्तिशब्दः । अःकारे अस्तंगमनशब्दो निश्चरति स्म । ककारे कर्मविपाकावतारशब्दः । खकारे खसमसर्वधर्मशब्दः । गकारे गम्भीरधर्मप्रतीत्यसमुत्पादावतारशब्दः । घकारे घनपटलाविद्यामोहान्धकारविधमनशब्दः । ङकारे ऽङ्गविशुद्धिशब्दः । चकारे चतुरार्यसत्यशब्दः । छकारे छन्दरागप्रहाणशब्दः । जकारे जरामरणसमतिक्रमणशब्दः । झकारे झषध्वजबलनिग्रहणशब्दः । ञकारे ज्ञापनशब्दः । टकारे पटोपच्छेदनशब्दः । ठकारे ठपनीयप्रश्नशब्दः । डकारे डमरमारनिग्रहणशब्दः । ढकारे मीढविषया इति । णकारे रेणुक्लेशा इति । तकारे तथतासंभेदशब्दः । थकारे थामबलवेगवैशारद्यशब्दः । दकारे दानदमसंयमसौरभ्यशब्दः । धकारे धनमार्याणां सप्तविधमिति । नकारे नामरूपपरिज्ञाशब्दः । पकारे परमार्थशब्दः । फकारे फलप्राप्तिसाक्षात्क्रियाशब्दः । बकारे बन्धनमोक्षशब्दः । भकारे भवविभवशब्दः । मकारे मदमानोपशमनशब्दः । यकारे यथावद्धर्मप्रतिवेधशब्दः । रकारे रत्यरतिपरमार्थरतिशब्दः । लकारे लताछेदनशब्दः । वकारे वरयानशब्दः । शकारे शमथविपश्यनाशब्दः । षकारे षडायतननिग्रहणाभिज्ञज्ञानावाप्तिशब्दः । सकारे सर्वज्ञज्ञानाभिसंबोधनशब्दः । हकारे हतक्लेशविरागशब्दः । क्षकारे परिकीर्त्यमाने क्षणपर्यन्ताभिलाप्यसर्वधर्मशब्दो निश्चरति स्म ॥
इति हि भिक्षवस्तेषां दारकाणां मातृकां वाचयतां बोधिसत्त्वानुभावेनैव प्रमुखान्यसंख्येयानि धर्ममुखशतसहस्राणि निश्चरन्ति स्म ॥
तदानुपूर्वेण बोधिसत्त्वेन लिपिशालास्थितेन द्वात्रिंशद्दारकसहस्राणि परिपाचितान्यभूवन् । अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादितानि द्वात्रिंशद्दारिकासहस्राणि । अयं हेतुरयं प्रत्ययो यच्छिक्षितो ऽपि बोधिसत्त्वो लिपिशालामुपागच्छति स्म ॥
॥ इति श्रीललितविस्तरे लिपिशालासंदर्शनपरिवर्तो नाम दशमो ऽध्यायः ॥
स्तर्त् परिवर्त 11
कृषिग्रामपरिवर्त एकादशः ।
इति हि भिक्षवो यावद्विवृद्धः कुमारः । अथापरेण समयेन कुमारस्तदन्यैः कुमारैरमात्यपुत्रैः सार्धं कृषिग्रामवलोकयितुं गच्छति स्म । अवलोक्य च कृषिकर्मान्तमन्यत उद्यानभूमिं प्रविशति स्म । संविग्नमनास्तत्र बोधिसत्त्व एकाकी अद्वितीयो ऽनुचंक्रम्यमाणो ऽनुविचरन् जम्बुवृक्षमपश्यत् प्रासादिकं दर्शनीयम् । तत्र बोधिसत्त्वश्छायायां पर्यङ्केन निषीदति स्म । निषण्णश्च बोधिसत्त्वश्चित्तैकाग्रतामासादयति स्म । आसाद्य च विविक्तं कामैर्विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसंपद्य विहरति स्म । स वितर्कविचाराणां व्युपशमादध्यात्मसंप्रसादाच्चेतस एकोतिभावादवितर्कमविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानमुपसंपद्य विहरति स्म । स प्रीतेर्विरागादुपेक्षको विहरति स्म स्मृतिमान् संप्रजानन् । सुखं च कायेन प्रतिसंवेदयति स्म । यत्तदार्या आचक्षते उपेक्षकः स्मृतिमान् सुखविहारी निष्प्रीतिकं तृतीयं ध्यानमुसंपद्य विहरति स्म । स सुखस्य च प्रहाणाद्दुःखस्य च प्रहाणात् पूर्वमेव च सौमनस्यदौर्मनस्ययोरस्तंगमाददुःखासुखमुपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानमुपसंपद्य विहरति स्म ॥
तेन च समयेन पञ्च ऋषयो बाह्याः पञ्चाभिज्ञाः ऋद्धिमन्तो विहायसंगमा दक्षिणाया दिश उत्तरां दिशं गच्छन्ति स्म । ते तस्य वनखण्डस्योपरि गच्छन्तः प्रत्याहता इव न शक्नुवन्ति स्म गन्तुम् । ते संविग्नरोमकूपजाता इमां गाथामभाषन्त -
वयमिह मणिवज्रकूटं गिरिं मेरुमभ्युद्गतं तिर्यगत्यर्थवैस्तारिकं गज इव सहकारशाखाकुलां वृक्षवृन्दां प्रदारित्व निर्धावितानेकशः ।
वयमिह मरूणां पुरे चाप्यसक्ता गता यक्षगन्धर्ववेश्मनि चोर्ध्वं नभे निश्रिता इम पुन वनखण्डमासाद्य सीदाम भोः कस्य लक्ष्मी निवर्तेति ऋद्धेर्बलम्

11.2

इति ॥
अथ या तत्र वनखण्डदेवता सा तानृषीन् गाथयाध्यभाषत् -
नृपतिपतिकुलोदितः शाक्यराजात्मजो बालसूर्यप्रकाशप्रभः स्फुटितकमलगर्भवर्णप्रभश्चारुचन्द्राननो लोकज्येष्ठो विदुः ।
अयमिह वनमाश्रितो ध्यानचिन्तापरो देवगन्धर्वनागेन्द्रयक्षार्चितो भवशतगुणकोटिसंवर्धितस्तस्य लक्ष्मी निवर्तेति ऋद्धेर्बलम्

11.3

इति ॥
ततस्ते ऽधस्तादवलोकयन्तो ऽद्राक्षुः कुमारं श्रिया तेजसा च जाज्वल्यमानम् । तेषामेतदभूत् - को न्वयं निषण्णः? मा हैव वैश्रवणो धनाधिपतिर्भवेत् । आहोस्विन्मारः कामाधिपतिः । अथ महोरगेन्द्रः । ( वैद्य 91 ) अथेन्द्रो वज्रधरः । अथ रुद्रः कुम्भाण्डाधिपतिः । अथ कृष्णो महोत्साहः । उत चन्द्रो देवपुत्रः । उत सूर्यः सहस्ररश्मिः । उत राजा चक्रवर्ती भविष्यति? तस्यां च वेलायामिमां गाथामभाषन्त -
रूपं वैश्रवणातिरेकवपुषं व्यक्तं कुबेरो ह्ययं
आहो वज्रधरस्य चैव प्रतिमा चन्द्रो ऽथ सूर्यो ह्ययम् ।
कामाग्राधिपतिश्च वा प्रतिकृती रूद्रस्य कृष्णस्य वा
श्रीमान् लक्षणचित्रिताङ्गमनघो बुद्धो ऽथ वा स्यादयम्

11.4

इति ॥
ततः सा वनदेवता तानृषीन् गाथया प्रत्यभाषत् -
या श्री च वैश्रवणे च वै निवसते या वा सहस्रेक्षणे
लोकानां परिपालकेषु चतुषू या चासुरेन्द्रश्रिया ।
ब्रह्मे या च सहापतौ निवसते कृष्णे च या च श्रिया
सा श्री प्राप्य इमं हि शाक्यतनयं नोपैति कांचित्कलाम्

11.5

अथ खलु ते ऋषयस्तस्या देवताया वचनमुपश्रित्य धरणीतले प्रतिष्ठन्ते । ते पश्यन्ति स्म बोधिसत्त्वं ध्यायन्तमानिञ्ज्यमानेन कायेन तेजोराशिमिव ज्वलन्तम् । ते बोधिसत्त्वमुपनिध्याय गाथाभिरभितुष्टुवुः । तत्रैक आह -
लोके क्लेशाग्निसंतप्ते प्रादुर्भूतो ह्ययं ह्रदः ।
अयं तं प्राप्स्यते धर्मं यज्जगद् ह्लादयिष्यति

11.6

अपरो ऽप्याह -
अज्ञानतिमिरे लोके प्रादुर्भूतः प्रदीपकः ।
अयं तं प्राप्स्यते धर्मं यज्जगद्भासयिष्यति

11.7

अपरो ऽप्याह -
शोकसागरकान्तारे यानश्रेष्ठमुपस्थितम् ।
अयं तं प्राप्स्यते धर्मं यज्जगत्तारयिष्यति

11.8

अपरो ऽप्याह -
क्लेशबन्धनबद्धानां प्रादुर्भूतः प्रमोचकः ।
अयं तं प्राप्स्यते धर्मं यज्जगन्मोचयिष्यति

11.9

अपरो ऽप्याह -
जराव्याधिकिलिष्टानां प्रादुर्भूतो भिषग्वरः ।
अयं तं प्राप्स्यते धर्मं जातिमृत्युप्रमोचकम्

11.10

अथ खलु ते ऋषयो बोधिसत्त्वमाभिर्गाथाभिरभिस्तुत्वा त्रिप्रदक्षिणीकृत्य विहायसा प्रक्रान्ताः । राजापि शुद्धोदनो बोधिसत्त्वमपश्यन् बोधिसत्त्वेन विना न रमते स्म । सो ऽवोचत् - कुमारः क्व गतः? नैनं पश्यामीति । तत्र महाजनकायो निर्धावितो ऽभूत् कुमारं परिगवेषमाणः । ततो ऽन्यतम अमात्यो बोधिसत्त्वं पश्यति स्म जम्बुच्छायायां पर्यङ्कनिषण्णं ध्यायन्तम् । सर्ववृक्षाणां च तस्मिन् समये छाया परिवृत्ताभूत् । जम्बुच्छाया च बोधिसत्त्वस्य कायं न विजहाति स्म । स तं दृष्ट्वा आश्चर्यप्राप्तस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः शीघ्रं शीघ्रं त्वरमाणरूपो राजानं शुद्धोदनमुपसंक्रम्य गाथाभ्यामध्यभाषत -
पश्य देव कुमारो ऽयं जम्बुच्छायाहि ध्यायति ।
यथा शक्रो ऽथवा ब्रह्मा श्रिया तेजेन शोभते

11.11

यस्य वृक्षस्य छायायां निषण्णो वरलक्षणः ।
सैनं न जहते छाया ध्यायन्तं पुरूषोत्तमम्

11.12

अथ राजा शुद्धोदनो येन स जम्बुवृक्षस्तेनोपसंक्रामत् । सो ऽद्राक्षीद्बोधिसत्त्वं श्रिया तेजसा च ज्वलन्तम् । दृष्टा चैमां गाथामभाषत् -
हुताशनो वा गिरिमूर्ध्नि संस्थितः शशीव नक्षत्रगणानुचीर्णः ।
वेपन्ति गात्राणि मि पश्यतो इमं ध्यायन्तु तेजो नु प्रदीपकल्पम्

11.13

स बोधिसत्त्वस्य पादावभिवन्द्येमां गाथामभाषत् -
यदा चासि मुने जातो यदा ध्यायसि चार्चिमन् ।
एकद्विरपि ते नाथ पादौ वन्दे विनायक

11.14

तत्र त्रिफलवाहका दारकाः शब्दं कुर्वन्ति स्म । तानमात्या एवमाहुः - मा शब्दं मा शब्दं कार्ष्टेति । ते ऽवोचन् - किमेतदिति । अमात्या आहुः -
व्यावृत्ते तिमिरनुदस्य मण्डले ऽपि व्योमाभं शुभवरलक्षणाग्रधारिम् ।
ध्यायन्तं गिरिनिचलं नरेन्द्रपुत्रं सिद्धार्थं न जहति सैव वृक्षछाया

11.15

तत्रेदमुच्यते -
ग्रीष्मे वसन्त समुदागत जेष्ठमासे संपुष्पिते कुसुमपल्लवसंप्रकीर्णे ।
क्रोञ्चामयूरशुकसारिकसंप्रघुष्टे भूयिष्ठ शाकियसुता अभिनिष्क्रमन्ति

11.16

छन्दो ऽभ्युवाच परिवारितु दारिकेभिः हन्ता कुमार वनि गच्छम लोचनार्थम् ।
किं ते गृहे निवसतो हि यथा द्विजस्य हन्त व्रजाम वय चोदननारिसंघम्

11.17

मध्याह्नकालसमये सुविशुद्धसत्त्वः पञ्चाशतैः परिवृतैः सह चेटकेभिः ।
न च मातु नैव च पितुः प्रतिवेदयित्वा सो ऽबुद्ध निष्क्रामिति गच्छि कृषाणग्रामम्

11.18

तस्मिंश्च पार्थिववरस्य कृषाणग्रामे जम्बुद्रुमो ऽभवदनेकविशालशाखः ।
दृष्ट्वा कुमार प्रतिबुद्ध दुखेन चोत्तो धिक्संस्कृतेति बहुदुःख कृषी करोति

11.19

सो जम्बुछायमुपगम्य विनीतचित्तो तृणकानि गृह्य स्वय संस्तरु संस्तरित्वा ।
पर्यङ्कमाभुजिय उज्जु करित्व कायं चत्वारि ध्यान शुभ ध्यायि स बोधिसत्त्वः

11.20

पञ्चा ऋषी खगपथेन हि गच्छमाना जम्बूय मूर्ध्नि न प्रभोन्ति पराक्रमेतुम् ।
ते विस्थिता निहतमानमदाश्च भूत्वा सर्वे समग्रसहिता समुदीक्षयन्तो

11.21

वय मेरुपर्वतवरं तथ चक्रवालान् निर्भिद्य गच्छम जवेन असज्जमानाः ।
ते जम्बुवृक्ष न प्रभोम अतिक्रमेतुं को न्वत्र हेतुरयमद्य भविष्यतीह

11.22

अवतीर्य मेदिनितले च प्रतिष्ठिहित्वा पश्यन्ति शाक्यतनयं तहि जम्बुमूले ।
जम्बुनदार्चिसदृशं प्रभतेजरश्मिं पर्यङ्कबन्धु तद ध्यायतु बोधिसत्त्वम्

11.23

ते विस्मिता दशनखा करियान मूर्ध्नि प्रणता कृताञ्जलिपुटा निपतन् क्रमेषु ।
साधो सुजात सुमुखं करुणा जगस्य शीघ्रं विबुद्ध अमृते विनयस्व सत्त्वान्

11.24

परिवृत्त सूर्य न जही सुगतस्य छाया ओलम्बते द्रुमवरं यथ पद्मपत्रम् ।
देवा सहस्र बहवः स्थित अञ्जलीभिः वन्दन्ति तस्य चरणौ कृतनिश्चयस्य

11.25

शुद्धोदनश्च स्वगृहे परिमार्गमाणः संपृच्छते क्व नु गतः स हि मे कुमारः ।
मातृस्वसा अवचि मार्गत नो लभामि संपृच्छता नरपते क्व गतः कुमारः

11.26

शुद्धोदनस्त्वरितु पृच्छति काञ्चुकीयं दौवारिकं तथपि चान्तजनं समन्तात् ।
दृष्टं कुमार मम केनचि निष्क्रमन्तो शृणुते वरूपगतु देव कृषाणग्रामम्

11.27

सो शीघ्रमेव त्वरितं सह शाकियेभिः निष्क्रान्तु प्रेक्षि कृषिग्रामगिरिं प्रविष्टम् ।
यथ सूर्यकोटिनियुतानि समुद्गतानि तथ प्रेक्षते हितकरं शिरिया ज्वलन्तम्

11.28

मुकुटं च खङ्ग तथ पादुक छोरयित्वा कृत्वा दशाङ्गुलि शिरे अभिवन्दिते तम् ।
साधू सुभूतवचना ऋषयो महात्मा व्यक्तं कुमार अभिनिष्क्रमि बोधिहेतोः

11.29

परिपूर्ण द्वादशशता सुप्रसन्नदेवाः पच्चाशता उपगता यथ शाकियानाम् ।
दृष्ट्वा च ऋद्धि सुगते गुणसागरस्य संबोधिचित्तु जनयं दृढआशयेन

11.30

सो कम्पयित्व त्रिसहस्र अशेषभूमिं स्मृतु संप्रजानु प्रतिबुद्ध ततः समाधेः ।
ब्रह्मस्वरः पितरमालपते द्युतीमान् उत्सृज्य तात कृषिग्रामभतो गवेष

11.31

यदि स्वर्णकार्यु अहु स्वर्ण प्रवर्षयिष्ये यदि वस्त्रकार्यु अहमेव प्रदास्यि वस्त्रां ।
अथ धान्यकार्यु अहमेव प्रवर्षयिष्ये सम्यक्प्रयुक्त भव सर्वजगे नरेन्द्र

11.32

अनुशासयित्व पितरं जनपारिषद्यां तस्मिन् क्षणे पुरवरं पुन सो प्रवेक्षी ।
अनुवर्तमान जगतः स्थिहते पुरेस्मिं नैष्म्क्रम्ययुक्तमनसः सुविशुद्धसत्त्वः

मूल पाठ: Lalitavistara · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1958 (Buddhist Sanskrit Texts, 1) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc