भाषा

ENहिગુ
ग्रंथ पाठ

लक्ष्मीनारायणस्तोत्रम् · अध्याय 1

1

॥ लक्ष्मीनारायणस्तोत्रम्॥
श्रीनिवास जगन्नाथ श्रीहरे भक्तवत्सल।
लक्ष्मीपते नमस्तुभ्यं त्राहि मां भवसागरात्

2

राधारमण गोविंद भक्तकामप्रपूरक
नारायण नमस्तुभ्यं त्राहि मां भवसागरात्

3

दामोदर महोदार सर्वापत्तिनिवारण।
हृषीकेश नमस्तुभ्यं त्राहि मां भवसागरात्

4

गरुडध्वज वैकुंठनिवासिन्केशवाच्युत।
जनार्दन नमस्तुभ्यं त्राहि मां भवसागरात्

5

शंखचक्रगदापद्मधर श्रीवत्सलांछन।
मेघश्याम नमस्तुभ्यं त्राहि मां भवसागरात्

6

त्वं माता त्वं पिता बंधुः सद्गुरुस्त्वं दयानिधिः।
त्वत्तो%न्यो न परो देवस्त्राहि मां भवसागरात्

7

न जाने दानधर्मादि योगं यागं तपो जपम्।
त्वं केवलं कुरु दयां त्राहि मां भवसागरात्

8

न मत्समो यद्यपि पापकर्ता न त्वत्समो%थापि हि पापहर्ता।
विज्ञापितं त्वेतदशेषसाक्षिन् मामुद्धरार्तं पतितं तवाग्रे

॥ इति श्री. प. प. श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीलक्ष्मीनारायणस्तोत्रम् संपूर्णम् ॥

मूल पाठ: lakṣmīnārāyaṇastotram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc