भाषा

ENहिગુ
ग्रंथ पाठ

Lalitavistara · अध्याय 1

1.1

नमः सर्वबुद्धबोधिसत्त्वेभ्यः ।
ललितविस्तरः ।
॥ ओम् नमो दशदिगनन्तापर्यन्तलोकधातुप्रतिष्ठितसर्वबुद्धबोधिसत्त्वार्यश्रावकप्रत्येकबुद्धेभ्यो ऽतीतानागतप्रत्युत्पन्नेभ्यः ॥
स्तर्त् परिवर्त 1
निदानपरिवर्तः प्रथमः ।
एवं मया श्रुतम् । एकस्मिन्समये भगवान् श्रावस्त्यां विहरति स्म जेतवने ऽनाथपिण्डदस्यारामे महता भिक्षुसंघेन सार्धं द्वादशभिर्भिक्षुसहस्रैः । तद्यथा - आयुष्मता च ज्ञानकौण्डिन्येन । आयुष्मता चाश्वजिता । आयुष्मता च बाष्पेण । आयुष्मता च महानाम्ना । आयुष्मता च भद्रिकेण । आयुष्मता च यशोदेवेन । आयुष्मता च विमलेन । आयुष्मता च सुबाहुना । आयुष्मता च पूर्णेन । आयुष्मता च गवांपतिना । आयुष्मता चोरुबिल्वाकाश्यपेन । आयुष्मता च नदीकाश्यपेन । आयुष्मता च गयाकाश्यपेन । आयुष्मता च शारिपुत्रेण । आयुष्मता च महामौद्गल्यायनेन । आयुष्मता च महाकाश्यपेन । आयुष्मता च महाकात्यायनेन । आयुष्मता च कफिलेन । आयुष्मता च कौण्डिन्येन । आयुष्मता च चुनन्देन । आयुष्मता च पूर्णमैत्रायणीपुत्रेण । आयुष्मता चानिरुद्धेन । आयुष्मता च नन्दिकेन । आयुष्मता च कस्फिलेन । आयुष्मता च सुभूतिना । आयुष्मता च रेवतेन । आयुष्मता च खदिरवनिकेन । आयुष्मता चामोघराजेन । आयुष्मता च महापारणिकेन । आयुष्मता च बक्कुलेन । आयुष्मता च नन्देन । आयुष्मता च राहुलेन । आयुष्मता च स्वागतेन । आयुष्मता चानन्देन । एवंप्रमुखैर्द्वादशभिर्भिक्षुसहस्रैः सार्धं द्वात्रिंशता च बोधिसत्त्वसहस्रैः सर्वैरेकजातिप्रतिबद्धैः सर्वबोधिसत्त्वपारमितानिर्जातैः सर्वबोधिसत्त्वाभिज्ञताविक्रीडितैः सर्वबोधिसत्त्वधारणीप्रतिभानप्रतिलब्धैः सर्वबोधिसत्त्वधारणीप्रतिलब्धैः सर्वबोधिसत्त्वप्रणिधानसुपरिपूर्णैः सर्वबोधिसत्त्वप्रतिसम्यग्गतिंगतैः सर्वबोधिसत्त्वसमाधिवशिताप्राप्तैः सर्वबोधिसत्त्ववशिताप्रतिलब्धैः सर्वबोधिसत्त्वक्षान्त्यवकीर्णैः सर्वबोधिसत्त्वभूमिपरिपूर्णैः । तद्यथा - मैत्रेयेण च बोधिसत्त्वेन महासत्त्वेन । धरणीश्वरराजेन च बोधिसत्त्वेन महासत्त्वेन । सिंहकेतुना ( वैद्य 2 ) च बोधिसत्त्वेन महासत्त्वेन । सिद्धार्थमतिना च बोधिसत्त्वेन महासत्त्वेन । प्रशान्तचारित्रमतिना च बोधिसत्त्वेन महासत्त्वेन । प्रतिसंवित्प्राप्तेन च बोधिसत्त्वेन महासत्त्वेन । नित्योद्युक्तेन च बोधिसत्त्वेन महासत्त्वेन । महाकरुणाचन्द्रिणा च बोधिसत्त्वेन महासत्त्वेन । एवंप्रमुखैर्द्वात्रिंशता च बोधिसत्त्वसहस्रैः ॥
तेन खलु पुनः समयेन भगवान् श्रावस्तीं महानगरीमुपनिश्रित्य विहरति स्म सत्कृतो गुरुकृतो मानितः पूजितश्च तिसृणां परिषदां राज्ञां राजकुमाराणां राजमन्त्रिणां राजमहामात्राणां राजपादमूलिकानां क्षत्रियब्राह्मणगृहपत्यमात्यपार्षद्यानां पौरजानपदानामन्यतीर्थिकश्रमणब्राह्मणचरकपरिव्राजकानाम् । लाभी च भगवान् प्रभूतानां खादनीयं भोजनीयमास्वादनीयाकल्पिकानां चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणाम् । लाभाग्र्ययशोग्र्यप्राप्तश्च भगवान् सर्वत्र चानुपलिप्तः पद्म इव जलेन । उदारश्च भगवतः कीर्तिशब्दश्लोको लोके ऽभ्युद्गतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकवित् परः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् पञ्चचक्षुःसमन्वागतः । स इमं च लोकं परं च लोकं सदेवकं समारकं सब्रह्मकं सश्रमणब्राह्मणीन् प्रजान् सदेवमानुषान् स्वयं विज्ञाय साक्षात्कृत्य उपसंपद्य विहरति स्म । सद्धर्मं देशयति स्म आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणं स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं व्रह्मचर्यं संप्रकाशयति स्म ॥
तेन खलु पुनः समयेन भगवान् रात्र्यां मध्यमे यामे बुद्धालंकारव्यूहं नाम समाधिं समापन्नो ऽभूत् । समनन्तरसमापन्नस्य च भगवत इमं बुद्धालंकारव्यूहं नाम समाधिमथ तत्क्षणमेव भगवत उपरिष्टान्मूर्ध्नः संधावुष्णीषविवरान्तरात् पूर्वबुद्धानुस्मृत्यसङ्गाज्ञानालोकालंकारं नाम रश्मिश्चचार । सा सर्वा शुद्धावासान् देवभवनान्यवभास्य महेश्वरदेवपुत्रप्रमुखानप्रमेयान् देवपुत्रान् संचोदयामास । ततश्च तथागतरश्मिजालान्निश्चार्य इमाः संचोदनागाथा निश्चरन्ति स्म ॥
ज्ञानप्रभं हततमसं प्रभाकरं शुभ्रप्रभं शुभविमलाग्रतेजसम् ।
प्रशान्तकायं शुभशान्तमानसं मुनिं समाश्लिष्यत शाक्यसिंहम्

1.2

ज्ञानोदधिं शुद्धमहानुभावं धर्मेश्वरं सर्वविदं मुनीशम् ।
देवातिदेवं नरदेवपूज्यं धर्मे स्वयंभुं वशिनं श्रयध्वम्

1.3

यो दुर्दमं चित्तमवर्तयद्वशे यो मारपाशैरवमुक्तमानसः ।
यस्याप्यवन्ध्याविह दर्शनश्रवास्त्ययान्ततः शान्तविमोक्षपारगः

1.4

आलोक्यभूतं तमतुल्यधर्मं तमोनुदं सन्नयवेदितारम् ।
शान्तक्रियं बुद्धममेयबुद्धिं भक्त्या समस्ता उपसंक्रमध्वम्

1.5

स वैद्यराजो ऽमृतभेषजप्रदः स वादिशूरः कुगणिप्रतापकः ।
स धर्मबन्धुः परमार्थकोविदः स नायको ऽनुत्तरमार्गदेशकः

1.6

इति ॥
समनन्तरस्पृष्टाश्च खलु पुनस्ते शुद्धावासकायिका देवपुत्राः तस्या बुद्धानुस्मृत्यसङ्गाज्ञानालोकाया रश्म्या आभिश्चैवंरूपाभिर्गाथाभिः संचोदिताः समन्ततः प्रशान्ताः समाधेर्व्युत्थाय तान् बुद्धानुभावेनाप्रमेयासंख्येयागणनासमतिक्रान्तकल्पातिक्रान्तान् बुद्धान् भगवन्तो ऽनुस्मरन्ति स्म । तेषां च बुद्धानां भगवतां यानि बुद्धक्षेत्रगुणव्यूहात्पर्षन्मण्डलानि याश्च धर्मदेशनास्ता आसन्, तान् सर्वाननुस्मरन्ति स्म ॥
अथ खलु तस्यां रात्रौ प्रशान्तायामीश्वरश्च नाम शुद्धावासकायिको देवपुत्रो महेश्वरो नाम नन्दश्च सुनन्दश्च चन्दनश्च महितश्च प्रशान्तश्च प्रशान्तविनीतेश्वरश्चैते चान्ये च संबहुलाः शुद्धावासकायिका देवपुत्रा अतिक्रान्तातिक्रान्तैर्वर्णैः सर्वावन्तं जेतवनं दिव्येनावभासेनावभास्य येन भगवांस्तेनोपसंक्रामन्, उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते तस्थुः । एकान्ते स्थिताश्च ते शुद्धावासकायिका देवपुत्रा भगवन्तमेतदवोचन् - अस्ति भगवन् ललितविस्तरो नाम धर्मपर्यायः सूत्रान्तो महावैपुल्यनिचयो बोधिसत्त्वकुशलमूलसमुद्भावनः तुषितवरभवनविकिरणसंचिन्त्यावक्रमणविक्रीडनगर्भस्थानविशेषसंदर्शनो ऽभिजातजन्मभूमिप्रभावसंदर्शनः सर्वबालचर्यागुणविशेषसमतिक्रमसर्वलौकिकशिल्पस्थानकर्मस्थानलिपिसंख्यामुद्रा - गणनासिधनुकलापयुद्धसालम्भसर्वसत्त्वप्रतिविशिष्टसंदर्शनान्तःपुरविषयोपभोगसंदर्शनः सर्वबोधिसत्त्वचरिनिष्पन्दनिष्पत्तिफलाधिगमपरिकीर्तनो बोधिसत्त्वविक्रीडितः सर्वमारमण्डलविध्वंसनः तथागतबलवैशारद्याष्टादशावेणिकसमुच्चयो ( वैद्य 4 ) ऽप्रमाणबुद्धधर्मनिर्देशः पूर्वकैरपि तथागतैर्भाषितपूर्वः । तद्यथा - भगवता पद्मोत्तरेण च धर्मकेतुना च दीपंकरेण च गुणकेतुना च महाकरेण च ऋषिदेवेन च श्रीतेजसा च सत्यकेतुना च वज्रसंहतेन च सर्वाभिभुवा च हेमवर्णेन च अत्युच्चगामिना च प्रवाहसागरेण च पुष्पकेतुना च वररूपेण च सुलोचनेन च ऋषिगुप्तेन च जिनवक्त्रेण च उन्नतेन च पुष्पितेन च ऊर्णतेजसा च पुष्करेण च सुरश्मिना च मङ्गलेन च सुदर्शनेन च महासिंहतेजसा च स्थितबुद्धिदत्तेन च वसन्तगन्धिना च सत्यधर्मविपुलकीर्तिना च तिष्येण च पुष्येण च लोकसुन्दरेण च विस्तीर्णभेदेन च रत्नकीर्तिना च उग्रतेजसा च ब्रह्मतेजसा च सुघोषेण च सुपुष्षेण च सुमनोज्ञघोषेण च सुचेष्टरूपेण च प्रहसितनेत्रेण च गुणराशिना च मेघस्वरेण च सुन्दरवर्णेन च आयुस्तेजसा च सलीलगजगामिना च लोकाभिलाषितेन च जितशत्रुणा च संपूजितेन च विपश्यिना च शिखिना च विश्वभुवा च ककुच्छन्देन च कनकमुनिना च काश्यपेन च तथागतेनार्हता सम्यक्संबुद्धेन भाषितपूर्वः, तं भगवानप्येतर्हि संप्रकाशयेत् बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय सुखाय देवानां च मनुष्याणां च । अस्य च महायानोद्भावनार्थं सर्वपरप्रवादिनां च निग्रहार्थं सर्वबोधिसत्त्वानां चोद्भावनार्थं सर्वमाराणां चाभिभवनार्थं सर्वबोधिसत्त्वयानिकानां च पुद्गलानां वीर्यारम्भसंजननार्थं सद्धर्मस्य चानुपरिग्रहार्थं त्रिरत्नवंशस्यानुपरिग्रहार्थं त्रिरत्नवंशस्यानुपच्छेदनार्थं बुद्धकार्यस्य च परिसंदर्शनार्थमिति । अधिवासयति स्म भगवांस्तेषां देवपुत्राणां तूष्णीभावेन सदेवकस्य लोकस्यानुकम्पामुपादाय ॥
अथ खलु देवपुत्रा भगवतस्तूष्णीभावेनाधिवासनां विदित्वा तुष्टा उदग्रा आत्तमनसः प्रमुदिताः प्रीतिसौमनस्यजाता भगवतः पादौ शिरसाभिवन्द्य भगवन्तं त्रिः प्रदक्षिणीकृत्य दिव्यैश्चन्दनचूर्णैरगुरुचूर्णैर्मान्दारपुष्पैश्चाभ्यवकीर्य तत्रैवान्तर्दधुः ॥
अथ खलु भगवांस्तस्यामेव रात्र्यामत्ययेन च करीरो मण्डलमात्रव्यूहस्तेनोपसंक्रामत् । उपसंक्रम्य भगवान् प्रज्ञप्त एवासने न्यषीदद्बोधिसत्त्वगणपुरस्कृतः श्रावकसंघपुरस्कृतः । निषद्य भगवान् भिक्षूनामन्त्रयति स्म - इति हि भिक्षवो रात्रौ प्रशान्तायामीश्वरो नाम शुद्धावासकायिको देवपुत्रो महेश्वरश्च नाम नन्दश्च सुनन्दश्च चन्दनश्च महितश्च प्रशान्तश्च विनीतेश्वरश्चैते चान्ये च संबहुलाः शुद्धावासकायिका देवपुत्राः पुर्ववद्यावत्तत्रैवान्तर्दधुः । अथ खलु ते बोधिसत्त्वास्ते च महाश्रावका येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचन् - तत्साधु भगवन्, तं ललितविस्तरं नाम धर्मपर्यायं देशयतु । तद्भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च एतर्हि चागतानां च बोधिसत्त्वानां महासत्त्वानाम् । अधिवासयति स्म भगवांस्तेषां बोधिसत्त्वानां महासत्त्वानां तेषां च महाश्रावकाणां तूष्णीभावेन सदेवमानुषासुरस्य लोकस्यानुकम्पामुपादाय । तत्रेदमुच्यते -
रात्र्यामिहास्यां मम भिक्षवो ऽद्य सुखोपविष्टस्य निरङ्गणस्य ।
प्रविष्टमानस्य शुभैर्विहारैरेकाग्रचित्तस्य समाहितस्य

1.7

अथागमन् देवसुता महर्द्धयः प्रतीतवर्ण विमलश्रियोज्ज्वलाः ।
श्रियावभास्येह च जेतसाह्वयं वनं मुदा मे ऽन्तिकमभ्युपागताः

1.8

महेश्वरश्चन्दन ईश नन्दो प्रशान्तचित्तो महितः सुनन्दनः ।
शान्ताह्वयश्चाप्युत देवपुत्रस्तास्ताश्च बह्व्यो ऽथ च देवकोट्यः

1.9

प्रणम्य पादौ प्रतिदक्षिणं च कृत्वैव मां तस्थुरिहाग्रतो मे ।
प्रगृह्य चैवाञ्जलिमङ्गुलीभिः सगौरवा मामिह ते ययाचुः

1.10

इदं मुने रागनिसूदनाढ्य वैपुल्यसूत्रं हि महानिदानम् ।
यद्भाषितं सर्वतथागतैः प्राग् लोकस्य सर्वस्य हितार्थमेतत्

1.11

तत्साध्विदानीमपि भाषतो मुनिः स बोधिसत्त्वौघपरिग्रहेच्छया ।
परं महायानमिदं प्रभाषयन् परप्रवादान्नमुचिं च धर्षयन्

1.12

अद्येषणां देवगणस्य तूष्णीमगृह्णदेवानधिवासनं च ।
सर्वे च तुष्टा मुदिता उदग्राः पुष्पाणि चिक्षेपुरवाप्तहर्षम्

1.13

तद्भिक्षवो मे शृणुतेह सर्वे वैपुल्यसूत्रं हि महानिदानम् ।
यद्भाषितं सर्वतथागतैः प्राग् लोकस्य सर्वस्य हितार्थमेवम्

मूल पाठ: Lalitavistara · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1958 (Buddhist Sanskrit Texts, 1) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc