लक्ष्मीतन्त्रम् · अध्याय 46
षट्चत्वारिंशोऽध्यायः - 46
श्रीः---
अनुक्रमेण देवेश लक्ष्म्यादीनां च साधनम्।
विविधानि च कर्माणि तन्मन्त्रेभ्योऽवधारय
1. आदिशब्देन कीर्तिजयामाया गृह्यन्ते।
चतुरश्रं चतुर्द्वारं कृत्वा पूर्वोदितं पुरम्।
तन्मध्येऽष्टदलं पद्मं लिखेच्छुक्लारुणप्रभम्
2. पुरनिर्माणमाह---चतुरश्रमित्यादिना।
सितानि चतुरालिख्य कोणेषु स्वस्तिकानि च।
व्यापकत्वेन तु पुरा मणिबन्धमुखादितः
विन्यस्य मूलमन्त्रं च हस्ते देहे च केवलम्।
पश्चादादौ च हस्ताभ्यां लक्ष्मीमन्त्रं तथा न्यसेत्
तदङ्गानि च विन्यस्य हस्ते देहे यथा पुरा।
तस्यानुगचतुष्कं यद्देवीनां तदनु न्यसेत्
5. अनुगेति। ऋद्ध्यादिचतुष्कमन्त्रमित्यर्थः।
प्रदेशिन्यादितो हस्तद्वये तदनु विग्रहे।
उत्तमाङ्गे तु हृन्मध्य ऊर्वोर्जानुद्वये तथा
लावण्याद्यांश्च चतुरो ह्यनामादि करद्वये।
अङ्गुष्ठान्तं च विन्यस्य हस्ते देहे च वासव
7. अनुचरमन्त्राणां न्यासमाह---लावण्याद्यानिति।
दक्षिणे च तथा वामे स्कन्धे पक्षद्वये ततः।
न्यासं कृत्वा यथान्यायं श्रीकामोऽथ यजेद्धृदि
लययागप्रयोगेण लक्ष्मीमन्त्रं तु केवलम्।
कृत्वावलोकनाद्यं तु तो बाह्ये तु विन्यसेत्
मूतिमन्त्रयुतं मूलं कर्णिकोपरि वासव।
सकलाकलदेहं च सर्वमन्त्रान्वितं विभुम्
10. कर्णिकोपरीति। अष्टदलपद्मकर्णिकोपरीत्यर्थः। अकलो निष्कलः।
तदुत्सङ्गगतां लक्ष्मीं स्वमन्त्रेणावतार्य च।
पूर्वोक्तध्यानसंयुक्तो भोगमोक्षप्रसिद्धये
तदाग्नेये तदीशाने यातवीयेऽथ वायवे।
चत्वारि हृदयादीनि नेत्रं केसरसंततौ
तदग्रे दक्षिणे पृष्ठे वामपार्श्वे क्रमान्न्यसेत्।
चतुष्टयं तु ऋद्ध्याद्यं द्विभुजं तु तथाकृति
पद्मगौरप्रतीकाशं श्रीवृक्षचमराङ्कितम्।
पद्मासनेनोपविष्टं प्रेक्षमाणं तदाननम्
स्वस्तिकानां तदीशादिकोणस्थाने निवेश्य तु।
लावण्याद्यचतुष्कं तु सौम्यवक्त्रं चतुर्भुजम्
नीलकौशेयवसनं पद्मकुम्भकरान्वितम्।
नलिनीध्वजहस्तं च सफलामलवृक्षधृत्
द्वारेष्वस्रं चतुर्दिक्षु न्यस्य पूज्य यथा पुरा।
मूलमन्त्रयुतां देवीं लक्ष्मीं त्रिदशनन्दन
मुद्रास्च दर्शयेत् सर्वा यत्र यत्र हि याः स्मृताः।
जप्त्वा कृत्वा ततो होमं सघृतैस्तु तिलाक्षतैः
सामलैः श्रीफलैश्चैव सति लाभे तु पङ्कजैः।
यथाशक्ति ह्यसंक्यैस्तु होमान्ते वृत्रसूदन
लक्ष्मीरूपस्ततो बूत्वा साधकः कृतनिश्चयः।
जपेल्लक्षाणि वै पञ्च शुद्धाहारो जितेन्द्रियः
होमं कुर्याज्जपान्ते तु क्रमाद्बिल्वामलाम्बुजैः।
यथाशक्ति ह्यसंख्यैस्तु अयुतायुतसंख्यया
ददाति दर्शनं शक्र होमान्ते परमेश्वरी।
पुत्र सिद्धास्मि ते ब्रूहि यत्ते मनसि चेप्सितम्
कुरु कार्याण्यभीष्टानि मन्मन्त्रेणाखिलानि च।
अद्य प्रभृति निःशङ्को द्वन्द्वोपद्रववर्जितः
एवमुक्त्वा तु सा देवी याति यत्रागताशु वै।
ततः कर्माणि वै कुर्याल्लक्ष्म्या अनुमते मम
स एष तुष्टोऽभीष्टं तु श्रियं दद्याद्यथार्थिनाम्।
संक्रुद्धो निर्धनं कुर्याद्वाङ्मात्रेण धनेश्वरम्
शुल्बं कुर्यात् सकृद्ध्यायन् मन्त्रजापाच्च हाटकम्।
पूरयित्वाम्भसा कुम्भं क्षीरेण मधुनाथवा
निधाय दक्षिणे हस्ते वामं तदुपरि न्यसेत्।
शतमष्टाधिकं मन्त्रं जपेद्ध्यानसमन्वितम्
रसेन्द्राभिनिवेशस्थो ह्येकचित्तः समाहितः।
रसेन्द्रत्वं समायाति तत्कुम्भे त्वाहृतं जलम्
सरसो लक्षवेधी स्याच्छस्रादीनां पुरंदर।
करोति कायममरं जरारोगविवर्जितम्
अङ्गुष्ठाकारमात्रं तु पुरा पाषाणमाहरेत्।
दक्षिणोदरहस्तेन वामेन बदरीसमम्
अभिमन्त्र्य तु तौ मुष्टी द्वे शते षोढशाधिके।
दक्षिणस्थं तु पाषाणं रत्नत्वमुपयाति च
वामे मुक्ताफलत्वं च महामूल्ये तु ते उभे।
यद्यदिच्छति जात्या वै तत्तद्रत्नं भवेत्तदा
तथा मुक्ताफलं तत्तत् प्रतिभाति करोति च।
गोगजाश्वसमुद्धूतमस्थि चादाय पाणिना
शतार्धं मन्त्रितं कृत्वा प्रवालत्वं प्रयाति तत्।
शताभिमन्त्रितं कृत्वा त्रपु सीसं तथायसम्
34. कृत्वेति। धारयति चेदिति शेषः।
जायते कलधौतं तु रजतं वातिनिर्मलम्।
यद्यद् गृहीत्वा देवेन्द्र यं यं धातुं समीहते
क्रुद्धो वा परितुष्टस्च तत्तत् कुर्यात्तु सोऽन्यथा।
एवमश्ममयानां तु अन्यत्वमुपपद्यते
या या मनसि वै यस्य विभूतिः प्रतिभाति च।
तां तां ददाति तस्याशु धनधान्यगवादिकाम्
लिखित्वा भूर्जपत्रे तु यागन्यासक्रमेण तु।
रोचनाकुङ्कुमाभ्यां तु संधारयति यः सदा
38. रोचनाकुङ्कुमाभ्यामिति। लिखित्वेति पूर्वेणान्वयः।
सुवर्णवेष्टितं चाङ्गे लक्ष्मीमन्त्रं शतक्रतो।
तस्यायुषो भवेद् वृद्धिः सर्वत्र विजयी महान्
प्राप्नुयान्महतीं पूजां यत्र यत्र च संविशेत्।
इदमाराधनं प्रोक्तं श्रीकामानां विशेषतः।
लक्ष्म्यास्रिदशशार्दूल मम या प्रथमा तनुः
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे लक्ष्मीमन्त्रसिद्धिप्रकाशो नाम षट्चत्वारिंशोऽघ्यायः
********इति षट्चत्वारिंशोऽध्यायः********
मूल पाठ: lakṣmītantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0